॥काण्डम् १४॥
ओम् देवा ह वै सत्त्रं निषेदुः अग्निरिन्द्रः सोमो मखो विष्णुर्विश्वे देवा
अन्यत्रैवाश्विभ्याम्
अन्यत्रैवाश्विभ्याम्
१४/१/१/२
तेषां कुरुक्षेत्रं देवयजनमास तस्मादाहुः कुरुक्षेत्रं देवानां
देवयजनमिति तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगचति तदेव मन्यत इदम्
देवयजनमिति तद्धि देवानां देवयजनम्
देवयजनमिति तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगचति तदेव मन्यत इदम्
देवयजनमिति तद्धि देवानां देवयजनम्
१४/१/१/३
त आसत श्रियं गचेम यशः स्यामान्नादाः स्यामेति तथो एवेमे सत्त्रमासते श्रियं
गचेम यशः स्यामान्नादाः स्यामेति
गचेम यशः स्यामान्नादाः स्यामेति
१४/१/१/४
ते होचुः यो नः श्रमेण तपसा श्रद्धया यैञेनाहुतिभिर्यज्ञस्योदृचम्
पूर्वोऽवगचात्स नः श्रेष्ठोऽसत्तदु नः सर्वेषां सहेति तथेति
पूर्वोऽवगचात्स नः श्रेष्ठोऽसत्तदु नः सर्वेषां सहेति तथेति
१४/१/१/५
तद्विष्णुः प्रथमः प्राप स देवानां श्रेष्ठोऽभवत्तस्मादाहुर्विष्णुर्देवानां
श्रेष्ठ इति
श्रेष्ठ इति


