अथर्ववेद
अथर्ववेद संहिता- काण्डम् ९ (Atharvved Kand 9)
अथर्ववेद संहिता
॥ अथ नवमं काण्डम् ॥
प्रथमं सूक्तम्» चतुर्विंशत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | मध्वश्विनौ च देवता: | प्रथमाचतुर्थीपञ्चमीनामृचां त्रिष्टुप् द्वितीयायास्त्रिष्टुब्गर्भा पङ्क्ति: तृतीयाया: परानुष्टुप्त्रिष्टुप् षष्ठ्या अतिशाक्वरगर्भा यवमध्या महाबृहती सप्तम्या अतिजागतगर्भा यवमध्या महाबृहती अष्टम्या बृहतीगर्भा संस्तारपक्ति: नवम्या: पराबृहती प्रस्तारपङ्क्ति: दशम्या: परोष्णिक्पङ्क्ति: एकादश्यादितृचस्य पञ्चदशीषोडश्यष्टादश्येकोनविंशीनाञ्चानुष्टुप् चतुर्दश्या: पुर उष्णिक् सप्तदश्या उपरिष्टाद्विराड्बृहती विंश्या भुरिग्विष्टारपङ्क्ति: एकविंश्या एकावसाना द्विपदार्च्यनुष्टुप् द्वाविंश्यास्त्रिपदा ब्राह्मी पुर उष्णिक् त्रयोविंश्या द्विपदार्ची पङ्क्ति: चतुर्विंश्याश्च त्र्यवसाना षट्पदाष्टिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
दिवस्पृ॑थिव्या अन्तरि॑क्षात्समुद्रादग्नेर्वाता॑न्मधुकशा हि जज्ञे ।
तां चा॑यित्वामृतं वसा॑नां हृद्भि: प्रजा: प्रति॑ नन्दन्ति सर्वा॑: ॥१॥
महत्पयो॑ विश्वरू॑पमस्या: समुद्रस्य॑ त्वोत रेत॑ आहु: ।
यत ऐति॑ मधुकशा ररा॑णा तत्प्राणस्तदमृतं निवि॑ष्टम् ॥२॥

पश्य॑न्त्यस्याश्चरितं पृ॑थिव्यां पृथङ्नरो॑ बहुधा मीमां॑समाना: ।
अग्नेर्वाता॑न्मधुकशा हि जज्ञे मरुता॑मुग्रा नप्ति: ॥३॥

मातादित्यानां॑ दुहिता वसू॑नां प्राण: प्रजाना॑ममृत॑स्य नाभि॑: ।
हिर॑ण्यवर्णा मधुकशा घृताची॑ महान्भर्ग॑श्चरति मर्त्ये॑षु ॥४॥

मधो: कशा॑मजनयन्त देवास्तस्या गर्भो॑ अभवद्विश्वरू॑प: ।
तं जातं तरु॑णं पिपर्ति माता स जातो विश्वा भुव॑ना वि च॑ष्टे ॥५॥
द्वितीयं सूक्तम्» पञ्चविंशत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | कामो देवता: | प्रथमादिचतुरृचां षष्ठीनवमीदशम्येकोनविंशीचतुर्विंशीपञ्चविंशीनाञ्च त्रिष्टुप् पञ्चम्या अतिजगती सप्तमीचतुर्दशीपञ्चदशीसप्तदश्यष्टादश्येकविंशीद्वाविंशीनां जगती अष्टम्यास्त्रिपदार्ची पङ्क्ति: एकादशीविंशीत्रयोविंशीनां भुरिक्त्रिष्टुप् द्वादश्या अनुष्टुप् त्रयोदश्या द्विपदार्च्यनुष्टुप् षोडश्याश्च चतुष्पदा शक्वरीगर्भा पराजगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
सपत्नहन॑मृषभं घृतेन कामं॑ शिक्षामि हविषाज्ये॑न ।
नीचै: सपत्नान्मम॑ पादय त्वमभिष्टु॑तो महता वीर्येद्गण ॥१॥
उपमितां॑ प्रतिमितामथो॑ परिमिता॑मुत ।
शाला॑या विश्ववा॑राया नद्धानि वि चृ॑तामसि ॥१॥
चतुर्थं सूक्तम्» चतुर्विंशत्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ऋषभो देवता: | प्रथमादिपञ्चर्चां सप्तमीनवमीद्वाविंशीनाञ्च त्रिष्टुप् षष्ठीदशमीचतुर्विंशीनां जगती अष्टम्या भुरिक्त्रिष्टुप् एकादश्यादिसप्तानामेकोनविंशीविंशीत्रयोविंशीनाञ्चानुष्टुप् अष्टादश्या उपरिष्टाद्बृहती एकविंश्याश्चास्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
साहस्रस्त्वेष ऋ॑षभ: पय॑स्वान्विश्वा॑ रूपाणि॑ वक्षणा॑सु बिभ्र॑त् ।
भद्रं दात्रे यज॑मानाय शीक्ष॑न्बार्हस्पत्य उस्रियस्तन्तुमाता॑न् ॥१॥
पञ्चमं सूक्तम्» अष्टात्रिंशदृचस्यास्य सूक्तस्य भृगुरृषि: । अजपञ्चौदनौ देवता: | प्रथमाद्वितीययोरृचो: पञ्चम्यादिपञ्चानामेकादश्यादितृचस्य पञ्चदश्येकोनविंशीषड्विंशीनाञ्च त्रिष्टुप् तृतीयायाश्चतुष्पदा पुरोतिशक्वरी जगती चतुर्थीदशम्योर्जगती चतुर्दशीसप्तदश्यो: सप्तविंश्यादितृचस्य चानुष्टुप् षोडश्यास्त्रिपदानुष्टुप् अष्टादशीसप्तत्रिंश्योस्त्रिपदा विराड्गायत्री
विंश्यादितृचस्य पञ्चविंश्याश्च पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता भुरिक्त्रिष्टुप् त्रयोविंश्या: पुर उष्णिक् चतुर्विंश्या: पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता विराड्जगती त्रिंश्या: ककुम्मत्यनुष्टुप् एकत्रिंश्या: सप्तपदाष्टि: द्वात्रिंश्यादिचतसृणां दशपदा प्रकृति: षट्त्रिंश्या दशपदाकृति: अष्टात्रिंश्याश्चैकावसाना द्विपदा साम्नी त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
आ न॑यैतमा र॑भस्व सुकृतां॑ लोकमपि॑ गच्छतु प्रजानन् ।
तीर्त्वा तमां॑सि बहुधा महान्त्यजो नाकमा क्र॑मतां तृतीय॑म् ॥१॥
षष्ठं सूक्तम्» । प्रथम: पर्याय:» यो विद्यात् इत्यारभ्य ज्योतिष्मतो लोकान् इत्यन्तानां षट्पर्यायाणां ब्रह्म ऋषि: | अतिथिर्विद्या वा देवता: | सप्तदशर्चस्यास्य पर्यायस्य प्रथमर्चो नागी त्रिपदा गायत्री
द्वितीयायास्त्रिपदार्षी गायत्री तृतीयासप्तम्यो: साम्नी त्रिष्टुप् चतुर्थीनवम्योरार्च्यनुष्टुप् पञ्चम्या आसुरी गायत्री षष्ठ्यास्त्रिपदा साम्नी जगती अष्टम्या याजुषी त्रिष्टुप् दशम्या: साम्नी भुरिग्बृहती एकादश्याश्चतुर्दश्यादितृचस्य च साम्न्यनुष्टुप् द्वादश्या विराड्गायत्री त्रयोदश्या: साम्नी निचृत्पङ्क्ति: सप्तदश्याश्च त्रिपदा विराड् भुरिग्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
यो विद्याद्ब्रह्म॑ प्रत्यक्षं परूं॑षि यस्य॑ संभारा ऋचो यस्या॑नूक्यद्गम् ॥१॥
तृतीय: पर्याय:» नवर्चस्यास्य पर्यायस्य प्रथमादिषडृचां नवम्याश्च त्रिपदा पिपीलिकमध्या गायत्री सप्तम्या: साम्नी बृहती अष्टम्याश्च पिपीलिकमध्योष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)
इष्टं च वा एष पूर्तं च॑ गृहाणा॑मश्नाति य: पूर्वोऽति॑थेरश्नाति॑ ॥१॥
स य एवं विद्वान्क्षीरमु॑पसिच्यो॑पहर॑ति ॥१॥
तस्मा॑ उषा हिङ्कृ॑णोति सविता प्र स्तौ॑ति ॥१॥
षष्ठ: पर्याय:» चतुर्दशर्चस्यास्य पर्यायस्य प्रथमर्च आसुरी गायत्री द्वितीयाया: साम्न्यनुष्टुप् तृतीयापञ्चम्योस्त्रिपदार्ची पङ्क्ति: चतुर्थ्या एकपदा प्राजापत्या गायत्री षष्ठ्यादिषण्णामार्ची बृहती द्वादश्या एकपदासुरी जगती त्रयोदश्या याजुषी त्रिष्टुप् चतुर्दश्याश्चैकपदासुर्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)
यत्क्षत्तारं ह्वयत्या श्रा॑वयत्येव तत् ॥१॥
सप्तमं सूक्तम्» एक: पर्याय:» षड्विंशत्यृचस्यास्य पर्यायस्य ब्रह्मा ऋषि: | गौर्देवता: | प्रथमर्च आर्ची बृहती द्वितीयाया आर्च्युष्णिक् तृतीयापञ्चम्योरार्च्यनुष्टुप् चतुर्थ्याश्चतुर्दश्यादितृचस्य च साम्नी बृहती षष्ठ्यष्टम्योरासुरी गायत्री सप्तम्यास्त्रिपदा पिपीलिकमध्या निचृद्गायत्री नवमीत्रयोदश्यो: साम्नी गायत्री दशम्या: पुर उष्णिक् एकादशीद्वादशीसप्तदशीपञ्चविंशीनां साम्न्युष्णिक् अष्टादशीद्वाविंश्योरेकपदासुरी जगती एकोनविंश्या एकपदासुरी पङ्क्ति: विंश्या याजुषी जगती एकविंश्या आसुर्यनुष्टुप् त्रयोविंश्या एकपदासुरी बृहती चतुर्विंश्या: साम्नी भुरिग्बृहती षड्विंश्याश्च साम्नी त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
प्रजाप॑तिश्च परमेष्ठी च शृङ्गे इन्द्र: शिरो॑ अग्निर्ललाटं॑ यम: कृका॑टम् ॥१॥
अष्टमं सूक्तम्» द्वाविंशत्यृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | सर्वशीर्षामयाद्यामयापाकरणं देवता: | प्रथमाद्येकादशर्चां त्रयोदशीचतुर्दश्यो: षोडश्यादिपञ्चानाञ्चानुष्टुप् द्वादश्या अनुष्टुब्गर्भा ककुम्मती चतुष्पदोष्णिक् पञ्चदश्या विराडनुष्टुप् एकविंश्या विराट्पथ्याबृहती द्वाविंश्याश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
शीर्षक्तिं शी॑र्षामयं क॑र्णशूलं वि॑लोहितम् ।
सर्वं॑ शीर्षन्यंद्ग ते रोगं॑ बहिर्निर्म॑न्त्रयामहे ॥१॥
अस्य वामस्य॑ पलितस्य होतुस्तस्य भ्राता॑ मध्यमो अस्त्यश्न॑: ।
तृतीयो भ्राता॑ घृतपृ॑ष्ठो अस्यात्रा॑पश्यं विश्पतिं॑ सप्तपु॑त्रम् ॥१॥
यद्गा॑यत्रे अधि॑ गायत्रमाहि॑तं त्रैष्टु॑भं वा त्रैष्टु॑भान्निरत॑क्षत ।
यद्वा जगज्जगत्याहि॑तं पदं य इत्तद्विदुस्ते अ॑मृतत्वमा॑नशु: ॥१॥

कस्तं प्र वे॑द क उ तं चि॑केत यो अ॑स्या हृद: कलश॑: सोमधानो अक्षि॑त: ।
ब्रह्मा सु॑मेधा: सो अ॑स्मिन्मदेत ॥६॥
ब्रह्मा सु॑मेधा: सो अ॑स्मिन्मदेत ॥६॥
स तौ प्र वे॑द स उ तौ चि॑केत याव॑स्या: स्तनौ॑ सहस्र॑धारावक्षि॑तौ ।
ऊर्जं॑ दुहाते अन॑पस्फुरन्तौ ॥७॥
ऊर्जं॑ दुहाते अन॑पस्फुरन्तौ ॥७॥
हिङ्करि॑क्रती बृहती व॑योधा उच्चैर्घो॑षाभ्येति या व्रतम् ।
त्रीन्घर्मानभि वा॑वशाना मिमा॑ति मायुं पय॑ते पयो॑भि: ॥८॥

यामापी॑नामुपसीदन्त्याप॑: शाक्वरा वृ॑षभा ये स्वराज॑: ।
ते व॑र्षन्ति ते व॑र्षयन्ति तद्विदे काममूर्जमाप॑: ॥९॥

स्तनयित्नुस्ते वाक्प्र॑जापते वृषा शुष्मं॑ क्षिपसि भूम्यामधि॑ ।
अग्नेर्वाता॑न्मधुकशा हि जज्ञे मरुता॑मुग्रा नप्ति: ॥१०॥

यथा सोम॑: प्रात:सवने अश्विनोर्भव॑ति प्रिय: ।
एवा मे॑ अश्विना वर्च॑ आत्मनि॑ ध्रियताम् ॥११॥

यथा सोमो॑ द्वितीये सव॑न इन्द्राग्न्योर्भव॑ति प्रिय: ।
एवा म॑ इन्द्राग्नी वर्च॑ आत्मनि॑ ध्रियताम् ॥१२॥

यथा सोम॑स्तृतीये सव॑न ऋभूणां भव॑ति प्रिय: ।
एवा म॑ ऋभवो वर्च॑ आत्मनि॑ ध्रियताम् ॥१३॥

मधु॑ जनिषीय मधु॑ वंसिषीय ।
पय॑स्वानग्न आग॑मं तं मा सं सृ॑ज वर्च॑सा ॥१४॥

सं मा॑ग्ने वर्च॑सा सृज सं प्रजया समायु॑षा ।
विद्युर्मे॑ अस्य देवा इन्द्रो॑ विद्यात्सह ऋषि॑भि: ॥१५॥

यथा मधु॑ मधुकृत॑: संभर॑न्ति मधावधि॑ ।
एवा मे॑ अश्विना वर्च॑ आत्मनि॑ ध्रियताम् ॥१६॥

यथा मक्षा॑ इदं मधु॑ न्यञ्जन्ति मधावधि॑ ।
एवा मे॑ अश्विना वर्चस्तेजो बलमोज॑श्च ध्रियताम् ॥१७॥

यद्गिरिषु पर्व॑तेषु गोष्वश्वे॑षु यन्मधु॑ ।
सुरा॑यां सिच्यमा॑नायां यत्तत्र मधु तन्मयि॑ ॥१८॥

अश्वि॑ना सारघेण॑ मा मधु॑नाङ्क्तं शुभस्पती ।
यथा वर्च॑स्वतीं वाच॑मावदा॑नि जनाँ अनु॑ ॥१९॥

स्तनयित्नुस्ते वाक्प्र॑जापते वृषा शुष्मं क्षिपसि भूम्यां॑ दिवि ।
तां पशव उप॑ जीवन्ति सर्वे तेनो सेषमूर्जं॑ पिपर्ति ॥२०॥

पृथिवी दण्डो३ऽन्तरि॑क्षं गर्भो द्यौ: कशा॑ विद्युत्प्र॑कशो हि॑रण्ययो॑ बिन्दु: ॥२१॥
यो वै कशा॑या: सप्त मधू॑नि वेद मधु॑मान्भवति ।
ब्राह्मणश्च राजा॑ च धेनुश्चा॑नड्वांश्च॑ व्रीहिश्च यव॑श्च मधु॑ सप्तमम् ॥२२॥

मधु॑मान्भवति मधु॑मदस्याहार्यंद्ग भवति ।
मधु॑मतो लोकाञ्ज॑यति य एवं वेद॑ ॥२३॥
मधु॑मतो लोकाञ्ज॑यति य एवं वेद॑ ॥२३॥
यद्वीध्रे स्तनय॑ति प्रजाप॑तिरेव तत्प्रजाभ्य॑: प्रादुर्भ॑वति ।
तस्मा॑त्प्राचीनोपवीतस्ति॑ष्ठे प्रजा॑पतेऽनु॑ मा बुध्यस्वेति॑ ।
अन्वे॑नं प्रजा अनु॑ प्रजाप॑तिर्बुध्यते य एवं वेद॑ ॥२४॥
तस्मा॑त्प्राचीनोपवीतस्ति॑ष्ठे प्रजा॑पतेऽनु॑ मा बुध्यस्वेति॑ ।
अन्वे॑नं प्रजा अनु॑ प्रजाप॑तिर्बुध्यते य एवं वेद॑ ॥२४॥
द्वितीयं सूक्तम्» पञ्चविंशत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | कामो देवता: | प्रथमादिचतुरृचां षष्ठीनवमीदशम्येकोनविंशीचतुर्विंशीपञ्चविंशीनाञ्च त्रिष्टुप् पञ्चम्या अतिजगती सप्तमीचतुर्दशीपञ्चदशीसप्तदश्यष्टादश्येकविंशीद्वाविंशीनां जगती अष्टम्यास्त्रिपदार्ची पङ्क्ति: एकादशीविंशीत्रयोविंशीनां भुरिक्त्रिष्टुप् द्वादश्या अनुष्टुप् त्रयोदश्या द्विपदार्च्यनुष्टुप् षोडश्याश्च चतुष्पदा शक्वरीगर्भा पराजगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
सपत्नहन॑मृषभं घृतेन कामं॑ शिक्षामि हविषाज्ये॑न ।
नीचै: सपत्नान्मम॑ पादय त्वमभिष्टु॑तो महता वीर्येद्गण ॥१॥
यन्मे मन॑सो न प्रियं चक्षु॑षो यन्मे बभ॑स्ति नाभिनन्द॑ति ।
तद्दुष्वप्न्यं प्रति॑ मुञ्चामि सपत्ने कामं॑ स्तुत्वोदहं भि॑देयम् ॥२॥

दुष्वप्न्यं॑ काम दुरितं च॑ कमाप्रजस्ता॑मस्वगतामव॑र्तिम् ।
उग्र ईशा॑न: प्रति॑ मुञ्च तस्मिन्यो अस्मभ्य॑मंहूरणा चिकि॑त्सात् ॥३॥

नुदस्व॑ काम प्र णु॑दस्व कामाव॑र्तिं यन्तु मम ये सपत्ना॑: ।
तेषां॑ नुत्ताना॑मधमा तमांस्यग्ने वास्तू॑नि निर्द॑ह त्वम् ॥४॥

सा ते॑ काम दुहिता धेनुरु॑च्यते यामाहुर्वाचं॑ कवयो॑ विराज॑म् ।
तया॑ सपत्नान्परि॑ वृङ्ग्धि ये मम पर्ये॑नान्प्राण: पशवो जीव॑नं वृणक्तु ॥५॥

कामस्येन्द्र॑स्य वरु॑णस्य राज्ञो विष्णोर्बले॑न सवितु: सवेन॑ ।
अग्नेर्होत्रेण प्र णु॑दे सपत्ना॑ञ्छम्बीव नाव॑मुदकेषु धीर॑: ॥६॥

अध्य॑क्षो वाजी मम काम॑ उग्र: कृणोतु मह्य॑मसपत्नमेव ।
विश्वे॑ देवा मम॑ नाथं भ॑वन्तु सर्वे॑ देवा हवमा य॑न्तु म इमम् ॥७॥

इदमाज्यं॑ घृतव॑ज्जुषाणा: काम॑ज्येष्ठा इह मा॑दयध्वम् ।
कृण्वन्तो मह्य॑मसपत्नमेव ॥८॥
कृण्वन्तो मह्य॑मसपत्नमेव ॥८॥
इन्द्राग्नी का॑म सरथं हि भूत्वा नीचै: सपत्नान्मम॑ पादयाथ: ।
तेषां॑ पन्नाना॑मधमा तमांस्यग्ने वास्तू॑न्यनुनिर्द॑ह त्वम् ॥९॥

जहि त्वं का॑म मम ये सपत्ना॑ अन्धा तमांस्यव॑ पादयैनान् ।
निरि॑न्द्रिया अरसा: स॑न्तु सर्वे मा ते जी॑विषु: कतमच्चनाह॑: ॥१०॥

अव॑धीत्कामो मम ये सपत्ना॑ उरुं लोकम॑करन्मह्य॑मेधतुम् ।
मह्यं॑ नमन्तां प्रदिशश्चत॑स्रो मह्यं षडुर्वीर्घृतमा व॑हन्तु ॥११॥

तेद्गऽधराञ्च: प्र प्ल॑वन्तां छिन्ना नौरि॑व बन्ध॑नात् ।
न साय॑कप्रणुत्तानां पुन॑रस्ति निवर्त॑नम् ॥१२॥

अग्निर्यव इन्द्रो यव: सोमो यव॑: ।
यवयावा॑नो देवा या॑वयन्त्वेनम् ॥१३॥
यवयावा॑नो देवा या॑वयन्त्वेनम् ॥१३॥
अस॑र्ववीरश्चरतु प्रणु॑त्तो द्वेष्यो॑ मित्राणां॑ परिवर्ग्य१ स्वाना॑म् ।
उत पृ॑थिव्यामव॑ स्यन्ति विद्युत॑ उग्रो वो॑ देव: प्र मृ॑णत्सपत्ना॑न् ॥१४॥

च्युता चेयं बृ॑हत्यच्यु॑ता च विद्युद्बि॑भर्ति स्तनयित्नूंश्च सर्वा॑न् ।
उद्यन्ना॑दित्यो द्रवि॑णेन तेज॑सा नीचै: सपत्ना॑न्नुदतां मे सह॑स्वान् ॥१५॥

यत्ते॑ काम शर्म॑ त्रिवरू॑थमुद्भु ब्रह्म वर्म वित॑तमनतिव्याध्यंद्ग कृतम् ।
तेन॑ सपत्नान्परि॑ वृङ्ग्धि ये मम पर्ये॑नान्प्राण: पशावो जीव॑नं वृणक्तु ॥१६॥

येन॑ देवा असु॑रान्प्राणु॑दन्त येनेन्द्रो दस्यू॑नधमं तमो॑ निनाय॑ ।
तेन त्वं का॑म मम ये सपत्नास्तानस्माल्लोकात्प्र णु॑दस्व दूरम् ॥१७॥

यथा॑ देवा असु॑रान्प्राणु॑दन्त यथेन्द्रो दस्यू॑नधमं तमो॑ बबाधे ।
तथा त्वं का॑म मम ये सपत्नास्तानस्माल्लोकात्प्र णु॑दस्व दूरम् ॥१८॥

कामो॑ जज्ञे प्रथमो नैनं॑ देवा आ॑पु: पितरो न मर्त्या॑: ।
ततस्त्वम॑सि ज्याया॑न्विश्वहा॑ महांस्तस्मै॑ ते काम नम इत्कृ॑नोमि ॥१९॥

याव॑ती द्यावा॑पृथिवी व॑रिम्णा यावदाप॑: सिष्यदुर्याव॑दग्नि: ।
ततस्त्वम॑सि ज्याया॑न्विश्वहा॑ महांस्तस्मै॑ ते काम नम इत्कृ॑णोमि ॥२०॥

याव॑तीर्दिश॑: प्रदिशो विषू॑चीर्याव॑तीराशा॑ अभिचक्ष॑णा दिव: ।
ततस्त्वम॑सि ज्याया॑न्विश्वहा॑ महांस्तस्मै॑ ते काम नम इत्कृ॑णोमि ॥२१॥

याव॑तीर्भृङ्गा॑ जत्वद्ग: कुरूर॑वो याव॑तीर्वघा॑ वृक्षसर्प्योद्ग बभूवु: ।
ततस्त्वम॑सि ज्याया॑न्विश्वहा॑ महांस्तस्मै॑ ते काम नम इत्कृ॑णोमि ॥२२॥

ज्याया॑न्निमिषतोऽसि तिष्ठ॑तो ज्याया॑न्त्समुद्राद॑सि काम मन्यो ।
ततस्त्वम॑सि ज्याया॑न्विश्वहा॑ महांस्तस्मै॑ ते काम नम इत्कृ॑नोमि ॥२३॥

न वै वात॑श्चन काम॑माप्नोति नाग्नि: सूर्यो नोत चन्द्रमा॑: ।
ततस्त्वम॑सि ज्याया॑न्विश्वहा॑ महांस्तस्मै॑ ते काम नम इत्कृ॑णोमि ॥२४॥

यास्ते॑ शिवास्तन्वद्ग: काम भद्रा याभि॑: सत्यं भव॑ति यद्वृ॑णिषे ।
ताभिष्ट्वमस्माँ अ॑भिसंवि॑शस्वान्यत्र॑ पापीरप॑ वेशया धिय॑: ॥२५॥

तृतीयं सूक्तम्» एकत्रिंशत्यृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | शला देवता: | प्रथमादिपञ्चानामृचामष्टम्यादिसप्तानां षोडश्या अष्टदश्यादितृचस्य द्वाविंश्यादितृचस्य चानुष्टुप् षष्ठ्या पथ्या पङ्क्ति: सप्तम्या: पुरउष्णिक् पञ्चदश्या: पञ्चपदातिशक्वरी सप्तदश्या: प्रस्तारपङ्क्ति: एकविंश्या आस्तारपङ्क्ति: पञ्चविंश्या एकत्रिंश्योस्त्रिपदा प्राजापत्या बृहती षट्त्रिंश्यास्त्रिपदा साम्नी त्रिष्टुप् सप्तविंश्यात्रिंश्योश्च त्रिपदा प्रतिष्ठानां गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
उपमितां॑ प्रतिमितामथो॑ परिमिता॑मुत ।
शाला॑या विश्ववा॑राया नद्धानि वि चृ॑तामसि ॥१॥
यत्ते॑ नद्धं वि॑श्ववारे पाशो॑ ग्रन्थिश्च य: कृत: ।
बृहस्पति॑रिवाहं बलं वाचा वि स्रं॑सयामि तत् ॥२॥

आ य॑याम सं ब॑बर्ह ग्रन्थींश्च॑कार ते दृढान् ।
परूं॑षि विद्वां छस्तेवेन्द्रे॑ण वि चृ॑तामसि ॥३॥

वंशानां॑ ते नह॑नानां प्राणाहस्य तृण॑स्य च ।
पक्षाणां॑ विश्ववारे ते नद्धानि वि चृ॑तामसि ॥४॥

संदंशानां॑ पलदानां परि॑ष्वञ्जल्यस्य च ।
इदं मान॑स्य पत्न्या॑ नद्धानि वि चृ॑तामसि ॥५॥

यानि॑ तेऽन्त: शिक्याद्गन्याबेधू रण्याद्गय कम् ।
प्र ते तानि॑ चृतामसि शिवा मान॑स्य पत्नी॑ न उद्धि॑ता तन्वेद्ग भव ॥६॥

हविर्धान॑मग्निशालं पत्नी॑नां सद॑नं सद॑: ।
सदो॑ देवाना॑मसि देवि शाले ॥७॥
सदो॑ देवाना॑मसि देवि शाले ॥७॥
अक्षु॑मोपशं वित॑तं सहस्राक्षं वि॑षूवति॑ ।
अव॑नद्धमभिहि॑तं ब्रह्म॑णा वि चृ॑तामसि ॥८॥

यस्त्वा॑ शाले प्रतिगृह्णाति येन चासि॑ मिता त्वम् ।
उभौ मा॑नस्य पत्नि तौ जीव॑तां जरद॑ष्टी ॥९॥

अमुत्रै॑नमा ग॑च्छताद्दृढा नद्धा परि॑ष्कृता ।
यस्या॑स्ते विचृतामस्यङ्ग॑मङ्गं परु॑ष्परु: ॥१०॥

यस्त्वा॑ शाले निमिमाय॑ संजभार वनस्पती॑न् ।
प्रजायै॑ चक्रे त्वा शाले परमेष्ठी प्रजाप॑ति: ॥११॥

नमस्तस्मै नमो॑ दात्रे शाला॑पतये च कृण्म: ।
नमोऽग्नये॑ प्रचर॑ते पुरु॑षाय च ते नम॑: ॥१२॥

गोभ्यो अश्वे॑भ्यो नमो यच्छाला॑यां विजाय॑ते ।
विजा॑वति प्रजा॑वति वि ते पाशां॑श्चृतामसि ॥१३॥

अग्निमन्तश्छा॑दयसि पुरु॑षान्पशुभि॑: सह ।
विजा॑वति प्रजा॑वति वि ते पाशां॑श्चृतामसि ॥१४॥

अन्तरा द्यां च॑ पृथिवीं च यद्व्यचस्तेन शालां प्रति॑ गृह्णामि त इमाम् ।
यदन्तरि॑क्षं रज॑सो विमानं तत्कृ॑ण्वेऽहमुदरं॑ शेवधिभ्य॑: ।
तेन शालां प्रति॑ गृह्णामि तस्मै॑ ॥१५॥

ऊर्ज॑स्वती पय॑स्वती पृथिव्यां निमि॑ता मिता ।
विश्वान्नं बिभ्र॑ती शाले मा हिं॑सी: प्रतिगृह्णत: ॥१६॥

तृणैरावृ॑ता पलदान्वसा॑ना रात्री॑व शाला जग॑तो निवेश॑नी ।
मिता पृ॑थिव्यां ति॑ष्ठसि हस्तिनी॑व पद्वती॑ ॥१७॥

इट॑स्य ते वि चृ॑ताम्यपि॑नद्धमपोर्णुवन् ।
वरु॑णेन समु॑ब्जितां मित्र: प्रातर्व्युद्गब्जतु ॥१८॥

ब्रह्म॑णा शालां निमि॑तां कविभिर्निमि॑तां मिताम् ।
इन्द्राग्नी र॑क्षतां शाला॑ममृतौ॑ सौम्यं सद॑: ॥१९॥

कुलायेऽधि॑ कुलायं कोशे कोश: समु॑ब्जित: ।
तत्र मर्तो वि जा॑यते यस्माद्विश्वं॑ प्रजाय॑ते ॥२०॥

या द्विप॑क्षा चतु॑ष्पक्षा षट्प॑क्षा या नि॑मीयते॑ ।
अष्टाप॑क्षां दश॑पक्षां शालां मान॑स्य पत्नी॑मग्निर्गर्भ॑ इवा श॑ये ॥२१॥

प्रतीचीं॑ त्वा प्रतीचीन: शाले प्रैम्यहिं॑सतीम् ।
अग्निर्ह्य१न्तराप॑श्चर्तस्य॑ प्रथमा द्वा: ॥२२॥

इमा आप: प्र भ॑राम्ययक्ष्मा य॑क्ष्मनाश॑नी: ।
गृहानुप प्र सी॑दाम्यमृते॑न सहाग्निना॑ ॥२३॥

मा न: पाशं प्रति॑ मुचो गुरुर्भारो लघुर्भ॑व ।
वधूमि॑व त्वा शाले यत्रकामं॑ भरामसि ॥२४॥
वधूमि॑व त्वा शाले यत्रकामं॑ भरामसि ॥२४॥
प्राच्या॑ दिश: शाला॑या नमो॑ महिम्ने स्वाहा॑ देवेभ्य॑: स्वाह्येद्गभ्य: ॥२५॥
दक्षि॑णाया दिश: शाला॑या नमो॑ महिम्ने स्वाहा॑ देवेभ्य॑: स्वाह्येद्गभ्य: ॥२६॥
प्रतीच्या॑ दिश: शाला॑या नमो॑ महिम्ने स्वाहा॑ देवेभ्य॑: स्वाह्येद्गभ्य: ॥२७॥
उदी॑च्या दिश: शाला॑या नमो॑ महिम्ने स्वाहा॑ देवेभ्य॑: स्वाह्येद्गभ्य: ॥२८॥
ध्रुवाया॑ दिश: शाला॑या नमो॑ महिम्ने स्वाहा॑ देवेभ्य॑: स्वाह्येद्गभ्य: ॥२९॥
ऊर्ध्वाया॑ दिश: शाला॑या नमो॑ महिम्ने स्वाहा॑ देवेभ्य॑: स्वाह्येद्गभ्य: ॥३०॥
दिशोदि॑श: शाला॑या नमो॑ महिम्ने स्वाहा॑ देवेभ्य॑: स्वाह्येद्गभ्य: ॥३१॥
चतुर्थं सूक्तम्» चतुर्विंशत्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ऋषभो देवता: | प्रथमादिपञ्चर्चां सप्तमीनवमीद्वाविंशीनाञ्च त्रिष्टुप् षष्ठीदशमीचतुर्विंशीनां जगती अष्टम्या भुरिक्त्रिष्टुप् एकादश्यादिसप्तानामेकोनविंशीविंशीत्रयोविंशीनाञ्चानुष्टुप् अष्टादश्या उपरिष्टाद्बृहती एकविंश्याश्चास्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
साहस्रस्त्वेष ऋ॑षभ: पय॑स्वान्विश्वा॑ रूपाणि॑ वक्षणा॑सु बिभ्र॑त् ।
भद्रं दात्रे यज॑मानाय शीक्ष॑न्बार्हस्पत्य उस्रियस्तन्तुमाता॑न् ॥१॥
अपां यो अग्ने॑ प्रतिमा बभूव॑ प्रभू: सर्व॑स्मै पृथिवीव॑ देवी ।
पिता वत्सानां पति॑रघ्न्यानां॑ साहस्रे पोषे अपि॑ न: कृणोतु ॥२॥

पुमा॑नन्तर्वान्त्स्थवि॑र: पय॑स्वान्वसो: कब॑न्धमृषभो बि॑भर्ति ।
तमिन्द्रा॑य पथिभि॑र्देवयानै॑र्हुतमग्निर्व॑हतु जातवे॑दा: ॥३॥

पिता वत्सानां पति॑रघ्न्यानामथो॑ पिता म॑हतां गर्ग॑राणाम् ।
वत्सो जरायु॑ प्रतिधुक्पीयूष॑ आमिक्षा॑ घृतं तद्व॑स्य रेत॑: ॥४॥

देवानां॑ भाग उ॑पनाह एषो३ऽपां रस ओष॑धीनां घृतस्य॑ ।
सोम॑स्य भक्षम॑वृणीत शक्रो बृहन्नद्रि॑रभवद्यच्छरी॑रम् ॥५॥

सोमे॑न पूर्णं कलशं॑ बिभर्षि त्वष्टा॑ रूपाणां॑ जनिता प॑शूनाम् ।
शिवास्ते॑ सन्तु प्रजन्वद्ग इह या इमा न्य१स्मभ्यं॑ स्वधिते यच्छ या अमू: ॥६॥

आज्यं॑ बिभर्ति घृतम॑स्य रेत॑: साहस्र: पोषस्तमु॑ यज्ञमा॑हु: ।
इन्द्र॑स्य रूपमृ॑षभो वसा॑न: सो अस्मान्दे॑वा: शिव ऐतु॑ दत्त: ॥७॥

इन्द्रस्यौजो वरु॑णस्य बाहू अश्विनोरंसौ॑ मरुता॑मियं ककुत् ।
बृहस्पतिं संभृ॑तमेतमा॑हुर्ये धीरा॑स: कवयो ये म॑नीषिण॑: ॥८॥

दैवीर्विश: पय॑स्वाना त॑नोषि त्वामिन्द्रं त्वां सर॑स्वन्तमाहु: ।
सहस्रं स एक॑मुखा ददाति यो ब्रा॑ह्मण ऋ॑षभमा॑जुहोति॑ ॥९॥

बृहस्पति॑: सविता ते वयो॑ दधौ त्वष्टु॑र्वायो: पर्यात्मा त आभृ॑त: ।
अन्तरि॑क्षे मन॑सा त्वा जुहोमि बर्हिष्टे द्यावा॑पृथिवी उभे स्ता॑म् ॥१०॥

य इन्द्र॑ इव देवेषु गोष्वेति॑ विवाव॑दत् ।
तस्य॑ ऋषभस्याङ्गा॑नि ब्रह्मा सं स्तौ॑तु भद्रया॑ ॥११॥

पार्श्वे आ॑स्तामनु॑मत्या भग॑स्यास्तामनूवृजौ॑ ।
अष्ठीवन्ता॑वब्रवीन्मित्रो ममैतौ केव॑लाविति॑ ॥१२॥

भसदा॑सीदादित्यानां श्रोणी॑ आस्तां बृहस्पते॑: ।
पुच्छं वात॑स्य देवस्य तेन॑ धूनोत्योष॑धी: ॥१३॥

गुदा॑ आसन्त्सिनीवाल्या: सूर्यायास्त्वच॑मब्रुवन् ।
उत्थातुर॑ब्रुवन्पद ऋ॑षभं यदक॑ल्पयन् ॥१४॥

क्रोड आ॑सीज्जामिशंसस्य सोम॑स्य कलशो॑ धृत: ।
देवा: संगत्य यत्सर्व॑ ऋषभं व्यक॑ल्पयन् ॥१५॥

ते कुष्ठि॑का: सरमा॑यै कूर्मेभ्यो॑ अदधु: शफान् ।
ऊब॑ध्यमस्य कीटेभ्य॑: श्ववर्तेभ्यो॑ अधारयन् ॥१६॥

शृङ्गा॑भ्यां रक्ष॑ ऋषत्यव॑र्तिं हन्ति चक्षु॑षा ।
शृणोति॑ भद्रं कर्णा॑भ्यां गवां य: पति॑रघ्न्य: ॥१७॥

शतयाजं स य॑जते नैनं॑ दुन्वन्त्यग्नय॑: ।
जिन्व॑न्ति विश्वे तं देवा यो ब्रा॑ह्मण ऋ॑षभमा॑जुहोति॑ ॥१८॥

ब्राह्मणेभ्य॑ ऋषभं दत्त्वा वरी॑य: कृणुते मन॑: ।
पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव॑ पश्यते ॥१९॥

गाव॑: सन्तु प्रजा: सन्त्वथो॑ अस्तु तनूबलम् ।
तत्सर्वमनु॑ मन्यन्तां देवा ऋ॑षभदायिने॑ ॥२०॥

अयं पिपा॑न इन्द्र इद्रयिं द॑धातु चेतनीम् ।
अयं धेनुं सुदुघां नित्य॑वत्सां वशं॑ दुहां विपश्चितं॑ परो दिव: ॥२१॥

पिशङ्ग॑रूपो नभसो व॑योधा ऐन्द्र: शुष्मो॑ विश्वरू॑पो न आग॑न् ।
आयु॑रस्मभ्यं दध॑त्प्रजां च॑ रायश्च पोषै॑रभि न॑: सचताम् ॥२२॥

उपेहोप॑पर्चनास्मिन्गोष्ठ उप॑ पृञ्च न: ।
उप॑ ऋषभस्य यद्रेत उपे॑न्द्र तव॑ वीर्यद्गम् ॥२३॥

एतं वो युवा॑नं प्रति॑ दध्मो अत्र तेन क्रीड॑न्तीश्चरत वशाँ अनु॑ ।
मा नो॑ हासिष्ट जनुषा॑ सुभागा रायश्च पोषै॑रभि न॑: सचध्वम् ॥२४॥
मा नो॑ हासिष्ट जनुषा॑ सुभागा रायश्च पोषै॑रभि न॑: सचध्वम् ॥२४॥
पञ्चमं सूक्तम्» अष्टात्रिंशदृचस्यास्य सूक्तस्य भृगुरृषि: । अजपञ्चौदनौ देवता: | प्रथमाद्वितीययोरृचो: पञ्चम्यादिपञ्चानामेकादश्यादितृचस्य पञ्चदश्येकोनविंशीषड्विंशीनाञ्च त्रिष्टुप् तृतीयायाश्चतुष्पदा पुरोतिशक्वरी जगती चतुर्थीदशम्योर्जगती चतुर्दशीसप्तदश्यो: सप्तविंश्यादितृचस्य चानुष्टुप् षोडश्यास्त्रिपदानुष्टुप् अष्टादशीसप्तत्रिंश्योस्त्रिपदा विराड्गायत्री
विंश्यादितृचस्य पञ्चविंश्याश्च पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता भुरिक्त्रिष्टुप् त्रयोविंश्या: पुर उष्णिक् चतुर्विंश्या: पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता विराड्जगती त्रिंश्या: ककुम्मत्यनुष्टुप् एकत्रिंश्या: सप्तपदाष्टि: द्वात्रिंश्यादिचतसृणां दशपदा प्रकृति: षट्त्रिंश्या दशपदाकृति: अष्टात्रिंश्याश्चैकावसाना द्विपदा साम्नी त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
आ न॑यैतमा र॑भस्व सुकृतां॑ लोकमपि॑ गच्छतु प्रजानन् ।
तीर्त्वा तमां॑सि बहुधा महान्त्यजो नाकमा क्र॑मतां तृतीय॑म् ॥१॥
इन्द्रा॑य भागं परि॑ त्वा नयाम्यस्मिन्यज्ञे यज॑मानाय सूरिम् ।
ये नो॑ द्विषन्त्यनु तान्र॑भस्वाना॑गसो यज॑मानस्य वीरा: ॥२॥

प्र पदोऽव॑ नेनिग्धि दुश्च॑रितं यच्चचार॑ शुद्धै: शफैरा क्र॑मतां प्रजानन् ।
तीर्त्वा तमां॑सि बहुधा विपश्य॑न्नजो नाकमा क्र॑मतां तृतीय॑म् ॥३॥

अनु॑च्छ्य श्यामेन त्वच॑मेतां वि॑शस्तर्यथापर्व१सिना माभि मं॑स्था: ।
माभि द्रु॑ह: परुश: क॑ल्पयैनं तृतीये नाके अधि वि श्र॑यैनम् ॥४॥

ऋचा कुम्भीमध्यग्नौ श्र॑याम्या सि॑ञ्चोदकमव॑ धेह्येनम् ।
पर्याध॑त्ताग्निना॑ शमितार: शृतो ग॑च्छतु सुकृतां यत्र॑ लोक: ॥५॥

उत्कामात: परि चेदत॑प्तस्तप्ताच्चरोरधि नाकं॑ तृतीय॑म् ।
अग्नेरग्निरधि सं ब॑भूविथ ज्योति॑ष्मन्तमभि लोकं ज॑यैतम् ॥६॥

अजो अग्निरजमु ज्योति॑राहुरजं जीव॑ता ब्रह्मणे देय॑माहु: ।
अजस्तमांस्यप॑ हन्ति दूरमस्मिंल्लोके श्रद्दधा॑नेन दत्त: ॥७॥

पञ्चौ॑दन: पञ्चधा वि क्र॑मतामाक्रंस्यमा॑नस्त्रीणि ज्योतीं॑षि ।
ईजानानां॑ सुकृतां प्रेहि मध्यं॑ तृतीये नाके अधि वि श्र॑यस्व ॥८॥

अजा रो॑ह सुकृतां यत्र॑ लोक: श॑रभो न चत्तोऽति॑ दुर्गाण्ये॑ष: ।
पञ्चौ॑दनो ब्रह्मणे॑ दीयमा॑न: स दातारं तृप्त्या॑ तर्पयाति ॥९॥

अजस्त्रि॑नाके त्रि॑दिवे त्रि॑पृष्ठे नाक॑स्य पृष्ठे द॑दिवांसं॑ दधाति ।
पञ्चौ॑दनो ब्रह्मणे॑ दीयमा॑नो विश्वरू॑पा धेनु: का॑मदुघास्येका॑ ॥१०॥

एतद्वो ज्योति॑: पितरस्तृतीयं पञ्चौ॑दनं ब्रह्मणेऽजं द॑दाति ।
अजस्तमांस्यप॑ हन्ति दूरमस्मिंल्लोके श्रद्दधा॑नेन दत्त: ॥११॥

ईजानानां॑ सुकृतां॑ लोकमीप्सन्पञ्चौ॑दनं ब्रह्मणेऽजं द॑दाति ।
स व्याद्गप्तिमभि लोकं ज॑यैतं शिवो३ऽस्मभ्यं प्रति॑गृहीतो अस्तु ॥१२॥

अजो ह्य१ग्नेरज॑निष्ट शोकाद्विप्रो विप्र॑स्य सह॑सो विपश्चित् ।
इष्टं पूर्तमभिपू॑र्तं वष॑ट्कृतं तद्देवा ऋ॑तुश: क॑ल्पयन्तु ॥१३॥

अमोतं वासो॑ दद्याद्धिर॑ण्यमपि दक्षि॑णाम् ।
तथा॑ लोकान्त्समा॑प्नोति ये दिव्या ये च पार्थि॑वा: ॥१४॥

एतास्त्वाजोप॑ यन्तु धारा॑: सोम्या देवीर्घृतपृ॑ष्ठा मधुश्चुत॑: ।
स्तभान्पृ॑थिवीमुत द्यां नाक॑स्य पृष्ठेऽधि॑ सप्तर॑श्मौ ॥१५॥

अजो३ऽस्यज॑ स्वर्गोद्गऽसि त्वया॑ लोकमङ्गि॑रस: प्राजा॑नन् ।
तं लोकं पुण्यं प्र ज्ञे॑षम् ॥१६॥
तं लोकं पुण्यं प्र ज्ञे॑षम् ॥१६॥
येना॑ सहस्रं वह॑सि येना॑ग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो॑ वह स्वद्गर्देवेषु गन्त॑वे ॥१७॥

अज: पक्व: स्वर्गे लोके द॑धाति पञ्चौ॑दनो निरृ॑तिं बाध॑मान: ।
तेन॑ लोकान्त्सूर्य॑वतो जयेम ॥१८॥
तेन॑ लोकान्त्सूर्य॑वतो जयेम ॥१८॥
यं ब्रा॑ह्मणे नि॑दधे यं च॑ विक्षु या विप्रुष॑ ओदनाना॑मजस्य॑ ।
सर्वं तद॑ग्ने सुकृतस्य॑ लोके जा॑नीतान्न॑: संगम॑ने पथीनाम् ॥१९॥

अजो वा इदमग्ने व्यद्गक्रमत तस्योर॑ इयम॑भवद्द्यौ: पृष्ठम् ।
अन्तरि॑क्षं मध्यं दिश॑: पार्श्वे स॑मुद्रौ कुक्षी ॥२०॥

सत्यं चर्तं च चक्षु॑षी विश्वं॑ सत्यं श्रद्धा प्राणो विराट् शिर॑: ।
एष वा अप॑रिमितो यज्ञो यदज: पञ्चौ॑दन: ॥२१॥

अप॑रिमितमेव यज्ञमाप्नोत्यप॑रिमितं लोकमव॑ रुन्धे ।
यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥२२॥

नास्यास्थी॑नि भिन्द्यान्न मज्ज्ञो निर्ध॑येत् ।
सर्व॑मेनं समादायेदमि॑दं प्र वे॑शयेत् ॥२३॥

इदमि॑दमेवास्य॑ रूपं भ॑वति तेनै॑नं सं ग॑मयति ।
इषं मह ऊर्ज॑मस्मै दुहे यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥२४॥

पञ्च॑ रुक्मा पञ्च नवा॑नि वस्त्रा पञ्चा॑स्मै धेनव॑: कामदुघा॑ भवन्ति ।
यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥२५॥

पञ्च॑ रुक्मा ज्योति॑रस्मै भवन्ति वर्म वासां॑सि तन्वेद्ग भवन्ति ।
स्वर्गं लोकम॑श्नुते यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥२६॥

या पूर्वं पतिं॑ वित्त्वाऽथान्यं विन्दतेऽप॑रम् ।
पञ्चौ॑दनं च तावजं ददा॑तो न वि यो॑षत: ॥२७॥

समानलो॑को भवति पुनर्भुवाप॑र: पति॑: ।
यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥२८॥

अनुपूर्वव॑त्सां धेनुम॑नड्वाह॑मुपबर्ह॑णम् ।
वासो हिर॑ण्यं दत्त्वा ते य॑न्ति दिव॑मुत्तमाम् ॥२९॥

आत्मानं॑ पितरं॑ पुत्रं पौत्रं॑ पितामहम् ।
जायां जनि॑त्रीं मातरं ये प्रियास्तानुप॑ ह्वये ॥३०॥

यो वै नैदा॑घं नामर्तुं वेद॑ ।
एष वै नैदा॑घो नामर्तुर्यदज: पञ्चौ॑दन: ।
निरेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियं॑ दहति भव॑त्यात्मना॑ ।
यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥३१॥

यो वै कुर्वन्तं नामर्तुं वेद॑ ।
कुर्वतींकु॑र्वतीमेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियमा द॑त्ते ।
एष वै नैदा॑घो नामर्तुर्यदज: पञ्चौ॑दन: ।
निरेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियं॑ दहति भव॑त्यात्मना ।
यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥३२॥

यो वै संयन्तं नामर्तुं वेद॑ ।
संयतींसं॑यतीमेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियमा द॑त्ते ।
एष वै नैदा॑घो नामर्तुर्यदज: पञ्चौ॑दन: ।
निरेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियं॑ दहति भव॑त्यात्मना ।
यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥३३॥

यो वै पिन्वन्तं नामर्तुं वेद॑ ।
पिन्वतींपि॑न्वतीमेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियमा द॑त्ते ।
एष वै नैदा॑घो नामर्तुर्यदज: पञ्चौ॑दन: ।
निरेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियं॑ दहति भव॑त्यात्मना ।
यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥३४॥

यो वा उद्यन्तं नामर्तुं वेद॑ ।
उद्यतींमु॑द्यतीमेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियमा द॑त्ते ।
एष वै नैदा॑घो नामर्तुर्यदज: पञ्चौ॑दन: ।
निरेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियं॑ दहति भव॑त्यात्मना ।
यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥३५॥

यो वा अ॑भिभुवं नामर्तुं वेद॑ ।
अभिभव॑न्तीमभिभवन्तीमेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियमा द॑त्ते ।
एष वै नैदा॑घो नामर्तुर्यदज: पञ्चौ॑दन: ।
निरेवाप्रि॑यस्य भ्रातृ॑व्यस्य श्रियं॑ दहति भव॑त्यात्मना ।
यो३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं ददा॑ति ॥३६॥

अजं च पच॑त पञ्च॑ चौदनान् ।
सर्वा दिश: संम॑नस: सध्रीची: सान्त॑र्देशा: प्रति॑ गृह्नन्तु त एतम् ॥३७॥

तास्ते॑ रक्षन्तु तव तुभ्य॑मेतं ताभ्य आज्यं॑ हविरिदं जु॑होमि ॥३८॥
षष्ठं सूक्तम्» । प्रथम: पर्याय:» यो विद्यात् इत्यारभ्य ज्योतिष्मतो लोकान् इत्यन्तानां षट्पर्यायाणां ब्रह्म ऋषि: | अतिथिर्विद्या वा देवता: | सप्तदशर्चस्यास्य पर्यायस्य प्रथमर्चो नागी त्रिपदा गायत्री
द्वितीयायास्त्रिपदार्षी गायत्री तृतीयासप्तम्यो: साम्नी त्रिष्टुप् चतुर्थीनवम्योरार्च्यनुष्टुप् पञ्चम्या आसुरी गायत्री षष्ठ्यास्त्रिपदा साम्नी जगती अष्टम्या याजुषी त्रिष्टुप् दशम्या: साम्नी भुरिग्बृहती एकादश्याश्चतुर्दश्यादितृचस्य च साम्न्यनुष्टुप् द्वादश्या विराड्गायत्री त्रयोदश्या: साम्नी निचृत्पङ्क्ति: सप्तदश्याश्च त्रिपदा विराड् भुरिग्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
यो विद्याद्ब्रह्म॑ प्रत्यक्षं परूं॑षि यस्य॑ संभारा ऋचो यस्या॑नूक्यद्गम् ॥१॥
सामा॑नि यस्य लोमा॑नि यजुर्हृद॑यमुच्यते॑ परिस्तर॑णमिद्धवि: ॥२॥
यद्वा अति॑थिपतिरति॑थीन्प्रतिपश्य॑ति देवयज॑नं प्रेक्ष॑ते ॥३॥
यद॑भिवद॑ति दीक्षामुपै॑ति यदु॑दकं याच॑त्यप: प्र ण॑यति ॥४॥
या एव यज्ञ आप॑: प्रणीयन्ते ता एव ता: ॥५॥
यत्तर्प॑णमाहर॑न्ति य एवाग्नी॑षोमीय॑: पशुर्बध्यते स एव स: ॥६॥
यदा॑वसथान्कल्पय॑न्ति सदोहविर्धानान्येव तत्क॑ल्पयन्ति ॥७॥
यदु॑पस्तृणन्ति॑ बर्हिरेव तत् ॥८॥
यदु॑परिशयनमाहर॑न्ति स्वर्गमेव तेन॑ लोकमव॑ रुन्द्धे ॥९॥
यत्क॑शिपूपबर्हणमाहर॑न्ति परिधय॑ एव ते ॥१०॥
यदा॑ञ्जनाभ्यञ्जनमाहरन्त्याज्य॑मेव तत् ॥११॥
यत्पुरा प॑रिवेषात्खादमाहर॑न्ति पुरोदाशा॑वेव तौ ॥१२॥
यद॑शनकृतं ह्वय॑न्ति हविष्कृत॑मेव तद्ध्व॑यन्ति ॥१३॥
ये व्रीहयो यवा॑ निरुप्यन्तेंशव॑ एव ते ॥१४॥
यान्यु॑लूखलमुसलानि ग्रावा॑ण एव ते ॥१५॥
शूर्पं॑ पवित्रं तुषा॑ ऋजीषाभिषव॑णीराप॑: ॥१६॥
स्रुग्दर्विर्नेक्ष॑णमायव॑नं द्रोणकलशा: कुम्भ्योद्गवायव्याद्गनि ।
पात्रा॑णीयमेव कृ॑ष्णाजिनम् ॥१७॥
पात्रा॑णीयमेव कृ॑ष्णाजिनम् ॥१७॥
द्वितीय: पर्याय:» त्रयोदशर्चस्यास्य पर्यायस्य प्रथमर्चो विराट् पुरस्ताद्बृहती द्वितीयाद्वादश्यो: साम्नी त्रिष्टुप् तृतीयाया आसुर्यनुष्टुप् चतुर्थ्या: साम्न्युष्णिक् पञ्चम्या: साम्नी बृहती षष्ठ्या आर्च्यनुष्टुप् सप्तम्या: पञ्चपदा विराट् पुरस्ताद्बृहती अष्टम्या आसुरी गायत्री नवम्या: साम्न्यनुष्टुप् दशम्यास्त्रिपदार्ची त्रिष्टुप् एकादश्या भुरिक्साम्नी बृहती त्रयोदश्याश्च त्रिपदार्ची पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
यजमानब्राह्मणं वा एतदति॑थिपति: कुरुते यदा॑हार्याद्गणि ।
प्रेक्ष॑त इदं भू॑या३ इदा३मिति॑ ॥१॥
प्रेक्ष॑त इदं भू॑या३ इदा३मिति॑ ॥१॥
यदाह भूय उद्धरेति॑ प्राणमेव तेन वर्षी॑यांसं कुरुते ॥२॥
उप॑ हरति हवींष्या सा॑दयति ॥३॥
तेषामास॑न्नानामति॑थिरात्मञ्जु॑होति ॥४॥
स्रुचा हस्ते॑न प्राणे यूपे॑ स्रुक्कारेण॑ वषट्कारेण॑ ॥५॥
एते वै प्रियाश्चाप्रि॑याश्चर्त्विज॑: स्वर्गं लोकं ग॑मयन्ति यदति॑थय: ॥६॥
स य एवं विद्वान्न द्विषन्न॑श्नीयान्न द्वि॑षतोऽन्न॑मश्नीयान्न ।
मी॑मांसितस्य न मी॑मांसमा॑नस्य ॥७॥
मी॑मांसितस्य न मी॑मांसमा॑नस्य ॥७॥
सर्वो वा एष जग्धपा॑प्मा यस्यान्न॑मश्नन्ति॑ ॥८॥
सर्वो वा एषोऽज॑ग्धपा॑प्मा यस्यान्नं नाश्नन्ति॑ ॥९॥
सर्वदा वा एष युक्तग्रा॑वार्द्रप॑वित्रो वित॑ताध्वर आहृ॑तयज्ञक्रतुर्य उ॑पहर॑ति ॥१०॥
प्राजापत्यो वा एतस्य॑ यज्ञो वित॑तो य उ॑पहर॑ति ॥११॥
प्रजाप॑तेर्वा एष वि॑क्रमान॑नुविक्र॑मते य उ॑पहर॑ति ॥१२॥
योऽति॑थीनां स आ॑हवनीयो यो वेश्म॑नि स गार्ह॑पत्यो यस्मिन्पच॑न्ति स द॑क्षिणाग्नि: ॥१३॥
तृतीय: पर्याय:» नवर्चस्यास्य पर्यायस्य प्रथमादिषडृचां नवम्याश्च त्रिपदा पिपीलिकमध्या गायत्री सप्तम्या: साम्नी बृहती अष्टम्याश्च पिपीलिकमध्योष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)
इष्टं च वा एष पूर्तं च॑ गृहाणा॑मश्नाति य: पूर्वोऽति॑थेरश्नाति॑ ॥१॥
पय॑श्च वा एष रसं॑ च गृहाणा॑मश्नाति य: पूर्वोऽति॑थेरश्नाति॑ ॥२॥
ऊर्जां च वा एष स्फातिं च॑ गृहाणा॑मश्नाति य: पूर्वोऽति॑थेरश्नाति॑ ॥३॥
प्रजां च वा एष पशूंश्च॑ गृहाणा॑मश्नाति य: पूर्वोऽति॑थेरश्नाति॑ ॥४॥
कीर्तिं च वा एष यश॑श्च गृहाणा॑मश्नाति य: पूर्वोऽति॑थेरश्नाति॑ ॥५॥
श्रियं॑ च वा एष संविदं॑ च गृहाणा॑मश्नाति य: पूर्वोऽति॑थेरश्नाति॑ ॥६॥
एष वा अति॑थिर्यच्छ्रोत्रि॑यस्तस्मात्पूर्वो नाश्नी॑यात् ॥७॥
अशितावत्यति॑थावश्नीयाद्यज्ञस्य॑ सात्मत्वाय॑ यज्ञस्यावि॑च्छेदाय तद्व्रतम् ॥८॥
एतद्वा उ स्वादी॑यो यद॑धिगवं क्षीरं वा॑ मांसं वा तदेव नाश्नी॑यात् ॥९॥
चतुर्थ: पर्याय:» दशर्चस्यास्य पर्यायस्य प्रथमातृतीयापञ्चमीसप्तमीनामृचां प्राजापत्यानुष्टुप् द्वितीयाचतुर्थीषष्ठ्यष्टमीनां त्रिपदा गायत्री नवम्या भुरिगनुष्टुप् दशम्याश्च चतुष्पदा प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
स य एवं विद्वान्क्षीरमु॑पसिच्यो॑पहर॑ति ॥१॥
याव॑दग्निष्टोमेनेष्ट्वा सुस॑मृद्धेनावरुन्द्धे ताव॑देनेनाव॑ रुन्द्धे ॥२॥
स य एवं विद्वान्त्सर्पिरु॑पसिच्यो॑पहर॑ति ॥३॥
याव॑दतिरात्रेणेष्ट्वा सुस॑मृद्धेनावरुन्धे ताव॑देनेनाव॑ रुन्धे ॥४॥
स य एवं विद्वान्मधू॑पसिच्यो॑पहर॑ति ॥५॥
याव॑त्सत्रसद्ये॑नेष्ट्वा सुस॑मृद्धेनावरुन्धे ताव॑देनेनाव॑ रुन्धे ॥६॥
स य एवं विद्वान्मांसमु॑पसिच्यो॑पहर॑ति ॥७॥
याव॑द्द्वादशाहेनेष्ट्वा सुस॑मृद्धेनावरुन्धे ताव॑देनेनाव॑ रुन्धे ॥८॥
स य एवं विद्वानु॑दकमु॑पसिच्यो॑पहर॑ति ॥९॥
प्रजानां॑ प्रजन॑नाय गच्छति प्रतिष्ठां प्रिय: प्रजानां॑ भवति य एवं विद्वानु॑दकमु॑पसिच्यो॑पहर॑ति ॥१०॥
पञ्चम: पर्याय:» दशर्चस्यास्य पर्यायस्य प्रथमर्च: साम्न्युष्णिक् द्वितीयाया: पुर उष्णिक् तृतीयाया:पञ्चमीसप्तम्युत्तरार्धयोर्दशम्याश्च साम्नी भुरिग्बृहती चतुर्थीषष्ठीनवमीनां साम्न्यनुष्टुप् पञ्चमीपूर्वार्धस्य त्रिपदा निचृद्विषमा गायत्री सप्तमीपूर्वार्धस्य त्रिपदा विराड्विषमा गायत्री अष्टम्याश्च त्रिपदा विराडनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
तस्मा॑ उषा हिङ्कृ॑णोति सविता प्र स्तौ॑ति ॥१॥
बृहस्पति॑रूर्जयोद्गा॑यति त्वष्टा पुष्ट्या प्रति॑ हरति विश्वे॑ देवा निधन॑म् ॥२॥
निधनं भूत्या॑: प्रजाया॑: पशूनां भ॑वति य एवं वेद॑ ॥३॥
तस्मा॑ उद्यन्त्सूर्यो हिङ्कृ॑णोति संगव: प्र स्तौ॑ति ॥४॥
मध्यन्दि॑न उद्गा॑यत्यपराह्ण: प्रति॑ हरत्यस्तंयन्निधन॑म् ।
निधनं भूत्या॑: प्रजाया॑: पशूनां भ॑वति य एवं वेद॑ ॥५॥

तस्मा॑ अभ्रो भवन्हिङ्कृ॑णोति स्तनयन्प्र स्तौ॑ति ॥६॥
विद्योत॑मान: प्रति॑ हरति वर्षन्नुद्गा॑यत्युद्गृह्णन्निधन॑म् ।
निधनं भूत्या॑: प्रजाया॑: पशूनां भ॑वति य एवं वेद॑ ॥७॥

अति॑थीन्प्रति॑ पश्यति हिङ्कृ॑णोत्यभि व॑दति प्र स्तौ॑त्युदकं याचत्युद्गा॑यति ॥८॥
उप॑ हरति प्रति॑ हरत्युच्छि॑ष्टं निधन॑म् ॥९॥
निधनं भूत्या॑: प्रजाया॑: पशूनां भ॑वति य एवं वेद॑ ॥१०॥
षष्ठ: पर्याय:» चतुर्दशर्चस्यास्य पर्यायस्य प्रथमर्च आसुरी गायत्री द्वितीयाया: साम्न्यनुष्टुप् तृतीयापञ्चम्योस्त्रिपदार्ची पङ्क्ति: चतुर्थ्या एकपदा प्राजापत्या गायत्री षष्ठ्यादिषण्णामार्ची बृहती द्वादश्या एकपदासुरी जगती त्रयोदश्या याजुषी त्रिष्टुप् चतुर्दश्याश्चैकपदासुर्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)
यत्क्षत्तारं ह्वयत्या श्रा॑वयत्येव तत् ॥१॥
यत्प्र॑तिशृणोति॑ प्रत्याश्रा॑वयत्येव तत् ॥२॥
यत्प॑रिवेष्टार: पात्र॑हस्ता: पूर्वे चाप॑रे च प्रपद्य॑न्ते चमसाध्व॑र्यव एव ते ॥३॥
तेषां न कश्चनाहो॑ता ॥४॥
यद्वा अति॑थिपतिरति॑थीन्परिविष्य॑ गृहानु॑पोदैत्य॑वभृथ॑मेव तदुपावै॑ति ॥५॥
यत्स॑भागय॑ति दक्षि॑णा: सभागयति यद॑नुतिष्ठ॑त उदव॑स्यत्येव तत् ॥६॥
स उप॑हूत: पृथिव्यां भ॑क्षयत्युप॑हूतस्तस्मिन्यत्पृ॑थिव्यां विश्वरू॑पम् ॥७॥
स उप॑हूतोऽन्तरि॑क्षे भक्षयत्युप॑हूतस्तस्मिन्यदन्तरि॑क्षे विश्वरू॑पम् ॥८॥
स उप॑हूतो दिवि भ॑क्षयत्युप॑हूतस्तस्मिन्यद्दिवि विश्वरू॑पम् ॥९॥
स उप॑हूतो देवेषु॑ भक्षयत्युप॑हूतस्तस्मिन्यद्देवेषु॑ विश्वरू॑पम् ॥१०॥

स उप॑हूतो लोकेषु॑ भक्षयत्युप॑हूतस्तस्मिन्यल्लोकेषु॑ विश्वरू॑पम् ॥११॥
स उप॑हूत उप॑हूत: ॥१२॥
आप्नोतीमं लोकमाप्नोत्यमुम् ॥१३॥
ज्योति॑ष्मतो लोकाञ्ज॑यति य एवं वेद॑ ॥१४॥
सप्तमं सूक्तम्» एक: पर्याय:» षड्विंशत्यृचस्यास्य पर्यायस्य ब्रह्मा ऋषि: | गौर्देवता: | प्रथमर्च आर्ची बृहती द्वितीयाया आर्च्युष्णिक् तृतीयापञ्चम्योरार्च्यनुष्टुप् चतुर्थ्याश्चतुर्दश्यादितृचस्य च साम्नी बृहती षष्ठ्यष्टम्योरासुरी गायत्री सप्तम्यास्त्रिपदा पिपीलिकमध्या निचृद्गायत्री नवमीत्रयोदश्यो: साम्नी गायत्री दशम्या: पुर उष्णिक् एकादशीद्वादशीसप्तदशीपञ्चविंशीनां साम्न्युष्णिक् अष्टादशीद्वाविंश्योरेकपदासुरी जगती एकोनविंश्या एकपदासुरी पङ्क्ति: विंश्या याजुषी जगती एकविंश्या आसुर्यनुष्टुप् त्रयोविंश्या एकपदासुरी बृहती चतुर्विंश्या: साम्नी भुरिग्बृहती षड्विंश्याश्च साम्नी त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
प्रजाप॑तिश्च परमेष्ठी च शृङ्गे इन्द्र: शिरो॑ अग्निर्ललाटं॑ यम: कृका॑टम् ॥१॥
सोमो राजा॑ मस्तिष्को द्यौरु॑त्तरहनु: पृ॑थिव्यद्गधरहनु: ॥२॥
विद्युज्जिह्वा मरुतो दन्ता॑ रेवती॑र्ग्रीवा: कृत्ति॑का स्कन्धा घर्मो वह॑: ॥३॥
विश्वं॑ वायु: स्वर्गो लोक: कृ॑ष्णद्रं विधर॑णी निवेष्य: ॥४॥
श्येन: क्रोडो३ऽन्तरि॑क्षं पाजस्यं१ बृहस्पति॑: ककुद्बृ॑हती: कीक॑सा: ॥५॥
देवानां पत्नी॑: पृष्टय॑ उपसद: पर्श॑व: ॥६॥
मित्रश्च वरु॑णश्चांसौ त्वष्टा॑ चार्यमा च॑ दोषणी॑ महादेवो बाहू ॥७॥
इन्द्राणी भसद्वायु: पुच्छं पव॑मानो बाला॑: ॥८॥
ब्रह्म॑ च क्षत्रं च श्रोणी बल॑मूरू ॥९॥
धाता च॑ सविता चा॑ष्ठीवन्तौ जङ्घा॑ गन्धर्वा अ॑प्सरस: कुष्ठि॑का अदि॑ति: शफा: ॥१०॥
चेतो हृद॑यं यकृ॑न्मेधा व्रतं पु॑रीतत् ॥११॥
क्षुत्कुक्षिरिरा॑ वनिष्ठु: पर्व॑ता: प्लाशय॑: ॥१२॥
क्रोधो॑ वृक्कौ मन्युराण्डौ प्रजा शेप॑: ॥१३॥
नदी सूत्री वर्षस्य पत॑य स्तना॑ स्तनयित्नुरूध॑: ॥१४॥
विश्वव्य॑चाश्चर्मौष॑धयो लोमा॑नि नक्ष॑त्राणि रूपम् ॥१५॥
देवजना गुदा॑ मनुष्याद्ग आन्त्राण्यत्रा उदर॑म् ॥१६॥
रक्षां॑सि लोहि॑तमितरजना ऊब॑ध्यम् ॥१७॥
अभ्रं पीबो॑ मज्जा निधन॑म् ॥१८॥
अग्निरासी॑न उत्थि॑तोऽश्विना॑ ॥१९॥
इन्द्र: प्राङ्तिष्ठ॑न्दक्षिणा तिष्ठ॑न्यम: ॥२०॥
प्रत्यङ्तिष्ठ॑न्धातोदङ्तिष्ठ॑न्त्सविता ॥२१॥

तृणा॑नि प्राप्त: सोमो राजा॑ ॥२२॥
मित्र ईक्ष॑माण आवृ॑त्त आनन्द: ॥२३॥
युज्यमा॑नो वैश्वदेवो युक्त: प्रजाप॑तिर्विमु॑क्त: सर्व॑म् ॥२४॥
एतद्वै विश्वरू॑पं सर्व॑रूपं गोरूपम् ॥२५॥
उपै॑नं विश्वरू॑पा: सर्व॑रूपा: पशव॑स्तिष्ठन्ति य एवं वेद॑ ॥२६॥
अष्टमं सूक्तम्» द्वाविंशत्यृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | सर्वशीर्षामयाद्यामयापाकरणं देवता: | प्रथमाद्येकादशर्चां त्रयोदशीचतुर्दश्यो: षोडश्यादिपञ्चानाञ्चानुष्टुप् द्वादश्या अनुष्टुब्गर्भा ककुम्मती चतुष्पदोष्णिक् पञ्चदश्या विराडनुष्टुप् एकविंश्या विराट्पथ्याबृहती द्वाविंश्याश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
शीर्षक्तिं शी॑र्षामयं क॑र्णशूलं वि॑लोहितम् ।
सर्वं॑ शीर्षन्यंद्ग ते रोगं॑ बहिर्निर्म॑न्त्रयामहे ॥१॥
कर्णा॑भ्यां ते कङ्कू॑षेभ्य: कर्णशूलं विसल्प॑कम् ।
सर्वं॑ शीर्षन्यंद्ग ते रोगं॑ बहिर्निर्म॑न्त्रयामहे ॥२॥

यस्य॑ हेतो: प्रच्यव॑ते यक्ष्म॑: कर्णतो आ॑स्यत: ।
सर्वं॑ शीर्षन्यंद्ग ते रोगं॑ बहिर्निर्म॑न्त्रयामहे ॥३॥

य: कृणोति॑ प्रमोत॑मन्धं कृणोति पूरु॑षम् ।
सर्वं॑ शीर्षन्यंद्ग ते रोगं॑ बहिर्निर्म॑न्त्रयामहे ॥४॥

अङ्गभेदम॑ङ्गज्वरं वि॑श्वाङ्ग्यंद्ग विसल्प॑कम् ।
सर्वं॑ शीर्षन्यंद्ग ते रोगं॑ बहिर्निर्म॑न्त्रयामहे ॥५॥

यस्य॑ भीम: प्र॑तीकाश उ॑द्वेपय॑ति पूरु॑षम् ।
तक्मानं॑ विश्वशा॑रदं बहिर्निर्म॑न्त्रयामहे ॥६॥

य ऊरू अ॑नुसर्पत्यथो एति॑ गवीनि॑के ।
यक्ष्मं॑ ते अन्तरङ्गे॑भ्यो बहिर्निर्म॑न्त्रयामहे ॥७॥

यदि कामा॑दपकामाद्धृद॑याज्जाय॑ते परि॑ ।
हृदो बलासमङ्गे॑भ्यो बहिर्निर्म॑न्त्रयामहे ॥८॥

हरिमाणं॑ ते अङ्गे॑भ्योऽप्वाम॑न्तरोदरा॑त् ।
यक्ष्मोधामन्तरात्मनो॑ बहिर्निर्म॑न्त्रयामहे ॥९॥

आसो॑ बलासो भव॑तु मूत्रं॑ भवत्वामय॑त् ।
यक्ष्मा॑णां सर्वे॑षां विषं निर॑वोचमहं त्वत् ॥१०॥

बहिर्बिलं निर्द्र॑वतु काहा॑बाहं तवोदरा॑त् ।
यक्ष्मा॑णां सर्वे॑षां विषं निर॑वोचमहं त्वत् ॥११॥

उदरा॑त्ते क्लोम्नो नाभ्या हृद॑यादधि॑ ।
यक्ष्मा॑णां सर्वे॑षां विषं निर॑वोचमहं त्वत् ॥१२॥

या: सीमानं॑ विरुजन्ति॑ मूर्धानं प्रत्य॑र्षनी: ।
अहिं॑सन्तीरनामया निर्द्र॑वन्तु बहिर्बिल॑म् ॥१३॥

या हृद॑यमुपर्षन्त्य॑नुतन्वन्ति कीक॑सा: ।
अहिं॑सन्तीरनामया निर्द्र॑वन्तु बहिर्बिल॑म् ॥१४॥

या: पार्श्वे उ॑पर्षन्त्य॑नुनिक्ष॑न्ति पृष्टी: ।
अहिं॑सन्तीरनामया निर्द्र॑वन्तु बहिर्बिल॑म् ॥१५॥

यास्तिरश्ची॑रुपर्षन्त्य॑र्षणीर्वक्षणा॑सु ते ।
अहिं॑सन्तीरनामया निर्द्र॑वन्तु बहिर्बिल॑म् ॥१६॥

या गुदा॑ अनुसर्प॑न्त्यान्त्राणि॑ मोहय॑न्ति च ।
अहिं॑सन्तीरनामया निर्द्र॑वन्तु बहिर्बिल॑म ॥१७॥

या मज्ज्ञो निर्धय॑न्ति परूं॑षि विरुजन्ति॑ च ।
अहिं॑सन्तीरनामया निर्द्र॑वन्तु बहिर्बिल॑म् ॥१८॥

ये अङ्गा॑नि मदय॑न्ति यक्ष्मा॑सो रोपणास्तव॑ ।
यक्ष्मा॑णां सर्वे॑षां विषं निर॑वोचमहं त्वत् ॥१९॥

विसल्पस्य॑ विद्रधस्य॑ वातीकारस्य॑ वालजे: ।
यक्ष्मा॑णां सर्वे॑षां विषं निर॑वोचमहं त्वत् ॥२०॥

पादा॑भ्यां ते जानु॑भ्यां श्रोणि॑भ्यां परि भंस॑स: ।
अनू॑कादर्षणीरुष्णिहा॑भ्य: शीर्ष्णो रोग॑मनीनशम् ॥२१॥

सं ते॑ शीर्ष्ण: कपाला॑नि हृद॑यस्य च यो विधु: ।
उद्यन्ना॑दित्य रश्मिभि॑: शीर्ष्णो रोग॑मनीनशोऽङ्गभेदम॑शीशम: ॥२२॥

नवमं सूक्तम्» द्वाविंशत्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | वाम आदित्योऽध्यात्मञ्च देवता: | प्रथमाद्येकादशर्चां त्रयोदशीपञ्चदशीसप्तदशीनाञ्च त्रिष्टुप् द्वादशीचतुर्दशीषोडश्यष्टादशीनाञ्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
अस्य वामस्य॑ पलितस्य होतुस्तस्य भ्राता॑ मध्यमो अस्त्यश्न॑: ।
तृतीयो भ्राता॑ घृतपृ॑ष्ठो अस्यात्रा॑पश्यं विश्पतिं॑ सप्तपु॑त्रम् ॥१॥
सप्त यु॑ञ्जन्ति रथमेक॑चक्रमेको अश्वो॑ वहति सप्तना॑मा ।
त्रिनाभि॑ चक्रमजर॑मनर्वं यत्रेमा विश्वा भुवनाधि॑ तस्थु: ॥२॥

इमं रथमधि ये सप्त तस्थु: सप्तच॑क्रं सप्त व॑हन्त्यश्वा॑: ।
सप्त स्वसा॑रो अभि सं न॑वन्त यत्र गवां निहि॑ता सप्त नामा॑ ॥३॥

को द॑दर्श प्रथमं जाय॑मानमस्थन्वन्तं यद॑नस्था बिभ॑र्ति ।
भूम्या असुरसृ॑गात्मा क्वद्ग स्वित्को विद्वांसमुप॑ गात्प्रष्टु॑मेतत् ॥४॥

इह ब्र॑वीतु य ई॑मङ्ग वेदास्य वामस्य निहि॑तं पदं वे: ।
शीर्ष्ण: क्षीरं दु॑ह्रते गावो॑ अस्य वव्रिं वसा॑ना उदकं पदाऽपु॑: ॥५॥

पाक॑: पृच्छामि मनसाऽवि॑जानन्देवाना॑मेना निहि॑ता पदानि॑ ।
वत्से बष्कयेऽधि॑ सप्त तन्तून्वि त॑त्निरे कवय ओतवा उ॑ ॥६॥

अचि॑कित्वांश्चिकितुष॑श्चिदत्र॑ कवीन्पृ॑च्छामि विद्वनो न विद्वान् ।
वि यस्तस्तम्भ षडिमा रजां॑स्यजस्य॑ रूपे किमपि॑ स्विदेक॑म् ॥७॥

माता पितर॑मृत आ ब॑भाजऽधीत्यग्रे मन॑सा सं हि जग्मे ।
सा बी॑भत्सुर्गर्भ॑रसा निवि॑द्धा नम॑स्वन्त इदु॑पवाकमी॑यु: ॥८॥

युक्ता मातासी॑द्धुरि दक्षि॑णाया अति॑ष्ठद्गर्भो॑ वृजनीष्वन्त: ।
अमी॑मेद्वत्सो अनु गाम॑पश्यद्विश्वरूप्यंद्ग त्रिषु योज॑नेषु ॥९॥

तिस्रो मातॄस्त्रीन्पितॄन्बिभ्रदेक॑ ऊर्ध्वस्त॑स्थौ नेमव॑ ग्लापयन्त ।
मन्त्रय॑न्ते दिवो अमुष्य॑ पृष्ठे वि॑श्वविदो वाचमवि॑श्वविन्नाम् ॥१०॥

पञ्चा॑रे चक्रे प॑रिवर्त॑माने यस्मि॑न्नातस्थुर्भुव॑नानि विश्वा॑ ।
तस्य नाक्ष॑स्तप्यते भूरि॑भार: सनादेव न च्छि॑द्यते सना॑भि: ॥११॥

पञ्च॑पादं पितरं द्वाद॑शाकृतिं दिव आ॑हु: परे अर्धे॑ पुरीषिण॑म् ।
अथेमे अन्य उप॑रे विचक्षणे सप्तच॑क्रे षड॑र आहुरर्पि॑तम् ॥१२॥

द्वाद॑शारं नहि तज्जरा॑य वर्व॑र्ति चक्रं परि द्यामृतस्य॑ ।
आ पुत्रा अ॑ग्ने मिथुनासो अत्र॑ सप्त शतानि॑ विंशतिश्च॑ तस्थु: ॥१३॥

सने॑मि चक्रमजरं वि वा॑वृत उत्तानायां दश॑ युक्ता व॑हन्ति ।
सूर्य॑स्य चक्षू रज॑सैत्यावृ॑तं यस्मि॑न्नातस्थुर्भुव॑नानि विश्वा॑ ॥१४॥

स्त्रिय॑: सतीस्ताँ उ॑ मे पुंस: आ॑हु: पश्य॑दक्षण्वान्न वि चे॑तदन्ध: ।
कविर्य: पुत्र: स ईमा चि॑केत यस्ता वि॑जानात्स पितुष्पितास॑त् ॥१५॥

साकंजानां॑ सप्तथ॑माहुरेकजं षडिद्यमा ऋष॑यो देवजा इति॑ ।
तेषा॑मिष्टानि विहि॑तानि धामश स्थात्रे रे॑जन्ते विकृ॑तानि रूपश: ॥१६॥

अव: परे॑ण पर एनाव॑रेण पदा वत्सं बिभ्र॑ती गौरुद॑स्थात् ।
सा कद्रीची कं स्विदर्धं परा॑गात्क्वद्ग स्वित्सूते नहि यूथे अस्मिन् ॥१७॥

अव: परे॑ण पितरं यो अ॑स्य वेदाव: परे॑ण पर एनाव॑रेण ।
कवीयमा॑न: क इह प्र वो॑चद्देवं मन: कुतो अधि प्रजा॑तम् ॥१८॥

ये अर्वाञ्चस्ताँ उ परा॑च आहुर्ये परा॑ञ्चस्ताँ उ॑ अर्वाच॑ आहु: ।
इन्द्र॑श्च या चक्रथु॑: सोम तानि॑ धुरा न युक्ता रज॑सो वहन्ति ॥१९॥

द्वा सु॑पर्णा सयुजा सखा॑या समानं वृक्षं परि॑ षस्वजाते ।
तयो॑रन्य: पिप्प॑लं स्वाद्वत्त्यन॑श्नन्नन्यो अभि चा॑कशीति ॥२०॥

यस्मि॑न्वृक्षे मध्वद॑: सुपर्णा नि॑विशन्ते सुव॑ते चाधि विश्वे॑ ।
तस्य यदाहु: पिप्प॑लं स्वाद्वग्रे तन्नोन्न॑शद्य: पितरं न वेद॑ ॥२१॥

यत्रा॑ सुपर्णा अमृत॑स्य भक्षमनि॑मेषं विदथा॑भिस्वर॑न्ति ।
एना विश्व॑स्य भुव॑नस्य गोपा: स मा धीर: पाकमत्रा वि॑वेश ॥२२॥

दशमं सूक्तम्» अष्टाविंशत्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | प्रथमादिद्वाविंशत्यृचाञ्चतुर्विंश्यादिपञ्चानाञ्च गौर्विराडध्यात्मञ्च त्रयोविंश्याश्च मित्रावरुणौ देवता: | प्रथमासप्तमीचतुर्दशीसप्तदश्यष्टादशीनां जगती द्वितीयाषड्विंशीसप्तविंशीनां भुरिक्त्रिष्टुप् तृतीयादिचतसृणामष्टम्यादिषण्णां पञ्चदशीषोडश्येकोनविंशीविंशीद्वाविंशीत्रयोविंशीपञ्चविंश्यष्टाविंशीनाञ्च त्रिष्टुप् एकविंश्या: पञ्चपदातिशक्वरी चतुर्विंश्याश्च चतुष्पदा पुरस्कृतिर्भुरिगतिजगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
यद्गा॑यत्रे अधि॑ गायत्रमाहि॑तं त्रैष्टु॑भं वा त्रैष्टु॑भान्निरत॑क्षत ।
यद्वा जगज्जगत्याहि॑तं पदं य इत्तद्विदुस्ते अ॑मृतत्वमा॑नशु: ॥१॥
गायत्रेण प्रति॑ मिमीते अर्कमर्केण साम त्रैष्टु॑भेन वाकम् ।
वाकेन॑ वाकं द्विपदा चतु॑ष्पदाक्षरे॑ण मिमते सप्त वाणी॑: ॥२॥

जग॑ता सिन्धुं॑ दिव्यद्गस्कभायद्रथंतरे सूर्यं पर्य॑पश्यत् ।
गायत्रस्य॑ समिध॑स्तिस्र आ॑हुस्ततो॑ मह्ना प्र रि॑रिचे महित्वा ॥३॥

उप॑ ह्वये सुदुघां॑ धेनुमेतां सुहस्तो॑ गोधुगुत दो॑हदेनाम् ।
श्रेष्ठं॑ सवं स॑विता सा॑विषन्नोऽभीद्गद्धो घर्मस्तदु षु प्र वो॑चत् ॥४॥

हिङ्कृण्वती व॑सुपत्नी वसू॑नां वत्समिच्छन्ती मन॑साभ्यागा॑त् ।
दुहामश्विभ्यां पयो॑ अघ्न्येयं सा व॑र्धतां महते सौभ॑गाय ॥५॥

गौर॑मीमेदभि वत्सं मिषन्तं॑ मूर्धानं हिङ्ङ॑कृणोन्मातवा उ॑ ।
सृक्वा॑णं घर्ममभि वा॑वशाना मिमा॑ति मायुं पय॑ते पयो॑भि: ॥६॥

अयं स शि॑ङ्क्ते येन गौरभिवृ॑ता मिमा॑ति मायुं ध्वसनावधि॑ श्रिता ।
सा चित्तिभिर्नि हि चकार मर्त्या॑न्विद्युद्भव॑न्ती प्रति॑ वव्रिमौ॑हत ॥७॥

अनच्छ॑ये तुरगा॑तु जीवमेज॑द्ध्रुवं मध्य आ पस्त्याद्गनाम् ।
जीवो मृतस्य॑ चरति स्वधाभिरम॑र्त्यो मर्त्ये॑ना सयो॑नि: ॥८॥

विधुं द॑द्राणं स॑लिलस्य॑ पृष्ठे युवा॑नं सन्तं॑ पलितो ज॑गार ।
देवस्य॑ पश्य काव्यं॑ महित्वाद्य ममार स ह्य: समा॑न ॥९॥

य ईं॑ चकार न सो अस्य वे॑द य ईं॑ ददर्श हिरुगिन्नु तस्मा॑त् ।
स मातुर्योना परि॑वीतो अन्तर्ब॑हुप्रजा निरृ॑तिरा वि॑वेश ॥१०॥

अप॑श्यं गोपाम॑निपद्य॑मानमा च परा॑ च पथिभिश्चर॑न्तम् ।
स सध्रीची: स विषू॑चीर्वसा॑न आ व॑रीवर्ति भुव॑नेष्वन्त: ॥११॥

द्यौर्न॑: पिता ज॑निता नाभिरत्र बन्धु॑र्नो माता पृ॑थिवी महीयम् ।
उत्तानयो॑श्चम्वो३र्योनि॑रन्तरत्रा॑ पिता दु॑हितुर्गर्भमाधा॑त् ॥१२॥

पृच्छामि॑ त्वा परमन्तं॑ पृथिव्या: पृच्छामि वृष्णो अश्व॑स्य रेत॑: ।
पृच्छामि विश्व॑स्य भुव॑नस्य नाभिं॑ पृच्छामि॑ वाच: प॑रमं व्योद्गम ॥१३॥

इयं वेदि: परो अन्त॑: पृथिव्या अयं सोमो वृष्णो अश्व॑स्य रेत॑: ।
अयं यज्ञो विश्व॑स्य भुव॑नस्य नाभि॑र्ब्रह्मायं वाच: प॑रमं व्योद्गम ॥१४॥

न वि जा॑नामि यदि॑वेदमस्मि॑ निण्य: संन॑द्धो मन॑सा चरामि ।
यदा माग॑न्प्रथमजा ऋतस्यादिद्वाचो अ॑श्नुवे भागमस्या: ॥१५॥

अपाङ् प्राङे॑ति स्वधया॑ गृभीतोऽम॑र्त्यो मर्त्ये॑ना सयो॑नि: ।
ता शश्व॑न्ता विषूचीना॑ वियन्ता न्य१न्यं चिक्युर्न नि चि॑क्युरन्यम् ॥१६॥

सप्तार्ध॑गर्भा भुव॑नस्य रेतो विष्णो॑स्तिष्ठन्ति प्रदिशा विध॑र्मणि ।
ते धीतिभिर्मन॑सा ते वि॑पश्चित॑: परिभुव: परि॑ भवन्ति विश्वत॑: ॥१७॥

ऋचो अक्षरे॑ परमे व्योद्गमन्यस्मि॑न्देवा अधि विश्वे॑ निषेदु: ।
यस्तन्न वेद किमृचा क॑रिष्यति य इत्तद्विदुस्ते अमी समा॑सते ॥१८॥

ऋच: पदं मात्र॑या कल्पय॑न्तोऽर्धर्चेन॑ चकॢपुर्विश्वमेज॑त् ।
त्रिपाद्ब्रह्म॑ पुरुरूपं वि त॑ष्ठे तेन॑ जीवन्ति प्रदिशश्चत॑स्र: ॥१९॥

सूयवसाद्भग॑वती हि भूया अधा॑ वयं भग॑वन्त: स्याम ।
अद्धि तृण॑मघ्न्ये विश्वदानीं पिब॑ शुद्धमु॑दकमाचर॑न्ती ॥२०॥

गौरिन्मि॑माय सलिलानि तक्षत्येक॑पदी द्विपदी सा चतु॑ष्पदी ।
अष्टाप॑दी नव॑पदी बभूवुषी॑ सहस्रा॑क्षरा भुव॑नस्य पङ्क्तिस्तस्या॑: समुद्रा अधि वि क्ष॑रन्ति ॥२१॥

कृष्णं नियानं हर॑य: सुपर्णा अपो वसा॑ना दिवमुत्प॑तन्ति ।
तं आव॑वृत्रन्त्सद॑नादृतस्यादिद्घृतेन॑ पृथिवीं व्यूद्गदु: ॥२२॥

अपादे॑ति प्रथमा पद्वती॑नां कस्तद्वां॑ मित्रावरुणा चि॑केत ।
गर्भो॑ भारं भ॑रत्या चि॑दस्या ऋतं पिपर्त्यनृ॑तं नि पा॑ति ॥२३॥

विराड्वाग्विराट्पृ॑थिवी विराडन्तरि॑क्षं विराट्प्रजाप॑ति: ।
विराण्मृत्यु: साध्याना॑मधिराजो ब॑भूव तस्य॑ भूतं भव्यं वशे स मे॑ भूतं भव्यं वशे॑ कृणोतु ॥२४॥

शकमयं॑ धूममाराद॑पश्यं विषूवता॑ पर एनाव॑रेण ।
उक्षाणं पृश्नि॑मपचन्त वीरास्तानि धर्मा॑णि प्रथमान्या॑सन् ॥२५॥

त्रय॑: केशिन॑ ऋतुथा वि च॑क्षते संवत्सरे व॑पत एक॑ एषाम् ।
विश्व॑मन्यो अ॑भिचष्टे शची॑भिर्ध्राजिरेक॑स्य ददृशे न रूपम् ॥२६॥

चत्वारि वाक्परि॑मिता पदानि तानि॑ विदुर्ब्राह्मणा ये म॑नीषिण॑: ।
गुहा त्रीणि निहि॑ता नेङ्ग॑यन्ति तुरीयं॑ वाचो म॑नुष्याद्ग वदन्ति ॥२७॥

इन्द्रं॑ मित्रं वरु॑णमग्निमा॑हुरथो॑ दिव्य: स सु॑पर्णो गरुत्मा॑न् ।
एकं सद्विप्रा॑ बहुधा व॑दन्त्यग्निं यमं मा॑तरिश्वा॑नमाहु: ॥२८॥

॥ इति नवमं काण्डम् ॥
अथर्ववेद के अन्य काण्ड यहाँ से पढें
0 comments