सामवेद संहिता
सामवेद संहिता-उत्तरार्चिकः अष्टमप्रपाठकः (Samved Samhita Uttararchik-8)
अथ सप्तदशोऽध्यायः
अथाष्टमप्रपाठके प्रथमोऽर्धः
(ऋषि- शुनःशेप आजीगर्तिः, मधुच्छन्दा वैश्वामित्रः, शंयुर्बार्हस्पत्यः, वसिष्ठो मैत्रावरुणिः, वामदेवो गौतमः, रेभसूनू काश्यपौ, नृमेध आंगिरसः, गोषूक्त्यश्वसूक्तिनौ काण्वायनौ, श्रुतकक्षः सुकक्षो वा आङ्गिरसः, विरूप आंगिरसः, वत्सः काण्वः, | देवता- अग्निः, इन्द्रः, विष्णुः, वायु, इन्द्रवायू, पवमानः सोमः, | छन्द- गायत्री, प्रगाथः, त्रिष्टुप्, अनुष्टुप्, उष्णिक्)
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
चनो घाः सहसा यहो ॥१६१७॥
यच्चिद्धि शश्वा तना देवंदेवं यजामहे ।
त्वे इद्धूयते हविः ॥१६१८॥
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
प्रियाः स्वग्नयो वयं ॥१६१९॥
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥१६२०॥
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि ।
अस्मभ्यमप्रतिष्कुतः ॥१६२१॥
बृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
ईशानो अप्रतिष्कुतः ॥१६२२॥
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय ।
अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥१६२३॥
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः ।
अग्ने हेडांसि दैव्या युयोधि नोऽदेवानि हरांसि च ॥१६२४॥
किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥१६२५॥
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥१६२६॥
वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यं ।
वर्धन्तु त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः ॥१६२७॥
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥१६२८॥
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः ।
युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक्॥१६२९॥
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती ।
नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥१६३०॥
अध क्षपा परिष्कृतो वाजां अभि प्र गाहते ।
यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥१६३१॥
तमस्य मर्जयामसि मदो य इन्द्रपातमः ।
यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥१६३२॥
तं गाथया पुराण्या पुनानमभ्यनूषत ।
उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥१६३३॥
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
सम्राजन्तमध्वराणां ॥१६३४॥
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
मीढ्वां अस्माकं बभूयात्॥१६३५॥
स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
पाहि सदमिद्विश्वायुः ॥१६३६॥
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥१६३७॥
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥१६३८॥
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
चक्राण ओपशं दिवि ॥१६३९॥
व्या३न्तरिक्षमतिरन्मदे सोमस्य रोचना ।
इन्द्रो यदभिनद्वलं ॥१६४०॥
उदगा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः ।
अर्वाञ्चं नुनुदे वलं ॥१६४१॥
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतं ।
आ च्यावयस्यूतये ॥१६४२॥
युध्मं सन्तमनर्वाणं सोमपामनपच्युतं ।
नरमवार्यक्रतुं ॥१६४३॥
शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम ।
अवा नः पार्ये धने ॥१६४४॥
तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुं ।
वज्रं शिशाति धिषणा वरेण्यं ॥१६४५॥
तव द्यौरिन्द्र प्ॐस्यं पृथिवी वर्धति श्रवः ।
त्वामापः पर्वतासश्च हिन्विरे ॥१६४६॥
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।
त्वां शर्धो मदत्यनु मारुतं ॥१६४७॥
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
अमैरमित्रमर्दय ॥१६४८॥
कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिं ।
उरुकृदुरु णस्कृधि ॥१६४९॥
मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा ।
संवर्गं सं रयिं जय ॥१६५०॥
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
समुद्रायेव सिन्धवः ॥१६५१॥
वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना ।
वज्रेण शतपर्वणा ॥१६५२॥
ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् ।
इन्द्रश्चर्मेव रोदसी ॥१६५३॥
सुमन्मा वस्वी रन्ती सूनरी ॥१६५४॥
सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि ।
ताविमा उप सर्पतः ॥१६५५॥
नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति ।
शृङ्गेभिर्दशभिर्दिशन्॥१६५६॥
इति चतुर्थः खण्डः | इत्यष्टमप्रपाठकस्य प्रथमोऽर्धः | इति सप्तदशोऽध्यायः
अथाष्टादशोऽध्यायः
अथाष्टमप्रपाठके द्वितीयोऽर्धः
(ऋषि- मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः, श्रुतकक्षः सुकक्षो वा आङ्गिरसः, शुनःशेप आजीगर्तिः, शंयुर्बार्हस्पत्यः, मेधातिथिः, वसिष्ठो मैत्रावरुणिः, वालखिल्यम्, अम्बरिषो वार्षागिरः ऋजिश्वा भारद्वाजश्च, विश्वमना वैयश्वः, सोभरिः काण्वः, सप्तर्षयः, कलिः प्रागाथः, विश्वामित्रः प्रागाथः, मेध्यातिथिः काण्वः, निध्रुविः काश्यपः, भरद्वाजो बार्हस्पत्यः | देवता- इन्द्रः, अग्निः ५ विष्णुः, देवो वा, पवमानः सोमः, इन्द्राग्नी, | छन्द- गायत्री, प्रगाथः, अनुष्टुप्, उष्णिक्, काकुभः प्रगाथः, बृहती)
पन्यंपन्यमित्सोतार आ धावत मद्याय ।
सोमं वीराय शूराय ॥१६५७॥
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायं ।
इन्द्रं गीर्भिर्गिर्वणसं ॥१६५८॥
पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
नि यमते शतमूतिः ॥१६५९॥
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
न त्वामिन्द्राति रिच्यते ॥१६६०॥
विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।
य इन्द्र जठरेषु ते ॥१६६१॥
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
अरं धामभ्य इन्दवः ॥१६६२॥
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
स्तोमं रुद्राय दृशीकं ॥१६६३॥
स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
धिये वाजाय हिन्वतु ॥१६६४॥
स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
उक्थैरग्निर्बृहद्भानुः ॥१६६५॥
तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥१६६६॥
न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
यत्सीमुपश्रवद्गिरः ॥१६६७॥
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
शचीभिरप नो वरत्॥१६६८॥
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदं ।
समूढमस्य पांसुले ॥१६६९॥
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
अतो धर्माणि धारयन्॥१६७०॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥१६७१॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततं ॥१६७२॥
तद्विप्रासो विपन्युवो जागृवांसः समिन्धते ।
विष्णोर्यत्परमं पदं ॥१६७३॥
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
पृथिव्या अधि सानवि ॥१६७४॥
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।
आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि ॥१६७५॥
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥१६७६॥
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥१६७७॥
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यं ।
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥१६७८॥
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते देवाय सदनासदे ॥१६७९॥
तं सखायः पुरूरुचं यूयं वयं च सूरयः ।
अश्याम वाजगन्ध्यं सनेम वाजपस्त्यं ॥१६८०॥
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥१६८१॥
कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति ।
श्रद्धा इत्तेमघवन्पार्ये दिवि वाजी वाजं सिषासति ॥१६८२॥
मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥१६८३॥
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः ।
एवा हि वीर स्तवते सदावृधः ॥१६८४॥
इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिं ।
उदानंश शवसा न भन्दना ॥१६८५॥
तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
अप्रायुभिर्ज्ञेभिर्वावृधेन्यं ॥१६८६॥
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
देवत्रा हव्यमूहिषे ॥१६८७॥
विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरं ।
अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यं ॥१६८८॥
आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया ।
जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥१६८९॥
स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः ।
अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥१६९०॥
वयमेनमिदा ह्योऽपीपेमेह वज्रिणं ।
तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥१६९१॥
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥१६९२॥
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
तद्वां चेति प्र वीर्यं ॥१६९३॥
इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः ।
ऋतस्य पथ्या अनु ॥१६९४॥
इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।
युवोरप्तूर्यं हितं ॥१६९५॥
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः ॥१६९६॥
दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥१६९७॥
य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः ।
यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥१६९८॥
पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
अभि विश्वानि काव्या ॥१६९९॥
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
पृथिव्या अधि सानवि ॥१७००॥
पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
घ्नन्तो विश्वा अप द्विषः ॥१७०१॥
तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
इन्द्राग्नी वाजसातमा ॥१७०२॥
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
इन्द्राग्नी इष आ वृणे ॥१७०३॥
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं ।
साकमेकेन कर्मणा ॥१७०४॥
उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत ।
अग्ने ससृज्महे गिरः ॥१७०५॥
उप च्छायामिव घृणेरगन्म शर्म ते वयं ।
अग्ने हिरण्यसन्दृशः ॥१७०६॥
य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः ।
अग्ने पुरो रुरोजिथ ॥१७०७॥
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिं ।
अजस्रं घर्ममीमहे ॥१७०८॥
य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् ।
ऋतूनुत्सृजते वशी ॥१७०९॥
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।
सभ्राडेको वि राजति ॥१७१०॥
इति अष्टमप्रपाठके द्वितीयोऽर्धः | इत्यष्टादशोऽध्यायः
अथैकोनविंशोऽध्यायः
अथाष्टमप्रपाठके तृतीयोऽर्धः
(ऋषि- विरूप आङ्गिरसः, अवत्सारः काश्यपः, विश्वामित्रो गाथिनः, देवातिथिः काण्वः, गोतमो राहूगणः, वामदेवो गौतमः, प्रस्कण्वः काण्वः, वसुश्रुत आत्रेयः, सत्यश्रवा आत्रेयः, अवस्युरात्रेयः, बुधगविष्टिरावात्रेयौ, कुत्स आङ्गिरसः, अत्रिर्भौमः, दीर्घतमा औचथ्यः | देवता- अग्निः, पवमानः सोमः, इन्द्रः, उषाः, अश्विनौ, | छन्द- गायत्री, त्रिष्टुप्, प्रगाथः, उष्णिक्, पङ्क्तिः, जगती)
अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ं स्वां ।
कविर्विप्रेण ववृधे ॥१७११॥
ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषं ।
अस्मिन्यज्ञे स्वध्वरे ॥१७१२॥
स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।
देवैरा सत्सि बर्हिषि ॥१७१३॥
उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।
नुदस्व याः परिस्पृधः ॥१७१४॥
अया निजघ्निरोजसा रथसङ्गे धने हिते ।
स्तवा अबिभ्युषा हृदा ॥१७१५॥
अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।
रुज यस्त्वा पृतन्यति ॥१७१६॥
तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनं ।
इन्दुमिन्द्राय मत्सरं ॥१७१७॥
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव तां इहि ॥१७१८॥
वृत्रखादो वलं रुजः पुरां दर्मो अपामजः ।
स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ॥१७१९॥
गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव ।
प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥१७२०॥
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणं ।
आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥१७२१॥
मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।
आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥१७२२॥
त्वमङ्ग प्र शुंसिषो देवः शविष्ठ मर्त्यं ।
न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१७२३॥
मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥१७२४॥
प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।
दिवो अदर्शि दुहिता ॥१७२५॥
अश्वेव चित्रारुषी माता गवामृतावरी ।
सखा भूदश्विनोरुषाः ॥१७२६॥
उत सखास्यश्विनोरुत माता गवामसि ।
उतोषो वस्व ईशिषे ॥१७२७॥
एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः ।
स्तुषे वामश्विना बृहत्॥१७२८॥
या दस्रा सिन्धुमातरा मनोतरा रयीणां ।
धिया देवा वसुविदा ॥१७२९॥
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
यद्वां रथो विभिष्पतात्॥१७३०॥
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
येन तोकं च तनयं च धामहे ॥१७३१॥
उषो अद्येह गोमत्यश्वावति विभावरि ।
रेवदस्मे व्युच्छ सूनृतावति ॥१७३२॥
युङ्क्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः ।
अथा नो विश्वा सौभगान्या वह ॥१७३३॥
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।
अर्वाग्रथं समनसा नि यच्छतं ॥१७३४॥
एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी ।
उषर्बुधो वहन्तु सोमपीतये ॥१७३५॥
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
आ न ऊर्जं वहतमश्विना युवं ॥१७३६॥
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥१७३७॥
अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।
अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ॥१७३८॥
सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।
समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥१७३९॥
महे नो अद्य बोधयोषो राये दिवित्मती ।
यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१७४०॥
या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।
सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१७४१॥
सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।
यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते ॥१७४२॥
प्रति प्रियतमं रथं वृशणं वसुवाहनं ।
स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवं ॥१७४३॥
अत्यायातमश्विना तिरो विश्वा अहं सना ।
दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवं ॥१७४४॥
आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवं ।
रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवं ॥१७४५॥
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासं ।
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥१७४६॥
अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥१७४७॥
यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।
आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥१७४८॥
इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक्॥१७४९॥
रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥१७५०॥
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥१७५१॥
आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।
अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥१७५२॥
न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।
दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥१७५३॥
उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।
दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥१७५४॥
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥१७५५॥
उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥१७५६॥
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥१७५७॥
अबोध्यग्निर्ज्म उदेति सूर्यो व्यू३षाश्चन्द्रा मह्यावो अर्चिषा ।
आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक्॥१७५८॥
यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतं ।
अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥१७५९॥
अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥१७६०॥
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।
अच्छा वाजं सहस्रिणं ॥१७६१॥
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।
हरिस्तुञ्जान आयुधा ॥१७६२॥
स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।
श्येनो न वंसु षीदति ॥१७६३॥
स नो विश्वा दिवो वसूतो पृथिव्या अधि ।
पुनान इन्दवा भर ॥१७६४॥
इति अष्टमप्रपाठके तृतीयोऽर्धः अष्टमप्रपाठकश्च समासमान | इत्येकोनविंशोऽध्यायः
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें
सामवेद संहिता- पूर्वार्चिकः
सामवेद संहिता- उत्तरार्चिकः
0 comments