सामवेद संहिता
सामवेद संहिता- पूर्वार्चिकः पञ्चमप्रपाठकः (Samved Samhita Purvarchik-5)
अथ पञ्चमः प्रपाठकः
॥प्रथमा दशतिः॥
(ऋषि- प्रगाथो घौरः काण्वः, भरद्वाजो बार्हस्पत्यः, नृमेध आङ्गिरसः, पर्वतः काण्वः, इरिम्बिठिः काण्वः, विश्वमना वैयश्वः, वसिष्ठो मैत्रावरुणिः, | देवता- इन्द्रः, आदित्याः | छन्द- उष्णिक्, विराडुष्णिक्)
गृणे तदिन्द्र ते शव उपमां देवतातये
यद्धद्गसि वृत्रमोजसा शचीपते ॥१॥
यद्धद्गसि वृत्रमोजसा शचीपते ॥१॥
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन्
अयद्ग स सोम इन्द्र ते सुतः पिब ॥२॥
अयद्ग स सोम इन्द्र ते सुतः पिब ॥२॥
एन्द्र नो गधि प्रिय सत्राजिदगोह्य
गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥३॥
गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥३॥
य इन्द्र सोमपातमो मदः शविष्ठ चेतति
येना हद्गसि न्या॥३॥त्रिणं तमीमहे ॥४॥
येना हद्गसि न्या॥३॥त्रिणं तमीमहे ॥४॥
तुचे तुनाय तत्सु नो द्राघीय आयुर्जीवसे
आदित्यासः समहसः कृणोतन ॥५॥
आदित्यासः समहसः कृणोतन ॥५॥
वेत्था हि निरृतीनां वज्रहस्त परिवृजम्
अहरहः शुन्ध्युः परिपदामिव ॥६॥
अहरहः शुन्ध्युः परिपदामिव ॥६॥
अपामीवामप स्त्रिधमप सेधत दुर्मतिम्
आदित्यासो युयोतना नो अद्गहसः ॥७॥
आदित्यासो युयोतना नो अद्गहसः ॥७॥
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः
सोतुर्बाहुभ्याद्ग सुयतो नार्वा ॥८॥
इति प्रथमा दशतिः | पञ्चमः खण्डः इत्युष्णिहः
॥द्वितीया दशतिः॥
(ऋषि- सौभरिः काण्वः, नृमेध आंगिरसः, | देवता- इन्द्रः, मरुतः | छन्द- ककुप्)
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि
युधेदापित्वमिच्छसे ॥१॥
युधेदापित्वमिच्छसे ॥१॥
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे
सखाय इन्द्रमूतये ॥२॥
सखाय इन्द्रमूतये ॥२॥
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः
दृढा चिद्यमयिष्णवः ॥३॥
दृढा चिद्यमयिष्णवः ॥३॥
आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते
सोमद्ग सोमपते पिब ॥४॥
सोमद्ग सोमपते पिब ॥४॥
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि
सद्गस्थे जनस्य गोमतः ॥५॥
सद्गस्थे जनस्य गोमतः ॥५॥
गावश्चिद्धा समन्यवः सजात्येन मरुतः सबन्धवः
रिहते ककुभो मिथः ॥६॥
रिहते ककुभो मिथः ॥६॥
त्वं न इन्द्रा भर ओजो नृम्णद्ग शतक्रतो विचर्षणे
आ वीरं पृतनासहम् ॥७॥
आ वीरं पृतनासहम् ॥७॥
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे
उदेव ग्मन्त उदभिः ॥८॥
उदेव ग्मन्त उदभिः ॥८॥
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे
अभि त्वामिन्द्र नोनुमः ॥९॥
अभि त्वामिन्द्र नोनुमः ॥९॥
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः
वज्रिञ्चित्रद्ग हवामहे ॥१०॥
इति द्वितीया दशतिः | षष्ठः खण्डः | इति ककुभः
वज्रिञ्चित्रद्ग हवामहे ॥१०॥
इति द्वितीया दशतिः | षष्ठः खण्डः | इति ककुभः
॥तृतीया दशतिः॥
(ऋषि- गोतमो राहूगणः, त्रितः आप्त्यः, अवस्युरात्रेयः, | देवता- इन्द्रः, विश्वेदेवाः, आश्विनौ, | छन्द- पंक्तिः)
स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१॥
इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम्
शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥२॥
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१॥
इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम्
शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥२॥
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥३॥
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥३॥
इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम्
यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् ॥४॥
यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् ॥४॥
प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यद्गसते
इन्द्र नृम्णद्ग हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥५॥
इन्द्र नृम्णद्ग हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥५॥
यदुदीरत आजयो धृष्णवे धीयते धनम्
युङ्क्ष्वा मदच्युता हरी कद्ग हनः कं वसौ दधोऽस्माद्ग इन्द्र वसौ दधः ॥६॥
युङ्क्ष्वा मदच्युता हरी कद्ग हनः कं वसौ दधोऽस्माद्ग इन्द्र वसौ दधः ॥६॥
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥७॥
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥७॥
उपो षु शृणुही गिरो मघवन्मातथा इव
कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥८॥
कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥८॥
चन्द्रमा अप्स्वां॥३॥न्तरा सुपर्णो धावते दिवि
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥९॥
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥९॥
प्रति प्रियतमद्ग रथं वृषणं वसुवाहनम्
स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतद्ग हवम् ॥१०॥
इति तृतीया दशतिः | सप्तमः खण्डः
स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतद्ग हवम् ॥१०॥
इति तृतीया दशतिः | सप्तमः खण्डः
॥चतुर्थी दशतिः॥
(ऋषि- वसुश्रुत आत्रेयः, विमद ऐन्द्रः, सत्यश्रवा आत्रेयः, गोतमो राहूगणः, अंहोमुग्वामदेव्यः ॥ अग्निः ॥३॥ उषाः ॥४॥ सोमः, | देवता- इन्द्रः, विश्वेदेवाः, | छन्द- पंक्तिः, बृहती)
आ ते अग्न इधीमहि द्युमन्तं देवाजरम्
युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषद्ग स्तोतृभ्य आ भर ॥१॥
युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषद्ग स्तोतृभ्य आ भर ॥१॥
आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे
शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥२॥
शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥२॥
महे नो अद्य बोधयोषो राये दिवित्मती
यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥३॥
यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥३॥
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम्
अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥४॥
अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥४॥
क्रत्वा महाद्ग अनुष्वधं भीम आ वावृते शवः
श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसम् ॥५॥
श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसम् ॥५॥
स घा तं वृषणद्ग रथमधि तिष्ठाति गोविदम्
यः पात्रद्ग हारियोजनं पूर्णमिन्द्राचिकेतति योजा न्विन्द्र ते हरी ॥६॥
यः पात्रद्ग हारियोजनं पूर्णमिन्द्राचिकेतति योजा न्विन्द्र ते हरी ॥६॥
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः
अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषद्ग स्तोतृभ्य आ भर ॥७॥
न तमद्गहो न दुरितं देवासो अष्ट मर्त्यम्
सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥८॥
इति चतुर्थी दशतिः | अष्टमः खण्डः | इति पंक्त्यः
अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषद्ग स्तोतृभ्य आ भर ॥७॥
न तमद्गहो न दुरितं देवासो अष्ट मर्त्यम्
सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥८॥
इति चतुर्थी दशतिः | अष्टमः खण्डः | इति पंक्त्यः
॥पञ्चमी दशतिः॥
(ऋषि- ऋण-त्रसदस्यू, वसिष्ठो मैत्रावरुणिः, वामदेवो गौतमः, | देवता- पवमानः सोमः, अग्निः, वाजिनः, | छन्द- पदपंक्तिः, पुरउष्णिक्, त्रिपदा अनुष्टुप्पिपीलिकामध्या)
परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥१॥
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः
द्विषस्तरध्या ऋणया न ईरसे ॥२॥
द्विषस्तरध्या ऋणया न ईरसे ॥२॥
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥३॥
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥४॥
इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥५॥
अनु हि त्वा सुतद्ग सोम मदामसि महे समर्यराज्ये
वाजाद्ग अभि पवमान प्र गाहसे ॥६॥
वाजाद्ग अभि पवमान प्र गाहसे ॥६॥
क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथा स्वश्वाः ॥७॥
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रद्ग हृदिस्पृशम्
ऋध्यामा त ओहैः ॥८॥
ऋध्यामा त ओहैः ॥८॥
आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवम्
स्वर्गाद्ग अर्वन्तो जयत ॥९॥
स्वर्गाद्ग अर्वन्तो जयत ॥९॥
पवस्व सोम द्युम्नी सुधारो महाद्ग अवीनामनुपूर्व्यः ॥१०॥
इति पञ्चमी दशतिः | इति नवमः खण्डः | इति पंचमप्रपाठकस्य प्रथमोऽर्धः
इति पञ्चमी दशतिः | इति नवमः खण्डः | इति पंचमप्रपाठकस्य प्रथमोऽर्धः
॥षष्ठी दशतिः॥
(ऋषि- त्रसदस्युः, संवर्त आंगिरसः, | देवता- इन्द्रः, विश्वेदेवाः, उषाः | छन्द- द्विपदा विराट्)
विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ॥१॥
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥२॥
ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥३॥
अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम् ॥४॥
शं पदं मघद्ग रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिम् ॥५॥
सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ॥६॥
आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः ॥७॥
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥८॥
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥९॥
प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥१०॥
इति षष्ठी दशतिः | दशमः खण्डः
इति षष्ठी दशतिः | दशमः खण्डः
॥सप्तमी दशतिः॥
(ऋषि- पृषध्रः काण्वः, बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गोपायना लौपायना वा, संवर्त आंगिरसः, भुवन आप्त्य॑ धनो वा भौवनः, कवष ऐलूषः, भरद्वाजो बार्हस्पत्यः, आत्रेयः, वसिष्ठो मैत्रावरुणिः, | देवता- अग्निः, उषाः, विश्वेदेवाः, इन्द्रः | छन्द- द्विपदा विराट्, एकपदा)
अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ॥१॥
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥२॥
भगो न चित्रो अग्निर्महोनां दधाति रत्नम् ॥३॥
विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनम् ॥४॥
उषा अप स्वसुष्टमः सं वर्तयति वर्तनिद्ग सुजातता ॥५॥
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥६॥
वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥७॥
अया वाजं देवहितद्ग सनेम मदेम शतहिमाः सुवीराः ॥८॥
अया वाजं देवहितद्ग सनेम मदेम शतहिमाः सुवीराः ॥८॥
ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥९॥
इन्द्रो विश्वस्य राजति ॥१०॥
इति सप्तमी दशतिः | एकादशः खण्डः
इति सप्तमी दशतिः | एकादशः खण्डः
॥अष्टमी दशतिः॥
(ऋषि- गृत्समदः शौनकः, गौरांगिरसः, परुच्छेपो दैवोदासिः, रेभः काश्यपः, एवयामरुदात्रेयः, अनानतः पारुच्छेपिः, नकुलः, | देवता- इन्द्रः, सूर्यः विश्वेदेवाः, मरुतः, पवमानः, सोमः, सविता, अग्निः | छन्द- अष्टिः, अत्यष्टिः, अतिजगती)
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुनां सुतं यथावशम्।
स ईं ममाद महि कर्म कर्तवे महामुरुद्ग सैनद्ग सश्चद्देवो देवद्ग सत्य इन्दुः सत्यमिन्द्रम् ॥१॥
स ईं ममाद महि कर्म कर्तवे महामुरुद्ग सैनद्ग सश्चद्देवो देवद्ग सत्य इन्दुः सत्यमिन्द्रम् ॥१॥
अयद्ग सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म
ब्रध्नः समीचीरुषसः समैरयदरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः ॥२॥
ब्रध्नः समीचीरुषसः समैरयदरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः ॥२॥
एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः ।
हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मद्गहिष्ठं वाजसातये ॥३॥
हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मद्गहिष्ठं वाजसातये ॥३॥
तमिन्द्रं जोहवीमि मघवानमुग्रद्ग सत्रा दधानमप्रतिष्कुतद्ग श्रवाद्गसि भूरिः ।
मद्गहिष्ठो गीर्भिरा च यज्ञियो ववर्त राये नो विश्वा सुपथा कृणोतु वज्री ॥४॥
अस्तु श्रौषट्पुरो अग्निं धिया दध आ नु त्यच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे ।
अध प्र नूनमुप यन्ति धीतयो देवाद्गअच्छा न धीतयः ॥५॥

प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् ।
प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥६॥
प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥६॥
अया रुचा हरिण्या पुनानो विश्वा द्वेषाद्गसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।
धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।
विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥७॥
धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।
विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥७॥
अभि त्यं देवद्ग सवितारमोण्योः कविक्रतुमर्चामि सत्यसवद्ग रत्नधामभि प्रियं मतिम्
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ॥८॥
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ॥८॥
अग्निद्ग होतारं मन्ये दास्वन्तं वसोः सूनुद्ग सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥९॥
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥९॥
तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् ।
यो देवस्य शवसा प्रारिणा असु रिणन्नपः ।
भुवो विश्वमभ्यदेवमोजसा विदेदूर्जद्ग शतक्रतुर्विदेद्विषम् ॥१०॥
इति अष्टमी दशतिः | द्वादशः खण्डः | इत्यैन्द्रं पर्व काण्डं वा समाप्तम् | इति चतुर्थोऽध्यायः
यो देवस्य शवसा प्रारिणा असु रिणन्नपः ।
भुवो विश्वमभ्यदेवमोजसा विदेदूर्जद्ग शतक्रतुर्विदेद्विषम् ॥१०॥
इति अष्टमी दशतिः | द्वादशः खण्डः | इत्यैन्द्रं पर्व काण्डं वा समाप्तम् | इति चतुर्थोऽध्यायः
अथ पञ्चमोऽध्यायः (पावमानं काण्डम्)
॥नवमी दशतिः॥
(ऋषि- अमहीयुराङ्गिरसः, मधुच्छन्दा वैश्वामित्रः, भृगुर्वारुणिर्जमदग्निर्भार्गवो वा, त्रित आप्त्यः, कश्यपोः मारीचः, जमदग्निर्भार्गवः, दृढच्युत आगस्त्यः, असितः काश्यपो देवलो वा, | देवता- पवमानः, सोमः | छन्द- गायत्री)
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे
उग्रद्ग शर्म महि श्रवः ॥१॥
उग्रद्ग शर्म महि श्रवः ॥१॥
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया
इन्द्राय पातवे सुतः ॥२॥
इन्द्राय पातवे सुतः ॥२॥
वृषा पवस्व धारया मरुत्वते च मत्सरः
विश्वा दधान ओजसा ॥३॥
विश्वा दधान ओजसा ॥३॥
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा
देवावीरघशद्गसहा ॥४॥
देवावीरघशद्गसहा ॥४॥
तिस्रो वाच उदीरते गावो मिमन्ति धेनवः
हरिरेति कनिक्रदत् ॥५॥
हरिरेति कनिक्रदत् ॥५॥
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः
अर्कस्य योनिमासदम् ॥६॥
अर्कस्य योनिमासदम् ॥६॥
असाव्यद्गशुर्मदायाप्सु दक्षो गिरिष्ठाः
श्येनो न योनिमासदत् ॥७॥
श्येनो न योनिमासदत् ॥७॥
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे
मरुद्भ्यो वायवे मदः ॥८॥
मरुद्भ्यो वायवे मदः ॥८॥
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत्
मदेषु सर्वधा असि ॥९॥
मदेषु सर्वधा असि ॥९॥
परि प्रिया दिवः कविर्वयाद्गसि नप्त्योर्हितः
स्वानैर्याति कविक्रतुः ॥१०॥
इति नवमी दशतिः | प्रथमः खण्डः
स्वानैर्याति कविक्रतुः ॥१०॥
इति नवमी दशतिः | प्रथमः खण्डः
॥दशमी दशतिः॥
(ऋषि- श्यावाश्व आत्रेयः, त्रित आप्त्यः, अमहीयुराङ्गिरसः, भृगुर्वारुणिर्जमदग्निर्भार्गवो वा, कश्यपो मारीचः, निध्रुविः काश्यपः, असितः काश्यपो देवलो वा, | देवता- पवमानः, सोमः | छन्द- गायत्री)
प्र सोमासो मदच्युतः श्रवसे नो मघोनाम्
सुता विदथे अक्रमुः ॥१॥
सुता विदथे अक्रमुः ॥१॥
प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः
वनानि महिषा इव ॥२॥
वनानि महिषा इव ॥२॥
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने
विश्वा अप द्विषो जहि ॥३॥
विश्वा अप द्विषो जहि ॥३॥
वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे
पवमान स्वर्दृशम् ॥४॥
पवमान स्वर्दृशम् ॥४॥
इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः
सृजदश्वद्ग रथीरिव ॥५॥
सृजदश्वद्ग रथीरिव ॥५॥
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया
शुक्रासो वीरयाशवः ॥६॥
शुक्रासो वीरयाशवः ॥६॥
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः
वायुमा रोह धर्मणा ॥७॥
वायुमा रोह धर्मणा ॥७॥
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम्
ज्योतिर्वैश्वानरं बृहत् ॥८॥
ज्योतिर्वैश्वानरं बृहत् ॥८॥
परि स्वानास इन्दवो मदाय बर्हणा गिरा
मधो अर्षन्ति धारया ॥९॥
मधो अर्षन्ति धारया ॥९॥
परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः
कारुं बिभ्रत्पुरुस्पृहम् ॥१०॥
इति दशमी दशतिः | द्वितीयः खण्डः
कारुं बिभ्रत्पुरुस्पृहम् ॥१०॥
इति दशमी दशतिः | द्वितीयः खण्डः
इति पञ्चमप्रपाठकस्य द्वितीयोऽर्धः | पञ्चमः प्रपाठकश्च समाप्तः
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें
सामवेद संहिता- पूर्वार्चिकः
सामवेद संहिता- उत्तरार्चिकः
0 comments