HinduMantavya
Loading...

सामवेद संहिता- उत्तरार्चिकः तृतीयप्रपाठकः (Samved Samhita Purvarchik-3)

Google+ Whatsapp

अथ पञ्चमोऽध्यायः

अथ तृतीयप्रपाठके प्रथमोऽर्धः

(ऋषि- अकृष्टा माषाः, अमहीयुराङ्गिरसः, मेध्यातिथिः काण्वः, बृहन्मतिराङ्गिरसः, भृगुर्वारुणिर्जमदग्निर्भार्गवो वा, सुतंभर आत्रेयः, गृत्समदः शौनकः, गोतमो राहूगणः, वसिष्ठो मैत्रावरुणिः, हृढच्युत आगस्त्यः, सप्तर्षयः, रेभः काश्यपः, पुरुहन्मा आङ्गिरसः, असितः काश्यपो देवलो वा, शक्तिर्वासिष्ठः, उरुरांगिरसः, अग्निश्चाक्षुषः, प्रतर्दनो दैवोदासिः, प्रयोगो भार्गवः, पावकोऽग्निर्बार्हस्पत्यो वा॑ गृहपतियविष्ठौ सहसः पुत्रावन्यतरो वा, | देवता- पवमानः सोमः, अग्निः, मित्रावरुणौ, इन्द्रः, इन्द्रा, | छन्द- जगती, गायत्री, प्रगाथः, विराट्, अति जगती, उपरिष्टाद् बृहती, काकुभः प्रगाथः, उष्णिक्, त्रिष्टुप्, अनुष्टुप्)
 
प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि ।
प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥८८६॥
उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः ।
यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति ॥८८७॥
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः ।
व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि ॥८८८॥
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुं ।
ज्योतिर्वैश्वानरं बृहत्॥८८९॥

पवमान रसस्तव मदो राजन्नदुच्छुनः ।
वि वारमव्यमर्षति ॥८९०॥
पवमानस्य ते रसो दक्षो वि राजति द्युमान् ।
ज्योतिर्विश्वं स्वर्दृशे ॥८९१॥
प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।
घ्नन्तः कृष्णामप त्वचं ॥८९२॥
सुवितस्य मनामहेऽति सेतुं दुराय्यं ।
साह्याम दस्युमव्रतं ॥८९३॥
शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः ।
चरन्ति विद्युतो दिवि ॥८९४॥
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् ।
अश्ववत्सोम वीरवत्॥८९५॥
पवस्व विश्वचर्षण आ मही रोदसी पृण ।
उषाः सूर्यो न रश्मिभिः ॥८९६॥
परि नः शर्मयन्त्या धारया सोम विश्वतः ।
सरा रसेव विष्टपं ॥८९७॥
आशुरर्ष बृहन्मते परि प्रियेण धाम्ना ।
यत्र देवा इति ब्रुवन्॥८९८॥
परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः ।
वृष्टिं दिवः परि स्रव ॥८९९॥
अयं स यो दिवस्परि रघुयामा पवित्र आ ।
सिन्धोरूर्मा व्यक्षरत्॥९००॥
सुत एति पवित्र आ त्विषिं दधान ओजसा ।
विचक्षाणो विरोचयन्॥९०१॥
आविवासन्परावतो अथो अर्वावतः सुतः ।
इन्द्राय सिच्यते मधु ॥९०२॥
समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ॥९०३॥
हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिं ।
महामिन्दुं महीयुवः ॥९०४॥
पवमान रुचारुचा देवो देवेभ्यः सुतः ।
विश्वा वसून्या विश ॥९०५॥
आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।
इषे पवस्व संयतं ॥९०६॥
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः ॥९०७॥
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने ।
स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः ॥९०८॥
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते ।
इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥९०९॥
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।
ममेदिह श्रुतं हवं ॥९१०॥
राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे ।
सहस्रस्थूण आशाते ॥९११॥
ता सम्राजा घृतासुती आदित्या दानुनस्पती ।
सचेते अनवह्वरं ॥९१२॥
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ॥९१३॥
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितं ।
तद्विदच्छर्यणावति ॥९१४॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं ।
इत्था चन्द्रमसो गृहे ॥९१५॥
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
अभ्राद्वृष्टिरिवाजनि ॥९१६॥
शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः ।
ईशाना पिप्यतं धियः ॥९१७॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
मा नो रीरधतं निदे ॥९१८॥
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
मरुद्भ्यो वायवे मदः ॥९१९॥
सं देवैः शोभते वृषा कविर्योनावधि प्रियः ।
पवमानो अदाभ्यः ॥९२०॥
पवमान धिया हितो३ऽभि योनिं कनिक्रदत् ।
धर्मणा वायुमारुहः ॥९२१॥
तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।
पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि ॥९२२॥
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि ।
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥९२३॥
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
शुम्भन्ति विप्रं धीतिभिः ॥९२४॥
आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतं ।
ध्रुवे सदसि सीदतु ॥९२५॥
नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणं ॥९२६॥
पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
सोतुर्बाहुभ्यां सुयतो नार्वा ॥९२७॥
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
स त्वामिन्द्र प्रभूवसो ममत्तु ॥९२८॥
बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिं ।
इमा ब्रह्म सधमादे जुषस्व ॥९२९॥
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनं ॥९३०॥
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे ।
सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥९३१॥
समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये ।
स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥९३२॥
यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥९३३॥
इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि ।
हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः ॥९३४॥
परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।
स्वानैर्याति कविक्रतुः ॥९३५॥
स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।
महान्मही ऋतावृधा ॥९३६॥
प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः ।
वीत्यर्ष पनिष्टये ॥९३७॥
त्वं ह्या३ंङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
अमृतत्वाय घोषयन्॥९३८॥
येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत ॥९३९॥
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति ।
अग्रे वाचः पवमानः कनिक्रदत्॥९४०॥
धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविं ।
अभि त्रिपृष्ठं मतयः समस्वरन्॥९४१॥
असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः ।
पुनानो वाचं जनयन्नसिष्यदत्॥९४२॥
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥९४३॥
ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणां ।
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्॥९४४॥
प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः ।
अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन्॥९४५॥
अग्निं वो वृधन्तमध्वराणां पुरूतमं ।
अच्छा नप्त्रे सहस्वते ॥९४६॥
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।
अस्य क्रत्वा यशस्वतः ॥९४७॥
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।
आ वाजैरुप नो गमत्॥९४८
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदं ।
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥९४९॥
न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।
न किष्ट्वानु मज्मना न किः स्वश्व आनशे ॥९५०॥
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥९५१॥
इन्द्र जुषस्व प्र वहा याहि शूर हरिह ।
पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय ॥९५२॥
इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न ।
अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः ॥९५३॥
इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न ।
बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य ॥९५४॥
इति तृतीयप्रपाठके प्रथमोऽर्धः  | इति पञ्चमोऽध्यायः

 
 

अथ षष्ठोऽध्यायः

अथ तृतीयप्रपाठके द्वितीयोऽर्धः

(ऋषि- त्रयः ऋषयः, कश्यपो मारीचः, असितः काश्यपो देवलो वा, अवत्सारः काश्यपः, जमदग्निर्भार्गवः, अरुणो वैतहव्यः, उरुचक्रिरात्रेयः, कुरुसुतिः काण्वः, भरद्वाजो बार्हस्पत्यः, भृगुर्वारुणिर्जमदग्निर्भार्गवो वा, सप्तर्षयः, गोतमो राहूगणः, ऊर्ध्वसद्मा आङ्गिरसः, कृतयशा आङ्गिरसः, त्रित आप्त्यः, रेभसूनू काश्यपौ, मन्युर्वासिष्ठः, वसुश्रुत आत्रेयः, नृमेध आङ्गिरसः | देवता - पवमानः, सोमः, अग्निः, मित्रावरुणौ, इन्द्रः, इंद्राग्नी, | छन्द-  जगती, गायत्री, बृहती, पंक्तिः, काकुभः प्रगाथः, उष्णिक्, अनुष्टुप्, त्रिष्टुप्)
 
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः ।
त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥९५५॥
त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।
स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥९५६॥
ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः ।
तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥९५७॥
पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।
सूर्यस्येव न रश्मयः ॥९५८॥
केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि ।
समुद्रः सोम पिन्वसे ॥९५९॥
जज्ञानो वाचमिष्यसि पवमान विधर्मणि ।
क्रन्दं देवो न सूर्यः ॥९६०॥
प्र सोमासो अधन्विषुः पवमानास इन्दवः ।
श्रीणाना अप्सु वृञ्जते ॥९६१॥
अभि गावो अधन्विषुरापो न प्रवता यतीः ।
पुनाना इन्द्रमाशत ॥९६२॥
प्र पवमान धन्वसि सोमेन्द्राय मादनः ।
नृभिर्यतो वि नीयसे ॥९६३॥
इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे ।
अरमिन्द्रस्य धाम्ने ॥९६४॥
त्वं सोम नृमादनः पवस्व चर्षणीधृतिः ।
सस्निर्यो अनुमाद्यः ॥९६५॥
पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः ।
शुचिः पावको अद्भुतः ॥९६६॥
शुचिः पावक उच्यते सोमः सुतः स मधुमान् ।
देवावीरघशंसहा ॥९६७॥
प्र कविर्देववीतयेऽव्या वारेभिरव्यत ।
साह्वान्विश्वा अभि स्पृधः ॥९६८॥
स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति ।
पवमानः सहस्रिणं ॥९६९॥
परि विश्वानि चेतसा मृज्यसे पवसे मती ।
स नः सोम श्रवो विदः ॥९७०॥
अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिं ।
इषं स्तोतृभ्य आ भर ॥९७१॥
त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ ।
पुनानो वह्ने अद्भुत ॥९७२॥
स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः ।
सोमश्चमूषु सीदति ॥९७३॥
क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि ।
दधत्स्तोत्रे सुवीर्यं ॥९७४॥
यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव ।
विश्वा च सोम सौभगा ॥९७५॥
इन्दो यथा तव स्तवो यथा ते जातमन्धसः ।
नि बर्हिषि प्रिये सदः ॥९७६॥
उत नो गोविदश्ववित्पवस्व सोमान्धसा ।
मक्षूतमेभिरहभिः ॥९७७॥
यो जिनाति न जीयते हन्ति शत्रुमभीत्य ।
स पवस्व सहस्रजित्॥९७८॥
यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये ।
ताभिः पवित्रमासदः ॥९७९॥
सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया ।
सीदन्नृतस्य योनिमा ॥९८०॥
त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः ।
वरिवोविद्धृतं पयः ॥९८१॥
तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः ।
यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ॥९८२॥
वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।
आ ते यतन्ते रथ्यो३ यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः ॥९८३॥
मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिं ।
त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत्॥९८४॥
पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।
मित्र वंसि वां सुमतिं ॥९८५॥
ता वां सम्यगद्रुह्वाणेषमश्याम धाम च ।
वयं वां मित्रा स्याम ॥९८६॥
पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा ।
साह्याम दस्यूं तनूभिः ॥९८७॥
उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः ।
सोममिन्द्र चमूसुतं ॥९८८॥
अनु त्वा रोदसी उभे स्पर्धमानमददेतां ।
इन्द्र यद्दस्युहाभवः ॥९८९
वाचमष्टापदीमहं नवस्रक्तिमृतावृधं ।
इन्द्रात्परितन्वं ममे ॥९९०॥
इन्द्राग्नी युवामिमे३ऽभि स्तोमा अनूषत ।
पिबतं शम्भुवा सुतं ॥९९१॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
इन्द्राग्नी ताभिरा गतं ॥९९२॥
ताभिरा गच्छतं नरोपेदं सवनं सुतं ।
इन्द्राग्नी सोमपीतये ॥९९३॥
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
सीदन्योनौ योनेष्वा ॥९९४॥
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमा अर्षन्तु विष्णवे ॥९९५॥
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणं ॥९९६॥
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।
अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥९९७॥
अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥९९८॥
यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु ।
तन्नः पुनान आ भर ॥९९९॥
वृषा पुनान आयुंषि स्तनयन्नधि बर्हिषि ।
हरिः सन्योनिमासदः ॥१०००॥
युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती ।
ईशाना पिप्यतं धियः ॥१००१॥
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत्॥१००२॥
असि हि वीर सेन्योऽसि भूरि पराददिः ।
असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥१००३॥
यदुदीरत आजयो धृष्णवे धीयते धनां ।
युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥१००४॥
स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यं ॥१००५॥
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यं ॥१००६॥
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यं ॥१००७॥
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
श्येनो न योनिमासदत॥१००८॥
शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतं ।
स्वदन्ति गावः पयोभिः ॥१००९॥
आदीमश्वं न हेतारमशूशुभन्नमृताय ।
मधो रसं सधमादे ॥१०१०॥
अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुं ।
वि कोशं मध्यमं युव ॥१०११॥
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।
वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ॥१०१२॥
प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।
विश्वा परि प्रिया भुवदध द्विता ॥१०१३॥
उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदं ।
यज्ञस्य सप्त धामभिरध प्रियं ॥१०१४॥
त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिं ।
मिमीते अस्य योजना वि सुक्रतुः ॥१०१५॥
पवस्व वाजसातये पवित्रे धारया सुतः ।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ॥१०१६॥
त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः ।
वत्सं जातं न मातरः पवमान विधर्मणि ॥१०१७॥
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥१०१८॥
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥१०१९॥
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।
इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥१०२०॥
अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् ।
इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥१०२१॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरं ।
युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥१०२२॥
आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते ।
सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥१०२३॥
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि ।
उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ॥१०२४॥
इन्द्राय साम गायत विप्राय बृहते बृहत् ।
ब्रह्माकृते विपश्चिते पनस्यवे ॥१०२५॥
त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
विश्वकर्मा विश्वदेवो महां असि ॥१०२६॥
विभ्राजं ज्योतिषा त्व३रगच्छो रोचनं दिवः ।
देवास्त इन्द्र सख्याय येमिरे ॥१०२७॥
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥१०२८॥
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥१०२९॥
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसं ।
ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणां ॥१०३०॥
 

इति तृतीयप्रपाठके द्वितीयोऽर्धः  तृतीयः प्रपाठकश्च समाप्तः
इति षष्ठोऽध्यायः

 
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें 
 
सामवेद संहिता- पूर्वार्चिकः

 
सामवेद संहिता- उत्तरार्चिकः

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *