सामवेद संहिता
सामवेद संहिता- उत्तरार्चिकः नवमप्रपाठकः (Samved Samhita Purvarchik-9)
21:48 उपेन्द्र कुमार 'हिन्दू' 2 Comments
अथ विंशोऽध्यायः
अथ नवमप्रपाठके प्रथमोऽर्धः
(ऋषि- नृमेध आङ्गिरसः, प्रियमेध आङ्गिरसः, दीर्घतमा औचथ्यः, वामदेवो गौतमः, प्रस्कण्वः काण्वः, बृहदुक्थो वामदेव्यः, बिन्दुः पूतदक्षो वा आंगिरसः, जमदग्निर्भार्गवः, सुकक्ष आंगिरसः, वसिष्ठो मैत्रावरुणिः, सुदाः पैजवनः, मेधातिथिः काण्वः, नीपातिथिः काण्वः, परुच्छेपो दैवोदासिः, | देवता- पवमानः सोमः, इन्द्रः, अग्निः, मरुतः, सूर्यः, | छन्द- गायत्री, अनुष्टुम्मुखः प्रगाथः, विराट्, पदपंक्तिः, प्रगाथः, त्रिष्टुप्, शक्वरी, अत्यष्टिः)
प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
देवां अनु प्रभूषतः ॥१७६५॥
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
ज्योतिर्जज्ञानमुक्थ्यं ॥१७६६॥
सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
वर्धा समुद्रमुक्थ्यं ॥१७६७॥
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥१७६८॥
त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥१७६९॥
वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥१७७०॥
आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि ।
तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिं ॥१७७१॥
तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
आ पप्राथ महित्वना ॥१७७२॥


