॥ अथ यजुर्वेदः
॥
अध्याय
40
यजुर्वेदः-संहिता
| अध्याय 40, मंत्र 1
ईशा वास्यम्
इदम्̐ सर्वं यत् किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम्
॥
यजुर्वेदः-संहिता
| अध्याय 40, मंत्र 2
कुर्वन्न्
एवेह कर्माणि जिजीविषेच् छतम्̐ समाः ।
एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे ॥
यजुर्वेदः-संहिता
| अध्याय 40, मंत्र 3
असुर्या नाम
ते लोका ऽअन्धेन तमसावृताः ।
ताम्̐स् ते प्रेत्यापि गच्छन्ति ये के चात्महनो
जनाः ॥


