सामवेद संहिता
सामवेद संहिता- उत्तरार्चिकः प्रथमप्रपाठकः (Samved Samhita Uttararchik-1)
सामवेद संहिता
उत्तरार्चिक:
अथ प्रथमोऽध्यायः
अथ प्रथमप्रपाठके (प्रथमोऽर्धः)
(ऋषि- असितः काश्यपो देवलो वा, कश्यपो मारीचः, शतं वैखानसः, भरद्वाजो बार्हस्पत्यः, विश्वामित्रो गाथिनः, जमदग्निर्वा, इरिम्बिठिः काण्वः, अमहीयुरांगिरसः, सप्तर्षयः, उशना काम्यः, वसिष्ठो मैत्रावरुणिः, वामदेवो गौतमः, नोधा गौतमः, कलिः प्रागाथः, मधुच्छन्दा वैश्वामित्रः, गौरवीतिः शाक्त्यः, अग्निश्चाक्षुषः, अन्धीगुः श्यावाश्विः, कविर्भार्गवः, शंयुर्बार्हस्पत्यः, सोभरिः काण्वः, नृमेध आंगिरसः, | देवता- पवमानः, सोमः, अग्निः, मित्रावरुणौ, इन्द्राग्नी, इन्द्रः, | छन्द- गायत्री, प्रगाथः, त्रिष्टुप्, पादनिचृत्, काकुभः प्रगाथः, उष्णिक्, अनुष्टुप्, जगती, ककुप्, उष्णिक्, पुर उष्णिक्)
उपास्मै गायता नरः पवमानायेन्दवे ।
अभि देवां इयक्षते ॥६५१॥
अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः ।
देवं देवाय देवयु ॥६५२
स नः पवस्व शं गवे शं जनाय शमर्वते ।
शं राजन्नोषधीभ्यः ॥६५३॥
दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।
सोमाः शुक्रा गवाशिरः ॥६५४॥
हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् ।
सीदन्तो वनुषो यथा ॥६५५॥
ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे ।
पवस्व सूर्यो दृशे ॥६५६॥
पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते ।
अर्वन्तो न श्रवस्यवः ॥६५७॥
अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।
अवावशन्त धीतयः ॥६५८॥
अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।
अग्मन्नृतस्य योनिमा ॥६५९॥
अग्न आ याहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥६६०॥
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि ।
बृहच्छोचा यविष्ठ्य ॥६६१॥
स नः पृथु श्रवाय्यमच्छा देव विवाससि ।
बृहदग्ने सुवीर्यं ॥६६२॥
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।
मध्वा रजांसि सुक्रतू ॥६६३॥
उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
द्राघिष्ठाभिः शुचिव्रता ॥६६४॥
गृणाना जमदग्निना योनावृतस्य सीदतं ।
पातं सोममृतावृधा ॥६६५॥
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमं ।
एदं बर्हिः सदो मम ॥६६६॥
आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥६६७॥
ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥६६८॥
इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यं ।
अस्य पातं धियेषिता ॥६६९॥
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
अया पातमिमं सुतं ॥६७०॥
इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।
ता सोमस्येह तृम्पतां ॥६७१॥
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे ।
उग्रं शर्म महि श्रवः ॥६७२॥
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित्परि स्रव ॥६७३॥
एना विश्वान्यर्य आ द्युम्नानि मानुषाणां ।
सिषासन्तो वनामहे ॥६७४॥
पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥६७५॥
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥६७६॥
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।
अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥६७७॥
स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः ।
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥६७८॥
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।
स चिद्विवेद निहितं यदासामपीच्या३ं गुह्यं नाम गोनां ॥६७९॥
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥६८०॥
न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥६८१॥
कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता ॥६८२
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
दृढा चिदारुजे वसु ॥६८३॥
अभी षु णः सखीनामविता जरित्ऱीणां ।
शतं भवास्यूतये ॥६८४॥
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥६८५॥
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसं ।
क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥६८६॥
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं ॥६८७॥
न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः ।
य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यं ॥६८८॥
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
इन्द्राय पातवे सुतः ॥६८९॥
रक्षोहा विश्वचर्षणिरभि योनिमयोहते ।
द्रोणे सधस्थमासदत्॥६९०॥
वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः ।
पर्षि राधो मघोनां ॥६९१॥
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
महि द्युक्षतमो मदः ॥६९२॥
यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः ।
स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥६९३॥
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टे जातास इन्दवः स्वर्विदः ॥६९४॥
अयं भराय सानसिरिन्द्राय पवते सुतः ।
सोमो जैत्रस्य चेतति यथा विदे ॥६९५॥
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिं ।
वज्रं च वृषणं भरत्समप्सुजित्॥६९६॥
पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥६९७॥
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्व्यः ॥६९८॥
तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
यज्ञाय सन्त्वद्रयः ॥६९९॥
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः॥७००॥
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।
दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः ॥७०१॥
अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये ।
अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥७०२॥
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषं ॥७०३॥
ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।
भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनां ॥७०४॥
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः ।
एभिर्वर्धास इन्दुभिः ॥७०५॥
यत्र क्व च ते मनो दक्षं दधस उत्तरं ।
तत्रा योनिं कृणवसे ॥७०६॥
न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते ।
अथा दुवो वनवसे ॥७०७॥
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
वज्रिञ्चित्रं हवामहे ॥७०८॥
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।
त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिं ॥७०९॥
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे ।
उदेव ग्मन्त उदभिः ॥७१०॥
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
ववृध्वांसं चिदद्रिवो दिवेदिवे ॥७११॥
पुञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा ।
इन्द्रवाहा स्वर्विदा ॥७१२॥
इति प्रथमप्रपाठके प्रथमोऽर्धः | इति प्रथमोऽध्यायः
अथ द्वितीयोऽध्यायः
अथ प्रथमप्रपाठके द्वितीयोऽर्धः
(ऋषि- श्रुतकक्षः सुकक्षो वा आङ्गिरसः, वसिष्ठो मैत्रावरुणिः, मेधातिथिः काण्वः, प्रियमेधश्चाङ्गिरसः, इरिम्बिठिः काण्वः, कुसीदी काण्वः, त्रिशोकः काण्वः, विश्वामित्रो गाथिनः, मधुच्छन्दा वैश्वामित्रः, शुनःशेप आजीगर्तिः, नारदः काण्वः, अवत्सारः काश्यपः, शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः, मेध्यातिथिः काण्वः, असितः काश्यपो देवलो वा, अमहीयुराङ्गिरसः, त्रित आप्त्यः, सप्तर्षयः, शावाश्व आत्रेयः, अग्निश्चाक्षुषः, प्रजापतिर्वैश्वामित्रो वाच्यो वा | देवता- इन्द्रः, अग्निः, उषौ, अश्विनौ, पवमानः, सोमः | छन्द- गायत्री, उष्णिक्, प्रगाथः, अनुष्टुप्)
पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
विश्वासाहं शत्क्रतुं मंहिष्ठं चर्षणीनां ॥७१३॥
पुरुहूतं पुरुष्टुतं गाथान्या३ं सनश्रुतं ।
इन्द्र इति ब्रवीतन ॥७१४॥
इन्द्र इन्नो महोनां दाता वाजानां नृतुः ।
महां अभिज्ञ्वा यमत्॥७१५॥
प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
सखायः सोमपाव्ने ॥७१६॥
शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः ।
चकृमा सत्यराधसे ॥७१७॥
त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो ।
त्वं हिरण्ययुर्वसो ॥७१८॥
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
कण्वा उक्थेभिर्जरन्ते ॥७१९॥
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ ।
तवेदु स्तोमैश्चिकेत ॥७२०॥
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
यन्ति प्रमादमतन्द्राः ॥७२१॥
इन्द्राय मद्व्ने सुतं परि ष्टोभन्तु नो गिरः ।
अर्कमर्च्चन्तु कारवः ॥७२२॥
यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
इन्द्रं सुते हवामहे ॥७२३॥
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
तमिद्वर्धन्तु नो गिरः ॥७२४॥
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
एहीमस्य द्रवा पिब ॥७२५॥
शाचिगो शाचिपूजनायं रणाय ते सुतः ।
आखण्डल प्र हूयसे ॥७२६॥
यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः ।
न्यस्मिं दध्र आ मनः ॥७२७॥
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
महाहस्ति दक्षिणेन ॥७२८॥
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघं ।
तुविमात्रमवोभिः ॥७२९॥
न हि त्वा शूर देवा न मर्तासो दित्सन्तं ।
भीमं न गां वारयन्ते ॥७३०॥
अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
तृम्पा व्यश्नुही मदं ॥७३१॥
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
मा कीं ब्रह्मद्विषं वनः ॥७३२॥
इह त्वा गोपरीणसं महे मन्दन्तु राधसे ।
सरो गौरो यथा पिब ॥७३३॥
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरं ।
अनाभयिन्ररिमा ते ॥७३४॥
नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः ।
अश्वो न निक्तो नदीषु ॥७३५॥
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
इन्द्र त्वास्मिंत्सधमादे ॥७३६॥
इदं ह्यन्वोजसा सुतं राधानां पते ।
पिबा त्वा३स्य गिर्वणः ॥७३७॥
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वं ।
स त्वा ममत्तु सोम्यं ॥७३८॥
प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
प्र बाहू शूर राधसा ॥७३९॥
आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय स्तोमवाहसः ॥७४०॥
पुरूतमं पुरूणामीशानं वार्याणां ।
इन्द्रं सोमे सचा सुते ॥७४१॥
स घा नो योग आ भुवत्स राये स पुरन्ध्या ।
गमद्वाजेभिरा स नः ॥७४२॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥७४३॥
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरं ।
यं ते पूर्वं पिता हुवे ॥७४४॥
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
वाजेभिरुप नो हवं ॥७४५॥
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यं ।
विदे वृधस्य दक्षस्य महां हि षः ॥७४६॥
स प्रथमे व्योमनि देवानां सदने वृधः ।
सुपारः सुश्रवस्तमः समप्सुजित्॥७४७॥
तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणं ।
भवा नः सुम्ने अन्तमः सखा वृधे ॥७४८॥
एना वो अग्निं नमसोर्जो नपातमा हुवे ।
प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतं ॥७४९॥
स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः ।
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानां ॥७५०॥
प्रत्यु अदर्श्यायत्यू छन्ती दुहिता दिवः ।
अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥७५१॥
उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् ।
तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥७५२॥
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।
अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥७५३॥
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते ।
अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥७५४॥
अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
पयः सहस्रसामृषिं ॥७५५॥
अयं सूर्य इवोपदृगयं सरांसि धावति ।
सप्त प्रवत आ दिवं ॥७५६॥
अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
सोमो देवो न सूर्यः ॥७५७॥
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
हरिः पवित्रे अर्षति ॥७५८॥
एष प्रत्नेन मन्मना देवो देवेभ्यस्परि ।
कविर्विप्रेण वावृधे ॥७५९॥
दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे ।
क्रन्दं देवां अजीजनः ॥७६०॥
उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे ।
पवमान विदा रयिं ॥७६१॥
उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।
इन्दुं देवा अयासिषुः ॥७६२॥
उपास्मै गायता नरः पवमानायेन्दवे ।
अभि देवां इयक्षते ॥७६३॥
प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः ।
वनानि महिषा इव ॥७६४॥
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया ।
वाजं गोमन्तमक्षरन्॥७६५॥
सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमा अर्षन्तु विष्णवे ॥७६६॥
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।
अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतं ॥७६७॥
आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः ।
तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥७६८॥
प्र सोमासो मदच्युतः श्रवसे नो मघोनां ।
सुता विदथे अक्रमुः ॥७६९॥
आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिं ।
अत्यो न गोभिरज्यते ॥७७०॥
आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ॥७७१॥
अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः ।
मधोर्धारा असृक्षत ॥७७२॥
पवते हर्यतो हरिरति ह्वरांसि रंह्या ।
अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥७७३॥
प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः ।
अप श्वानमराधसं हता मखं न भृगवः ॥७७४॥
इति प्रथमप्रपाठके द्वितीयोऽर्धः | प्रथमप्रपाठकश्च समाप्तः | इति द्वितीयोऽध्यायः
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें
सामवेद संहिता- पूर्वार्चिकः
सामवेद संहिता- उत्तरार्चिकः
0 comments