HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् ३ (Atharvved Kand 3)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥ अथ तृतीयं काण्डम् ॥

 
प्रथमं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमर्चोऽग्नि: द्वितीयाया मरुत:  तृतीयादिचतसृणाञ्चेन्द्रो देवता: |  प्रथमाचतुर्थ्योस्त्रिष्टुप्  द्वितीयाया विराड्गर्भा भुरिक्त्रिष्टुप् तृतीयाषष्ठयोरनुष्टुप्  पञ्चम्याश्च विराट् पुरउष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अग्निर्न: शत्रून्प्रत्ये॑तु विद्वान्प्र॑तिदह॑न्नभिश॑स्तिमरा॑तिम् ।
स सेनां॑ मोहयतु परे॑षां निर्ह॑स्तांश्च कृणवज्जातवे॑दा: ॥१॥
यूयमुग्रा म॑रुत ईदृशे॑ स्थाभि प्रेत॑ मृणत सह॑ध्वम् ।
अमी॑मृणन्वस॑वो नाथिता इमे अग्निर्ह्येद्गषां दूत: प्रत्येतु॑ विद्वान् ॥२॥
अमित्रसेनां॑ मघवन्नस्माञ्छ॑त्रूयतीमभि ।
युवं तानि॑न्द्र वृत्रहन्नग्निश्च॑ दहतं प्रति॑ ॥३॥
प्रसू॑त इन्द्र प्रवता हरि॑भ्यां प्र ते वज्र॑: प्रमृणन्ने॑तु शत्रू॑न् ।
जहि प्रतीचो॑ अनूच: परा॑चो विष्व॑क्सत्यं कृ॑णुहि चित्तमे॑षाम् ॥४॥
इन्द्र सेनां॑ मोहयामित्रा॑णाम् ।
अग्नेर्वात॑स्य ध्राज्या तान्विषू॑चो वि ना॑शय ॥५॥
इन्द्र: सेनां॑ मोहयतु मरुतो॑ घ्नन्त्वोज॑सा ।
चक्षूं॑ष्यग्निरा द॑त्तां पुन॑रेतु परा॑जिता ॥६॥
 
 
 
द्वितीयं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमाद्वितीययोरृचोरग्नि:  तृतीयाचतुर्थ्योरिन्द्र:  पञ्चम्या द्यौ:  षष्ठ्याश्च मरुतो देवता: |  प्रथमापञ्चमीषष्ठीनां त्रिष्टुप्  द्वितीयादितृचस्य चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अग्निर्नो॑ दूत: प्रत्येतु विद्वान्प्र॑तिदह॑न्नभिश॑स्तिमरा॑तिम् ।
स चित्तानि॑ मोहयतु परे॑षां निर्ह॑स्तांश्च कृणवज्जातवे॑दा: ॥१॥
अयमग्निर॑मूमुहद्यानि॑ चित्तानि॑ वो हृदि ।
वि वो॑ धमत्वोक॑स: प्र वो॑ धमतु सर्वत॑: ॥२॥
इन्द्र॑ चित्तानि॑ मोहय॑न्नर्वाङाकू॑त्या चर ।
अग्नेर्वात॑स्य ध्राज्या तान्विषू॑चो वि ना॑शय ॥३॥
व्याद्गकूतय एषामिताथो॑ चित्तानि॑ मुह्यत ।
अथो यदद्यैषां॑ हृदि तदे॑षां परि निर्ज॑हि ॥४॥
अमीषां॑ चित्तानि॑ प्रतिमोहय॑न्ती गृहाणाङ्गा॑न्यप्वे परे॑हि ।
अभि प्रेहि निर्द॑ह हृत्सु शोकैर्ग्राह्यामित्रांस्तम॑सा विध्य शत्रू॑न् ॥५॥
असौ या सेना॑ मरुत: परे॑षामस्मानैत्यभ्योज॑सा स्पर्ध॑माना ।
तां वि॑ध्यत तमसाप॑व्रतेन यथै॑षामन्यो अन्यं न जानात् ॥६॥
 
तृतीयं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्मन्त्रोक्ता वा देवता: | प्रथमाद्वितीयाचतुर्थीनामृचां त्रिष्टुप्  तृतीयायाश्चतुष्पदा भुरिक्पङ्क्ति: पञ्चमीषष्ठ्योश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अचि॑क्रदत्स्वपा इह भु॑वदग्ने व्यद्गचस्व रोद॑सी उरूची ।
युञ्जन्तु॑ त्वा मरुतो॑ विश्ववे॑दस आमुं न॑य नम॑सा रातह॑व्यम् ॥१॥
दूरे चित्सन्त॑मरुषास इन्द्रमा च्या॑वयन्तु सख्याय विप्र॑म् ।
यद्गा॑यत्रीं बृ॑हतीमर्कम॑स्मै सौत्रामण्या दधृ॑षन्त देवा: ॥२॥
अद्भ्यस्त्वा राजा वरु॑णो ह्वयतु सोम॑स्त्वा ह्वयतु पर्व॑तेभ्य: ।
इन्द्र॑स्त्वा ह्वयतु विड्भ्य आभ्य: श्येनो भूत्वा विश आ प॑तेमा: ॥३॥
श्येनो हव्यं न॑यत्वा पर॑स्मादन्यक्षेत्रे अप॑रुद्धं चर॑न्तम् ।
अश्विना पन्थां॑ कृणुतां सुगं त॑ इमं स॑जाता अभिसंवि॑शध्वम् ॥४॥
ह्वय॑न्तु त्वा प्रतिजना: प्रति॑ मित्रा अ॑वृषत ।
इन्द्राग्नी विश्वे॑ देवास्ते विशि क्षेम॑मदीधरन् ॥५॥
यस्ते हवं॑ विवद॑त्सजातो यश्च निष्ट्य॑: ।
अपा॑ञ्चमिन्द्र तं कृत्वाथेममिहाव॑ गमय ॥६॥
 
 
 
चतुर्थं सूक्तम्» सप्तर्चस्यास्य सूक्तस्याथर्वा ऋषि: | इन्द्रो देवता: |  प्रथमर्चो जगती  द्वितीयातृतीयाषष्ठीसप्तमीनां त्रिष्टुप् चतुर्थीपञ्चम्योश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


आ त्वा॑ गन्राष्ट्रं सह वर्चसोदि॑हि प्राङ्विशां पति॑रेकराट् त्वं वि रा॑ज ।
सर्वा॑स्त्वा राजन्प्रदिशो॑ ह्वयन्तूपसद्यो॑ नमस्योद्ग भवेह ॥१॥
त्वां विशो॑ वृणतां राज्याद्गय त्वामिमा: प्रदिश: पञ्च॑ देवी: ।
वर्ष्मन्राष्ट्रस्य॑ ककुदि॑ श्रयस्व ततो॑ न उग्रो वि भ॑जा वसू॑नि ॥२॥
अच्छ॑ त्वा यन्तु हविन॑: सजाता अग्निर्दूतो अ॑जिर: सं च॑रातै ।
जाया: पुत्रा: सुमन॑सो भवन्तु बहुं बलिं प्रति॑ पश्यासा उग्र: ॥३॥
अश्विना त्वाग्रे॑ मित्रावरु॑णोभा विश्वे॑ देवा मरुत॑स्त्वा ह्वयन्तु ।
अधा मनो॑ वसुदेया॑य कृणुष्व ततो॑ न उग्रो वि भ॑जा वसू॑नि ॥४॥
आ प्र द्र॑व परमस्या॑: परावत॑: शिवे ते द्यावा॑पृथिवी उभे स्ता॑म् ।
तदयं राजा वरु॑णस्तथा॑ह स त्वायम॑ह्वत्स उपेदमेहि॑ ॥५॥
इन्द्रे॑न्द्र मनुष्या३ परे॑हि सं ह्यज्ञा॑स्था वरु॑णै: संविदान: ।
स त्वायम॑ह्वत्स्वे सधस्थे स देवान्य॑क्षत्स उ॑ कल्पयाद्विश॑: ॥६॥
पथ्याद्ग रेवती॑र्बहुधा विरू॑पा: सर्वा॑: संगत्य वरी॑यस्ते अक्रन् ।
तास्त्वा सर्वा॑: संविदाना ह्व॑यन्तु दशमीमुग्र: सुमना॑ वशेह ॥७॥
 
 
 
पञ्चमं सूक्तम्» अष्टर्चस्यास्य सूक्तस्याथर्वा ऋषि: | सोम: पर्णमणिर्वा देवता: | प्रथमर्च: पुरोऽनुष्टुप्त्रिष्टुप् द्वितीयातृतीययो: पञ्चम्यादितृचस्य चानुष्टुप्  चतुर्थ्यास्त्रिष्टुप् अष्टम्याश्च विराडुरोबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


आयम॑गन्पर्णमणिर्बली बले॑न प्रमृणन्त्सपत्ना॑न् ।
ओजो॑ देवानां पय ओष॑धीनां वर्च॑सा मा जिन्वन्त्वप्र॑यावन् ॥१॥
मयि॑ क्षत्रं प॑र्णमणे मयि॑ धारयताद्रयिम् ।
अहं राष्ट्रस्या॑भीवर्गे निजो भू॑यासमुत्तम: ॥२॥
यं नि॑दधुर्वनस्पतौ गुह्यं॑ देवा: प्रियं मणिम् ।
तमस्मभ्यं॑ सहायु॑षा देवा द॑दतु भर्त॑वे ॥३॥
सोम॑स्य पर्ण: सह॑ उग्रमागन्निन्द्रे॑ण दत्तो वरु॑णेन शिष्ट: ।
तं प्रि॑यासं बहु रोच॑मानो दीर्घायुत्वाय॑ शतशा॑रदाय ॥४॥
आ मा॑रुक्षत्पर्णमणिर्मह्या अ॑रिष्टता॑तये ।
यथाहमु॑त्तरोऽसा॑न्यर्यम्ण उत संविद॑: ॥५॥
ये धीवा॑नो रथकारा: कर्मारा ये म॑नीषिण॑: ।
उपस्तीन्प॑र्ण मह्यं त्वं सर्वा॑न्कृण्वभितो जना॑न् ॥६॥
ये राजा॑नो राजकृत॑: सूता ग्रा॑मण्यद्गश्च ये ।
उपस्तीन्प॑र्ण मह्यं त्वं सर्वा॑न्कृण्वभितो जना॑न् ॥७॥
पर्णोद्गऽसि तनूपान: सयो॑निर्वीरो वीरेण मया॑ ।
संवत्सरस्य तेज॑सा तेन॑ बध्नामि त्वा मणे ॥८॥
 
 
षष्ठं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य जगद्बीजं पुरुष ऋषि: | अश्वत्थवनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


पुमा॑न्पुंस: परि॑जातोऽश्वत्थ: ख॑दिरादधि॑ ।
स ह॑न्तु शत्रून्मामकान्यानहं द्वेष्मि ये च माम् ॥१॥
तान॑श्वत्थ नि: शृ॑णीहि शत्रू॑न्वैबाधदोध॑त: ।
इन्द्रे॑ण वृत्रघ्ना मेदी मित्रेण वरु॑णेन च ॥२॥
यथा॑श्वत्थ निरभ॑नोऽन्तर्म॑हत्यद्गर्णवे ।
एवा तान्त्सर्वान्निर्भ॑ङ्ग्धि यानहं द्वेष्मि ये च माम् ॥३॥
य: सह॑मानश्चर॑सि सासहान इव ऋषभ: ।
तेना॑श्वत्थ त्वया॑ वयं सपत्ना॑न्त्सहिषीमहि ॥४॥
सिनात्वे॑नान्निरृ॑तिर्मृत्यो: पाशै॑रमोक्यै: ।
अश्व॑त्थ शत्रू॑न्मामकान्यानहं द्वेष्मि ये च माम् ॥५॥
यथा॑श्वत्थ वानस्पत्यानारोह॑न्कृणुषेऽध॑रान् ।
एवा मे शत्रो॑र्मूर्धानं विष्व॑ग्भिन्द्धि सह॑स्व च ॥६॥
तेद्गऽधराञ्च: प्र प्ल॑वन्तां छिन्ना नौरि॑व बन्ध॑नात् ।
न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥
प्रैणा॑न्नुदे मन॑सा प्र चित्तेनोत ब्रह्म॑णा ।
प्रैणा॑न्वृक्षस्य शाख॑याश्वत्थस्य॑ नुदामहे ॥८॥
 
 

सप्तमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: |  प्रथमादितृचस्य हरिण:  चतुर्थ्या ऋचस्तारके  पञ्चम्या आप: षष्ठीसप्तम्योश्च यक्ष्मनाशनं देवता: | प्रथमादिपञ्चामां सप्तम्याश्चानुष्टुप्  षष्ठ्याश्च भुरिगनुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)


हरिणस्य॑ रघुष्यदोऽधि॑ शीर्षणि॑ भेषजम् ।
स क्षे॑त्रियं विषाण॑या विषूचीन॑मनीनशत् ॥१॥
अनु॑ त्वा हरिणो वृषा॑ पद्भिश्चतुर्भि॑रक्रमीत् ।
विषा॑णे वि ष्य॑ गुष्पितं यद॑स्य क्षेत्रियं हृदि ॥२॥
अदो यद॑वरोच॑ते चतु॑ष्पक्षमिव च्छदि: ।
तेना॑ ते सर्वं॑ क्षेत्रियमङ्गे॑भ्यो नाशयामसि ॥३॥
अमू ये दिवि सुभगे॑ विचृतौ नाम तार॑के ।
वि क्षे॑त्रियस्य॑ मुञ्चतामधमं पाश॑मुत्तमम् ॥४॥
आप इद्वा उ॑ भेषजीरापो॑ अमीवचात॑नी: ।
आपो विश्व॑स्य भेषजीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रियात् ॥५॥
यदा॑सुते: क्रियमा॑नाया: क्षेत्रियं त्वा॑ व्यानशे ।
वेदाहं तस्य॑ भेषजं क्षे॑त्रियं ना॑शयामि त्वत् ॥६॥
अपवासे नक्ष॑त्राणामपवास उषसा॑मुत ।
अपास्मत्सर्वं॑ दुर्भूतमप॑ क्षेत्रियमु॑च्छतु ॥७॥
 
 

अष्टमं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमादिचतुरृचां मित्रादयो विश्वे देवा: पञ्चमीषष्ठ्योश्च मनो देवता: |   प्रथमातृतीययोस्त्रिष्टुप्  द्वितीयाषष्ठ्योर्जगती चतुर्थ्याश्चतुष्पदा विराड्बृहतीगर्भा त्रिष्टुप् पञ्चम्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
आ या॑तु मित्र ऋतुभि: कल्प॑मान: संवेशय॑न्पृथिवीमुस्रिया॑भि: ।
अथास्मभ्यं वरु॑णो वायुरग्निर्बृहद्राष्ट्रं सं॑वेश्यंद्ग दधातु ॥१॥
धाता राति: स॑वितेदं जु॑शन्तामिन्द्रस्त्वष्टा प्रति॑ हर्यन्तु मे वच॑: ।
हुवे देवीमदि॑तिं शूर॑पुत्रां सजातानां॑ मध्यमेष्ठा यथासा॑नि ॥२॥
हुवे सोमं॑ सवितारं नमो॑भिर्विश्वा॑नादित्याँ अहमु॑त्तरत्वे ।
अयमग्निर्दी॑दायद्दीर्घमेव स॑जातैरिद्धोऽप्र॑तिब्रुवद्भि: ॥३॥
इहेद॑साथ न परो ग॑माथेर्यो॑ गोपा: पु॑ष्टपति॑र्व आज॑त् ।
अस्मै कामायोप॑ कामिनीर्विश्वे॑ वो देवा उ॑पसंय॑न्तु ॥४॥
सं वो मनां॑सि सं व्रता समाकू॑तीर्नमामसि ।
अमी ये विव्र॑ता स्थन तान्व: सं न॑मयामसि ॥५॥
अहं गृ॑भ्णामि मन॑सा मनां॑सि मम॑ चित्तमनु॑ चित्तेभिरेत॑ ।
मम वशे॑षु हृद॑यानि व: कृणोमि मम॑ यातमनु॑वर्त्मान एत॑ ॥६॥
 
 
 

नवमं सूक्तम्» षडृचस्यास्य सूक्तस्य वामदेव ऋषि: | द्यावापृथिव्यौ विश्वे देवा वा देवता: |  प्रथमादितृचस्य पञ्चम्या ऋचश्चानुष्टुप् चतुर्थ्याश्चतुष्पदा निचृद्बृहती  षष्ठ्याश्च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


कर्शफ॑स्य विशफस्य द्यौष्पिता पृ॑थिवी माता ।
यथा॑भिचक्र दे॑वास्तथाप॑ कृणुता पुन॑: ॥१॥
अश्रेष्माणो॑ अधारयन्तथा तन्मनु॑ना कृतम् ।
कृणोमि वध्रि विष्क॑न्धं मुष्काबर्हो गवा॑मिव ॥२॥
पिशङ्गे सूत्रे खृग॑लं तदा ब॑ध्नन्ति वेधस॑: ।
श्रवस्युं शुष्मं॑ काबवं वध्रिं॑ कृण्वन्तु बन्धुर॑: ॥३॥
येना॑ श्रवस्यवश्चर॑थ देवा इ॑वासुरमायया॑ ।
शुनां॑ कपिरि॑व दूष॑णो बन्धु॑रा काबवस्य॑ च ॥४॥
दुष्ट्यै हि त्वा॑ भत्स्यामि॑ दूषयिष्यामि॑ काबवम् ।
उदाशवो रथा॑ इव शपथे॑भि: सरिष्यथ ॥५॥
एक॑शतं विष्क॑न्धानि विष्ठि॑ता पृथिवीमनु॑ ।
तेषां त्वामग्रे उज्ज॑हरुर्मणिं वि॑ष्कन्धदूष॑णम् ॥६॥
 
 

दशमं सूक्तम्» त्रयोदशर्चस्यास्य सूक्तस्याथर्वा ऋषि: | अष्टका देवता: |  प्रथमादितृचस्याष्टम्यादिचतसृणामृचां त्रयोदश्याश्चानुष्टुप् चतुर्थ्यादितृचस्य द्वादश्याश्च त्रिष्टुप् सप्तम्याश्च त्र्यवसाना षट्पदा विराड्गर्भातिजगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
प्रथमा ह व्युद्गवास सा धेनुर॑भवद्यमे ।
सा न: पय॑स्वती दुहामुत्त॑रामुत्तरां समा॑म् ॥१॥
यां देवा: प्र॑तिनन्द॑न्ति रात्रिं॑ धेनुमु॑पायतीम् ।
संवत्सरस्य या पत्नी सा नो॑ अस्तु सुमङ्गली ॥२॥
संवत्सरस्य॑ प्रतिमां यां त्वा॑ रात्र्युपास्म॑हे ।
सा न आयु॑ष्मतीं प्रजां रायस्पोषे॑ण सं सृ॑ज ॥३॥
इयमेव सा या प्र॑थमा व्यौच्छ॑दास्वित॑रासु चरति प्रवि॑ष्टा ।
महान्तो॑ अस्यां महिमानो॑ अन्तर्वधूर्जि॑गाय नवगज्जनि॑त्री ॥४॥
वानस्पत्या ग्रावा॑णो घोष॑मक्रत हविष्कृण्वन्त॑: परिवत्सरीण॑म् ।
एका॑ष्टके सुप्रजस॑: सुवीरा॑ वयं स्या॑म पत॑यो रयीणाम् ॥५॥
इडा॑यास्पदं घृतव॑त्सरीसृपं जात॑वेद: प्रति॑ हव्या गृ॑भाय ।
ये ग्राम्या: पशवो॑ विश्वरू॑पास्तेषां॑ सप्तानां मयि रन्ति॑रस्तु ॥६॥
आ मा॑ पुष्टे च पोषे॑ च रात्रि॑ देवानां॑ सुमतौ स्या॑म ।
पूर्णा द॑र्वे परा॑ पत सुपू॑र्णा पुनरा प॑त ।
सर्वा॑न्यज्ञान्त्सं॑भुञ्जतीषमूर्जं॑ न आ भ॑र ॥७॥
आयम॑गन्त्संवत्सर: पति॑रेकाष्टके तव॑ ।
सा न आयु॑ष्मतीं प्रजां रायस्पोषे॑ण सं सृ॑ज ॥८॥
ऋतून्यज ऋतुपती॑नार्तवानुत हा॑यनान् ।
समा॑: संवत्सरान्मासा॑न्भूतस्य पत॑ये यजे ॥९॥
ऋतुभ्य॑ष्ट्वार्तवेभ्यो॑ माद्भ्य: सं॑वत्सरेभ्य॑: ।
धात्रे वि॑धात्रे समृधे॑ भूतस्य पत॑ये यजे ॥१०॥
इड॑या जुह्व॑तो वयं देवान्घृतव॑ता यजे ।
गृहानलु॑भ्यतो वयं सं वि॑शेमोप गोम॑त: ॥११॥
एकाष्टका तप॑सा तप्यमा॑ना जजान गर्भं॑ महिमानमिन्द्र॑म् ।
तेन॑ देवा व्यद्गसहन्त शत्रू॑न्हन्ता दस्यू॑नामभवच्छचीपति॑: ॥१२॥
इन्द्र॑पुत्रे सोम॑पुत्रे दुहितासि॑ प्रजाप॑ते: ।
कामा॑नस्माकं॑ पूरय प्रति॑ गृह्णाहि नो हवि: ॥१३॥
 
 
 
एकादशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | इन्द्राग्नी आयुर्यक्ष्मनाशनं देवता: | प्रथमादितृचस्य त्रिष्टुप्  चतुर्थ्या शक्वरीगर्भा जगती  पञ्चमीषष्ठ्योश्चानुष्टुप्  सप्तम्या उष्णिग्बृहती गर्भा पथ्यापङ्क्ति: अष्टम्याश्च षट्पदा बृहतीगर्भा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


मुञ्चामि॑ त्वा हविषा जीव॑नाय कम॑ज्ञातयक्ष्मादुत रा॑जयक्ष्मात् ।
ग्राहि॑र्जग्राह यद्येतदे॑नं तस्या॑ इन्द्राग्नी प्र मु॑मुक्तमेनम् ॥१॥
यदि॑ क्षितायुर्यदि॑ वा परे॑तो यदि॑ मृत्योर॑न्तिकं नी॑त एव ।
तमा ह॑रामि निरृ॑तेरुपस्थादस्पा॑र्शमेनं शतशा॑रदाय ॥२॥
सहस्राक्षेण॑ शतवी॑र्येण शतायु॑षा हविषाहा॑र्षमेनम् ।
इन्द्रो यथै॑नं शरदो नयात्यति विश्व॑स्य दुरितस्य॑ पारम् ॥३॥
शतं जी॑व शरदो वर्ध॑मान: शतं हे॑मन्तान्छतमु॑ वसन्तान् ।
शतं ते इन्द्रो॑ अग्नि: स॑विता बृहस्पति॑: शतायु॑षा हविषाहा॑र्षमेनम् ॥४॥
प्र वि॑शतं प्राणापानावनड्वाहा॑विव व्रजम् ।
व्यन्ये य॑न्तु मृत्यवो यानाहुरित॑रान्छतम् ॥५॥
इहैव स्तं॑ प्राणापानौ माप॑ गातमितो युवम् ।
शरी॑रमस्याङ्गा॑नि जरसे॑ वहतं पुन॑: ॥६॥
जरायै॑ त्वा परि॑ ददामि जरायै नि धु॑वामि त्वा ।
जरा त्वा॑ भद्रा ने॑ष्ट व्यन्ये य॑न्तु मृत्यवो यानाहुरित॑रान्छतम् ॥७॥
अभि त्वा॑ जरिमाहि॑त गामुक्षण॑मिव रज्ज्वा॑ ।
यस्त्वा॑ मृत्युरभ्यध॑त्त जाय॑मानं सुपाशया॑ ।
तं ते॑ सत्यस्य हस्ता॑भ्यामुद॑मुञ्चद्बृहस्पति॑: ॥८॥
 
 
 

द्वादशं सूक्तम्» नवर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | शालावास्तोष्पतिर्देवता: |  प्रथमाचतुर्थीपञ्चमीनामृचां त्रिष्टुप्  द्वितीयाया विराड् तृतीयाया बृहती  षष्ठ्या: शक्वरीगर्भा जगती  सप्तम्या आर्ष्यनुष्टुप्  अष्टम्या भुरिक्  नवम्याश्चानुष्टुप्छन्दांसि॥ (www.hindumantavya.blogspot.in)


इहैव ध्रुवां नि मि॑नोमि शालां क्षेमे॑ तिष्ठाति घृतमुक्षमा॑णा ।
तां त्वा॑ शाले सर्व॑वीरा: सुवीरा अरि॑ष्टवीरा उप सं च॑रेम ॥१॥
इहैव ध्रुवा प्रति॑ तिष्ठ शालेऽश्वा॑वती गोम॑ती सूनृता॑वती ।
ऊर्ज॑स्वती घृतव॑ती पय॑स्वत्युच्छ्र॑यस्व महते सौभ॑गाय ॥२॥
धरुण्यद्गसि शाले बृहच्छ॑न्दा: पूति॑धान्या ।
आ त्वा॑ वत्सो ग॑मेदा कु॑मार आ धेनव॑: सायमास्पन्द॑माना: ॥३॥
इमां शालां॑ सविता वायुरिन्द्रो बृहस्पतिर्नि मि॑नोतु प्रजानन् ।
उक्षन्तूद्रा मरुतो॑ घृतेन भगो॑ नो राजा नि कृषिं त॑नोतु ॥४॥
मान॑स्य पत्नि शरणा स्योना देवी देवेभिर्निमि॑तास्यग्रे॑ ।
तृणं वसा॑ना सुमना॑ असस्त्वमथास्मभ्यं॑ सहवी॑रं रयिं दा॑: ॥५॥
ऋतेन स्थूणामधि॑ रोह वंशोग्रो विराजन्नप॑ वृङ्क्ष्व शत्रू॑न् ।
मा ते॑ रिषन्नुपसत्तारो॑ गृहाणां॑ शाले शतं जी॑वेम शरद: सर्व॑वीरा: ॥६॥
एमां कु॑मारस्तरु॑ण आ वत्सो जग॑ता सह ।
एमां प॑रिस्रुत॑: कुम्भ आ दध्न: कलशै॑रगु: ॥७॥
पूर्णं ना॑रि प्र भ॑र कुम्भमेतं घृतस्य धारा॑ममृते॑न संभृ॑ताम् ।
इमां पातॄनमृते॑ना सम॑ङ्ग्धीष्टापूर्तमभि र॑क्षात्येनाम् ॥८॥
इमा आप: प्र भ॑राम्ययक्ष्मा य॑क्ष्मनाश॑नी: ।
गृहानुप प्र सी॑दाम्यमृते॑न सहाग्निना॑ ॥९॥
 
 
 

त्रयोदशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य भृगुरृषि: । वरुण: सिन्ध्वापो वा देवता: | प्रथमर्चो निचृदनुष्टुप्   द्वितीयादितृचस्य सप्तम्याश्चानुष्टुप् पञ्चम्या विराड्जगती  षष्ठ्याश्च निचृत्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यदद: सं॑प्रयतीरहावन॑दता हते ।
तस्मादा नद्यो३ नाम॑ स्थ ता वो नामा॑नि सिन्धव: ॥१॥
यत्प्रेषि॑ता वरु॑णेनाच्छीभं॑ समव॑ल्गत ।
तदा॑प्नोदिन्द्रो॑ वो यतीस्तस्मा॑दापो अनु॑ ष्ठन ॥२॥
अपकामं स्यन्द॑माना अवी॑वरत वो हि क॑म् ।
इन्द्रो॑ व: शक्ति॑भिर्देवीस्तस्माद्वार्नाम॑ वो हितम् ॥३॥
एको॑ वो देवोऽप्य॑तिष्ठत्स्यन्द॑माना यथावशम् ।
उदा॑निषुर्महीरिति तस्मा॑दुदकमु॑च्यते ॥४॥
आपो॑ भद्रा घृतमिदाप॑ आसन्नग्नीषोमौ॑ बिभ्रत्याप इत्ता: ।
तीव्रो रसो॑ मधुपृचा॑मरंगम आ मा॑ प्राणेन॑ सह वर्च॑सा गमेत् ॥५॥
आदित्प॑श्याम्युत वा॑ शृणोम्या मा घोषो॑ गछति वाङ्मा॑साम् ।
मन्ये॑ भेजानो अमृत॑स्य तर्हि हिर॑ण्यवर्णा अतृ॑पं यदा व॑: ॥६॥
इदं व॑ आपो हृद॑यमयं वत्स ऋ॑तावरी: ।
इहेत्थमेत॑ शक्वरीर्यत्रेदं वेशया॑मि व: ॥७॥
 
 

चतुर्दशं सूक्तम्» षडृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | गोष्ठो मन्त्रोक्ता वा देवता: | प्रथमादिपञ्चर्चामनुष्टुप्  षष्ठ्याश्चार्षी त्रिष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)


सं वो॑ गोष्ठेन॑ सुषदा सं रय्या सं सुभू॑त्या ।
अह॑र्जातस्य यन्नाम तेना॑ व: सं सृ॑जामसि ॥१॥
सं व॑: सृजत्वर्यमा सं पूषा सं बृहस्पति॑: ।
समिन्द्रो यो ध॑नंजयो मयि॑ पुष्यत यद्वसु॑ ॥२॥
संजग्माना अबि॑भ्युषीरस्मिन्गोष्ठे क॑रीषिणी॑: ।
बिभ्र॑ती: सोम्यं मध्व॑नमीवा उपेत॑न ॥३॥
इहैव गा॑व एत॑नेहो शके॑व पुष्यत ।
इहैवोत प्र जा॑यध्वं मयि॑ संज्ञान॑मस्तु व: ॥४॥
शिवो वो॑ गोष्ठो भ॑वतु शारिशाके॑व पुष्यत ।
इहैवोत प्र जा॑यध्वं मया॑ व: सं सृ॑जामसि ॥५॥
मया॑ गावो गोप॑तिना सचध्वमयं वो॑ गोष्ठ इह पो॑षयिष्णु: ।
रायस्पोषे॑ण बहुला भव॑न्तीर्जीवा जीव॑न्तीरुप॑ व: सदेम ॥६॥
 
 
 
पञ्चदशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्याथर्वा ऋषि: | विश्वे देवा इन्द्राग्नी वा देवता: | प्रथमर्चो भुरिक्त्रिष्टुप्   द्वितीयातृतीययो: षष्ठ्याश्च त्रिष्टुप् चतुर्थ्यास्त्र्यवसाना षट्पदा बृहतीगर्भा विराडत्यष्टि:  पञ्चम्या विराड्जगती  सप्तम्या अनुष्टुप्  अष्टम्याश्च निचृत्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
इन्द्र॑महं वणिजं॑ चोदयामि स न ऐतु॑ पुरएता नो॑ अस्तु ।
नुदन्नरा॑तिं परिपन्थिनं॑ मृगं स ईशा॑नो धनदा अ॑स्तु मह्य॑म् ॥१॥
ये पन्था॑नो बहवो॑ देवयाना॑ अन्तरा द्यावा॑पृथिवी संचर॑न्ति ।
ते मा॑ जुषन्तां पय॑सा घृतेन यथा॑ क्रीत्वा धन॑माहरा॑णि ॥२॥
इध्मेना॑ग्न इछमा॑नो घृतेन॑ जुहोमि हव्यं तर॑से बला॑य ।
यावदीशे ब्रह्म॑णा वन्द॑मान इमां धियं॑ शतसेया॑य देवीम् ॥३॥
इमाम॑ग्ने शरणिं॑ मीमृषो नो यमध्वा॑नमगा॑म दूरम् ।
शुनं नो॑ अस्तु प्रपणो वि॑क्रयश्च॑ प्रतिपण: फलिनं॑ मा कृणोतु ।
इदं हव्यं सं॑विदानौ जु॑षेथां शुनं नो॑ अस्तु चरितमुत्थि॑तं च ॥४॥
येन धने॑न प्रपणं चरा॑मि धने॑न देवा धन॑मिच्छमा॑न: ।
तन्मे भूयो॑ भवतु मा कनीयोऽग्ने॑ सातघ्नो देवान्हविषा नि षे॑ध ॥५॥
येन धने॑न प्रपणं चरा॑मि धने॑न देवा धन॑मिच्छमा॑न: ।
तस्मि॑न्म इन्द्रो रुचिमा द॑धातु प्रजाप॑ति: सविता सोमो॑ अग्नि: ॥६॥
उप॑ त्वा नम॑सा वयं होत॑र्वैश्वानर स्तुम: ।
स न॑: प्रजास्वात्मसु गोषु॑ प्राणेषु॑ जागृहि ॥७॥
विश्वाहा॑ ते सदमिद्भ॑रेमाश्वा॑येव तिष्ठ॑ते जातवेद: ।
रायस्पोषे॑ण समिषा मद॑न्तो मा ते॑ अग्ने प्रति॑वेशा रिषाम ॥८॥
 
 
 
षोडशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्याथर्वा ऋषि: | अग्नीन्द्रादयो मन्त्रोक्ता देवता: | प्रथमर्च आर्षी जगती - द्वितीयातृतीययो: पञ्चम्यादितृचस्य च त्रिष्टुप् चतुर्थ्याश्च भुरिक्पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्रातरग्निं प्रातरिन्द्रं॑ हवामहे प्रातर्मित्रावरु॑णा प्रातरश्विना ।
प्रातर्भगं॑ पूषणं ब्रह्म॑णस्पतिं॑ प्रात: सोम॑मुत रुद्रं ह॑वामहे ॥१॥
प्रातर्जितं भग॑मुग्रं ह॑वामहे वयं पुत्रमदि॑तेर्यो वि॑धर्ता ।
आध्रश्चिद्यं मन्य॑मानस्तुरश्चिद्राजा॑ चिद्यं भगं॑ भक्षीत्याह॑ ॥२॥
भग प्रणे॑तर्भग सत्य॑राधो भगेमां धियमुद॑वा दद॑न्न: ।
भग प्र णो॑ जनय गोभिरश्वैर्भग प्र नृभि॑र्नृवन्त॑: स्याम ॥३॥
उतेदानीं भग॑वन्त: स्यामोत प्र॑पित्व उत मध्ये अह्ना॑म् ।
उतोदि॑तौ मघवन्त्सूर्य॑स्य वयं देवानां॑ सुमतौ स्या॑म ॥४॥
भग॑ एव भग॑वाँ अस्तु देवस्तेना॑ वयं भग॑वन्त: स्याम ।
तं त्वा॑ भग सर्व इज्जो॑हवीमि स नो॑ भग पुरएता भ॑वेह ॥५॥
सम॑ध्वरायोषसो॑ नमन्त दधिक्रावे॑व शुच॑ये पदाय॑ ।
अर्वाचीनं व॑सुविदं भगं॑ मे रथ॑मिवाश्वा॑ वाजिन आ व॑हन्तु ॥६॥
अश्वा॑वतीर्गोम॑तीर्न उषासो॑ वीरव॑ती: सद॑मुछन्तु भद्रा: ।
घृतं दुहा॑ना विश्वत: प्रपी॑ता यूयं पा॑त स्वस्तिभि: सदा॑ न: ॥७॥
 
 

सप्तदशं सूक्तम्» नवर्चस्यास्य सूक्तस्य विश्वामित्र ऋषि: | सीता देवता: | प्रथमर्च आर्षी गायत्री  द्वितीयापञ्चमीनवमीनां त्रिष्टुप् तृतीयाया: पथ्यापङ्क्ति:   चतुर्थीषष्ठ्योरनुष्टुप् सप्तम्या विराट् पुर उष्णिक्  अष्टम्याश्च निचृदनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


सीरा॑ युञ्जन्ति कवयो॑ युगा वि त॑न्वते पृथ॑क् ।
धीरा॑ देवेषु॑ सुम्नयौ ॥१॥
युनक्त सीरा वि युगा त॑नोत कृते योनौ॑ वपतेह बीज॑म् ।
विराज: श्नुष्टि: सभ॑रा असन्नो नेदी॑य इत्सृण्यद्ग: पक्वमा य॑वन् ॥२॥
लाङ्ग॑लं पवीरव॑त्सुशीमं॑ सोमसत्स॑रु ।
उदिद्व॑पतु गामविं॑ प्रस्थाव॑द्रथवाह॑नं पीब॑रीं च प्रफर्व्यद्गम् ॥३॥
इन्द्र: सीतां नि गृ॑ह्णातु तां पूषाभि र॑क्षतु ।
सा न: पय॑स्वती दुहामुत्त॑रामुत्तरां समा॑म् ॥४॥
शुनं सु॑फाला वि तु॑दन्तु भूमिं॑ शुनं कीनाशा अनु॑ यन्तु वाहान् ।
शुना॑सीरा हविषा तोश॑माना सुपिप्पला ओष॑धी: कर्तमस्मै ॥५॥
शुनं वाहा: शुनं नर॑:शुनं कृ॑षतु लाङ्ग॑लम् ।
शुनं व॑रत्रा ब॑ध्यन्तां शुनमष्ट्रामुदि॑ङ्गय ॥६॥
शुना॑सीरेह स्म॑ मे जुषेथाम् ।
यद्दिवि चक्रथु: पयस्तेनेमामुप॑ सिञ्चतम् ॥७॥
सीते वन्दा॑महे त्वार्वाची॑ सुभगे भव ।
यथा॑ न: सुमना असो यथा॑ न: सुफला भुव॑: ॥८॥
घृतेन सीता मधु॑ना सम॑क्ता विश्वै॑र्देवैरनु॑मता मरुद्भि॑: ।
सा न॑: सीते पय॑साभ्याव॑वृत्स्वोर्ज॑स्वती घृतवत्पिन्व॑माना ॥९॥
 
 
अष्टादशं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: | वनस्पति: वाणपर्ण्योषधि: देवता: |   प्रथमादितृचस्य पञ्चम्या ऋचश्चानुष्टुप्  चतुर्थ्या अनुष्टुब्गर्भा चतुष्पादुष्णिक्  षष्ठ्याश्चोष्णिग्गर्भा पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


इमां ख॑नाम्योष॑धिं वीरुधां बल॑वत्तमाम् ।
यया॑ सपत्नीं बाध॑ते यया॑ संविन्दते पति॑म् ॥१॥
उत्ता॑नपर्णे सुभ॑गे देव॑जूते सह॑स्वति ।
सपत्नीं॑ मे परा॑ णुद पतिं॑ मे केव॑लं कृधि ॥२॥
नहि ते नाम॑ जग्राह नो अस्मिन्र॑मसे पतौ॑ ।
परा॑मेव प॑रावतं॑ सपत्नीं॑ गमयामसि ॥३॥
उत्त॑राहमु॑त्तर उत्तरेदुत्त॑राभ्य: ।
अध: सपत्नी या ममाध॑रा साध॑राभ्य: ॥४॥
अहम॑स्मि सह॑मानाथो त्वम॑सि सासहि: ।
उभे सह॑स्वती भूत्वा सपत्नीं॑ मे सहावहै ॥५॥
अभि ते॑ऽधां सह॑मानामुप॑ तेऽधां सही॑यसीम् ।
मामनु प्र ते मनो॑ वत्सं गौरि॑व धावतु पथा वारि॑व धावतु ॥६॥
 
 
 

एकोनविंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य वसिष्ठ ऋषि: | विश्वे देवा: चन्द्रमा इन्द्रो वा देवता: |  प्रथमर्च: पथ्याबृहती   द्वितीयाचतुर्थ्योरनुष्टुप्  तृतीयाया भुरिग्बृहती  पञ्चम्यास्त्रिष्टुप्  षष्ठ्यास्त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती सप्तम्या विराडास्तारपङ्क्ति:  अष्टम्याश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


संशि॑तं म इदं ब्रह्म संशि॑तं वीर्यं१ बल॑म् ।
संशि॑तं क्षत्रमजर॑मस्तु जिष्णुर्येषामस्मि॑ पुरोहि॑त: ॥१॥
समहमेषां राष्ट्रं स्या॑मि समोजो॑ वीर्यं१ बल॑म् ।
वृश्चामि शत्रू॑णां बाहूननेन॑ हविषाहम् ॥२॥
नीचै: प॑द्यन्तामध॑रे भवन्तु ये न॑: सूरिं मघवा॑नं पृतन्यान् ।
क्षिणामि ब्रह्म॑णामित्रानुन्न॑यामि स्वानहम् ॥३॥
तीक्ष्णी॑यांस: परशोरग्नेस्तीक्ष्णत॑रा उत ।
इन्द्र॑स्य वज्रात्तीक्ष्णी॑यांसो येषामस्मि॑ पुरोहि॑त: ॥४॥
एषामहमायु॑धा सं स्या॑म्येषां राष्ट्रं सुवी॑रं वर्धयामि ।
एषां क्षत्रमजर॑मस्तु जिष्ण्वे३षां चित्तं विश्वे॑ऽवन्तु देवा: ॥५॥
उद्ध॑र्षन्तां मघवन्वाजि॑नान्युद्वीराणां जय॑तामेतु घोष॑: ।
पृथग्घोषा॑ उलुलय॑: केतुमन्त उदी॑रताम् ।
देवा इन्द्र॑ज्येष्ठा मरुतो॑ यन्तु सेन॑या ॥६॥
प्रेता जय॑ता नर उग्रा व॑: सन्तु बाहव॑: ।
तीक्ष्णेष॑वोऽबलध॑न्वनो हतोग्रायु॑धा अबलानुग्रबा॑हव: ॥७॥
अव॑सृष्टा परा॑ पत शर॑व्ये ब्रह्म॑संशिते ।
जयामित्रान्प्र प॑द्यस्व जह्येद्गषां वरं॑वरं मामीषां॑ मोचि कश्चन ॥८॥
 
 

विंशं सूक्तम्» दशर्चस्यास्य सूक्तस्य वसिष्ठ ऋषि: |  प्रथमाद्वितीययोरृचो: पञ्चम्याश्चाग्नि:  तृतीयाचतुर्थ्यो: षष्ठ्यादिपञ्चानाञ्च भगादयो देवता: | प्रथमादिपञ्चानां सप्तमीनवमीदशमीनाञ्चानुष्टुप् षष्ठ्या: पथ्यापङ्क्ति:  अष्टम्याश्च विराड्जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अयं ते योनि॑रृत्वियो यतो॑ जातो अरो॑चथा: ।
तं जानन्न॑ग्न आ रोहाधा॑ नो वर्धय रयिम् ॥१॥
अग्ने अच्छा॑ वदेह न॑: प्रत्यङ्न॑: सुमना॑ भव ।
प्र णो॑ यच्छ विशां पते धनदा अ॑सि नस्त्वम् ॥२॥
प्र णो॑ यच्छत्वर्यमा प्र भग: प्र बृहस्पति॑: ।
प्र देवी: प्रोत सूनृता॑ रयिं देवी द॑धातु मे ॥३॥
सोमं राजा॑नमव॑सेऽग्निं गीर्भिर्ह॑वामहे ।
आदित्यं विष्णुं सूर्यं॑ ब्रह्माणं॑ च बृहस्पति॑म् ॥४॥
त्वं नो॑ अग्ने अग्निभिर्ब्रह्म॑ यज्ञं च॑ वर्धय ।
त्वं नो॑ देव दात॑वे रयिं दाना॑य चोदय ॥५॥
इन्द्रवायू उभाविह सुहवेह ह॑वामहे ।
यथा॑ न: सर्व इज्जन: संग॑त्यां सुमना असद्दान॑कामश्च नो भुव॑त् ॥६॥
अर्यमणं बृहस्पतिमिन्द्रं दाना॑य चोदय ।
वातं विष्णुं सर॑स्वतीं सवितारं॑ च वाजिन॑म् ॥७॥
वाज॑स्य नु प्र॑सवे सं ब॑भूविमेमा च विश्वा भुव॑नान्यन्त: ।
उतादि॑त्सन्तं दापयतु प्रजानन्रयिं च॑ न: सर्व॑वीरं नि य॑च्छ ॥८॥
दुह्रां मे पञ्च॑ प्रदिषो॑ दुह्रामुर्वीर्य॑थाबलम् ।
प्रापे॑यं सर्वा आकू॑तीर्मनसा हृद॑येन च ॥९॥
गोसनिं वाच॑मुदेयं वर्च॑सा माभ्युदि॑हि ।
आ रु॑न्धां सर्वतो॑ वायुस्त्वष्टा पोषं॑ दधातु मे ॥१०॥
 
 
 
एकविंशं सूक्तम्» दशर्चस्यास्य सूक्तस्य वसिष्ठ ऋषि: |  प्रथमादिसप्तर्चामग्नय: अष्टम्यादितृचस्य च मन्त्रोक्ता देवता: |  प्रथमाया: पुरोऽनुष्टुप्त्रिष्टुप्  द्वितीयातृतीयाष्टमीनां भुरिक् त्रिष्टुप्  चतुर्थ्यास्त्रिष्टुप्  पञ्चम्या जगती  षष्ठ्या उपरिष्टाद्विराड्बृहती  सप्तम्या विराड्गर्भा त्रिष्टुप् नवम्या निचृदनुष्टुप्  दशम्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


ये अग्नयो॑ अप्स्व१न्तर्ये वृत्रे ये पुरु॑षे ये अश्म॑सु ।
य आ॑विवेशोष॑धीर्यो वनस्पतींस्तेभ्यो॑ अग्निभ्यो॑ हुतम॑स्त्वेतत् ॥१॥
य: सोमे॑ अन्तर्यो गोष्वन्तर्य आवि॑ष्टो वय॑:सु यो मृगेषु॑ ।
य आ॑विवेश॑ द्विपदो यश्चतु॑ष्पदस्तेभ्यो अग्निभ्यो॑ हुतम॑स्त्वेतत् ॥२॥
य इन्द्रे॑ण सरथं याति॑ देवो वै॑श्वानर उत वि॑श्वदाव्यद्ग: ।
यं जोह॑वीमि पृत॑नासु सासहिं तेभ्यो॑ अग्निभ्यो॑ हुतम॑स्त्वेतत् ॥३॥
यो देवो विश्वाद्यमु काम॑माहुर्यं दातारं॑ प्रतिगृह्णन्त॑माहु: ।
यो धीर॑: शक्र: प॑रिभूरदा॑भ्यस्तेभ्यो॑ अग्निभ्यो॑ हुतम॑स्त्वेतत् ॥४॥
यं त्वा होता॑रं मन॑साभि सं॑विदुस्त्रयो॑दश भौवना: पञ्च॑ मानवा: ।
वर्चोधसे॑ यशसे॑ सूनृता॑वते तेभ्यो॑ अग्निभ्यो॑ हुतम॑स्त्वेतत् ॥५॥
उक्षान्ना॑य वशान्ना॑य सोम॑पृष्ठाय वेधसे॑ ।
वैश्वानरज्ये॑ष्ठेभ्यस्तेभ्यो॑ अग्निभ्यो॑ हुतम॑स्त्वेतत् ॥६॥
दिवं॑ पृथिवीमन्वन्तरि॑क्षं ये विद्युत॑मनुसंचर॑न्ति ।
ये दिक्ष्व१न्तर्ये वाते॑ अन्तस्तेभ्यो॑ अग्निभ्यो॑ हुतम॑स्त्वेतत् ॥७॥
हिर॑ण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरु॑णं मित्रमग्निम् ।
विश्वा॑न्देवानङ्गि॑रसो हवामहे इमं क्रव्यादं॑ शमयन्त्वग्निम् ॥८॥
शान्तो अग्नि: क्रव्याच्छान्त: पु॑रुषरेष॑ण: ।
अथो यो वि॑श्वदाव्य१स्तं क्रव्याद॑मशीशमम् ॥९॥
ये पर्व॑ता: सोम॑पृष्ठा आप॑ उत्तानशीव॑री: ।
वात॑: पर्जन्य आदग्निस्ते क्रव्याद॑मशीशमन् ॥१०॥
 
 
 
द्वाविंशं सूक्तम्» षडृचस्यास्य सूक्तस्य वसिष्ठ ऋषि: | बृहस्पतिर्विश्वे देवा वा देवता: | प्रथमर्चो विराट् त्रिष्टुप्  द्वितीयापञ्चमीषष्ठीनामनुष्टुप् तृतीयाया: पञ्चपदा परानुष्टुब्विराडतिजगती चतुर्थ्याश्च त्र्यवसाना षट्पदा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


हस्तिवर्चसं प्र॑थतां बृहद्यशो अदि॑त्या यत्तन्वद्ग: संबभूव॑ ।
तत्सर्वे सम॑दुर्मह्य॑मेतद्विश्वे॑ देवा अदि॑ति: सजोषा॑: ॥१॥
मित्रश्च वरु॑णश्चेन्द्रो॑ रुद्रश्च॑ चेततु ।
देवासो॑ विश्वधा॑यसस्ते मा॑ञ्जन्तु वर्च॑सा ॥२॥
येन॑ हस्ती वर्च॑सा संबभूव येन राजा॑ मनुष्येद्गष्वप्स्व१न्त ।
येन॑ देवा देवतामग्र॑ आयन्तेन मामद्य वर्चसाग्ने॑ वर्चस्विनं॑ कृणु ॥३॥
यत्ते वर्चो॑ जातवेदो बृहद्भ॑वत्याहु॑ते: ।
यावत्सूर्य॑स्य वर्च॑ आसुरस्य॑ च हस्तिन॑: ।
ताव॑न्मे अश्विना वर्च आ ध॑त्तां पुष्क॑रस्रजा ॥४॥
यावच्चत॑स्र: प्रदिशश्चक्षुर्याव॑त्समश्नुते ।
तावत्समैत्वि॑न्द्रियं मयि तद्ध॑स्तिवर्चसम् ॥५॥
हस्ती मृगाणां॑ सुषदा॑मतिष्ठावा॑न्बभूव हि ।
तस्य भगे॑न वर्च॑साभि षि॑ञ्चामि मामहम् ॥६॥
 
 
त्रयोविंशं सूक्तम्» षडृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | चन्द्रमा योनिर्वा देवता: | प्रथमादिचतसृणामृचामनुष्टुप्  पञ्चम्या उपरिष्टाद्भुरिग्बृहती षष्ठ्याश्च स्कन्धोग्रीवी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


येन॑ वेहद्बभूवि॑थ नाशया॑मसि तत्त्वत् ।
इदं तदन्यत्र त्वदप॑ दूरे नि द॑ध्मसि ॥१॥
आ ते योनिं गर्भ॑ एतु पुमान्बाण॑ इवेषुधिम् ।
आ वीरोऽत्र॑ जायतां पुत्रस्ते दश॑मास्य: ॥२॥
पुमां॑सं पुत्रं ज॑नय तं पुमाननु॑ जायताम् ।
भवा॑सि पुत्राणां॑ माता जातानां॑ जनया॑श्च यान् ॥३॥
यानि॑ भद्राणि बीजा॑न्यृषभा जनय॑न्ति च ।
तैस्त्वं पुत्रं वि॑न्दस्व सा प्रसूर्धेनु॑का भव ॥४॥
कृणोमि॑ ते प्राजापत्यमा योनिंगर्भ॑ एतु ते ।
विन्दस्व त्वं पुत्रं ना॑रि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव॑ ॥५॥
यासां द्यौष्पिता पृ॑थिवी माता स॑मुद्रो मूलं॑ वीरुधां॑ बभूव॑ ।
तास्त्वा॑ पुत्रविद्या॑य दैवी: प्रावन्त्वोष॑धय: ॥६॥
 
 
चतुर्विंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य भृगुरृषि: । वनस्पति: प्रजापतिर्वा देवता: | प्रथमर्चस्तृतीयादिपञ्चानाञ्चानुष्टुप्  द्वितीयायाश्च निचृत्पथ्यापङ्क्तिश्छन्दसी॥ (www.hindumantavya.blogspot.in)


पय॑स्वतीरोष॑धय: पय॑स्वन्मामकं वच॑: ।
अथो पय॑स्वतीनामा भ॑रेऽहं स॑हस्रश: ॥१॥
वेदाहं पय॑स्वन्तं चकार॑ धान्यंद्ग बहु ।
संभृत्वा नाम यो देवस्तं वयं ह॑वामहे योयो अय॑ज्वनो गृहे ॥२॥
इमा या: पञ्च॑ प्रदिशो॑ मानवी: पञ्च॑ कृष्टय॑: ।
वृष्टे शापं॑ नदीरि॑वेह स्फातिं समाव॑हान् ॥३॥
उदुत्सं॑ शतधा॑रं सहस्र॑धारमक्षि॑तम् ।
एवास्माकेदं धान्यंद्ग सहस्र॑धारमक्षि॑तम् ॥४॥
शत॑हस्त समाह॑र सह॑स्रहस्त सं कि॑र ।
कृतस्य॑ कार्यद्गस्य चेह स्फातिं समाव॑ह ॥५॥
तिस्रो मात्रा॑ गन्धर्वाणां चत॑स्रो गृहप॑त्न्या: ।
तासां या स्फा॑तिमत्त॑मा तया॑ त्वाभि मृ॑शामसि ॥६॥
उपोहश्च॑ समूहश्च॑ क्षत्तारौ॑ ते प्रजापते ।
ताविहा व॑हतां स्फातिं बहुं भूमानमक्षि॑तम् ॥७॥
 
 

पञ्चविंशं सूक्तम्» षडृचस्यास्य सूक्तस्य भृगुरृषि: । मित्रावरुणौ कामेषवश्च देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


उत्तुदस्त्वोत्तु॑दतु मा धृ॑था: शय॑ने स्वे ।
इषु: काम॑स्य या भीमा तया॑ विध्यामि त्वा हृदि ॥१॥
आधीप॑र्णां काम॑शल्यामिषुं॑ संकल्पकु॑ल्मलाम् ।
तां सुसं॑नतां कृत्वा कामो॑ विध्यतु त्वा हृदि ॥२॥
या प्लीहानं॑ शोषय॑ति कामस्येषु: सुसं॑नता ।
प्राचीन॑पक्षा व्योद्गषा तया॑ विध्यामि त्वा हृदि ॥३॥
शुचा विद्धा व्योद्गषया शुष्का॑स्याभि स॑र्प मा ।
मृदुर्निम॑न्यु: केव॑ली प्रियवादिन्यनु॑व्रता ॥४॥
आजा॑मि त्वाज॑न्या परि॑ मातुरथो॑ पितु: ।
यथा मम क्रतावसो मम॑ चित्तमुपाय॑सि ॥५॥
व्यद्गस्यै मित्रावरुणौ हृदश्चित्तान्य॑स्यतम् ।
अथै॑नामक्रतुं कृत्वा ममैव कृ॑णुतं वशे॑ ॥६॥
 

षड्विंशं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमर्च: साग्नयो हेतय: द्वितीयाया: सकामा अविष्यव:  तृतीयाया अव्युक्ता वैराजा: चतुर्थ्या: सवाता: प्रविध्यन्त:  पञ्चम्या: सौषधिका निलिम्पा: षष्ठ्याश्च बृहस्पतियुक्ता अवस्वन्तो देवता: |  प्रथमायास्त्रिष्टुप् द्वितीयापञ्चमीषष्ठीनां जगती तृतीयाश्चतुर्थ्योश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


ये३ऽस्यां स्थ प्राच्यां॑ दिशि हेतयो नाम॑ देवास्तेषां॑ वो अग्निरिष॑व: ।
ते नो॑ मृडत ते नोऽधि॑ ब्रूत तेभ्यो॑ वो नमस्तेभ्यो॑ व: स्वाहा॑ ॥१॥
ये३ऽस्यां स्थ दक्षि॑णायां दिश्यद्गविष्यवो नाम॑ देवास्तेषां॑ व: काम इष॑व: ।
ते नो॑ मृडत ते नोऽधि॑ ब्रूत तेभ्यो॑ वो नमस्तेभ्यो व: स्वाहा॑ ॥२॥
ये३ऽस्यां स्थ प्रतीच्यां॑ दिशि वै॑राजा नाम॑ देवास्तेषां॑ व आप इष॑व: ।
ते नो॑ मृडत ते नोऽधि॑ ब्रूत तेभ्यो॑ वो नमस्तेभ्यो॑ व: स्वाहा॑ ॥३॥
ये३ऽस्यां स्थोदी॑च्यां दिशि प्रविध्य॑न्तो नाम॑ देवास्तेषां॑ वो वात इष॑व: ।
ते नो॑ मृडत ते नोऽधि॑ ब्रूत तेभ्यो॑ वो नमस्तेभ्यो॑ व: स्वाहा॑ ॥४॥
ये३ऽस्यां स्थ ध्रुवायां॑ दिशि नि॑लिम्पा नाम॑ देवास्तेषां॑ व ओष॑धीरिष॑व: ।
ते नो॑ मृडत ते नोऽधि॑ ब्रूत तेभ्यो॑ वो नमस्तेभ्यो॑ व: स्वाहा॑ ॥५॥
ये३ऽस्यां स्थोर्ध्वायां॑ दिश्यव॑स्वन्तो नाम॑ देवास्तेषां॑ वो बृहस्पतिरिष॑व: ।
ते नो॑ मृडत ते नोऽधि॑ ब्रूत तेभ्यो॑ वो नमस्तेभ्यो॑ व: स्वाहा॑ ॥६॥
 
 

सप्तविंशं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमर्च: प्राची दिगग्निरसित आदित्या:  द्वितीयाया दक्षिणा दिगिन्द्रस्तिरश्चिराजि: पितर: तृतीयाया: प्रतीची दिग्वरुण: पृदाकुरन्नम्  चतुर्थ्या उदीची दिक्सोम: स्वजोऽशनि:  पञ्चम्या ध्रुवा दिग्विष्णु: कल्माषग्रीवो वीरुध:  षष्ठ्याश्चोर्ध्वा दिग्बृहस्पति: श्वित्रं वर्षञ्च देवता: |   प्रथमातृतीयाचतुर्थीषष्ठीनां पञ्चपदा ककुम्मतीगर्भाष्टि:  द्वितीयाया पञ्चपदा ककुम्मतीगर्भात्यष्टि: पञ्चम्याश्च पञ्चपदा ककुम्मतीगर्भा भुरिगष्टिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्राची दिगग्निरधि॑पतिरसितो र॑क्षितादित्या इष॑व: ।
तेभ्यो नमोऽधि॑पतिभ्यो नमो॑ रक्षितृभ्यो नम इषु॑भ्यो नम॑ एभ्यो अस्तु ।
यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे॑ दध्म: ॥१॥
दक्षि॑णा दिगिन्द्रोऽधि॑पतिस्तिर॑श्चिराजी रक्षिता पितर इष॑व: ।
तेभ्यो नमोऽधि॑पतिभ्यो नमो॑ रक्षितृभ्यो नम इषु॑भ्यो नम॑ एभ्यो अस्तु ।
यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे॑ दध्म: ॥२॥
प्रतीची दिग्वरुणोऽधि॑पति: पृदा॑कू रक्षितान्नमिष॑व: ।
तेभ्यो नमोऽधि॑पतिभ्यो नमो॑ रक्षितृभ्यो नम इषु॑भ्यो नम॑ एभ्यो अस्तु ।
यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे॑ दध्म: ॥३॥
उदी॑ची दिक्सोमोऽधि॑पति: स्वजो र॑क्षिताशनिरिष॑व: ।
तेभ्यो नमोऽधि॑पतिभ्यो नमो॑ रक्षितृभ्यो नम इषु॑भ्यो नम॑ एभ्यो अस्तु ।
यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे॑ दध्म: ॥४॥
ध्रुवा दिग्विष्णुरधि॑पति: कल्माष॑ग्रीवो रक्षिता वीरुध इष॑व: ।
तेभ्यो नमोऽधि॑पतिभ्यो नमो॑ रक्षितृभ्यो नम इषु॑भ्यो नम॑ एभ्यो अस्तु ।
यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे॑ दध्म: ॥५॥
ऊर्ध्वा दिग्बृहस्पतिरधि॑पति: श्वित्रो र॑क्षिता वर्षमिष॑व: ।
तेभ्यो नमोऽधि॑पतिभ्यो नमो॑ रक्षितृभ्यो नम इषु॑भ्यो नम॑ एभ्यो अस्तु ।
यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे॑ दध्म: ॥६॥
 
 
 

अष्टाविंशं सूक्तम्» षडृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | यमिनी देवता: | प्रथमर्चोऽतिशक्वरीगर्भा चतुष्पदातिजगती  द्वितीयातृतीययोरनुष्टुप् चतुर्थ्या यवमध्या विराट्ककुप्  पञ्चम्यास्त्रिष्टुप् षष्ठ्याश्च विराड्गर्भा प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


एकै॑कयैषा सृष्ट्या सं ब॑भूव यत्र गा असृ॑जन्त भूतकृतो॑ विश्वरू॑पा: ।
यत्र॑ विजाय॑ते यमिन्य॑पर्तु: सा पशून्क्षि॑णाति रिफती रुश॑ती ॥१॥
एषा पशून्त्सं क्षि॑णाति क्रव्याद्भूत्वा व्यद्व॑री ।
उतैनां॑ ब्रह्मणे॑ दद्यात्तथा॑ स्योना शिवा स्या॑त् ॥२॥
शिवा भ॑व पुरु॑षेभ्यो गोभ्यो अश्वे॑भ्य: शिवा ।
शिवास्मै सर्व॑स्मै क्षेत्रा॑य शिवा न॑ इहैधि॑ ॥३॥
इह पुष्टि॑रिह रस॑ इह सहस्र॑सातमा भव ।
पशून्य॑मिनि पोषय ॥४॥
यत्रा॑ सुहार्द॑: सुकृतो मद॑न्ति विहाय रोगं॑ तन्व१ स्वाया॑: ।
तं लोकं यमिन्य॑भिसंब॑भूव सा नो मा हिं॑सीत्पुरु॑षान्पशूंश्च॑ ॥५॥
यत्रा॑ सुहार्दां॑ सुकृता॑मग्निहोत्रहुतां यत्र॑ लोक: ।
तं लोकं यमिन्य॑भिसंब॑भूव सा नो मा हिं॑सीत्पुरु॑षान्पशूंश्च॑ ॥६॥
 
 
 
एकोनत्रिंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्योद्दालक ऋषि: |  प्रथमादिषडृचां शितिपादवि:  सप्तम्या: काम:  अष्टम्याश्च भूमिर्देवता: |   प्रथमातृतीययोरृचो: पथ्यापङ्क्ति:  द्वितीयायाश्चतुर्थ्यादितृचस्य चानुष्टुप् सप्तम्यास्त्र्यवसाना षट्पदा उपरिष्टाद्दैवी बृहती ककुम्मतीगर्भा विराड्जगती अष्टम्याश्चोपरिष्टाद्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


यद्राजा॑नो विभज॑न्त इष्टापूर्तस्य॑ षोडशं यमस्यामी स॑भासद॑: ।
अविस्तस्मात्प्र मु॑ञ्चति दत्त: शि॑तिपात्स्वधा ॥१॥
सर्वान्कामा॑न्पूरयत्याभव॑न्प्रभवन्भव॑न् ।
आकूतिप्रोऽवि॑र्दत्त: शि॑तिपान्नोप॑ दस्यति ॥२॥
यो ददा॑ति शितिपादमविं॑ लोकेन संमि॑तम् ।
स नाक॑मभ्यारो॑हति यत्र॑ शुल्को न क्रियते॑ अबलेन बली॑यसे ॥३॥
पञ्चा॑पूपं शितिपादमविं॑ लोकेन संमि॑तम् ।
प्रदातोप॑ जीवति पितॄणां लोकेऽक्षि॑तम् ॥४॥
पञ्चा॑पूपं शितिपादमविं॑ लोकेन संमि॑तम् ।
प्रदातोप॑ जीवति सूर्यामासयोरक्षि॑तम् ॥५॥
इरे॑व नोप॑ दस्यति समुद्र इ॑व पयो॑ महत् ।
देवौ स॑वासिना॑विव शितिपान्नोप॑ दस्यति ॥६॥
क इदं कस्मा॑ अदात्काम: कामा॑यादात् ।
कामो॑ दाता काम॑: प्रतिग्रहीता काम॑: समुद्रमा वि॑वेश ।
कामे॑न त्वा प्रति॑ गृह्नामि कामैतत्ते॑ ॥७॥
भूमि॑ष्ट्वा प्रति॑ गृह्णात्वन्तरि॑क्षमिदं महत् ।
माहं प्राणेन मात्मना मा प्रजया॑ प्रतिगृह्य वि रा॑धिषि ॥८॥
 
 

त्रिंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा सांमनस्यञ्च देवता: | प्रथमादिचतुरृचामनुष्टुप् पञ्चम्या विराड्जगती  षष्ठ्या: प्रस्तारपङ्क्ति:  सप्तम्याश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


सहृ॑दयं सांमनस्यमवि॑द्वेषं कृणोमि व: ।
अन्यो अन्यमभि ह॑र्यत वत्सं जातमि॑वाघ्न्या ॥१॥
अनु॑व्रत: पितु: पुत्रो मात्रा भ॑वतु संम॑ना: ।
जाया पत्ये मधु॑मतीं वाचं॑ वदतु शन्तिवाम् ॥२॥
मा भ्राता भ्रात॑रं द्विक्षन्मा स्वसा॑रमुत स्वसा॑ ।
सम्यञ्च: सव्र॑ता भूत्वा वाचं॑ वदत भद्रया॑ ॥३॥
येन॑ देवा न वियन्ति नो च॑ विद्विषते॑ मिथ: ।
तत्कृ॑ण्मो ब्रह्म॑ वो गृहे संज्ञानं पुरु॑षेभ्य: ॥४॥
ज्याय॑स्वन्तश्चित्तिनो मा वि यौ॑ष्ट संराधय॑न्त: सधु॑राश्चर॑न्त: ।
अन्यो अन्यस्मै॑ वल्गु वद॑न्त एत॑ सध्रीचीना॑न्व: संम॑नसस्क्र्णोमि ॥५॥
समानी प्रपा सह वो॑ऽन्नभाग: स॑माने योक्त्रे॑ सह वो॑ युनज्मि ।
सम्यञ्चोऽग्निं स॑पर्यतारा नाभि॑मिवाभित॑: ॥६॥
सध्रीचीना॑न्व: संम॑नसस्कृणोम्येक॑श्नुष्टीन्त्संवन॑नेन सर्वा॑न् ।
देवा इ॑वामृतं रक्ष॑माणा: सायंप्रा॑त: सौमनसो वो॑ अस्तु ॥७॥
 
 
 
एकविंशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | पाप्महा मन्त्रोक्ताश्च देवता: | प्रथमादितृचस्य षष्ठ्यादिषण्णाञ्चानुष्टुप्  चतुर्थ्या भुरिगनुष्टुप् पञ्चम्याश्च विराट् प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


वि देवा जरसा॑वृतन्वि त्वम॑ग्ने अरा॑त्या ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥१॥
व्यार्त्या पव॑मानो वि शक्र: पा॑पकृत्यया॑ ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥२॥
वि ग्राम्या: पशव॑ आरण्यैर्व्याद्गपस्तृष्ण॑यासरन् ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥३॥
वी३ मे द्यावा॑पृथिवी इतो वि पन्था॑नो दिशं॑दिशम् ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥४॥
त्वष्टा॑ दुहित्रे व॑हतुं यु॑नक्तीतीदं विश्वं भुव॑नं वि या॑ति ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥५॥
अग्नि: प्राणान्त्सं द॑धाति चन्द्र: प्राणेन संहि॑त: ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥६॥
प्राणेन॑ विश्वतो॑वीर्यं देवा: सूर्यं समै॑रयन् ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥७॥
आयु॑ष्मतामायुष्कृतां॑ प्राणेन॑ जीव मा मृ॑था: ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥८॥
प्राणेन॑ प्राणतां प्राणेहैव भ॑व मा मृ॑था: ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥९॥
उदायु॑षा समायुषोदोष॑धीनां रसे॑न ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥१०॥
आ पर्जन्य॑स्य वृष्ट्योद॑स्थामामृता॑ वयम् ।
व्य१हं सर्वे॑ण पाप्मना वि यक्ष्मे॑ण समायु॑षा ॥११॥
 

॥ इति तृतीयं काण्डम ॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *