अथर्ववेद
अथर्ववेद संहिता- काण्डम् १ (Atharvved Kand 1)
अथर्ववेद संहिता
॥ अथ प्रथमं काण्डम् ॥
प्रथमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | वाचस्पतिर्देवता: | प्रथमादितृचस्यानुष्टुप् चतुर्थ्या ऋचश्च चतुष्पदा विरादुरोबृहती छन्दसी॥ (www.hindumantavya.blogspot.in)
ये त्रि॑षप्ता: प॑रियन्ति विश्वा॑ रूपाणि बिभ्र॑त: ।
वाचस्पतिर्बला तेषां॑ तन्वोद्ग अद्य द॑धातु मे ॥१॥
पुनरेहि॑ वचस्पते देवेन मन॑सा सह ।
वसो॑ष्पते नि र॑मय मय्येवास्तु मयि॑ श्रुतम् ॥२॥
वसो॑ष्पते नि र॑मय मय्येवास्तु मयि॑ श्रुतम् ॥२॥
इहैवाभि वि त॑नूभे आर्त्नी॑ इव ज्यया॑ ।
वाचस्पतिर्नि य॑छतु मय्येवास्तु मयि॑ श्रुतम् ॥३॥
वाचस्पतिर्नि य॑छतु मय्येवास्तु मयि॑ श्रुतम् ॥३॥
उप॑हूतो वाचस्पतिरुपास्मान्वाचस्पति॑र्ह्वयताम् ।
सं श्रुतेन॑ गमेमहि मा श्रुतेन वि रा॑धिषि ॥४॥
सं श्रुतेन॑ गमेमहि मा श्रुतेन वि रा॑धिषि ॥४॥
द्वितीयं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा: पर्जन्यश्च देवता: | प्रथमाद्वितीयाचतुर्थीनामृचामनुष्टुप् तृतीयायाश्च त्रिपदा विराड्गायत्री छन्दसी॥ (www.hindumantavya.blogspot.in)
विद्मा शरस्य॑ पितरं॑ पर्जन्यं भूरि॑धायसम् ।
विद्मो ष्व॑स्य मातरं॑ पृथिवीं भूरि॑वर्पसम् ॥१॥
ज्याद्गके परि॑ णो नमाश्मा॑नं तन्वंद्ग कृधि ।
वीडुर्वरीयोऽरा॑तीरप द्वेषांस्या कृ॑धि ॥२॥
वीडुर्वरीयोऽरा॑तीरप द्वेषांस्या कृ॑धि ॥२॥
वृक्षं यद्गाव॑: परिषस्वजाना अ॑नुस्फुरं शरं अर्च॑न्त्यृभुम् ।
शरु॑मस्मद्या॑वय दिद्युमि॑न्द्र ॥३॥
शरु॑मस्मद्या॑वय दिद्युमि॑न्द्र ॥३॥
यथा द्यां च॑ पृथिवीं चान्तस्तिष्ठ॑ति तेज॑नम् ।
एवा रोगं॑ चास्रावं चान्तस्ति॑ष्ठतु मुञ्ज इत् ॥४॥
एवा रोगं॑ चास्रावं चान्तस्ति॑ष्ठतु मुञ्ज इत् ॥४॥
तृतीयं सूक्तम्» नवर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता: सर्वा देवता: | प्रथमादिपञ्चर्चा पथ्यापङ्क्ति: षष्ठ्यादिचतसृणाञ्चानुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)
विद्मा शरस्य॑ पितरं॑ पर्जन्यं॑ शतवृ॑ष्ण्यं ।
तेना॑ ते तन्वे३ शं क॑रं पृथिव्यां ते॑ निषेच॑नं बहिष्टे॑ अस्तु बालिति॑ ॥१॥
विद्मा शरस्य॑ पितरं॑ मित्रं शतवृ॑ष्ण्यं ।
तेना॑ ते तन्वे३ शं क॑रं पृथिव्यां ते॑ निषेच॑नं बहिष्टे॑ अस्तु बालिति॑ ॥२॥
तेना॑ ते तन्वे३ शं क॑रं पृथिव्यां ते॑ निषेच॑नं बहिष्टे॑ अस्तु बालिति॑ ॥२॥
विद्मा शरस्य॑ पितरं वरु॑णं शतवृ॑ष्ण्यं ।
तेना॑ ते तन्वे३ शं क॑रं पृथिव्यां ते॑ निषेच॑नं बहिष्टे॑ अस्तु बालिति॑ ॥३॥
तेना॑ ते तन्वे३ शं क॑रं पृथिव्यां ते॑ निषेच॑नं बहिष्टे॑ अस्तु बालिति॑ ॥३॥
विद्मा शरस्य॑ पितरं॑ चन्द्रं शतवृ॑ष्ण्यं ।
तेना॑ ते तन्वे३ शं क॑रं पृथिव्यां ते॑ निषेच॑नं बहिष्टे॑ अस्तु बालिति॑ ॥४॥
तेना॑ ते तन्वे३ शं क॑रं पृथिव्यां ते॑ निषेच॑नं बहिष्टे॑ अस्तु बालिति॑ ॥४॥
विद्मा शरस्य॑ पितरं सूर्यं॑ शतवृ॑ष्ण्यं ।
तेना॑ ते तन्वे३ शं क॑रं पृथिव्यां ते॑ निषेच॑नं बहिष्टे॑ अस्तु बालिति॑ ॥५॥
तेना॑ ते तन्वे३ शं क॑रं पृथिव्यां ते॑ निषेच॑नं बहिष्टे॑ अस्तु बालिति॑ ॥५॥
यदान्त्रेषु॑ गवीन्योर्यद्वस्तावधि संश्रि॑तम् ।
एवा ते मूत्रं॑ मुच्यतां बहिर्बालिति॑ सर्वकम् ॥६॥
एवा ते मूत्रं॑ मुच्यतां बहिर्बालिति॑ सर्वकम् ॥६॥
प्र ते॑ भिनद्मि मेह॑नं वर्त्रं॑ वेशन्त्या इ॑व ।
एवा ते मूत्रं॑ मुच्यतां बहिर्बालिति॑ सर्वकम् ॥७॥
एवा ते मूत्रं॑ मुच्यतां बहिर्बालिति॑ सर्वकम् ॥७॥
विषि॑तं ते वस्तिबिलं स॑मुद्रस्यो॑दधेरि॑व ।
एवा ते मूत्रं॑ मुच्यतां बहिर्बालिति॑ सर्वकम् ॥८॥
एवा ते मूत्रं॑ मुच्यतां बहिर्बालिति॑ सर्वकम् ॥८॥
यथे॑षुका पराप॑तदव॑सृष्टाधि धन्व॑न: ।
एवा ते मूत्रं॑ मुच्यतां बहिर्बालिति॑ सर्वकम् ॥९॥
एवा ते मूत्रं॑ मुच्यतां बहिर्बालिति॑ सर्वकम् ॥९॥
चतुर्थं सूक्तम्» चतुरृचस्यास्य सूक्तस्य सिन्धुद्वीप ऋषि: | अपांनपात् सोम आपश्च देवता: | प्रथमादितृषस्य गायत्री चतुर्थ्या ऋचश्च पुरस्ताद्बृहती छन्द:॥ (www.hindumantavya.blogspot.in)
अम्बयो॑ यन्त्यध्व॑भिर्जामयो॑ अध्वरीयताम् ।
पृञ्चतीर्मधु॑ना पय॑: ॥१॥
अमूर्या उप सूर्ये याभि॑र्वा सूर्य॑: सह ।
ता नो॑ हिन्वन्त्वध्वरम् ॥२॥
ता नो॑ हिन्वन्त्वध्वरम् ॥२॥
अपो देवीरुप॑ ह्वये यत्र गाव: पिब॑न्ति न: ।
सिन्धु॑भ्य: कर्त्वं॑ हवि: ॥३॥
सिन्धु॑भ्य: कर्त्वं॑ हवि: ॥३॥
अप्स्वन्तरमृत॑मप्सु भे॑षजम् ।
अपामुत प्रश॑स्तिभिरश्वा भव॑थ वाजिनो गावो॑ भवथ वाजिनी॑: ॥४॥
अपामुत प्रश॑स्तिभिरश्वा भव॑थ वाजिनो गावो॑ भवथ वाजिनी॑: ॥४॥
पञ्चमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य सिन्धुद्वीप ऋषि: | अपांनपात् सोम आपश्च देवता: | गायत्री छन्द:॥ (www.hindumantavya.blogspot.in)
आपो हि ष्ठा म॑योभुवस्ता न॑ ऊर्जे द॑धातन ।
महे रणा॑य चक्ष॑से ॥१॥
यो व॑: शिवत॑मो रसस्तस्य॑ भाजयतेह न॑: ।
उशतीरि॑व मातर॑: ॥२॥
उशतीरि॑व मातर॑: ॥२॥
तस्मा अरं॑ गमाम वो यस्य क्षया॑य जिन्व॑थ ।
आपो॑ जनय॑था च न: ॥३॥
आपो॑ जनय॑था च न: ॥३॥
ईशा॑ना वार्या॑णां क्षय॑न्तीश्चर्षणीनाम् ।
अपो या॑चामि भेषजम् ॥४॥
अपो या॑चामि भेषजम् ॥४॥
षष्ठं सूक्तम्» चतुरृचस्यास्य सूक्तस्य सिन्धुद्वीपोऽथर्वा वा ऋषि: | अपांनपात् सोम आपश्च देवता: | प्रथमादितृचस्य गायत्री चतुर्थ्या ऋचश्च पथ्यापङ्क्तिश्छन्दसी॥ (www.hindumantavya.blogspot.in)
शं नो॑ देवीरभिष्ट॑य आपो॑ भवन्तु पीतये॑ ।
शं योरभि स्र॑वन्तु न: ॥१॥
अप्सु मे सोमो॑ अब्रवीदन्तर्विश्वा॑नि भेषजा ।
अग्निं च॑ विश्वशं॑भुवम् ॥२॥
अग्निं च॑ विश्वशं॑भुवम् ॥२॥
आप॑: पृणीत भे॑षजं वरू॑थं तन्वे३ मम॑ ।
ज्योक्च सूर्यं॑ दृशे ॥३॥
ज्योक्च सूर्यं॑ दृशे ॥३॥
शं न आपो॑ धन्वन्या३ शमु॑ सन्त्वनूप्याद्ग: ।
शं न॑: खनित्रिमा आप: शमु या: कुम्भ आभृ॑ता: ।
शिवा न॑: सन्तु वार्षि॑की: ॥४॥
शं न॑: खनित्रिमा आप: शमु या: कुम्भ आभृ॑ता: ।
शिवा न॑: सन्तु वार्षि॑की: ॥४॥
सप्तमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य चातन ऋषि: | प्रथमाद्वितीययोरृचोस्तृतीयापूर्वार्द्धस्य चतुर्थ्यादिचतसृणाञ्चाग्नि: तृतीयाया उत्तरार्धस्य चाग्नीन्द्रौ देवता: | प्रथमादिचतुरृचां षष्ठीसप्तम्योश्चानुष्टुप् पञ्चम्याश्च त्रिष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)
स्तुवानम॑ग्न आ व॑ह यातुधानं॑ किमीदिन॑म् ।
त्वं हि दे॑व वन्दितो हन्ता दस्यो॑र्बभूवि॑थ ॥१॥
आज्य॑स्य परमेष्ठिन्जात॑वेदस्तनू॑वशिन् ।
अग्ने॑ तौलस्य प्राशा॑न यातुधानान्वि ला॑पय ॥२॥
अग्ने॑ तौलस्य प्राशा॑न यातुधानान्वि ला॑पय ॥२॥
वि ल॑पन्तु यातुधाना॑ अत्त्रिणो ये कि॑मीदिन॑: ।
अथेदम॑ग्ने नो हविरिन्द्र॑श्च प्रति॑ हर्यतम् ॥३॥
अथेदम॑ग्ने नो हविरिन्द्र॑श्च प्रति॑ हर्यतम् ॥३॥
अग्नि: पूर्व आ र॑भतां प्रेन्द्रो॑ नुदतु बाहुमान् ।
ब्रवी॑तु सर्वो॑ यातुमानयमस्मीत्येत्य॑ ॥४॥
ब्रवी॑तु सर्वो॑ यातुमानयमस्मीत्येत्य॑ ॥४॥
पश्या॑म ते वीर्यंद्ग जातवेद: प्र णो॑ ब्रूहि यातुधाना॑न्नृचक्ष: ।
त्वया सर्वे परि॑तप्ता: पुरस्तात्त आ य॑न्तु प्रब्रुवाणा उपेदम् ॥५॥
त्वया सर्वे परि॑तप्ता: पुरस्तात्त आ य॑न्तु प्रब्रुवाणा उपेदम् ॥५॥
आ र॑भस्व जातवेदोऽस्माकार्था॑य जज्ञिषे ।
दूतो नो॑ अग्ने भूत्वा या॑तुधानान्वि ला॑पय ॥६॥
दूतो नो॑ अग्ने भूत्वा या॑तुधानान्वि ला॑पय ॥६॥
त्वम॑ग्ने यातुधानानुप॑बद्धाँ इहा व॑ह ।
अथै॑षामिन्द्रो वज्रेणापि॑ शीर्षाणि॑ वृश्चतु ॥७॥
अथै॑षामिन्द्रो वज्रेणापि॑ शीर्षाणि॑ वृश्चतु ॥७॥
अष्टमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य चातन ऋषि: | प्रथमाद्वितीययोरृचोर्बृहस्पतिरग्नीषोमौ च तृतीयाचतुर्थ्योश्चाग्निर्देवता: | प्रथमादितृचस्यानुष्टुप् चतुर्थ्याश्च बार्हतगर्भा त्रिष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)
इदं हविर्या॑तुधाना॑न्नादी फेन॑मिव आ व॑हत् ।
य इदं स्त्री पुमानक॑रिह स स्तु॑वतां जन॑: ॥१॥
अयं स्तु॑वान आग॑मदिमं स्म प्रति॑ हर्यत ।
बृह॑स्पते वशे॑ लब्ध्वाग्नी॑षोमा वि वि॑ध्यतम् ॥२॥
बृह॑स्पते वशे॑ लब्ध्वाग्नी॑षोमा वि वि॑ध्यतम् ॥२॥
यातुधान॑स्य सोमप जहि प्रजां नय॑स्व च ।
नि स्तु॑वानस्य॑ पातय परमक्ष्युताव॑रम् ॥३॥
नि स्तु॑वानस्य॑ पातय परमक्ष्युताव॑रम् ॥३॥
यत्रै॑षामग्ने जनि॑मानि वेत्थ गुहा॑ सतामत्त्रिणां॑ जातवेद: ।
तांस्त्वं ब्रह्म॑णा वावृधानो जह्येद्गषां शततर्ह॑मग्ने ॥४॥
तांस्त्वं ब्रह्म॑णा वावृधानो जह्येद्गषां शततर्ह॑मग्ने ॥४॥
नवमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमाद्वितीययोरृचोरग्निपुरोगमा यस्यादयो मन्त्रोक्ता: तृतीयाचतुर्थ्योश्चाग्निर्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)
अस्मिन्वसु वस॑वो धारयन्त्विन्द्र॑: पूषा वरु॑णो मित्रो अग्नि: ।
इममा॑दित्या उत विश्वे॑ च देवा उत्त॑रस्मिन्ज्योति॑षि धारयन्तु ॥१॥
अस्य दे॑वा: प्रदिशि ज्योति॑रस्तु सूर्यो॑ अग्निरुत वा हिर॑ण्यम् ।
सपत्ना॑ अस्मदध॑रे भवन्तूत्तमं नाकमधि॑ रोहयेमम् ॥२॥
सपत्ना॑ अस्मदध॑रे भवन्तूत्तमं नाकमधि॑ रोहयेमम् ॥२॥
येनेन्द्रा॑य समभ॑र: पयां॑स्युत्तमेन ब्रह्म॑णा जातवेद: ।
तेन त्वम॑ग्न इह व॑र्धयेमं स॑जातानां श्रैष्ठ्य आ धे॑ह्येनम् ॥३॥
तेन त्वम॑ग्न इह व॑र्धयेमं स॑जातानां श्रैष्ठ्य आ धे॑ह्येनम् ॥३॥
ऐषां॑ यज्ञमुत वर्चो॑ ददेऽहं रायस्पोष॑मुत चित्तान्य॑ग्ने ।
सपत्ना॑ अस्मदध॑रे भवन्तूत्तमं नाकमधि॑ रोहयेमम् ॥४॥
सपत्ना॑ अस्मदध॑रे भवन्तूत्तमं नाकमधि॑ रोहयेमम् ॥४॥
दशमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमर्चोऽसुर: द्वितीयादितृचस्य च वरुणो देवता: | प्रथमाद्वितीययोस्त्रिष्टुप् तृतीयाया: ककुम्मत्यनुष्टुप् चतुर्थ्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
अयं देवानामसु॑रो वि रा॑जति वशा हि सत्या वरु॑णस्य राज्ञ॑: ।
ततस्परि ब्रह्म॑णा शाश॑दान उग्रस्य॑ मन्योरुदिमं न॑यामि ॥१॥
नम॑स्ते रजन्वरुणास्तु मन्यवे विश्वं ह्युद्गग्र निचिकेषि॑ द्रुग्धम् ।
सहस्र॑मन्यान्प्र सु॑वामि साकं शतं जी॑वाति शरदस्तवायम् ॥२॥
सहस्र॑मन्यान्प्र सु॑वामि साकं शतं जी॑वाति शरदस्तवायम् ॥२॥
यदुवक्थानृ॑तम्जिह्वया॑ वृजिनं बहु ।
राज्ञ॑स्त्वा सत्यध॑र्मणो मुञ्चामि वरु॑णादहम् ॥३॥
मुञ्चामि॑ त्वा वैश्वानराद॑र्णवान्म॑हतस्परि॑ ।
सजातानु॑ग्रेहा व॑द ब्रह्म चाप॑ चिकीहि न: ॥४॥
मुञ्चामि॑ त्वा वैश्वानराद॑र्णवान्म॑हतस्परि॑ ।
सजातानु॑ग्रेहा व॑द ब्रह्म चाप॑ चिकीहि न: ॥४॥
एकादशं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: | पूषादयो देवता: | प्रथमर्च: पङ्क्ति: द्वितीयाया अनुष्टुप् तृतीयायाश्चतुष्पदोष्णिग्गर्भा ककुम्मत्यनुष्टुप् चतुर्थ्यादितृचस्य च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
वष॑ट्ते पूषन्नस्मिन्त्सूता॑वर्यमा होता॑ कृणोतु वेधा: ।
सिस्र॑तां नार्यृतप्र॑जाता वि पर्वा॑णि जिहतां सूतवा उ॑ ॥१॥
चत॑स्रो दिव: प्रदिशश्चत॑स्रो भूम्या॑ उत ।
देवा गर्भं समै॑रयन्तं व्यू॑र्णुवन्तु सूत॑वे ॥२॥
देवा गर्भं समै॑रयन्तं व्यू॑र्णुवन्तु सूत॑वे ॥२॥
सूषा व्यू॑र्णोतु वि योनिं॑ हापयामसि ।
श्रथया॑ सूषणे त्वमव त्वं बि॑ष्कले सृज ॥३॥
श्रथया॑ सूषणे त्वमव त्वं बि॑ष्कले सृज ॥३॥
नेव॑ मांसे न पीव॑सि नेव॑ मज्जस्वाह॑तम् ।
अवै॑तु पृश्नि शेव॑लं सुने॑ जराय्वत्तवेऽव॑ जरायु॑ पद्यताम् ॥४॥
अवै॑तु पृश्नि शेव॑लं सुने॑ जराय्वत्तवेऽव॑ जरायु॑ पद्यताम् ॥४॥
वि ते॑ भिनद्मि मेह॑नं वि योनिं वि गवीनि॑के ।
वि मातरं॑ च पुत्रं च वि कु॑मारं जरायुणाव॑ जरायु॑ पद्यताम् ॥५॥
वि मातरं॑ च पुत्रं च वि कु॑मारं जरायुणाव॑ जरायु॑ पद्यताम् ॥५॥
यथा वातो यथा मनो यथा पत॑न्ति पक्षिण॑: ।
एवा त्वं द॑शमास्य साकं जरायु॑णा पताव॑ जरायु॑ पद्यताम् ॥६॥
एवा त्वं द॑शमास्य साकं जरायु॑णा पताव॑ जरायु॑ पद्यताम् ॥६॥
द्वादशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | यक्ष्मनाशनरूपोऽर्थो देवता: | प्रथमर्चो जगती द्वितीयातृतीययोस्त्रिष्टुप् चतुर्थ्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
जरायुज: प्र॑थम उस्रियो वृषा वात॑भ्रजा स्तनय॑न्नेति वृष्ट्या ।
स नो॑ मृडाति तन्वद्ग ऋजुगो रुजन्य एकमोज॑स्त्रेधा वि॑चक्रमे ॥१॥
अङ्गे॑अङ्गे शोचिषा॑ शिश्रियाणं न॑मस्यन्त॑स्त्वा हविषा॑ विधेम ।
अङ्कान्त्स॑मङ्कान्हविषा॑ विधेम यो अग्र॑भीत्पर्वा॑स्या ग्रभी॑ता ॥२॥
अङ्कान्त्स॑मङ्कान्हविषा॑ विधेम यो अग्र॑भीत्पर्वा॑स्या ग्रभी॑ता ॥२॥
मुञ्च शी॑र्षक्त्या उत कास ए॑नं परु॑ष्परुराविवेशा यो अ॑स्य ।
यो॑ अ॑भ्रजा वा॑तजा यश्च शुष्मो वनस्पती॑न्त्सचतां पर्व॑तांश्च ॥३॥
यो॑ अ॑भ्रजा वा॑तजा यश्च शुष्मो वनस्पती॑न्त्सचतां पर्व॑तांश्च ॥३॥
शं मे पर॑स्मै गात्रा॑य शमस्त्वव॑राय मे ।
शं मे॑ चतुर्भ्यो अङ्गे॑भ्य: शम॑स्तु तन्वे३ मम॑ ॥४॥
शं मे॑ चतुर्भ्यो अङ्गे॑भ्य: शम॑स्तु तन्वे३ मम॑ ॥४॥
त्रयोदशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | विद्युद्देवता: | प्रथमाद्वितीययोरृचोरनुष्टुप् तृतीयायाश्चतुष्पाद्विराड् जगती चतुर्थ्याश्च त्रिष्टुप्परा बृहतीगर्भा पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
नम॑स्ते अस्तु विद्युते नम॑स्ते स्तनयित्नवे॑ ।
नम॑स्ते अस्त्वश्म॑ने येना॑ दूडाशे अस्य॑सि ॥१॥
नम॑स्ते प्रवतो नपाद्यतस्तप॑: समूह॑सि ।
मृडया॑ नस्तनूभ्यो मय॑स्तोकेभ्य॑स्कृधि ॥२॥
मृडया॑ नस्तनूभ्यो मय॑स्तोकेभ्य॑स्कृधि ॥२॥
प्रव॑तो नपान्नम॑ एवास्तु तुभ्यं नम॑स्ते हेतये तपु॑षे च कृण्म: ।
विद्म ते धाम॑ परमं गुहा यत्स॑मुद्रे अन्तर्निहि॑तासि नाभि॑: ॥३॥
विद्म ते धाम॑ परमं गुहा यत्स॑मुद्रे अन्तर्निहि॑तासि नाभि॑: ॥३॥
यां त्वा॑ देवा असृ॑जन्त विश्व इषुं॑ कृण्वाना अस॑नाय धृष्णुम् ।
सा नो॑ मृड विदथे॑ गृणाना तस्यै॑ ते नमो॑ अस्तु देवि ॥४॥
सा नो॑ मृड विदथे॑ गृणाना तस्यै॑ ते नमो॑ अस्तु देवि ॥४॥
चतुर्दशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | वरुणो यमो वा देवता: | प्रथमर्च: ककुम्मत्यनुष्टुप् द्वितीयाचतुर्थ्योरनुष्टुप् तृतीयायाश्च चतुष्पाद्विराडनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
भग॑मस्या वर्च आदिष्यधि॑ वृक्षादि॑व स्रज॑म् ।
महाबु॑ध्न इव पर्व॑तो ज्योक्पितृष्वा॑स्ताम् ॥१॥
एषा ते॑ राजन्कन्याद्ग वधूर्नि धू॑यताम्यम ।
सा मातुर्ब॑ध्यतां गृहेऽथो भ्रातुरथो॑ पितु: ॥२॥
सा मातुर्ब॑ध्यतां गृहेऽथो भ्रातुरथो॑ पितु: ॥२॥
एषा ते॑ कुलपा रा॑जन्तामु॑ ते परि॑ दद्मसि ।
ज्योक्पितृष्वा॑साता आ शीर्ष्ण: शमोप्या॑त् ॥३॥
ज्योक्पितृष्वा॑साता आ शीर्ष्ण: शमोप्या॑त् ॥३॥
असि॑तस्य ते ब्रह्म॑णा कश्यप॑स्य गय॑स्य च ।
अन्त:कोशमि॑व जामयोऽपि॑ नह्यामि ते भग॑म् ॥४॥
अन्त:कोशमि॑व जामयोऽपि॑ नह्यामि ते भग॑म् ॥४॥
पञ्चदशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | प्रथमर्चो भुरिग्बृहती द्वितीयाया: पथ्यापङ्क्ति: तृतीयाचतुर्थ्योश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
सं सं स्र॑वन्तु सिन्ध॑व: सं वाता: सं प॑तत्रिण॑: ।
इमं यज्ञं प्रदिवो॑ मे जुषन्तां संस्राव्येद्गण हविषा॑ जुहोमि ॥१॥
इहैव हवमा या॑त म इह सं॑स्रावणा उतेमं व॑र्धयता गिर: ।
इहैतु सर्वो य: पशुरस्मिन्ति॑ष्ठतु या रयि: ॥२॥
इहैतु सर्वो य: पशुरस्मिन्ति॑ष्ठतु या रयि: ॥२॥
ये नदीनां॑ संस्रवन्त्युत्सा॑स: सदमक्षि॑ता: ।
तेभि॑र्मे सर्वै॑: संस्रावैर्धनं सं स्रा॑वयामसि ॥३॥
तेभि॑र्मे सर्वै॑: संस्रावैर्धनं सं स्रा॑वयामसि ॥३॥
ये सर्पिष॑: संस्रव॑न्ति क्षीरस्य॑ चोदकस्य॑ च ।
तेभि॑र्मे सर्वै॑: संस्रावैर्धनं सं स्रा॑वयामसि ॥४॥
तेभि॑र्मे सर्वै॑: संस्रावैर्धनं सं स्रा॑वयामसि ॥४॥
षोडशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य चातन ऋषि: | मन्त्रोक्ता अग्नीन्द्रवरुणा देवता: | प्रथमादितृचस्यानुष्टुप् चतुर्थ्याश्च ककुम्मत्यनुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)
येद्गऽमावास्या३ रात्रि॑मुदस्थु॑र्व्राजमत्त्रिण॑: ।
अग्निस्तुरीयो॑ यातुहा सो अस्मभ्यमधि॑ ब्रवत् ॥१॥
सीसायाध्या॑ह वरु॑ण: सीसा॑याग्निरुपा॑वति ।
सीसं॑ म इन्द्र: प्राय॑च्छत्तदङ्ग या॑तुचात॑नम् ॥२॥
सीसं॑ म इन्द्र: प्राय॑च्छत्तदङ्ग या॑तुचात॑नम् ॥२॥
इदं विष्क॑न्धं सहत इदं बा॑धते अत्त्रिण॑: ।
अनेन विश्वा॑ ससहे या जातानि॑ पिशाच्या: ॥३॥
अनेन विश्वा॑ ससहे या जातानि॑ पिशाच्या: ॥३॥
यदि॑ नो गां हंसि यद्यश्वं यदि पूरु॑षम् ।
तं त्वा सीसे॑न विध्यामो यथा नोऽसो अवी॑रहा ॥४॥
तं त्वा सीसे॑न विध्यामो यथा नोऽसो अवी॑रहा ॥४॥
सप्तदशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ता लोहितवाससो योषितो देवता: | प्रथमर्चो भुरिगनुष्टुप् द्वितीयातृतीययोरनुष्टुप् चतुर्थ्याश्च त्रिपदार्षी गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
अमूर्या यन्ति॑ योषितो॑ हिरा लोहि॑तवासस: ।
अभ्रात॑र इव जामयस्तिष्ठ॑न्तु हतव॑र्चस: ॥१॥
तिष्ठा॑वरे तिष्ठ॑ पर उत त्वं ति॑ष्ठ मध्यमे ।
कनिष्ठिका च तिष्ठ॑ति तिष्ठादिद्धमनि॑र्मही ॥२॥
कनिष्ठिका च तिष्ठ॑ति तिष्ठादिद्धमनि॑र्मही ॥२॥
शतस्य॑ धमनी॑नां सहस्र॑स्य हिराणा॑म् ।
अस्थुरिन्म॑ध्यमा इमा: साकमन्ता॑ अरंसत ॥३॥
अस्थुरिन्म॑ध्यमा इमा: साकमन्ता॑ अरंसत ॥३॥
परि॑ व: सिक॑तावती धनूर्बृ॑हत्यद्गक्रमीत् ।
तिष्ठ॑तेलय॑ता सु क॑म् ॥४॥
तिष्ठ॑तेलय॑ता सु क॑म् ॥४॥
अष्टादशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य द्रविणोदा ऋषि: | विनायको देवता: | प्रथमर्च उपरिष्टाद्विराड्बृहती द्वितीयाया निचृज्जगती तृतीयाया विराडास्तारपङ्क्तिस्त्रिष्टुप् चतुर्थ्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
निर्लक्ष्म्यंद्ग ललाम्यं निररा॑तिं सुवामसि ।
अथ या भद्रा तानि॑ न: प्रजाया अरा॑तिं नयामसि ॥१॥
निरर॑णिं सविता सा॑विषक्पदोर्निर्हस्त॑योर्वरु॑णो मित्रो अ॑र्यमा ।
निरस्मभ्यमनु॑मती ररा॑णा प्रेमां देवा अ॑साविषु: सौभ॑गाय ॥२॥
निरस्मभ्यमनु॑मती ररा॑णा प्रेमां देवा अ॑साविषु: सौभ॑गाय ॥२॥
यत्त॑ आत्मनि॑ तन्वांद्ग घोरमस्ति यद्वा केशे॑षु प्रतिचक्ष॑णे वा ।
सर्वं तद्वाचाप॑ हन्मो वयं देवस्त्वा॑ सविता सू॑दयतु ॥३॥
सर्वं तद्वाचाप॑ हन्मो वयं देवस्त्वा॑ सविता सू॑दयतु ॥३॥
रिश्य॑पदीं वृष॑दतीं गोषेधां वि॑धमामुत ।
विलीढ्यंद्ग ललाम्यं॑ ता अस्मन्ना॑शयामसि ॥४॥
विलीढ्यंद्ग ललाम्यं॑ ता अस्मन्ना॑शयामसि ॥४॥
एकोनविंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | प्रथमर्च इन्द्र: द्वितीयाया मनुष्येषव: तृतीयाया रुद्र: चतुर्थ्याश्च विश्वे देवा देवता: | प्रथमाचतुर्थ्योरनुष्टुप् द्वितीयाया: पुरस्ताद्बृहती तृतीयायाश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
मा नो॑ विदन्विव्याधिनो मो अ॑भिव्याधिनो॑ विदन् ।
आराच्छ॑रव्याद्ग अस्मद्विषू॑चीरिन्द्र पातय ॥१॥
विष्व॑ञ्चो अस्मच्छर॑व: पतन्तु ये अस्ता ये चास्याद्ग: ।
दैवी॑र्मनुष्येसवो ममामित्रान्वि वि॑ध्यत ॥२॥
दैवी॑र्मनुष्येसवो ममामित्रान्वि वि॑ध्यत ॥२॥
यो न: स्वो यो अर॑ण: सजात उत निष्ट्यो यो अस्माँ अ॑भिदास॑ति ।
रुद्र: श॑रव्यद्गयैतान्ममामित्रान्वि वि॑ध्यतु ॥३॥
रुद्र: श॑रव्यद्गयैतान्ममामित्रान्वि वि॑ध्यतु ॥३॥
य: सपत्नो योऽस॑पत्नो यश्च॑ द्विषन्छपा॑ति न: ।
देवास्तं सर्वे॑ धूर्वन्तु ब्रह्म वर्म ममान्त॑रम् ॥४॥
देवास्तं सर्वे॑ धूर्वन्तु ब्रह्म वर्म ममान्त॑रम् ॥४॥
विंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमर्च: सोमो मरुतश्च द्वितीयाया मित्रावरुणौ तृतीयाया वरुण: चतुर्थ्याश्चेन्द्रो देवता: | प्रथमायास्त्रिष्टुप् द्वितीयादितृचस्य चानुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)
अदा॑रसृद्भवतु देव सोमास्मिन्यज्ञे म॑रुतो मृडता॑ न: ।
मा नो॑ विददभिभा मो अश॑स्तिर्मा नो॑ विदद्वृजिना द्वेष्या या ॥१॥
यो अद्य सेन्यो॑ वधोद्गऽघायूना॑मुदीर॑ते ।
युवं तं मि॑त्रावरुणावस्मद्या॑वयतं परि॑ ॥२॥
युवं तं मि॑त्रावरुणावस्मद्या॑वयतं परि॑ ॥२॥
इतश्च यदमुत॑श्च यद्वधं व॑रुण यावय ।
वि महच्छर्म॑ यच्छ वरी॑यो यावया वधम् ॥३॥
वि महच्छर्म॑ यच्छ वरी॑यो यावया वधम् ॥३॥
शास इत्था महाँ अ॑स्यमित्रसाहो अ॑स्तृत: ।
न यस्य॑ हन्यते सखा न जीयते॑ कदा चन ॥४॥
न यस्य॑ हन्यते सखा न जीयते॑ कदा चन ॥४॥
एकविंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | इन्द्रो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)
स्वस्तिदा विशां पति॑र्वृत्रहा वि॑मृधो वशी ।
वृषेन्द्र॑: पुर ए॑तु न: सोमपा अ॑भयंकर: ॥१॥
वि न॑ इन्द्र मृधो॑ जहि नीचा य॑छ पृतन्यत: ।
अधमं ग॑मया तमो यो अस्माँ अ॑भिदास॑ति ॥२॥
अधमं ग॑मया तमो यो अस्माँ अ॑भिदास॑ति ॥२॥
वि रक्षो वि मृधो॑ जहि वि वृत्रस्य हनू॑ रुज ।
वि मन्युमि॑न्द्र वृत्रहन्नमित्र॑स्याभिदास॑त: ॥३॥
वि मन्युमि॑न्द्र वृत्रहन्नमित्र॑स्याभिदास॑त: ॥३॥
अपे॑न्द्र द्विषतो मनोऽप जिज्या॑सतो वधम् ।
वि महच्छर्म॑ यच्छ वरी॑यो यावया वधम् ॥४॥
वि महच्छर्म॑ यच्छ वरी॑यो यावया वधम् ॥४॥
द्वाविंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | सूर्यो हरिमा हृद्रोगश्च देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)
अनु सूर्यमुद॑यतां हृद्द्योतो ह॑रिमा च॑ ते ।
गो रोहि॑तस्य वर्णे॑न तेन॑ त्वा परि॑ दध्मसि ॥१॥
परि॑ त्वा रोहि॑तैर्वर्णै॑र्दीर्घायुत्वाय॑ दध्मसि ।
यथायम॑रपा असदथो अह॑रितो भुव॑त् ॥२॥
यथायम॑रपा असदथो अह॑रितो भुव॑त् ॥२॥
या रोहि॑णीर्देवत्या३ गावो या उत रोहि॑णी: ।
रूपंरू॑पं वयो॑वयस्ताभि॑ष्ट्वा परि॑ दध्मसि ॥३॥
रूपंरू॑पं वयो॑वयस्ताभि॑ष्ट्वा परि॑ दध्मसि ॥३॥
शुके॑षु ते हरिमाणं॑ रोपणाका॑सु दध्मसि ।
अथो हारि॑द्रवेषु ते हरिमाणं नि द॑ध्मसि ॥४॥
अथो हारि॑द्रवेषु ते हरिमाणं नि द॑ध्मसि ॥४॥
त्रयोविंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | असिक्नीवनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)
नक्तंजातास्यो॑षधे रामे कृष्णे असि॑क्नि च ।
इदं र॑जनि रजय किलासं॑ पलितं च यत् ॥१॥
किलासं॑ च पलितं च निरितो ना॑शया पृष॑त् ।
आ त्वा स्वो वि॑शतां वर्ण: परा॑ शुक्लानि॑ पातय ॥२॥
आ त्वा स्वो वि॑शतां वर्ण: परा॑ शुक्लानि॑ पातय ॥२॥
असि॑तं ते प्रलय॑नमास्थानमसि॑तं तव॑ ।
असि॑क्नी अस्योषधे निरितो ना॑शया पृष॑त् ॥३॥
असि॑क्नी अस्योषधे निरितो ना॑शया पृष॑त् ॥३॥
अस्थिजस्य॑ किलास॑स्य तनूजस्य॑ च यत्त्वचि ।
दूस्या॑ कृतस्य ब्रह्म॑णा लक्ष्म॑ श्वेतम॑नीनशम् ॥४॥
दूस्या॑ कृतस्य ब्रह्म॑णा लक्ष्म॑ श्वेतम॑नीनशम् ॥४॥
चतुर्विंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आसुरीवनस्पतिर्देवता: | प्रथमातृतीयाचतुर्थीनामृचानुष्टुप् द्वितीयायाश्च निचृत्पथ्यापङ्क्तिश्छन्दसी॥ (www.hindumantavya.blogspot.in)
सुपर्णो जात: प्र॑थमस्तस्य त्वं पित्तमा॑सिथ ।
तदा॑सुरी युधा जिता रूपं च॑क्रे वनस्पती॑न् ॥१॥
तदा॑सुरी युधा जिता रूपं च॑क्रे वनस्पती॑न् ॥१॥
आसुरी च॑क्रे प्रथमेदं कि॑लासभेषजमिदं कि॑लासनाश॑नम् ।
अनी॑नशत्किलासं सरू॑पामकरत्त्वच॑म् ॥२॥
अनी॑नशत्किलासं सरू॑पामकरत्त्वच॑म् ॥२॥
सरू॑पा नाम॑ ते माता सरू॑पो नाम॑ ते पिता ।
सरूपकृत्त्वमो॑षधे सा सरू॑पमिदं कृ॑धि ॥३॥
सरूपकृत्त्वमो॑षधे सा सरू॑पमिदं कृ॑धि ॥३॥
श्यामा स॑रूपंकर॑णी पृथिव्या अध्युद्भृ॑ता ।
इदमू षु प्र सा॑धय पुना॑ रूपाणि॑ कल्पय ॥४॥
इदमू षु प्र सा॑धय पुना॑ रूपाणि॑ कल्पय ॥४॥
पञ्चविंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | यक्ष्मनाशनाग्निर्देवता: | प्रथमर्चस्त्रिष्टुप् द्वितीयातृतीययोर्विराड्गर्भा त्रिष्टुप् चतुर्थ्याश्च पुरोऽनुष्टुप् त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
यदग्निरापो अद॑हत्प्रविश्य यत्राकृ॑ण्वन्धर्मधृतो नमां॑सि ।
तत्र॑ त आहु: परमं जनित्रं स न॑: संविद्वान्परि॑ वृङ्ग्धि तक्मन् ॥१॥
यद्यर्चिर्यदि वासि॑ शोचि: श॑कल्येषि यदि॑ वा ते जनित्र॑म् ।
ह्रूडुर्नामा॑सि हरितस्य देव स न॑: संविद्वान्परि॑ वृङ्ग्धि तक्मन् ॥२॥
ह्रूडुर्नामा॑सि हरितस्य देव स न॑: संविद्वान्परि॑ वृङ्ग्धि तक्मन् ॥२॥
यदि॑ शोको यदि॑ वाभिशोको यदि॑ वा राज्ञो वरु॑णस्यासि॑ पुत्र: ।
ह्रूडुर्नामा॑सि हरितस्य देव स न॑: संविद्वान्परि॑ वृङ्ग्धि तक्मन् ॥३॥
ह्रूडुर्नामा॑सि हरितस्य देव स न॑: संविद्वान्परि॑ वृङ्ग्धि तक्मन् ॥३॥
नम॑: शीताय॑ तक्मने नमो॑ रूराय॑ शोचिषे॑ कृणोमि ।
यो अ॑न्येद्युरु॑भयद्युरभ्येति तृती॑यकाय नमो॑ अस्तु तक्मने॑ ॥४॥
यो अ॑न्येद्युरु॑भयद्युरभ्येति तृती॑यकाय नमो॑ अस्तु तक्मने॑ ॥४॥
षड्विंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | इन्द्रादयो मन्त्रोक्ता देवता: | प्रथमातृतीययोरृचोर्गायत्री द्वितीयाया एकावसाना त्रिपदा त्रिष्टुप् चतुर्थ्याश्चैकावसाना पादनिचृद्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
आरे३ऽसावस्मद॑स्तु हेतिर्दे॑वासो असत् ।
आरे अश्मा यमस्य॑थ ॥१॥
सखासावस्मभ्य॑मस्तु राति: सखेन्द्रो भग॑: ।
सविता चित्ररा॑धा: ॥२॥
सविता चित्ररा॑धा: ॥२॥
यूयम्न॑: प्रवतो नपान्मरु॑त: सूर्य॑त्वचस: ।
शर्म॑ यछथ सप्रथा॑: ॥३॥
शर्म॑ यछथ सप्रथा॑: ॥३॥
सुषूदत॑ मृडत॑ मृडया॑ नस्तनूभ्यो ।
मय॑स्तोकेभ्य॑स्कृधि ॥४॥
मय॑स्तोकेभ्य॑स्कृधि ॥४॥
सप्तविंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा इन्द्राणी वा देवता: | प्रथमर्च: पथ्यापङ्क्ति: द्वितीयादितृचस्य आनुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)
अमू: पारे पृ॑दाक्वद्गस्त्रिषप्ता निर्ज॑रायव: ।
तासां॑ जरायु॑भिर्वयमक्ष्या३वपि॑ व्ययामस्यघायो: प॑रिपन्थिन॑: ॥१॥
विषू॑च्येतु कृन्तती पिना॑कमिव बिभ्र॑ती ।
विष्व॑क्पुनर्भुवा मनोऽस॑मृद्धा अघायव॑: ॥२॥
विष्व॑क्पुनर्भुवा मनोऽस॑मृद्धा अघायव॑: ॥२॥
न बहव: सम॑शकन्नार्भका अभि दा॑धृषु: ।
वेणोरद्गा॑ इवाभितोऽस॑मृद्धा अघायव॑: ॥३॥
वेणोरद्गा॑ इवाभितोऽस॑मृद्धा अघायव॑: ॥३॥
प्रेतं॑ पादौ प्र स्फु॑रतं वह॑तं पृणतो गृहान् ।
इन्द्रान्येद्गतु प्रथमाजीतामु॑षिता पुर: ॥४॥
इन्द्रान्येद्गतु प्रथमाजीतामु॑षिता पुर: ॥४॥
अष्टाविंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य चातन ऋषि: | प्रथमर्चो द्वितीयाया: पूर्वार्धस्य चाग्नि: ३ द्वितीयाया उत्तरार्धस्य तृतीयाचतुर्थ्याश्च यातुधान्यो देवता: | प्रथमाद्वितीययोरनुष्टुप् तृतीयाया विराट् पथ्याबृहती चतुर्थ्याश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
उप प्रागा॑द्देवो अग्नी र॑क्षोहामी॑वचात॑न: ।
दहन्नप॑ द्वयाविनो॑ यातुधाना॑न्किमीदिन॑: ॥१॥
दहन्नप॑ द्वयाविनो॑ यातुधाना॑न्किमीदिन॑: ॥१॥
प्रति॑ दह यातुधानान्प्रति॑ देव किमीदिन॑: ।
प्रतीची॑: कृष्णवर्तने सं द॑ह यातुधान्यद्ग: ॥२॥
प्रतीची॑: कृष्णवर्तने सं द॑ह यातुधान्यद्ग: ॥२॥
या शशाप शप॑नेन याघं मूर॑मादधे ।
या रस॑स्य हर॑णाय जातमा॑रेभे तोकम॑त्तु सा ॥३॥
या रस॑स्य हर॑णाय जातमा॑रेभे तोकम॑त्तु सा ॥३॥
पुत्रम॑त्तु यातुधानी: स्वसा॑रमुत नप्त्यद्गम् ।
अधा॑ मिथो वि॑केश्यो३ वि घ्न॑तां यातुधान्यो३ वि तृ॑ह्यन्तामराय्यद्ग: ॥४॥
अधा॑ मिथो वि॑केश्यो३ वि घ्न॑तां यातुधान्यो३ वि तृ॑ह्यन्तामराय्यद्ग: ॥४॥
एकोनत्रिंशं सूक्तम्» षडृचस्यास्य सूक्तस्य वसिष्ठ ऋषि: | ब्रह्मणस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)
अभीवर्तेन॑ मणिना येनेन्द्रो॑ अभिववृधे ।
तेनास्मान्ब्र॑ह्मणस्पतेऽभि राष्ट्राय॑ वर्धय ॥१॥
अभिवृत्य॑ सपत्ना॑नभि या नो अरा॑तय: ।
अभि पृ॑तन्यन्तं॑ तिष्ठाभि यो नो॑ दुरस्यति॑ ॥२॥
अभि पृ॑तन्यन्तं॑ तिष्ठाभि यो नो॑ दुरस्यति॑ ॥२॥
अभि त्वा॑ देव: स॑विताभि षोमो॑ अवीवृधत् ।
अभि त्वा विश्वा॑ भूतान्य॑भीवर्तो यथास॑सि ॥३॥
अभि त्वा विश्वा॑ भूतान्य॑भीवर्तो यथास॑सि ॥३॥
अभीवर्तो अ॑भिभव: स॑पत्नक्षय॑णो मणि: ।
राष्ट्राय मह्यं॑ बध्यतां सपत्ने॑भ्य: पराभुवे॑ ॥४॥
राष्ट्राय मह्यं॑ बध्यतां सपत्ने॑भ्य: पराभुवे॑ ॥४॥
उदसौ सूर्यो॑ अगादुदिदं मा॑मकं वच॑: ।
यथाहं श॑त्रुहोऽसा॑न्यसपत्न: स॑पत्नहा ॥५॥
यथाहं श॑त्रुहोऽसा॑न्यसपत्न: स॑पत्नहा ॥५॥
सपत्नक्षय॑णो वृषाभिरा॑ष्ट्रो विषासहि: ।
यथाहमेषां वीराणां॑ विराजा॑नि जन॑स्य च ॥६॥
यथाहमेषां वीराणां॑ विराजा॑नि जन॑स्य च ॥६॥
त्रिंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | विश्वे देवा देवता: | प्रथमाद्वितीयाचतुर्थीनामृचां त्रिष्टुप् तृतीयायाश्च शाक्वरगर्भा विराड् जगती छन्दसी॥ (www.hindumantavya.blogspot.in)
विश्वे॑ देवा वस॑वो रक्ष॑तेममुतादि॑त्या जागृत यूयमस्मिन् ।
मेमं सना॑भिरुत वान्यना॑भिर्मेमं प्रापत्पौरु॑षेयो वधो य: ॥१॥
ये वो॑ देवा: पितरो ये च॑ पुत्रा: सचे॑तसो मे शृणुतेदमुक्तम् ।
सर्वे॑भ्यो व: परि॑ ददाम्येतं स्वस्त्येद्गनं जरसे॑ वहाथ ॥२॥
सर्वे॑भ्यो व: परि॑ ददाम्येतं स्वस्त्येद्गनं जरसे॑ वहाथ ॥२॥
ये दे॑वा दिवि ष्ठ ये पृ॑थिव्यां ये अन्तरि॑क्ष ओष॑धीषु पशुष्वप्स्वन्त: ।
ते कृ॑णुत जरसमायु॑रस्मै शतमन्यान्परि॑ वृणक्तु मृत्यून् ॥३॥
ते कृ॑णुत जरसमायु॑रस्मै शतमन्यान्परि॑ वृणक्तु मृत्यून् ॥३॥
येषां॑ प्रयाजा उत वा॑नुयाजा हुतभा॑गा अहुताद॑श्च देवा: ।
येषां॑ व: पञ्च॑ प्रदिशो विभ॑क्तास्तान्वो॑ अस्मै स॑त्रसद॑: कृणोमि ॥४॥
येषां॑ व: पञ्च॑ प्रदिशो विभ॑क्तास्तान्वो॑ अस्मै स॑त्रसद॑: कृणोमि ॥४॥
एकत्रिंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आशापाला वास्तोष्पतयश्च देवता: | प्रथमाद्वितीययोरृचोरनुष्टुप् तृतीयाया विराट् त्रिष्टुप् चतुर्थ्याश्च परानुष्टुप् त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
आशा॑नामाशापालेभ्य॑श्चतुर्भ्यो॑ अमृते॑भ्य: ।
इदं भूतस्याध्य॑क्षेभ्यो विधेम॑ हविषा॑ वयम् ॥१॥
य आशा॑नामाशापालाश्चत्वार स्थन॑ देवा: ।
ते नो निरृ॑त्या: पाशे॑भ्यो मुञ्चतांह॑सोअंहस: ॥२॥
ते नो निरृ॑त्या: पाशे॑भ्यो मुञ्चतांह॑सोअंहस: ॥२॥
अस्रा॑मस्त्वा हविषा॑ यजाम्यश्लो॑णस्त्वा घृतेन॑ जुहोमि ।
य आशा॑नामाशापालस्तुरीयो॑ देव: स न॑: सुभूतमेह व॑क्षत् ॥३॥
य आशा॑नामाशापालस्तुरीयो॑ देव: स न॑: सुभूतमेह व॑क्षत् ॥३॥
स्वस्ति मात्र उत पित्रे नो॑ अस्तु स्वस्ति गोभ्यो जग॑ते पुरु॑षेभ्य: ।
विश्वं॑ सुभूतम्सु॑विदत्रं॑ नो अस्तु ज्योगेव दृ॑शेम सूर्य॑म् ॥४॥
विश्वं॑ सुभूतम्सु॑विदत्रं॑ नो अस्तु ज्योगेव दृ॑शेम सूर्य॑म् ॥४॥
द्वात्रिंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | द्यावापृथिव्यौ देवता: | प्रथमातृतीयाचतुर्थीनामृचामनुष्टुप् द्वितीयायाश्च ककुम्मत्यनुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)
इदं ज॑नासो विदथ॑ महद्ब्रह्म॑ वदिष्यति ।
न तत्पृ॑थिव्यां नो दिवि येन॑ प्राणन्ति॑ वीरुध॑: ॥१॥
अन्तरि॑क्ष आसां स्थाम॑ श्रान्तसदा॑मिव ।
आस्थान॑मस्य भूतस्य॑ विदुष्टद्वेधसो न वा॑ ॥२॥
आस्थान॑मस्य भूतस्य॑ विदुष्टद्वेधसो न वा॑ ॥२॥
यद्रोद॑सी रेज॑माने भूमि॑श्च निरत॑क्षतम् ।
आर्द्रं तदद्य स॑र्वदा स॑मुद्रस्ये॑व श्रोत्या: ॥३॥
आर्द्रं तदद्य स॑र्वदा स॑मुद्रस्ये॑व श्रोत्या: ॥३॥
विश्व॑मन्याम॑भीवार तदन्यस्यामधि॑ श्रितम् ।
दिवे च॑ विश्ववे॑दसे पृथिव्यै चा॑करं नम॑: ॥४॥
दिवे च॑ विश्ववे॑दसे पृथिव्यै चा॑करं नम॑: ॥४॥
त्रयस्त्रिंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य शन्तातिरृषि: । चन्द्रमा आपो वा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)
हिर॑ण्यवर्णा: शुच॑य: पावका यासु॑ जात: स॑विता यास्वग्नि: ।
या अग्निं गर्भं॑ दधिरे सुवर्णास्ता न आप: शं स्योना भ॑वन्तु ॥१॥
यासां राजा वरु॑णो याति मध्ये॑ सत्यानृते अ॑वपश्यन्जना॑नाम् ।
या अग्निं गर्भं॑ दधिरे सुवर्णास्ता न आप: शं स्योना भ॑वन्तु ॥२॥
या अग्निं गर्भं॑ दधिरे सुवर्णास्ता न आप: शं स्योना भ॑वन्तु ॥२॥
यासां॑ देवा दिवि कृण्वन्ति॑ भक्षं या अन्तरि॑क्षे बहुधा भव॑न्ति ।
या अग्निं गर्भं॑ दधिरे सुवर्णास्ता न आप: शं स्योना भ॑वन्तु ॥३॥
या अग्निं गर्भं॑ दधिरे सुवर्णास्ता न आप: शं स्योना भ॑वन्तु ॥३॥
शिवेन॑ मा चक्षु॑षा पश्यताप: शिवया॑ तन्वोप॑ स्पृशत त्वचं॑ मे ।
घृतश्चुत: शुच॑यो या: पा॑वकास्ता न आप: शं स्योना भ॑वन्तु ॥४॥
घृतश्चुत: शुच॑यो या: पा॑वकास्ता न आप: शं स्योना भ॑वन्तु ॥४॥
चतुस्त्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मधुवनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)
इयं वीरुन्मधु॑जाता मधु॑ना त्वा खनामसि ।
मधोरधि प्रजा॑तासि सा नो मधु॑मतस्कृधि ॥१॥
जिह्वाया अग्रे मधु॑ मे जिह्वामूले मधूल॑कम् ।
ममेदह क्रतावसो मम॑ चित्तमुपाय॑सि ॥२॥
ममेदह क्रतावसो मम॑ चित्तमुपाय॑सि ॥२॥
मधु॑मन्मे निक्रम॑णं मधु॑मन्मे॑ पराय॑णम् ।
वाचा व॑दामि मधु॑मद्भूयासं मधु॑संदृश: ॥३॥
वाचा व॑दामि मधु॑मद्भूयासं मधु॑संदृश: ॥३॥
मधो॑रस्मि मधु॑तरो मदुघान्मधु॑मत्तर: ।
मामित्किल त्वं वना: शाखां मधु॑मतीमिव ॥४॥
मामित्किल त्वं वना: शाखां मधु॑मतीमिव ॥४॥
परि॑ त्वा परितत्नुनेक्षुणा॑गामवि॑द्विषे ।
यथा मां कामिन्यसो यथा मन्नाप॑गा अस॑: ॥५॥
यथा मां कामिन्यसो यथा मन्नाप॑गा अस॑: ॥५॥
पञ्चत्रिंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | हिरण्यमिन्द्राग्नी विश्वे देवा वा देवता: | प्रथमादितृचस्य जगती चतुर्थ्याश्चानुष्टुब्गर्भा चतुष्पदा त्रिष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)
यदाब॑ध्नन्दाक्षायणा हिर॑ण्यं शतानी॑काय सुमनस्यमा॑ना: ।
तत्ते॑ बद्नाम्यायु॑षे वर्च॑से बला॑य दीर्घायुत्वाय॑ शतशा॑रदाय ॥१॥
नैनं रक्षां॑सि न पि॑शाचा: स॑हन्ते देवानामोज॑: प्रथमजं ह्ये३तत् ।
यो बिभ॑र्ति दाक्षायणं हिर॑ण्यं स जीवेषु॑ कृणुते दीर्घमायु॑: ॥२॥
यो बिभ॑र्ति दाक्षायणं हिर॑ण्यं स जीवेषु॑ कृणुते दीर्घमायु॑: ॥२॥
अपां तेजो ज्योतिरोजो बलं॑ च वनस्पती॑नामुत वीर्याद्गणि ।
इन्द्र॑ इवेन्द्रियाण्यधि॑ धारयामो अस्मिन्तद्दक्ष॑माणो बिभरद्धिर॑ण्यम् ॥३॥
इन्द्र॑ इवेन्द्रियाण्यधि॑ धारयामो अस्मिन्तद्दक्ष॑माणो बिभरद्धिर॑ण्यम् ॥३॥
समा॑नां मासामृतुभि॑ष्ट्वा वयं सं॑वत्सरस्य पय॑सा पिपर्मि ।
इन्द्राग्नी विश्वे॑ देवास्तेऽनु॑ मन्यन्तामहृ॑णीयमाना: ॥४॥
इन्द्राग्नी विश्वे॑ देवास्तेऽनु॑ मन्यन्तामहृ॑णीयमाना: ॥४॥
॥ इति प्रथमं काण्डं समाप्तम्॥
अथर्ववेद के अन्य काण्ड यहाँ से पढें
0 comments