HinduMantavya
Loading...

सामवेद संहिता- उत्तरार्चिकः चतुर्थप्रपाठकः (Samved Samhita Uttararchik-4)

Google+ Whatsapp

अथ सप्तमोऽध्यायः

अथ चतुर्थप्रपाठके प्रथमोऽर्धः

(ऋषि- त्रयः, कश्यपो मारीचः, मेधातिथिः काण्वः, हिरण्यस्तूप आङ्गिरसः, अवत्सारः काश्यपः, जमदग्निर्भार्गवः, कुत्स आङ्गिरसः, वसिष्ठो मैत्रावरुणिः, त्रिशोकः काण्वः, श्यावाश्व आत्रेयः, सप्तर्षयः, अमहीयुरांगिरसः, शुनःशेप आजीगर्तिः, मधुच्छन्दा वैश्वामित्रः, पूर्वाधः, मान्धाता यौवनाश्वः, उत्तरा गोधा ऋषिका, असितः काश्यपो देवलो वा, ऋणंचयो राजर्षिः, शक्तिर्वासिष्ठः, पर्वतनारदौ काण्वौ, मनुः सांवरणः, बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गोपायना लौपायना वा, भुवन आप्त्यः साधनो वा भौवनः, | देवता - पवमानः, सोमः, अग्निः, आदित्यः, इन्द्रः, इन्द्राग्नी, विश्वे देवा | छन्द- जगती, गायत्री, प्रगाथः, महापंक्तिः, यवमध्या गायत्री, सतोबृहती, उष्णिक्, अनुष्टुप्, त्रिष्टुप्, द्विपदा विराट्, द्विपदा त्रिष्टुप्)
 
ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः ।
दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥१०३१॥
अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः ।
हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥१०३२॥
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि ।
अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे ॥१०३३॥
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
शुक्रासो वीरयाशवः ॥१०३४॥

शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः ।
छ् पवन्ते वारे अव्यये ॥१०३५॥
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
पवन्तामान्तरिक्ष्या ॥१०३६॥
पवस्व देववीरति पवित्रं सोम रंह्या ।
इन्द्रमिन्दो वृषा विश ॥१०३७॥
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः ।
आ योनिं धर्णसिः सदः ॥१०३८॥
अधुक्षत प्रियं मधु धारा सुतस्य वेधसः ।
अपो वसिष्ट सुक्रतुः ॥१०३९॥
महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः ।
यद्गोभिर्वासयिष्यसे ॥१०४०॥
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।
सोमः पवित्रे अस्मयुः ॥१०४१॥
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः ।
सं सूर्येण दिद्युते ॥१०४२॥
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः ।
याभिर्मदाय शुम्भसे ॥१०४३॥
तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे ।
तव प्रशस्तये महे ॥१०४४॥
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत ।
आत्मा यज्ञस्य पूर्व्यः ॥१०४५॥
अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया ।
पर्जन्यो वृष्टिमां इव ॥१०४६॥
सना च सोम जेषि च पवमान महि श्रवः ।
अथा नो वस्यसस्कृधि ॥१०४७॥
सना ज्योतिः सना स्वा३र्विश्वा च सोम सौभगा ।
अथा नो वस्यसस्कृधि ॥१०४८॥
सना दक्षमुत क्रतुमप सोम मृधो जहि ।
अथा नो वस्यसस्कृधि ॥१०४९॥
पवीतारः पुनीतन सोममिन्द्राय पातवे ।
अथा नो वस्यसस्कृधि ॥१०५०॥
त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः ।
अथा नो वस्यसस्कृधि ॥१०५१॥
तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यं ।
अथा नो वस्यसस्कृधि ॥१०५२॥
अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिं ।
अथा नो वस्यसस्कृधि ॥१०५३॥
अभ्या३र्षानपच्युतो वाजिन्त्समत्सु सासहिः ।
अथा नो वस्यसस्कृधि ॥१०५४॥
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि ।
अथा नो वस्यसस्कृधि ॥१०५५॥
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर ।
अथा नो वस्यसस्कृधि ॥१०५६॥
तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
तरत्स मन्दी धावति ॥१०५७॥
उस्रा वेद वसूनां मर्त्तस्य देव्यवसः ।
तरत्स मन्दी धावति ॥१०५८॥
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे ।
तरत्स मन्दी धावति ॥१०५९॥
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे ।
तरत्स मन्दी धावति ॥१०६०॥
एते सोमा असृक्षत गृणानाः शवसे महे ।
मदिन्तमस्य धारया ॥१०६१॥
अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।
सनद्वाजः परि स्रव ॥१०६२॥
उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः ।
गृणानो जमदग्निना ॥१०६३॥
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥१०६४॥
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयं ।
जीवातवे प्रतरं साधया धियोऽग्ने सख्ये म रिषामा वयं तव ॥१०६५॥
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतं ।
त्वमादित्यां आ वह तान्ह्यू३श्मस्यग्ने सख्ये मा रिषामा वयं तव ॥१०६६॥
प्रति वां सूर उदिते मित्रं गृणीषे वरुणं ।
अर्यमणं रिशादसं ॥१०६७॥
राया हिरण्यया मतिरियमवृकाय शवसे ।
इयं विप्रामेधसातये ॥१०६८॥
ते स्याम देव वरुण ते मित्र सूरिभिः सह ।
इषं स्वश्च धीमहि ॥१०६९॥
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
वसु स्पार्हं तदा भर ॥१०७०॥
यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति ।
वसु स्पार्हं तदा भर ॥१०७१॥
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतं ।
वसु स्पार्हं तदा भर ॥१०७२॥
यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
इन्द्राग्नी तस्य बोधतं ॥१०७३॥
तोशासा रथयावाना वृत्रहणापराजिता ।
इन्द्राग्नी तस्य बोधतं ॥१०७४॥
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
इन्द्राग्नी तस्य बोधतं ॥१०७५॥
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
अर्कस्य योनिमासदं ॥१०७६॥
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं ।
सं त्वा मृजन्त्यायवः ॥१०७७॥
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे ।
पवमानस्य मरुतः ॥१०७८॥
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥१०७९॥
पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने ।
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥१०८०॥
एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरं ।
समादित्येभिरख्यत ॥१०८१॥
समिन्द्रेणोत वायुना सुत एति पवित्र आ ।
सं सूर्यस्य रश्मिभिः ॥१०८२॥
स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
चारुर्मित्रे वरुणे च ॥१०८३॥
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर्मदेम ॥१०८४॥
आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः ।
ऋणोरक्षं न चक्र्योः ॥१०८५॥
आ यद्दुवः शतक्रतवा कामं जरित्ऱीणां ।
ऋणोरक्षं न शचीभिः ॥१०८६॥
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥१०८७॥
उप नः सवना गहि सोमस्य सोमपाः पिब ।
गोदा इद्रेवतो मदः ॥१०८८॥
अथा ते अन्तमानां विद्याम सुमतीनां ।
मा नो अति ख्य आ गहि ॥१०८९॥
उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
महान्तं त्वा महीनां सम्राजं चर्षणीनां ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्॥१०९०॥
दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः ।
पूर्वेण मघवन्पदा वयामजो यथा यमः ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्॥१०९१॥
अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरं ।
अधस्पदं तमीं कृधि यो अस्मां अभिदासति ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्॥१०९२॥
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।
मदेषु सर्वधा असि ॥१०९३॥
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
मदेषु सर्वधा असि ॥१०९४॥
त्वे विश्वे सजोषसो देवासः पीतिमाशत ।
मदेषु सर्वधा असि ॥१०९५॥
स सुन्वे यो वसूनां यो रायामानेता य इडानां ।
सोमो यः सुक्षितीनां ॥१०९६॥
यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः ।
आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥१०९७॥
तं वः सखायो मदाय पुनानमभि गायत ।
शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥१०९८॥
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते ।
देवावीर्मदो मतिभिः परिष्कृतः ॥१०९९॥
अयं दक्षाय साधनोऽयं शर्धाय वीतये ।
अयं देवेभ्यो मधुमत्तरः सुतः ॥११००॥
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥११०१॥
ते पूतासो विपश्चितः सोमासो दध्याशिरः ।
सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥११०२॥
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥११०३॥
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व ।
ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात्॥११०४॥
उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥११०५॥
महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे ।
अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः ॥११०६॥
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥११०७॥
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः ॥११०८॥
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥११०९॥
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥१११०॥
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ॥११११॥
आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत्॥१११२॥
प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥१११३॥
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥१११४॥
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥१११५॥
इति चतुर्थप्रपाठकस्य प्रथमोऽर्धः | इति सप्तमोऽध्यायः
 
 
 

अथाष्टमोऽध्यायः

अथ चतुर्थप्रपाठकस्य द्वितीयोऽर्धः

(ऋषि- वृषगणो वासिष्ठः, असितः काश्यपो देवलो वा, भृगुर्वारुणिर्जमदग्निर्भार्गवो वा, भरद्वाजो बार्हस्पत्यः, यजत आत्रेयः, मधुच्छन्दा वैश्वामित्रः, सिकता निवावरी, पुरुहन्मा आंगिरसः, पर्वतनारदौ काण्वौ शिखण्डिन्यावप्सरसौ काश्यपौ वा, अग्नये धिष्ण्यो ऐश्वराः, वत्सः काण्वः, नृमेध आंगिरसः, अत्रिर्भौमः, | देवता- पवमानः, सोमः, अग्निः, मित्रावरुणौ, इन्द्रः, इन्द्राग्नी, त्रिष्टुप्, गायत्री, जगती, प्रगाथः, उष्णिक्, द्विपदा विराट्, ककुप्, पुर उष्णिक्, अनुष्टुप्)

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्॥१११६॥
प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः ।
आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकं ॥१११७॥
स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः ।
परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥१११८॥
प्र स्वानासो रथा इवार्वन्तो न अवस्यवः ।
सोमासो राये अक्रमुः ॥१११९॥
हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।
भरासः कारिणामिव ॥११२०॥
राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते ।
यज्ञो न सप्त धातृभिः ॥११२१॥
परि स्वानास इन्दवो मदाय बर्हणा गिरा ।
मधो अर्षन्ति धारया ॥११२२॥
आपानासो विवस्वतो जिन्वन्त उषसो भगं ।
सूरा अण्वं वि तन्वते ॥११२३॥
अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः ।
वृष्णो हरस आयवः ॥११२४॥
समीचीनास आशत होतारः सप्तजानयः ।
पदमेकस्य पिप्रतः ॥११२५॥
नाभा नाभिं न आ ददे चक्षुषा सूर्य दृशे ।
कवेरपत्यमा दुहे ॥११२६॥
अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितं ।
सूरः पस्यति चक्षसा ॥११२७॥
असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः ।
विदाना अस्य योजना ॥११२८॥
प्र धारा मधो अग्रियो महीरपो वि गाहते ।
हविर्हविःषु वन्द्यः ॥११२९॥
प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने ।
सद्माभि सत्यो अध्वरः ॥११३०॥
परि यत्काव्या कविर्नृम्णा पुनानो अर्षति ।
स्वर्वाजी सिषासति ॥११३१॥
पवमानो अभि स्पृधो विशो राजेव सीदति ।
यदीमृण्वन्ति वेधसः ॥११३२॥
अव्या वारे परि प्रियो हरिर्वनेषु सीदति ।
रेभो वनुष्यते मति । ११३३॥
स वायुमिन्द्रमश्विना साकं मदेन गच्छति ।
रणा यो अस्य धर्मणा ॥११३४॥
आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः ।
विदाना अस्य शक्मभिः ॥११३५॥
अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये ।
श्रवो वसूनि सञ्जितं ॥११३६॥
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।
पान्तमा पुरुस्पृहं ॥११३७॥
आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणं ।
पान्तमा पुरुस्पृहं ॥११३८॥
आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा ।
पान्तमा पुरुस्पृहं ॥११३९॥
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं ।
कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥११४०॥
त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते ।
तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥११४१॥
नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त ।
वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥११४२॥
प्र वो मित्राय गायत वरुणाय विपा गिरा ।
महिक्षत्रावृतं बृहत्॥११४३
सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च ।
देवा देवेषु प्रशस्ता ॥११४४॥
ता नः शक्तं पर्थिवस्य महो रायो दिव्यस्य ।
महि वां क्षत्रं देवेषु ॥११४५॥
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
अण्वीभिस्तना पूतासः ॥११४६॥
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
उप ब्रह्माणि वाघतः ॥११४७॥
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
सुते दधिष्व नश्चनः ॥११४८॥
तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।
कृष्णा कृणोति जिह्वया ॥११४९॥
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः ।
द्युम्नाय सुतरा अपः ॥११५०॥
ता नो वाजवतीरिष आशून्पिपृतमर्वतः ।
एन्द्रमग्निं च वोढवे ॥११५१॥
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरं ।
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥११५२॥
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः ।
हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥११५३॥
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा ।
या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यं ॥११५४॥
न किष्टं कर्मणा नशद्यश्चकार सदावृधं ।
इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥११५५॥
अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।
सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः ॥११५६॥
सखाय आ नि षीदत पुनानाय प्र गायत ।
शिशुं न यज्ञैः परि भूषत श्रिये ॥११५७॥
समी वत्सं न मातृभिः सृजता गयसाधनं ।
देवाव्या३ं मदमभि द्विशवसं ॥११५८॥
पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
यथा मित्राय वरुणाय शन्तमं ॥११५९॥
प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यं ॥११६०॥
स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥११६१॥
प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥११६२॥
ये सोमासः परावति ये अर्वावति सुन्विरे ।
ये वादः शर्यणावति ॥११६३॥
य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानां ।
ये वा जनेषु पञ्चसु ॥११६४॥
ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यं ।
स्वाना देवास इन्दवः ॥११६५॥
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
अग्ने त्वां कामये गिरा ॥११६६॥
पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥११६७॥
समत्स्वग्निमवसे वाजयन्तो हवामहे ।
वाजेषु चित्रराधसं ॥११६८॥
त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे ।
आ वीरं पृतनासहं ॥११६९॥
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
अथा ते सुम्नमीमहे ॥११७०॥
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत ।
स नो रास्व सुवीर्यं ॥११७१॥
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः ।
राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥११७२॥
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।
विद्याम तस्य ते वयमकूपारस्य दावनः ॥११७३॥
यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।
तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥११७४॥
 
 

इति चतुर्थप्रपाठके द्वितीयोऽर्धः | चतुर्थप्रपाठकश्च समाप्तः | इति अष्टमोऽध्यायः

 
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें 
 
सामवेद संहिता- पूर्वार्चिकः

 
सामवेद संहिता- उत्तरार्चिकः

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *