सामवेद संहिता
सामवेद संहिता-उत्तरार्चिकः द्वितीयप्रपाठकः (Samved Samhita Uttararchik-2)
अथ तृतीयोऽध्यायः
अथ द्वितीयप्रपाठके प्रथमोऽर्धः
(ऋषि- जमदग्निर्भार्गवः, अमहीयुराङ्गिरसः, कश्यपो मारीचः, भृगुर्वारुणिर्जमदग्निर्भार्गवो वा, मेधातिथिः काण्वः, मधुच्छन्दा वैश्वामित्रः, वसिष्ठो मैत्रावरुणिः, उपमन्युर्वासि, शंयुर्बार्हस्पत्यः, वालखिल्याः प्रस्कण्वः काण्वः, नृमेध आङ्गिरसः, नहुषो मानवः, सिकता निवावरी, पृश्नियोऽजाः, श्रुतकक्षः सुकक्षो वा आङ्गिरसः, जेता माधुच्छन्दसः | देवता- पवमानः, सोमः, अग्निः, मित्रावरुणौ, इन्द्रः, इन्द्राग्नी | छन्द- गायत्री, त्रिष्टुप्, प्रगाथः, अनुष्टुप्, जगती)
पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः ।
अभि विश्वानि काव्या ॥७७५॥
त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् ।
पवस्व विश्वचर्षणे ॥७७६॥
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।
तुभ्यं धावन्ति धेनवः ॥७७७॥
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
विश्वा अप द्विषो जहि ॥७७८॥
यस्य ते सख्ये वयं सासह्याम पृतन्यतः ।
तवेन्दो द्युम्न उत्तमे ॥७७९॥
या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे ।
रक्षा समस्य नो निदः ॥७८०॥
वृषा सोम द्युमां असि वृषा देव वृषव्रतः ।
वृषा धर्माणि दध्रिषे ॥७८१॥
वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः ।
स त्वं वृषन्वृषेदसि ॥७८२॥
अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः ।
वि नो राये दुरो वृधि ॥७८३॥
वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।
पवमान स्वर्दृशं ॥७८४॥
यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः ।
द्रोणे सधस्थमश्नुषे ॥७८५॥
आ पवस्व सुवीर्यं मन्दमानः स्वायुध ।
इहो ष्विन्दवा गहि ॥७८६॥
पवमानस्य ते वयं पवित्रमभ्युन्दतः ।
सखित्वमा वृणीमहे ॥७८७॥
ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया ।
तेभिर्नः सोम मृडय ॥७८८॥
स नः पुनान आ भर रयिं वीरवतीमिषम्
ईशानः सोम विश्वतः ॥७८९॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसं ।
अस्य यज्ञस्य सुक्रतुं ॥७९०॥
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिं ।
हव्यवाहं पुरुप्रियं ॥७९१॥
अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ॥७९२॥
मित्रं वयं हवामहे वरुणं सोमपीतये ।
य जाता पूतदक्षसा ॥७९३॥
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
ता मित्रावरुणा हुवे ॥७९४॥
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
करतां नः सुराधसः ॥७९५॥
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥७९६॥
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥७९७॥
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः ॥७९८॥
इन्द्रो दीर्धाय चक्षस आ सूर्यं रोहयद्दिवि ।
इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।
धिया धेना अवस्यवः ॥८००॥
ता हि शश्वन्त ईडत इत्था विप्रास ऊतये ।
सबाधो वाजसातये ॥८०१॥
ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे ।
मेधसाता सनिष्यवः ॥८०२॥
वृषा पवस्व धारया मरुत्वते च मत्सरः ।
दिश्वा दधान ओजसा ॥८०३॥
तं त्वा धर्त्तारमोण्यो पवमान स्वर्दृशं ।
हिन्वे वाजेषु वाजिनं ॥८०४॥
अया चित्तो विपानया हरिः पवस्व धारया ।
युजं वाजेषु चोदय ॥८०५॥
वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्यां ।
इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमां ॥८०६॥
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुं ।
पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥८०७॥
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुं ।
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥८०८॥
त्वामिद्धि हवामहे सातौ वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥८०९॥
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥८१०॥
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥८११॥
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥८१२॥
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।
स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥८१३॥
मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः ।
तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः ॥८१४॥
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ॥८१५॥
जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
गोषातिरश्वसा असि ॥८१६॥
सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि ।
सीदं च्छ्येनो न योनिमा ॥८१७॥
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥८१८॥
समु प्रिया अनूषत गावो मदाय घृष्वयः ।
सोमासः कृण्वते पथः पवमानास इन्दवः ॥८१९॥
य ओजिष्ठस्तमा भर पवमान श्रवाय्यं ।
यः पञ्च चर्षणीरभि रयिं येन वनामहे ॥८२०॥
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः ।
प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥८२१॥
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् ।
त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन्॥८२२॥
अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।
अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥८२३॥
एवा ह्यसि वीरयुरेवा शूर उत स्थिरह् ।
एवा ते राध्यं मनः ॥८२४॥
एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
अधा चिदिन्द्र नः सचा ॥८२५॥
मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते ।
मत्स्वा सुतस्य गोमतः ॥८२६॥
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिं पतिं ॥८२७॥
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।
त्वामभि प्र नोनुमो जेतारमपराजितं ॥८२८॥
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघं ॥८२९॥
इति षष्ठः खण्डः | इति द्वितीयप्रपाठके प्रथमोऽर्धः
इति तृतीयोऽध्यायः
अथ चतुर्थोऽध्यायः
अथ द्वितीयप्रपाठके द्वितीयोऽर्धः
(ऋषि- जमदग्निर्भार्गवः, भृगुर्वारुणिर्जमदग्निर्भार्गवो वा, कविर्भार्गवः, कश्यपो मारीचः, मेधातिथिः काण्वः, मधुच्छन्दा वैश्वामित्रः, भरद्वाजो बार्हस्पत्यः, सप्तर्षयः, पराशरः शाक्त्यः, पुरुहन्मा आङ्गिरसः, मेध्यातिथि काण्वः, वसिष्ठो मैत्रावरुणिः, त्रित आप्त्यः, यथातिर्नाहुषः, पवित्र आंगिरसः, सोभरिः काण्वः, गोषूक्त्यश्वसूक्तिनौ काण्वायनौ, तिरश्चीरांगिरसौ | देवता- पवमानः, सोमः, अग्निः, मित्रावरुणौ, मरुतः, इन्द्रश्च, इन्द्राग्नी, इन्द्रः | छन्द- गायत्री, द्विपदा विराट्, त्रिष्टुप्, प्रगाथः, बृहती, अनुष्टुप्, जगती, प्रगाथः, उष्णिक्)
एत असृग्रमिन्दवस्तिरः पवित्रमाशवः ।
विश्वान्यभि सौभगा ॥८३०॥
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः ।
त्मना कृण्वन्तो अर्वतः ॥८३१॥
कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिं ।
इडामस्मभ्यं संयतं ॥८३२॥
राजा मेधाभिरीयते पवमानो मनावधि ।
अन्तरिक्षेण यातवे ॥८३३॥
आ नः सोम सहो जुवो रूपं न वर्चसे भर ।
सुष्वाणो देववीतये ॥८३४॥
आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यं ।
वहा भगत्तिमूतये ॥८३५॥
तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः ।
चारुं सुकृत्ययेमहे ॥८३६॥
संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदं ।
शतं पुरो रुरुक्षणिं ॥८३७॥
अतस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः ।
सुपर्णो अव्यथी भरत्॥८३८॥
अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे ।
अभिष्टिकृद्विचर्षणिः ॥८३९॥
विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरं ।
गोपामृतस्य विर्भरत्॥८४०॥
इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
इन्दो रुचाभि गा इहि ॥८४१॥
पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः ।
हरे सृजान आशिरं ॥८४२॥
पुनानो देववीतय इन्द्रस्य याहि निष्कृतं ।
द्युतानो वाजिभिर्हितः ॥८४३॥
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा ।
हव्यवाड्जुह्वास्यः ॥८४४॥
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
तस्य स्म प्राविता भव ॥८४५॥
यो अग्निं देववीतये हविष्मां आविवासति ।
तस्मै पावक मृडय ॥८४६॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसं ।
धियं घृताचीं साधन्ता ॥८४७॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं बृहन्तमाशाथे ॥८४८॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसं ॥८४९॥
इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
मन्दू समानवर्च्चसा ॥८५०॥
आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
दधाना नाम यज्ञियं ॥८५१॥
वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
अविन्द उस्रिया अनु ॥८५२॥
ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतं ।
इन्द्राग्नी न मर्धतः ॥८५३॥
उग्रा विघनिना मृध इन्द्राग्नी हवामहे ।
ता नो मृडात ईदृशे ॥८५४॥
हथो वृत्राण्यार्या हथो दासानि सत्पती ।
हथो विश्वा अप द्विषः ॥८५५॥
अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥८५६॥
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्॥८५७॥
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषां ।
गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥८५९॥
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥८६०॥
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिं ॥८६१॥
यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः ।
न त्वा वज्रिन्त्सहस्रं सुर्या अनु न जातमष्ट रोदसी ॥८६२॥
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा ।
अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥८६३॥
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥८६४॥
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥८६५॥
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणं ।
पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥८६६॥
तरणिरित्सिषासति वाजं पुरन्ध्या युजा ।
आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवं ॥८६७॥
न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तं रयिर्नशत् ।
सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥८६८॥
तिस्रो वाच उदीरते गावो मिमन्ति धेनवः ।
हरिरेति कनिक्रदत्॥८६९॥
अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः ।
मर्जयन्तीर्दिवः शिशुं ॥८७०॥
रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणः ॥८७१॥
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः ॥८७२॥
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।
वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः ॥८७३॥
सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे ॥८७४॥
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥८७५॥
तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् ।
अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा ॥८७६॥
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः ।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥८७७॥
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये ॥८७८॥
आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।
कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत्॥८७९॥
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिं ।
उ लोककृत्नुमद्रिवो हरिश्रियं ॥८८०॥
येन ज्योतींष्यायवे मनवे च विवेदिथ ।
मन्दानो अस्य बर्हिषो वि राजसि ॥८८१॥
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
वृषपत्नीरपो जया दिवेदिवे ॥८८२
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
सुवीर्यस्य गोमतो रायस्पूर्धि महां असि ॥८८३॥
यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् ।
चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीं ॥८८४॥
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः ।
पुरूण्यस्य न्ॐस्या सिषासन्तो वनामहे ॥८८५॥

इति द्वितीयप्रपाठके द्वितीयोऽर्धः | द्वितीयप्रपाठकश्च समाप्तः
इति चतुर्थोऽध्यायः
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें
सामवेद संहिता- पूर्वार्चिकः
सामवेद संहिता- उत्तरार्चिकः
0 comments