सामवेद संहिता
सामवेद संहिता- उत्तरार्चिकः सप्तमप्रपाठकः (Samved Samhita Uttararchik-7)
अथ चतुर्दशोऽध्यायः
अथ सप्तमप्रपाठके प्रथमोऽर्धः
(ऋषि- प्रियमेध आङ्गिरसः, नृमेध-पुरुमेधावाङ्गिरसौ, त्र्यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्सः, शुनःशेप आजीगर्तिः, वत्सः काण्वः, अग्निस्तापसः, विश्वमना वैयश्वः, वसिष्ठो मैत्रावरुणिः, सौभरिः काण्वः, शतं वैखानसः, वसूयव आत्रेयः, गोतमो राहूगणः, केतुराग्नेयः, विरूप आङ्गिरसः | देवता- इन्द्रः, पवमानः सोमः, अग्निः, विश्वे देवाः, अग्निः पवमानः, | छन्द- गायत्री, प्रगाथः, ऊर्ध्वा बृहती, अनुष्टुप्, उष्णिक्, बृहती)
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
मूनुं सत्यस्य सत्पतिं ॥१४८९॥
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
यत्राभि संनवामहे ॥१४९०॥
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
यत्सीमुपह्वरे विदत्॥१४९१॥
आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥१४९२॥
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥१४९३॥
प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत ।
इन्द्रमभि जायमानं समस्वरन्॥१४९४॥
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
दिवो न वारं सविता व्यूर्णुते ॥१४९५॥
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
यूथे न निष्ठा वृषभो वि राजसि ॥१४९६॥
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं ।
अग्ने देवेषु प्र वोचः ॥१४९७॥
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
सद्यो दाशुषे क्षरसि ॥१४९८॥
आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
शिक्षा वस्वो अन्तमस्य ॥१४९९॥
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।
अहं सूर्य इवाजनि ॥१५००॥
अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् ।
येनेन्द्रः शुष्ममिद्दधे ॥१५०१॥
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
ममेद्वर्धस्व सुष्टुतः ॥१५०२॥
अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत ।
ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥१५०३॥
प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः ।
तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥१५०४॥
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
त्वं नो देवतातये रायो दानाय चोदय ॥१५०५॥
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन्दधुः ।
स त्वं नो वीर वीर्याय चोदय ॥१५०६॥
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितं ।
शर्याभिर्न भरमाणो गभस्त्योः ॥१५०७॥
अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः ।
सदासरो वाजमच्छा सनिष्यदत्॥१५०८॥
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
प्र राधांसि चोदयते महित्वना ॥१५०९॥
उपो हरीणां पतिं राधः पृञ्चन्तमब्रवं ।
नूनं श्रुधि स्तुवतो अश्व्यस्य ॥१५१०॥
न ह्याङ्३ग पुरा च न जज्ञे वीरतरस्त्वत् ।
न की राया नैवथा न भन्दना ॥१५११॥
नदं व ओदतीनां नदं योयुवतीनां ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥१५१२॥
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचं ।
उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥१५१३॥
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥१५१४॥
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥१५१५॥
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥१५१६॥
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥१५१७॥
अग्न आयूंषि पवसे आसुवोर्जमिषं च नः ।
आरे बाधस्व दुच्छुनां ॥१५१८॥
अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तमीमहे महागयं ॥१५१९॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यं ।
दधद्रयिं मयि योषं ॥१५२०॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
आ देवान्वक्षि यक्षि च ॥१५२१॥
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशं ।
देवां आ वीतये वह ॥१५२२॥
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि ।
अग्ने बृहन्तमध्वरे ॥१५२३॥
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
विश्वासु धीषु वन्द्य ॥१५२४॥
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यं ।
विश्वासु पृत्सु दुष्टरं ॥१५२५॥
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसं ।
मार्डीकं धेहि जीवसे ॥१५२६॥
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
तेन जेष्म धनंधनं ॥१५२७॥
यया गा आकरामहै सेनयाग्ने तवोत्या ।
तां नो हिन्व मघत्तये ॥१५२८॥
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनं ।
अङ्धि खं वर्त्तया पविं ॥१५२९॥
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि ।
दधज्ज्योतिर्जनेभ्यः ॥१५३०॥
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
बोधा स्तोत्रे वयो दधत्॥१५३१॥
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।
अपां रेतांसि जिन्वति ॥१५३२॥
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः ।
स्तोता स्यां तव शर्मणि ॥१५३३॥
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
तव ज्योतींष्यर्चयः ॥१५३४॥
इति सप्तमप्रपाठके प्रथमोऽर्धः | इति चतुर्दशोऽध्यायः
अथ पञ्चदशोऽध्यायः
अथ सप्तमप्रपाठके द्वितीयोऽर्धः
(ऋषि- गोतमो राहूगणः, विश्वामित्रो गाथिनः, विरूप आङ्गिरसः, भर्गः प्रागाथः, त्रित आप्त्यः, सोभरिः काण्वः, गोपवन आत्रेयः, भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा, प्रयोगो भार्गवः पावकोऽग्निर्बार्हस्पत्यो वा गृहपति-यविष्ठौ सहसः पुत्रवान्यतरो वा | देवता- अग्निः, | छन्द- गायत्री, प्रगाथः, त्रिष्टुप्, काकुभः प्रगाथः, उष्णिक्, अनुष्टुम्मुखः प्रगाथः, जगती)
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
को ह कस्मिन्नसि श्रितः ॥१५३५॥
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
सखा सखिभ्य ईड्यः ॥१५३६॥
यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् ।
अग्ने यक्षि स्वं दमं ॥१५३७॥
ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
समग्निरिध्यते वृषा ॥१५३८॥
वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
तं हविष्मन्त ईडते ॥१५३९॥
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
अग्ने दीद्यतं बृहत्॥१५४०॥
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
अग्ने शुक्रास ईरते ॥१५४१॥
उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत ।
अग्ने हव्या जुषस्व नः ॥१५४२॥
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुं ।
अग्निमीडे स उ श्रवत्॥१५४३॥
पाहि नो अग्न एकया पाह्यू३त द्वितीयया ।
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥१५४४॥
पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥१५४५॥
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि ।
चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन्॥१५४६॥
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जां ।
ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥१५४७॥
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात्॥१५४८॥
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिं ।
वराय देव मन्यवे ॥१५४९॥
दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
कदु वोच इदं नमः ॥१५५०॥
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।
वाजद्रविणसो गिरः ॥१५५१॥
अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥१५५२॥
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यं ॥१५५३॥
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतं ।
अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥१५५४॥
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणां ।
द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥१५५५॥
अदाभ्यः पुरएता विशामग्निर्मानुषीणां ।
तूर्णी रथः सदा नवः ॥१५५६॥
अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः ।
क्षयं पावकशोचिषः ॥१५५७॥
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
अग्निस्तुविश्रवस्तमः ॥१५५८॥
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥१५५९॥
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः ।
अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥१५६०॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
अस्मे देहि जातवेदो महि श्रवः ॥१५६१॥
स इधानो वसुष्कविरग्निरीडेन्यो गिरा ।
रेवदस्मभ्यं पुर्वणीक दीदिहि ॥१५६२॥
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥१५६३॥
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियं ।
अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥१५६४॥
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिं ।
प्रशंसन्ति प्रशस्तिभिः ॥१५६५॥
पन्यांसं जातवेदसं यो देवतात्युद्यता ।
हव्यान्यैरयद्दिवि ॥१५६६
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवं ।
विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसं ॥१५६७॥
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् ।
देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥१५६८॥
विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे ।
यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥१५६९॥
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
वायोरनीके अस्थिरन्॥१५७०॥
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनं ।
आपश्चिन्नि दधा पदं ॥१५७१॥
पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः ।
भद्रा सूर्य इवोपदृक्॥१५७२॥
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
को ह कस्मिन्नसि श्रितः ॥१५३५॥
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
सखा सखिभ्य ईड्यः ॥१५३६॥
यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् ।
अग्ने यक्षि स्वं दमं ॥१५३७॥
ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
समग्निरिध्यते वृषा ॥१५३८॥
वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
तं हविष्मन्त ईडते ॥१५३९॥
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
अग्ने दीद्यतं बृहत्॥१५४०॥
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
अग्ने शुक्रास ईरते ॥१५४१॥
उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत ।
अग्ने हव्या जुषस्व नः ॥१५४२॥
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुं ।
अग्निमीडे स उ श्रवत्॥१५४३॥
पाहि नो अग्न एकया पाह्यू३त द्वितीयया ।
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥१५४४॥
पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥१५४५॥
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि ।
चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन्॥१५४६॥
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जां ।
ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥१५४७॥
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात्॥१५४८॥
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिं ।
वराय देव मन्यवे ॥१५४९॥
दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
कदु वोच इदं नमः ॥१५५०॥
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।
वाजद्रविणसो गिरः ॥१५५१॥
अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥१५५२॥
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यं ॥१५५३॥
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतं ।
अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥१५५४॥
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणां ।
द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥१५५५॥
अदाभ्यः पुरएता विशामग्निर्मानुषीणां ।
तूर्णी रथः सदा नवः ॥१५५६॥
अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः ।
क्षयं पावकशोचिषः ॥१५५७॥
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
अग्निस्तुविश्रवस्तमः ॥१५५८॥
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥१५५९॥
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः ।
अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥१५६०॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
अस्मे देहि जातवेदो महि श्रवः ॥१५६१॥
स इधानो वसुष्कविरग्निरीडेन्यो गिरा ।
रेवदस्मभ्यं पुर्वणीक दीदिहि ॥१५६२॥
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥१५६३॥
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियं ।
अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥१५६४॥
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिं ।
प्रशंसन्ति प्रशस्तिभिः ॥१५६५॥
पन्यांसं जातवेदसं यो देवतात्युद्यता ।
हव्यान्यैरयद्दिवि ॥१५६६
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवं ।
विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसं ॥१५६७॥
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् ।
देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥१५६८॥
विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे ।
यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥१५६९॥
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
वायोरनीके अस्थिरन्॥१५७०॥
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनं ।
आपश्चिन्नि दधा पदं ॥१५७१॥
पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः ।
भद्रा सूर्य इवोपदृक्॥१५७२॥
इति सप्तमप्रपाठके द्वितीयोऽर्धः | इति पञ्चदशोऽध्यायः समाप्तः
अथ षोडशोऽध्यायः
अथ सप्तमप्रपाठके तृतीयोऽर्धः
(ऋषि- मेध्यातिथिः काण्वः, विश्वामित्रो गाथिनः, भर्गः प्रागाथः, सोभरिः काण्वः, शुनःशेप आजीगर्तिः, सुकक्ष आङ्गिरसः, विश्वकर्मा भौवनः, अनानतः पारुच्छेपिः, भरद्वाजो बार्हस्पत्यः, गोतमो राहूगणः, ऋजिश्वा भारद्वाजः, वामदेवो गौतमः, देवातिथिः काण्वः, वालखिल्यः, पर्वतनारदौ, अत्रिर्भौमः, | देवता- इन्द्रः, इन्द्राग्नी, वरुणः, विश्वकर्मा, पवमानः सोमः, पूषा, मरुतः, विश्वे देवाः, द्यावा पृथिवी, अग्निः हवींषि वा, | छन्द- प्रगाथः, गायत्री, त्रिष्टुप्, अत्यष्टिः, उष्णिक्, जगती)
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यं ॥१५७३॥
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥१५७४॥
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
इन्द्राग्नी इष आ वृणे ॥१५७५॥
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं ।
साकमेकेन कर्मणा ॥१५७६॥
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
ऋतस्य पथ्याऽऽ३ अनु ॥१५७७॥
इन्द्राग्नी तविषाणी वां सधस्थानि प्रयांसि च ।
युवोरप्तूर्यं हितं ॥१५७८॥
शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१५७९॥
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर ॥१५८०॥
त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये ॥१५८१॥
त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।
आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥१५८२॥
यो विश्वा दयते वसु होता मन्द्रो जनानां ।
मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥१५८३॥
अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।
उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनां ॥१५८४॥
इमं मे वरुण श्रुधी हवमद्या च मृडय ।
त्वामवस्युरा चके ॥१५८५॥
कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
कया स्तोतृभ्य आ भर ॥१५८६॥
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥१५८७॥
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥१५८८॥
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ं स्वा हि ते ।
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥१५८९॥
अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।
धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।
विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥१५९०॥
प्राचीमनु प्रदिशं पाति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
अग्मन्नुक्थानि प्ॐस्येन्द्रं जैत्राय हर्षयत ।
वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥१५९१॥
त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।
परावतो न साम तद्यत्रा रणन्ति धीतयः ।
त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे । १५९२॥
उत नो गोषणिं धियमश्वसां वाजसामुत ।
नृवत्कृणुह्यूतये ॥१५९३॥
शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
विदा कामस्य वेनतः ॥१५९४॥
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।
सुमृडीका भवन्तु नः ॥१५९५॥
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
शुची उप प्रशस्तये ॥१५९६॥
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
ऊह्याथे सनादृतं ॥१५९७॥
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतं ।
परि यज्ञं नि षेदथुः ॥१५९८॥
अयमु ते समतसि कपोत इव गर्भधिं ।
वचस्तच्चिन्न ओहसे ॥१५९९॥
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
विभूतिरस्तु सूनृता ॥१६००॥
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
समन्येषु ब्रवावहै ॥१६०१॥
गाव उप वदावटे महि यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥१६०२॥
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
अवटस्य विसर्जने ॥१६०३॥
सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानं ।
नीचीनबारमक्षितं ॥१६०४॥
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुं ॥१६०५॥
सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति ।
मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥१६०६॥
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१६०७॥
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥१६०८॥
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥१६०९॥
तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः ।
अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः ॥१६१०॥
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव ।
शुचिं च वर्णमधि गोषु धार्य ॥१६११॥
स नो हरीणां पत इन्दो देवप्सरस्तमः ।
सखेव सख्ये नर्यो रुचे भव ॥१६१२॥
सनेमि त्वमस्मदा अदेवं कं चिदत्रिणं ।
साह्वां इन्दो परि बाधो अप द्वयुं ॥१६१३॥
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते ।
सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ॥१६१४॥
विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।
अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥१६१५॥
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।
हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥१६१६॥
इति सप्तमप्रपाठकस्य तृतीयोऽर्धः सप्तमः प्रपाठकश्च समाप्तः | इति षोडशोऽध्यायः
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें
सामवेद संहिता- पूर्वार्चिकः
सामवेद संहिता- उत्तरार्चिकः
0 comments