HinduMantavya
Loading...

सामवेद संहिता- पूर्वार्चिकः द्वितीयप्रपाठकः (Samved Samhita Purvarchik-2)

Google+ Whatsapp

अथ द्वितीयप्रपाठ (प्रथमोऽर्धः)
 

॥प्रथमा दशतिः॥

(ॠषि- दीर्घतमा औचथ्यः, विश्वामित्रो गाथिनः, गोतमो राहूगणः, त्रित आप्त्यः, इरिम्बिठिः काण्वः, विश्वमना वैयश्वः, ऋजिश्वा भारद्वाजः, | देवता- अग्निः, पवमानः सोमः, अदितिः, विश्वे देवाः, | छन्द- उष्णिक्)
 
पुरु त्वा दाशिवाद्ग वोचेऽरिरग्ने तव स्विदा
तोदस्येव शरण आ महस्य ॥१॥
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत्
विपां ज्योतीद्गषि बिभ्रते न वेधसे ॥२॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो
अस्मे देहि जातवेदो महि श्रवः ॥३॥
अग्ने यजिष्ठो अध्वरे देवां देवयते यज
होता मन्द्रो वि राजस्यति स्रिधः ॥४॥
जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये
अयं ध्रुवो रयीणां चिकेतदा ॥५॥
उत स्या नो दिवा मतिरदितिरूत्यागमत्
सा शन्ताता मयस्करदप स्रिधः ॥६॥
ईडिष्वा हि प्रतीव्या ३ तवेदसम्
चरिष्णुधूममगृभीतशोचिषम् ॥७॥
न तस्य मायया च न रिपुरीशीत मर्त्यः
यो अग्नये ददाश हव्यदातये ॥८॥
अप त्यं वृजिनद्ग रिपुद्ग स्तेनमग्ने दुराध्यम्
दविष्ठमस्य सत्पते कृधी सुगम् ॥९॥
श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते
नि मायिनस्तपसा रक्षसो दह ॥१०॥
इति प्रथमा दशतिः | एकादशः खण्डः


 
 

॥द्वितीया दशतिः॥

(ॠषि- प्रयोगो भार्गवः, सौभरिः काण्वः, विश्वमना वैयश्वः, | देवता- अग्निः, | छन्द- उष्णिक्)
 
प्र मद्गहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे
उपस्तुतासो अग्नये ॥१॥
प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः
यस्य त्वद्ग सख्यमाविथ ॥२॥
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे
देवत्रा हव्यमूहिषे ॥३॥
मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एषः
यः सुहोता स्वध्वरः ॥४॥
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः
भद्रा उत प्रशस्तयः ॥५॥
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम्
अस्य यज्ञस्य सुक्रतुम् ॥६॥
तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणम्
मन्युं जनस्य दूढ्यम् ॥७॥
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे
विश्वेदग्निः प्रति रक्षाद्गसि सेधति ॥८॥
इति द्वितीया दशतिः ॥२॥ द्वादशः खण्डः ॥१२॥
इत्याग्नेयं पर्वं काण्डम् वा | इति प्रथमोऽध्यायः | इति प्रथमं पर्व ॥
 
 
 


अथ द्वितीयोऽध्यायः (अथ ऐन्द्रं काण्डम्)

 

॥तृतीया दशतिः॥

(ऋषि- शंयुर्बार्हस्पत्यः, श्रुतकक्षः सुकक्षो वा आंगिरसः, हर्यतः, प्रागाथः, देवजामय, इन्द्रमातरः, गोपूक्त्यश्वसूक्तिनौ, मेधातिथिः, काण्वःश्च, प्रियमेधश्चांगिरसः, | देवता- इन्द्रः | छन्द- गायत्री)
तद्वो गाय सुते सचा पुरुहूताय सत्वने
शं यद्गवे न शाकिने ॥१॥
यस्ते नूनद्ग शतक्रतविन्द्र द्युम्नितमो मदः
तेन नूनं मदे मदेः ॥२॥
गाव उप वदावटे महि यज्ञस्य रप्सुदा
उभा कर्णा हिरण्यया ॥३॥
अरमश्वाय गायत श्रुतकक्षारं गवे
अरमिन्द्रस्य धाम्ने ॥४॥
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे
स वृषा वृषभो भुवत् ॥५॥
त्वमिन्द्र बलादधि सहसो जात ओजसः
त्वद्ग सन्वृषन्वृषेदसि ॥६॥
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्
चक्राण ओपशं दिवि ॥७॥
यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्
स्तोता मे गोसखा स्यात् ॥८॥
पन्यंपन्यमित्सोतार आ धावत मद्याय
सोमं वीराय शूराय ॥९॥
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम्
अनाभयिन्ररिमा ते ॥१०॥
इति तृतीया दशतिः | प्रथमः खण्डः
 
 
 

॥चतुर्थी दशतिः॥

(ऋषि- सुकक्षश्रुतकक्षौ, भारद्वाजः, श्रुतकक्षः, मधुच्छन्दा वैश्वामित्रः, त्रिशोकः काण्वः, वसिष्ठो मैत्रावरुणिः, | देवता- इन्द्रः, | छन्द गायत्री)
उद्धेदभि श्रुतामघं वृषभं नर्यापसम्
अस्तारमेषि सूर्य ॥१॥
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य
सर्वं तदिन्द्र ते वशे ॥२॥
य आनयत्परावतः सुनीती तुर्वशं यदुम्
इन्द्रः स नो युवा सखा ॥३॥
मा न इन्द्राभ्या॥३॥ दिशः सूरो अक्तुष्वा यमत्
त्वा युजा वनेम तत् ॥४॥
एन्द्र सानसिद्ग रयिद्ग सजित्वानद्ग सदासहम्
वर्षिष्ठमूतये भर ॥५॥
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे
युजं वृत्रेषु वज्रिणम् ॥६॥
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे
तत्राददिष्ट पौद्गस्यम् ॥७॥
वयमिन्द्र त्वायवोऽभि प्र नोनुमो वृषन्
विद्धी त्वा॥३॥स्य नो वसो ॥८॥
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक्
येषामिन्द्रो युवा सखा ॥९॥
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः
वसु स्पार्हं तदा भर ॥१०॥
इति चतुर्थी दशतिः | द्वितीयः खण्डः

 
 

॥पञ्चमी दशतिः॥

(ॠषि- कण्वो घौरः, त्रिशोकः काण्वः, वत्सः काण्वः, कुसीदी काण्वः, मेधातिथिः काण्वः, श्रुतकक्षः आंगिरसः, श्यावाश्व आत्रेयः, प्रगाथः काण्वः, वत्सः काण्वः, इरिंबिठिः काण्वः, | देवता- इन्द्रः | छन्द- गायत्री)
इहेव शृण्व एषां कशा हस्तेषु यद्वदान्
नि यामं चित्रमृञ्जते ॥१॥
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः
पुष्टावन्तो यथा पशुम् ॥२॥
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः
समुद्रायेव सिन्धवः ॥३॥
देवानामिदवो महत्तदा वृणीमहे वयम्
वृष्णामस्मभ्यमूतये ॥४॥
सोमानाद्ग स्वरणं कृणुहि ब्रह्मणस्पते
कक्षीवन्तं य औशिजः ॥५॥
बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः
शृणोतु शक्र आशिषम् ॥६॥
अद्य नो देव सवितः प्रजावत्सावीः सौभगम्
परा दुःष्वप्न्यद्ग सुव ॥७॥
क्वा॥३॥स्य वृषभो युवा तुविग्रीवो अनानतः
ब्रह्मा कस्तद्ग सपर्यति ॥८॥
उपह्वरे गिरीणाद्ग सङ्गमे च नदीनाम्
धिया विप्रो अजायत ॥९॥
प्र सम्राजं चर्षणीनामिन्द्रद्गस्तोता नव्यं गीर्भिः
नरं नृषाहं मद्गहिष्ठम् ॥१०॥
इति पञ्चमी दशतिः | तृतीयः खण्डः
इति द्वितीयप्रपाठके प्रथमोऽर्धः

 
 

॥षष्ठी दशतिः॥

(ॠषि- श्रुतकक्षः आङ्गिरसः, मेधातिथिः काण्वः, गोतमो राहूगणः, भरद्वाजो बार्हस्पत्यः, बिन्दुः पूतदक्षो वा आङ्गिरसः, श्रुतकक्षः सुकक्षो वा आङ्गिरसः, वत्सः काण्वः, शुनःशेप आजीगर्तिः, शुनःशेपो आजीगर्तिः वामदेवो वा, | देवता- इन्द्र, मरुतः | छन्द- गायत्री)
अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः
इन्द्रोरिन्द्रो यवाशिरः ॥१॥
इमा उ त्वा पुरूवसोऽभि प्र नोनवुर्गिरः
गावो वत्सं न धेनवः ॥२॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम्
इत्था चन्द्रमसो गृहे ॥३॥
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः
तत्र पूषाभुवत्सचा ॥४॥
गौर्धयति मरुताद्ग श्रवस्युर्माता मघोनाम्
युक्ता वह्नी रथानाम् ॥५॥
उप नो हरिभिः सुतं याहि मदानां पते
उप नो हरिभिः सुतम् ॥६॥
इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे
अच्छावभृथमोजसा ॥७॥
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह
अहद्ग सूर्य इवाजनि ॥८॥
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः
क्षुमन्तो याभिर्मदेम ॥९॥
सोमः पूषा च चेततुर्विश्वासाद्ग सुक्षितीनाम्
देवत्रा रथ्योर्हिता ॥१०॥
इति षष्ठी दशतिः | चतुर्थः खण्डः
 
 

 

॥सप्तमी दशतिः॥

(ॠषि- श्रुतकक्षः सुकक्षो वा आङ्गिरसः, वसिष्ठो मैत्रावरुणिः, मेधातिथिः काण्वः प्रियमेधश्चांगिरसः, इरिम्बिठिः काण्वः, मधुच्छन्दा वैश्वामित्रः, त्रिशोकः काण्वः, कुसीदी काण्वः, शुनःशेप आजीगर्तिः, | देवता- इन्द्रः | छन्द- गायत्री)
पान्तमा वो अन्धस इन्द्रमभि प्र गायत
विश्वासाहद्ग शतक्रतुं मद्गहिष्ठं चर्षणीनाम् ॥१॥
प्र व इन्द्राय मादनद्ग हर्यश्वाय गायत
सखायः सोमपाव्ने ॥२॥
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः
कण्वा उक्थेभिर्जरन्ते ॥३॥
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः
अर्कमर्चन्तु कारवः ॥४॥
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि
एहीमस्य द्रवा पिब ॥५॥
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे
जुहूमसि द्यविद्यवि ॥६॥
अभि त्वा वृषभा सुते सुतद्ग सृजामि पीतये
तृम्पा व्यश्नुही मदम् ॥७॥
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः
पिबेदस्य त्वमीशिषे ॥८॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे
सखाय इन्द्रमूतये ॥९॥
आ त्वेता नि षीदतेन्द्रमभि प्र गायत
सखायः स्तोमवाहसः ॥१०॥
इति सप्तमी दशतिः | पञ्चमः खण्डः

 
 

॥अष्टमी दशतिः॥

(ॠषि- विश्वामित्रो गाथिनः, मधुच्छन्दा विश्वामित्रः, कुसीदी काण्डः, प्रियमेध आंगिरसः, वामदेवो गौतमः, श्रुतकक्षः सुकक्षो वा आंगिरसः, मेधातिथिः काण्वः, बिन्दुः पूतदक्षो वा आंगिरसः, | देवता- इन्द्रः | छन्द- गायत्री)
इदद्ग ह्यन्वोजसा सुतद्ग राधानां पते
पिबा त्वा॥३॥स्य गिर्वणः ॥१॥
महाद्ग इन्द्रः पुरश्च नो महित्वमस्तु वज्रिणे
द्यौर्न प्रथिना शवः ॥२॥
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभद्गसं गृभाय
महाहस्ती दक्षिणेन ॥३॥
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे
सूनुद्ग सत्यस्य सत्पतिम् ॥४॥
कया नश्चित्र आ भुवदूती सदावृधः सखा
कया शचिष्ठया वृता ॥५॥
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम्
आ च्यावयस्यूतये ॥६॥
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्
सनिं मेधामयासिषम् ॥७॥
ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः
उत श्रोषन्तु नो भुवः ॥८॥
भद्रंभद्रं न आ भरेषमूर्जद्ग शतक्रतो
यदिन्द्र मृडयासि नः ॥९॥
अस्ति सोमो अयद्ग सुतः पिबन्त्यस्य मरुतः
उत स्वराजो अश्विना ॥१०॥
इति अष्टमी दशतिः | षष्ठः खण्डः

 
 

॥नवमी दशतिः॥

(ऋषि- देवजामय इन्द्रमातरः, गोधा ऋषिकाः, दध्यङ्ङाथर्वणः, प्रस्कण्वः काण्वः, गोतमो राहूगणः, मधुच्छन्दा वैश्वामित्रः, वामदेवो गौतमः, वत्सः काण्वः, शुनःशेप आजीगर्तिः, उलो वातायनः | देवता- इन्द्रः | छन्द- गायत्री)
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते
वन्वानासः सुवीर्यम् ॥१॥
नकि देवा इनीमसि न क्या योपयामसि
मन्त्रश्रुत्यं चरामसि ॥२॥
दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण
स्तुहि देवद्ग सवितारम् ॥३॥
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः
स्तुषे वामश्विना बृहत् ॥४॥
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः
जघान नवतीर्नव ॥५॥
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः
महाद्ग अभिष्टिरोजसा ॥६॥
आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि
महान्महीभिरूतिभिः ॥७॥
ओजस्तदस्य तित्विष उभे यत्समवर्तयत्
इन्द्रश्चर्मेव रोदसी ॥८॥
अयमु ते समतसि कपोत इव गर्भधिम्
वचस्तच्चिन्न ओहसे ॥९॥
वात आ वातु भेषजद्ग शम्भु मयोभु नो हृदे
प्र न अयूद्गषि तारिषत् ॥१०॥
इति नवमी दशतिः | सप्तमः खण्डः

 
 

॥दशमी दशतिः॥

(ॠषि- कण्वो घौरः, वत्सः काण्वः, श्रुतकक्षः सुकक्षो वा आङ्गिरस, मधुच्छन्दा वैश्वामित्रः, वामदेवो गौतमः, इरिम्बिठिः काण्वः, सत्यधृतिर्वारुणिः, | देवता- इन्द्रः | छन्द- गायत्री)
यद्ग रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा
न किः स दभ्यते जनः ॥१॥
गव्यो षु णो यथा पुराश्वयोत रथया
वरिवस्या महोनाम् ॥२॥
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम्
एनामृतस्य पिप्युषीः ॥३॥
अया धिया च गव्यया पुरुणामन्पुरुष्टुत
यत्सोमेसोम आभुवः ॥४॥
पावका नः सरस्वती वाजेभिर्वाजिनीवती
यज्ञं वष्टु धियावसुः ॥५॥
क इमं नाहुषीष्वा इन्द्रद्ग सोमस्य तर्पयात्
स नो वसून्या भरात् ॥६॥
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्
एदं बर्हिः सदो मम ॥७॥
महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः
दुराधर्षं वरुणस्य ॥८॥
त्वावतः पुरूवसो वयमिन्द्र प्रणेतः
स्मसि स्थातर्हरीणाम् ॥९॥
इति दशमी दशतिः | अष्टमः खण्डः
 

इति द्वितीयप्रपाठके द्वितीयोऽर्धः | द्वितीयः प्रपाठकश्च समाप्तः

सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें 
 
सामवेद संहिता- पूर्वार्चिकः

 
सामवेद संहिता- उत्तरार्चिकः

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *