HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् १० (Atharvved Kand 10)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥ अथ दशमं काण्डम् ॥

 
प्रथमं सूक्तम्» द्वात्रिंशदृचस्यास्य सूक्तस्य प्रत्यङ्गिरस ऋषि: | कृत्यादूषणं देवता: |  प्रथमर्चो महाबृहती  द्वितीयाया विराड्गायत्री तृतीयादिषण्णां दशम्येकादशीचतुर्दश्येकविंशीनां पञ्चविंश्यादितृचस्य त्रिंश्येकत्रिंश्योश्चानुष्टुप्  नवम्या: पथ्यापङ्क्ति:  द्वादश्या: पङ्क्ति:  त्रयोदश्या उरोबृहती  पञ्चदश्याश्चतुष्पदा विराड्जगती षोडश्यष्टादश्योस्त्रिष्टुप् सप्तदशीचतुर्विंश्यो: प्रस्तारपङ्क्ति:  एकोनविंश्याश्चतुष्पदा जगती  विंश्या विराट् प्रस्तारपङ्क्ति:  द्वाविंश्या एकावसाना द्विपदार्च्युष्णिक्  त्रयोविंश्यास्त्रिपदा भुरिग्विषमा गायत्री अष्टाविंश्यास्त्रिपदा गायत्री  एकोनत्रिंश्या मध्येज्योतिष्मती जगती द्वात्रिंश्याश्च द्व्यनुष्टुब्गर्भा पञ्चपदातिजगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


यां कल्पय॑न्ति वहतौ वधूमि॑व विश्वरू॑पां हस्त॑कृतां चिकित्सव॑: ।
सारादेत्वप॑ नुदाम एनाम् ॥१॥
शीर्षण्वती॑ नस्वती॑ कर्णिनी॑ कृत्याकृता संभृ॑ता विश्वरू॑पा ।
सारादेत्वप॑ नुदाम एनाम् ॥२॥
शूद्रकृ॑ता राज॑कृता स्त्रीकृ॑ता ब्रह्मभि॑: कृता ।
जाया पत्या॑ नुत्तेव॑ कर्तारं बन्ध्वृ॑च्छतु ॥३॥
अनयाहमोष॑ध्या सर्वा॑: कृत्या अ॑दूदुषम् ।
यां क्षेत्रे॑ चक्रुर्यां गोषु यां वा॑ ते पुरु॑षेषु ॥४॥
अघम॑स्त्वघकृते॑ शपथ॑: शपथीयते ।
प्रत्यक्प्र॑तिप्रहि॑ण्मो यथा॑ कृत्याकृतं हन॑त् ॥५॥
प्रतीचीन॑ आङ्गिरसोऽध्य॑क्षो न: पुरोहि॑त: ।
प्रतीची॑: कृत्या आकृत्यामून्कृ॑त्याकृतो॑ जहि ॥६॥
यस्त्वोवाच परेहीति॑ प्रतिकूल॑मुदाय्यद्गम् ।
तं कृ॑त्येऽभिनिव॑र्तस्व मास्मानि॑च्छो अनागस॑: ॥७॥
यस्ते परूं॑षि संदधौ रथ॑स्येव र्भुर्धिया ।
तं ग॑च्छ तत्र तेऽय॑नमज्ञा॑तस्तेऽयं जन॑: ॥८॥
ये त्वा॑ कृत्वाले॑भिरे वि॑द्वला अ॑भिचारिण॑: ।
शंभ्वी३दं कृ॑त्यादूष॑णं प्रतिवर्त्म पु॑न:सरं तेन॑ त्वा स्नपयामसि ॥९॥
यद्दुर्भगां प्रस्न॑पितां मृतव॑त्सामुपेयिम ।
अपै॑तु सर्वं मत्पापं द्रवि॑णं मोप॑ तिष्ठतु ॥१०॥
यत्ते॑ पितृभ्यो दद॑तो यज्ञे वा नाम॑ जगृहु: ।
संदेश्या३त्सर्व॑स्मात्पापादिमा मु॑ञ्चन्तु त्वौष॑धी: ॥११॥
देवैनसात्पित्र्या॑न्नामग्राहात्सं॑देश्याद्गदभिनिष्कृ॑तात् ।
मुञ्चन्तु॑ त्वा वीरुधो॑ वीर्येद्गण ब्रह्म॑णा ऋग्भि: पय॑स ऋषी॑णाम् ॥१२॥
यथा वात॑श्च्यावय॑ति भूम्या॑ रेणुमन्तरि॑क्षाच्चाभ्रम् ।
एवा मत्सर्वं॑ दुर्भूतं ब्रह्म॑नुत्तमपा॑यति ॥१३॥
अप॑ क्राम नान॑दती विन॑द्धा गर्दभीव॑ ।
कर्तॄन्न॑क्षस्वेतो नुत्ता ब्रह्म॑णा वीर्याद्गवता ॥१४॥
अयं पन्था॑: कृत्येति॑ त्वा नयामोऽभिप्रहि॑तां प्रति॑ त्वा प्र हि॑ण्म: ।
तेनाभि या॑हि भञ्जत्यन॑स्वतीव वाहिनी॑ विश्वरू॑पा कुरूटिनी॑ ॥१५॥
परा॑क्ते ज्योतिरप॑थं ते अर्वागन्यत्रास्मदय॑ना कृणुष्व ।
परे॑णेहि नवतिं नाव्या३ अति॑ दुर्गा: स्रोत्या मा क्ष॑णिष्ठा: परे॑हि ॥१६॥
वात॑ इव वृक्षान्नि मृ॑णीहि पादय मा गामश्वं पुरु॑षमुच्छि॑ष एषाम् ।
कर्तॄन्निवृत्येत: कृ॑त्येऽप्रजास्त्वाय॑ बोधय ॥१७॥
यां ते॑ बर्हिषि यां श्म॑शाने क्षेत्रे॑ कृत्यां व॑लगं वा॑ निचख्नु: ।
अग्नौ वा॑ त्वा गार्ह॑पत्येऽभिचेरु: पाकं सन्तं धीर॑तरा अनागस॑म् ॥१८॥
उपाहृ॑तमनु॑बुद्धं निखा॑तं वैरं॑ त्सार्यन्व॑विदाम कर्त्र॑म् ।
तदे॑तु यत आभृ॑तं तत्राश्व॑ इव वि व॑र्ततां हन्तु॑ कृत्याकृत॑: प्रजाम् ॥१९॥
स्वायसा असय॑: सन्ति नो गृहे विद्मा ते॑ कृत्ये यतिधा परूं॑षि ।
उत्ति॑ष्ठैव परे॑हीतोऽज्ञा॑ते किमिहेच्छ॑सि ॥२०॥
ग्रीवास्ते॑ कृत्ये पादौ चापि॑ कर्त्स्यामि निर्द्र॑व ।
इन्द्राग्नी अस्मान्र॑क्षतां यौ प्रजानां॑ प्रजाव॑ती ॥२१॥
सोमो राजा॑धिपा मृ॑डिता च॑ भूतस्य॑ न: पत॑यो मृडयन्तु ॥२२॥
भवाशर्वाव॑स्यतां पापकृते॑ कृत्याकृते॑ ।
दुष्कृते॑ विद्युतं॑ देवहेतिम् ॥२३॥
यद्येयथ॑ द्विपदी चतु॑ष्पदी कृत्याकृता संभृ॑ता विश्वरू॑पा ।
सेतो३ऽष्टाप॑दी भूत्वा पुन: परे॑हि दुच्छुने ॥२४॥
अभ्य१क्ता॒॑क्ता स्वद्गरंकृता सर्वं भर॑न्ती दुरितं परे॑हि ।
जानीहि कृ॑त्ये कर्तारं॑ दुहितेव॑ पितरं स्वम् ॥२५॥
परे॑हि कृत्ये मा ति॑ष्ठो विद्धस्ये॑व पदं न॑य ।
मृग: स मृ॑गयुस्त्वं न त्वा निक॑र्तुमर्हति ॥२६॥
उत ह॑न्ति पूर्वासिनं॑ प्रत्यादायाप॑र इष्वा॑ ।
उत पूर्व॑स्य निघ्नतो नि हन्त्यप॑र: प्रति॑ ॥२७॥
एतद्धि शृणु मे वचोऽथे॑हि यत॑ एयथ॑ ।
यस्त्वा॑ चकार तं प्रति॑ ॥२८॥
अनागोहत्या वै भीमा कृ॑त्ये मा नो गामश्वं पुरु॑षं वधी: ।
यत्र॑यत्रासि निहि॑ता ततस्त्वोत्था॑पयामसि पर्णाल्लघी॑यसी भव ॥२९॥
यदि स्थ तमसावृ॑ता जाले॑नाभिहि॑ता इव ।
सर्वा॑: संलुप्येत: कृत्या: पुन॑: कर्त्रे प्र हि॑ण्मसि ॥३०॥
कृत्याकृतो॑ वलगिनो॑ऽभिनिष्कारिण॑: प्रजाम् ।
मृणीहि कृ॑त्ये मोच्छि॑षोऽमून्कृ॑त्याकृतो॑ जहि ॥३१॥
यथा सूर्यो॑ मुच्यते तम॑सस्परि रात्रिं जहा॑त्युषस॑श्च केतून् ।
एवाहं सर्वं॑ दुर्भूतं कर्त्रं॑ कृत्याकृता॑ कृतं हस्तीव रजो॑ दुरितं ज॑हामि ॥३२॥
 
 
द्वितीयं सूक्तम्» त्रयस्त्रिंशदृचस्यास्य सूक्तस्य नारायण ऋषि: | पुरुषो ब्रह्मप्रकाशनञ्च साक्षात्परब्रह्मप्रकाशनं देवता: | प्रथमादिचतुरृचां सप्तम्यष्टम्योश्च त्रिष्टुप्  पञ्चमीनवमीदशमीनां द्वादश्यादिषोडशानामेकोनत्रिंश्यादिपञ्चानाञ्चानुष्टुप्  षष्ठ्येकादश्योर्जगती  अष्टाविंश्याश्च भुरिग्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


केन पार्ष्णी आभृ॑ते पूरु॑षस्य केन॑ मांसं संभृ॑तं केन॑ गुल्फौ ।
केनाङ्गुली: पेश॑नी: केन खानि केनो॑च्छ्लङ्खौ म॑ध्यत: क: प्र॑तिष्ठाम् ॥१॥
कस्मान्नु गुल्फावध॑रावकृण्वन्नष्ठीवन्तावुत्त॑रौ पुरु॑षस्य ।
जङ्घे॑ निरृत्य न्यद्गदधु: क्वद्ग स्विज्जानु॑नो: संधी क उ तच्चि॑केत ॥२॥
चतु॑ष्टयं युजते संहि॑तान्तं जानु॑भ्यामूर्ध्वं शि॑थिरं कब॑न्धम् ।
श्रोणी यदूरू क उ तज्ज॑जान याभ्यां कुसि॑न्धं सुदृ॑ढं बभूव॑ ॥३॥
कति॑ देवा: क॑तमे त आ॑सन्य उरो॑ ग्रीवाश्चिक्यु: पुरु॑षस्य ।
कति स्तनौ व्यद्गदधु: क: क॑फोदौ कति॑ स्कन्धान्कति॑ पृष्टीर॑चिन्वन् ॥४॥
को अ॑स्य बाहू सम॑भरद्वीर्यांद्ग करवादिति॑ ।
अंसौ को अ॑स्य तद्देव: कुसि॑न्धे अध्या द॑धौ ॥५॥
क: सप्त खानि वि त॑तर्द शीर्षणि कर्णा॑विमौ नासि॑के चक्ष॑णी मुख॑म् ।
येषां॑ पुरुत्रा वि॑जयस्य॑ मह्ननि चतु॑ष्पादो द्विपदो यन्ति याम॑म् ॥६॥
हन्वोर्हि जिह्वामद॑धात्पुरूचीमधा॑ महीमधि॑ शिश्राय वाच॑म् ।
स आ व॑रीवर्ति भुव॑नेष्वन्तरपो वसा॑न: क उ तच्चि॑केत ॥७॥
मस्तिष्क॑मस्य यतमो ललाटं॑ ककाटि॑कां प्रथमो य: कपाल॑म् ।
चित्वा चित्यं हन्वो: पूरु॑षस्य दिवं॑ रुरोह कतम: स देव: ॥८॥
प्रियाप्रियाणि॑ बहुला स्वप्नं॑ संबाधतन्द्यद्ग: ।
आनन्दानुग्रो नन्दां॑श्च कस्मा॑द्वहति पूरु॑ष: ॥९॥
आर्तिरव॑र्तिर्निरृ॑ति: कुतो नु पुरुषेऽम॑ति: ।
राद्धि: समृ॑द्धिरव्यृ॑द्धिर्मतिरुदि॑तय: कुत॑: ॥१०॥
को अ॑स्मिन्नापो व्यद्गदधाद् विषूवृत॑: पुरूवृत॑: सिन्धुसृत्या॑य जाता: ।
तीव्रा अ॑रुणा लोहि॑नीस्ताम्रधूम्रा ऊर्ध्वा अवा॑ची: पुरु॑षे तिरश्ची॑: ॥११॥
को अ॑स्मिन्रूपम॑दधात्को मह्मानं॑ च नाम॑ च ।
गातुं को अ॑स्मिन्क: केतुं कश्चरित्रा॑णि पुरु॑षे ॥१२॥
को अ॑स्मिन्प्राणम॑वयत्को अ॑पानं व्यानमु॑ ।
समानम॑स्मिन्को देवोऽधि॑ शिश्राय पुरु॑षे ॥१३॥
को अ॑स्मिन्यज्ञम॑दधादेको॑ देवोऽधि पुरु॑षे ।
को अ॑स्मिन्त्सत्यं कोऽनृ॑तं कुतो॑ मृत्यु: कुतोऽमृत॑म् ॥१४॥
को अ॑स्मै वास: पर्य॑दधात्को अस्यायु॑रकल्पयत् ।
बलं को अ॑स्मै प्राय॑च्छत्को अ॑स्याकल्पयज्जवम् ॥१५॥
केनापो अन्व॑तनुत केनाह॑रकरोद्रुचे ।
उषसं केनान्वै॑न्द्ध केन॑ सायंभवं द॑दे ॥१६॥
को अ॑स्मिन्रेतो न्यद्गदधात्तन्तुरा ता॑यतामिति॑ ।
मेधां को अ॑स्मिन्नध्यौ॑हत्को बाणं को नृतो॑ दधौ ॥१७॥
केनेमां भूमि॑मौर्णोत्केन पर्य॑भवद्दिव॑म् ।
केनाभि मह्ना पर्व॑तान्केन कर्मा॑णि पुरु॑ष: ॥१८॥
केन॑ पर्जन्यमन्वे॑ति केन सोमं॑ विचक्षणम् ।
केन॑ यज्ञं च॑ श्रद्धां च केना॑स्मिन्निहि॑तं मन॑: ॥१९॥
केन श्रोत्रि॑यमाप्नोति केनेमं प॑रमेष्ठिन॑म् ।
केनेममग्निं पूरु॑ष: केन॑ संवत्सरं म॑मे ॥२०॥
ब्रह्म श्रोत्रि॑यमाप्नोति ब्रह्मेमं प॑रमेष्ठिन॑म् ।
ब्रह्मेममग्निं पूरु॑षो ब्रह्म॑ संवत्सरं म॑मे ॥२१॥
केन॑ देवाँ अनु॑ क्षियति केन दैव॑जनीर्विश॑: ।
केनेदमन्यन्नक्ष॑त्रं केन सत्क्षत्रमु॑च्यते ॥२२॥
ब्रह्म॑ देवाँ अनु॑ क्षियति ब्रह्म दैव॑जनीर्विश॑: ।
ब्रह्मेदमन्यन्नक्ष॑त्रं ब्रह्म सत्क्षत्रमु॑च्यते ॥२३॥
केनेयं भूमिर्विहि॑ता केन द्यौरुत्त॑रा हिता ।
केनेदमूर्ध्वं तिर्यक्चान्तरि॑क्षं व्यचो॑ हितम् ॥२४॥
ब्रह्म॑णा भूमिर्विहि॑ता ब्रह्म द्यौरुत्त॑रा हिता ।
ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरि॑क्षं व्यचो॑ हितम् ॥२५॥
मूर्धान॑मस्य संसीव्याथ॑र्वा हृद॑यं च यत् ।
मस्तिष्का॑दूर्ध्व: प्रैर॑यत्पव॑मानोऽधि॑ शीर्षत: ॥२६॥
तद्वा अथ॑र्वण: शिरो॑ देवकोश: समु॑ब्जित: ।
तत्प्राणो अभि र॑क्षति शिरो अन्नमथो मन॑: ॥२७॥
ऊर्ध्वो नु सृष्टा३स्तिर्यङ् नु सृष्टा३:0 सर्वा दिश: पुरु॑ष आ ब॑भूवाँ३ ।
पुरं यो ब्रह्म॑णो वेद यस्या: पुरु॑ष उच्यते॑ ॥२८॥
यो वै तां ब्रह्म॑णो वेदामृतेनावृ॑तां पुर॑म् ।
तस्मै ब्रह्म॑ च ब्राह्माश्च चक्षु॑: प्राणं प्रजां द॑दु: ॥२९॥
न वै तं चक्षु॑र्जहाति न प्राणो जरस॑: पुरा ।
पुरं यो ब्रह्म॑णो वेद यस्या: पुरु॑ष उच्यते॑ ॥३०॥
अष्टाच॑क्रा नव॑द्वारा देवानां पूर॑योध्या ।
तस्यां॑ हिरण्यय: कोश॑: स्वर्गो ज्योतिषावृ॑त: ॥३१॥
तस्मि॑न्हिरण्यये कोशे त्र्यद्गरे त्रिप्र॑तिष्ठिते ।
तस्मिन्यद्यक्षमा॑त्मन्वत्तद्वै ब्र॑ह्मविदो॑ विदु: ॥३२॥
प्रभ्राज॑मानां हरि॑णीं यश॑सा संपरी॑वृताम् ।
पुरं॑ हिरण्ययीं ब्रह्मा वि॑वेशाप॑राजिताम् ॥३३॥
 
 

तृतीयं सूक्तम्» पञ्चविंशत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | वरणो वनस्पतिश्चन्द्रमा वा देवता: | प्रथमाचतुर्थीपञ्चमीसप्तमीनवमीदशमीद्वादशीनामृचामनुष्टुप्  द्वितीयातृतीयाषष्ठीनां भुरिक्त्रिष्टुप्  अष्टमीत्रयोदशीचतुर्दशीनां पथ्यापङ्क्ति: एकादशीषोडश्योर्भुरिगनुष्टुप् पञ्चदश्या: सप्तदश्यादिनवानाञ्च षट्पदा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अयं मे॑ वरणो मणि: स॑पत्नक्षय॑णो वृषा॑ ।
तेना र॑भस्व त्वं शत्रून्प्र मृ॑णीहि दुरस्यत: ॥१॥
प्रैणा॑ञ्छृणीहि प्र मृणा र॑भस्व मणिस्ते॑ अस्तु पुरएता पुरस्ता॑त् ।
अवा॑रयन्त वरणेन॑ देवा अ॑भ्याचारमसु॑राणां श्व:श्व॑: ॥२॥
अयं मणिर्व॑रणो विश्वभे॑षज: सहस्राक्षो हरि॑तो हिरण्यय॑: ।
स ते शत्रूनध॑रान्पादयाति पूर्वस्तान्द॑भ्नुहि ये त्वा॑ द्विषन्ति॑ ॥३॥
अयं ते॑ कृत्यां वित॑तां पौरु॑षेयादयं भयात् ।
अयं त्वा सर्व॑स्मात्पापाद्व॑रणो वा॑रयिष्यते ॥४॥
वरणो वा॑रयाता अयं देवो वनस्पति॑: ।
यक्ष्मो यो अस्मिन्नावि॑ष्टस्तमु॑ देवा अ॑वीवरन् ॥५॥
स्वप्नं॑ सुप्त्वा यदि पश्या॑सि पापं मृग: सृतिं यति धावादजु॑ष्टाम् ।
परिक्षवाच्छकुने॑: पापवादादयं मणिर्व॑रणो वा॑रयिष्यते ॥६॥
अरा॑त्यास्त्वा निरृ॑त्या अभिचारादथो॑ भयात् ।
मृत्योरोजी॑यसो वधाद्व॑रणो वा॑रयिष्यते ॥७॥
यन्मे॑ माता यन्मे॑ पिता भ्रात॑रो यच्च॑ मे स्वा यदेन॑श्चकृमा वयम् ।
ततो॑ नो वारयिष्यतेऽयं देवो वनस्पति॑: ॥८॥
वरणेन प्रव्य॑थिता भ्रातृ॑व्या मे सब॑न्धव: ।
असूर्तं रजो अप्य॑गुस्ते य॑न्त्वधमं तम॑: ॥९॥
अरि॑ष्टोऽहमरि॑ष्टगुरायु॑ष्मान्त्सर्व॑पूरुष: ।
तं मायं व॑रणो मणि: परि॑ पातु दिशोदि॑श: ॥१०॥
अयं मे॑ वरण उर॑सि राजा॑ देवो वनस्पति॑: ।
स मे शत्रून्वि बा॑धतामिन्द्रो दस्यू॑निवासु॑रान् ॥११॥
इमं बि॑भर्मि वरणमायु॑ष्माञ्छतशा॑रद: ।
स मे॑ राष्ट्रं च॑ क्षत्रं च॑ पशूनोज॑श्च मे दधत् ॥१२॥
यथा वातो वनस्पती॑न्वृक्षान्भनक्त्योज॑सा ।
एवा सपत्ना॑न्मे भङ्ग्धि पूर्वा॑ञ्जाताँ उताप॑रान्वरणस्त्वाभि र॑क्षतु ॥१३॥
यथा वात॑श्चाग्निश्च॑ वृक्षान्प्सातो वनस्पती॑न् ।
एवा सपत्ना॑न्मे प्साहि पूर्वा॑ञ्जाताँ उताप॑रान्वरणस्त्वाभि र॑क्षतु ॥१४॥
यथा वाते॑न प्रक्षी॑णा वृक्षा: शेरे न्यद्गर्पिता: ।
एवा सपत्नांस्त्वं मम प्र क्षि॑णीहि न्यद्गर्पय पूर्वा॑ञ्जाताँ उताप॑रान्वरणस्त्वाभि र॑क्षतु ॥१५॥
तांस्त्वं प्र च्छि॑न्द्धि वरण पुरा दिष्टात्पुरायु॑ष: ।
य ए॑नं पशुषु दिप्स॑न्ति ये चा॑स्य राष्ट्रदिप्सव॑: ॥१६॥
यथा सूर्यो॑ अतिभाति यथा॑स्मिन्तेज आहि॑तम् ।
एवा मे॑ वरणो मणि: कीर्तिं भूतिं नि य॑च्छतु
तेज॑सा मा समु॑क्षतु यश॑सा सम॑नक्तु मा ॥१७॥
यथा यश॑श्चन्द्रम॑स्यादित्ये च॑ नृचक्ष॑सि ।
एवा मे॑ वरणो मणि: कीर्तिं भूतिं नि य॑च्छतु
तेज॑सा मा समु॑क्षतु यश॑सा सम॑नक्तु मा ॥१८॥
यथा यश॑: पृथिव्यां यथास्मिञ्जातवे॑दसि ।
एवा मे॑ वरणो मणि: कीर्तिं भूतिं नि य॑च्छतु
तेज॑सा मा समु॑क्षतु यश॑सा सम॑नक्तु मा ॥१९॥
यथा यश॑: कन्याद्गयां यथास्मिन्त्संभृ॑ते रथे॑ ।
एवा मे॑ वरणो मणि: कीर्तिं भूतिं नि य॑च्छतु
तेज॑सा मा समु॑क्षतु यश॑सा सम॑नक्तु मा ॥२०॥
यथा यश॑: सोमपीथे म॑धुपर्के यथा यश॑: ।
एवा मे॑ वरणो मणि: कीर्तिं भूतिं नि य॑च्छतु
तेज॑सा मा समु॑क्षतु यश॑सा सम॑नक्तु मा ॥२१॥
यथा यशो॑ऽग्निहोत्रे व॑षट्कारे यथा यश॑: ।
एवा मे॑ वरणो मणि: कीर्तिं भूतिं नि य॑च्छतु
तेज॑सा मा समु॑क्षतु यश॑सा सम॑नक्तु मा ॥२२॥
यथा यशो यज॑माने यथास्मिन्यज्ञ आहि॑तम् ।
एवा मे॑ वरणो मणि: कीर्तिं भूतिं नि य॑च्छतु
तेज॑सा मा समु॑क्षतु यश॑सा सम॑नक्तु मा ॥२३॥
यथा यश॑: प्रजाप॑तौ यथास्मिन्प॑रमेष्ठिनि॑ ।
एवा मे॑ वरणो मणि: कीर्तिं भूतिं नि य॑च्छतु
तेज॑सा मा समु॑क्षतु यश॑सा सम॑नक्तु मा ॥२४॥
यथा देवेष्वमृतं यथै॑षु सत्यमाहि॑तम् ।
एवा मे॑ वरणो मणि: कीर्तिं भूतिं नि य॑च्छतु
तेज॑सा मा समु॑क्षतु यश॑सा सम॑नक्तु मा ॥२५॥
 
 
 
चतुर्थं सूक्तम्» षड्विंशत्यृचस्यास्य सूक्तस्य गरुत्मानृषि: । तक्षको देवता: |  प्रथमर्च: पथ्यापङ्क्ति:  द्वितीयायास्त्रिपदा यवमध्या गायत्री  तृतीयाचतुर्थ्यो: पथ्याबृहती पञ्चम्यादितृचस्य नवम्यादितृचस्य त्रयोदश्यादितृचस्य सप्तदश्यादिचतसृणां द्वाविंशीचतुर्विंशीपञ्चविंशीनाञ्चानुष्टुप्  अष्टम्या उष्णिग्गर्भा परात्रिष्टुप्  द्वादश्या भुरिग्गायत्री  षोडश्यास्त्रिपदा प्रतिष्ठा गायत्री  एकविंश्या: ककुम्मत्यनुष्टुप्  त्रयोविंश्यास्त्रिष्टुप्  षड्विंश्याश्च त्र्यवसाना षट्पदा बृहतीगर्भा ककुम्मती भुरिक्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


इन्द्र॑स्य प्रथमो रथो॑ देवानामप॑रो रथो वरु॑णस्य तृतीय इत् ।
अही॑नामपमा रथ॑ स्थानुमा॑रदथा॑र्षत् ॥१॥
दर्भ: शोचिस्तरूण॑कमश्व॑स्य वार॑: परुषस्य वार॑: ।
रथ॑स्य बन्धु॑रम् ॥२॥
अव॑ श्वेत पदा ज॑हि पूर्वे॑ण चाप॑रेण च ।
उदप्लुतमि॑व दार्वही॑नामरसं विषं वारुग्रम् ॥३॥
अरंघुषो निमज्योन्मज्य पुन॑रब्रवीत् ।
उदप्लुतमि॑व दार्वही॑नामरसं विषं वारुग्रम् ॥४॥
पैद्वो ह॑न्ति कसर्णीलं॑ पैद्व: श्वित्रमुतासितम् ।
पैद्वो र॑थर्व्या: शिर: सं बि॑भेद पृदाक्वा: ॥५॥
पैद्व प्रेहि॑ प्रथमोऽनु॑ त्वा वयमेम॑सि ।
अहीन्व्यद्गस्यतात्पथो येन॑ स्मा वयमेमसि॑ ॥६॥
इदं पैद्वो अ॑जायतेदम॑स्य पराय॑णम् ।
इमान्यर्व॑त: पदाहिघ्न्यो वाजिनी॑वत: ॥७॥
संय॑तं न वि ष्प॑रद्व्यात्तं न सं य॑मत् ।
अस्मिन्क्षेत्रे द्वावही स्त्री च पुमां॑श्च तावुभाव॑रसा ॥८॥
अरसास॑ इहाह॑यो ये अन्ति ये च॑ दूरके ।
घनेन॑ हन्मि वृश्चि॑कमहिं॑ दण्डेनाग॑तम् ॥९॥
अघाश्वस्येदं भे॑षजमुभयो॑: स्वजस्य॑ च ।
इन्द्रो मेऽहि॑मघायन्तमहिं॑ पैद्वो अ॑रन्धयत् ॥१०॥
पैद्वस्य॑ मन्महे वयं स्थिरस्य॑ स्थिरधा॑म्न: ।
इमे पश्चा पृदा॑कव: प्रदीध्य॑त आसते ॥११॥
नष्टास॑वो नष्टवि॑षा हता इन्द्रे॑ण वज्रिणा॑ ।
जघानेन्द्रो॑ जघ्निमा वयम् ॥१२॥
हतास्तिर॑श्चिराजयो निपि॑ष्टास: पृदा॑कव: ।
दर्विं करि॑क्रतं श्वित्रं दर्भेष्व॑सितं ज॑हि ॥१३॥
कैरातिका कु॑मारिका सका ख॑नति भेषजम् ।
हिरण्ययी॑भिरभ्रि॑भिर्गिरीणामुप सानु॑षु ॥१४॥
आयम॑गन्युवा॑ भिषक्पृ॑श्निहाप॑राजित: ।
स वै स्वजस्य जम्भ॑न उभयोर्वृश्चि॑कस्य च ॥१५॥
इन्द्रो मेऽहि॑मरन्धयन्मित्रश्च वरु॑णश्च ।
वातापर्जन्यो३भा ॥१६॥
इन्द्रो मेऽहि॑मरन्धयत्पृदा॑कुं च पृदाक्वम् ।
स्वजं तिर॑श्चिराजिं कसर्णीलं दशो॑नसिम् ॥१७॥
इन्द्रो॑ जघान प्रथमं ज॑नितार॑महे तव॑ ।
तेषा॑मु तृह्यमा॑णानां क: स्वित्तेषा॑मसद्रस॑: ॥१८॥
सं हि शीर्षाण्यग्र॑भं पौञ्जिष्ठ इ॑व कर्व॑रम् ।
सिन्धोर्मध्यं॑ परेत्य व्यद्गनिजमहे॑र्विषम् ॥१९॥
अही॑नां सर्वे॑षां विषं परा॑ वहन्तु सिन्ध॑व: ।
हतास्तिर॑श्चिराजयो निपि॑ष्टास: पृदा॑कव: ॥२०॥
ओष॑धीनामहं वृ॑ण उर्वरी॑रिव साधुया ।
नयाम्यर्व॑तीरिवाहे॑ निरैतु॑ विषम् ॥२१॥
यदग्नौ सूर्ये॑ विषं पृ॑थिव्यामोष॑धीषु यत् ।
कान्दाविषं कनक्न॑कं निरैत्वैतु॑ ते विषम् ॥२२॥
ये अ॑ग्निजा ओ॑षधिजा अही॑नां ये अ॑प्सुजा विद्युत॑ आबभूवु: ।
येषां॑ जातानि॑ बहुधा महान्ति तेभ्य॑: सर्पेभ्यो नम॑सा विधेम ॥२३॥
तौदी नामा॑सि कन्याद्ग घृताची नाम वा अ॑सि ।
अधस्पदेन॑ ते पदमा द॑दे विषदूष॑णम् ॥२४॥
अङ्गा॑दङ्गात्प्र च्या॑वय हृद॑यं परि॑ वर्जय ।
अधा॑ विषस्य यत्तेजो॑ऽवाचीनं तदे॑तु ते ॥२५॥
आरे अ॑भूद्विषम॑रौद्विषे विषम॑प्रागपि॑ ।
अग्निर्विषमहेर्निर॑धात्सोमो निर॑णयीत् ।
दंष्टारमन्व॑गाद्विषमहि॑रमृत ॥२६॥
 
 
 
पञ्चमं सूक्तम्» पञ्चाशदृचस्यास्य सूक्तस्य  प्रथमादिचतुर्विंशत्यृचां सिन्धुद्वीप ऋषि: | आपश्चन्द्रमा वा देवता: |  प्रथमादिपञ्चानां पुरोऽभिकृति: ककुम्मतीगर्भा पङ्क्ति:  षष्ठ्याश्चतुष्पदा जगतीगर्भा जगती सप्तम्यादिचतसृणां द्वादशीत्रयोदश्योश्च त्र्यवसाना पञ्चपदा विपरीतपादलक्ष्मा बृहती एकादशीचतुर्दश्यो: पथ्यापङ्क्ति: पञ्चदश्यादिचतसृणामेकविंश्याश्च चतुरवसाना दशपदा त्रैष्टुभगर्भातिधृति: एकोनविंशीविंश्योश्चतुरवसाना दशपदा त्रैष्टुभगर्भा कृति: द्वाविंशीत्रयोविंश्योरनुष्टुप् चतुर्विंश्याश्च त्रिपदा विराड्गायत्री छन्दांसि॥
पञ्चविंश्याद्येकादशर्चां कौशिक ऋषि: | विष्णुक्रम: प्रतिमन्त्रोक्ता वा देवता: | त्र्यवसाना षट्पदा यथाक्षरं शक्वर्यतिशक्वरी च छन्दांसि॥  षट्त्रिंश्या ऋच: कौशिक ऋषि: | मृत्युर्देवता: | पञ्चपदातिशाक्वरातिजागतगर्भाष्टिश्छन्द:॥
सप्तत्रिंश्यादिपञ्चर्चां ब्रह्मा ऋषि: | मन्तोर्क्ता देवता: |  सप्तत्रिंश्या विराट् पुरस्ताद्बृहती  अष्टात्रिंश्या: पुर उष्णिक् एकोनचत्वारिंश्येकचत्वारिंश्योरार्षी गायत्री  चत्वारिंश्याश्च विराड्विषमा गायत्री छन्दांसि॥ 
द्विचत्वारिंश्यादिनवर्चां विहव्य ऋषि: | प्रजापतिर्देवता: |  द्विचत्वारिंशीत्रिचत्वारिंश्यो: पञ्चचत्वारिंश्यादिपञ्चानाञ्चानुष्टुप्  चतुश्चत्वारिंश्यास्त्रिपदा गायत्रीगर्भानुष्टुप्  पञ्चाश्याश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


इन्द्रस्यौज स्थेन्द्र॑स्य सह स्थेन्द्र॑स्य बलं स्थेन्द्र॑स्य वीर्यं१ स्थेन्द्र॑स्य नृम्णं स्थ॑ ।
जिष्णवे योगा॑य ब्रह्मयोगैर्वो॑ युनज्मि ॥१॥
इन्द्रस्यौज स्थेन्द्र॑स्य सह स्थेन्द्र॑स्य बलं स्थेन्द्र॑स्य वीर्यं१ स्थेन्द्र॑स्य नृम्णं स्थ॑ ।
जिष्णवे योगा॑य क्षत्रयोगैर्वो॑ युनज्मि ॥२॥
इन्द्रस्यौज स्थेन्द्र॑स्य सह स्थेन्द्र॑स्य बलं स्थेन्द्र॑स्य वीर्यं१ स्थेन्द्र॑स्य नृम्णं स्थ॑ ।
जिष्णवे योगा॑येन्द्रयोगैर्वो॑ युनज्मि ॥३॥
इन्द्रस्यौज स्थेन्द्र॑स्य सह स्थेन्द्र॑स्य बलं स्थेन्द्र॑स्य वीर्यं१ स्थेन्द्र॑स्य नृम्णं स्थ॑ ।
जिष्णवे योगा॑य सोमयोगैर्वो॑ युनज्मि ॥४॥
इन्द्रस्यौज स्थेन्द्र॑स्य सह स्थेन्द्र॑स्य बलं स्थेन्द्र॑स्य वीर्यं१ स्थेन्द्र॑स्य नृम्णं स्थ॑ ।
जिष्णवे योगा॑याप्सुयोगैर्वो॑ युनज्मि ॥५॥
इन्द्रस्यौज स्थेन्द्र॑स्य सह स्थेन्द्र॑स्य बलं स्थेन्द्र॑स्य वीर्यं१ स्थेन्द्र॑स्य नृम्णं स्थ॑ ।
जिष्णवे योगा॑य विश्वा॑नि मा भूतान्युप॑ तिष्ठन्तु युक्ता म॑ आप स्थ ॥६॥
अग्नेर्भाग स्थ॑ । अपां शुक्रमा॑पो देवीर्वर्चो॑ अस्मासु॑ धत्त ।
प्रजाप॑तेर्वो धाम्नास्मै लोकाय॑ सादये ॥७॥
इन्द्र॑स्य भाग स्थ॑ । अपां शुक्रमा॑पो देवीर्वर्चो॑ अस्मासु॑ धत्त ।
प्रजाप॑तेर्वो धाम्नास्मै लोकाय॑ सादये ॥८॥
सोम॑स्य भाग स्थ॑ । अपां शुक्रमा॑पो देवीर्वर्चो॑ अस्मासु॑ धत्त ।
प्रजाप॑तेर्वो धाम्नास्मै लोकाय॑ सादये ॥९॥
वरु॑णस्य भाग स्थ॑ । अपां शुक्रमा॑पो देवीर्वर्चो॑ अस्मासु॑ धत्त ।
प्रजाप॑तेर्वो धाम्नास्मै लोकाय॑ सादये ॥१०॥
मित्रावरु॑णयोर्भाग स्थ॑ । अपां शुक्रमा॑पो देवीर्वर्चो॑ अस्मासु॑ धत्त ।
प्रजाप॑तेर्वो धाम्नास्मै लोकाय॑ सादये ॥११॥
यमस्य॑ भाग स्थ॑ । अपां शुक्रमा॑पो देवीर्वर्चो॑ अस्मासु॑ धत्त ।
प्रजाप॑तेर्वो धाम्नास्मै लोकाय॑ सादये ॥१२॥
पितॄणां भाग स्थ॑ । अपां शुक्रमा॑पो देवीर्वर्चो॑ अस्मासु॑ धत्त ।
प्रजाप॑तेर्वो धाम्नास्मै लोकाय॑ सादये ॥१३॥
देवस्य॑ सवितुर्भाग स्थ॑ । अपां शुक्रमा॑पो देवीर्वर्चो॑ अस्मासु॑ धत्त ।
प्रजाप॑तेर्वो धाम्नास्मै लोकाय॑ सादये ॥१४॥
यो व॑ आपोऽपां भागो३ऽप्स्व१न्तर्य॑जुष्योद्ग देवयज॑न: ।
इदं तमति॑ सृजामि तं माभ्यव॑निक्षि ।
तेन तमभ्यति॑सृजामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
तं व॑धेयं तं स्तृ॑षीयानेन ब्रह्म॑णानेन कर्म॑णानया॑ मेन्या ॥१५॥
यो व॑ आपोऽपामूर्मिरप्स्व१न्तर्य॑जुष्योद्ग देवयज॑न: ।
इदं तमति॑ सृजामि तं माभ्यव॑निक्षि ।
तेन तमभ्यति॑सृजामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
तं व॑धेयं तं स्तृ॑षीयानेन ब्रह्म॑णानेन कर्म॑णानया॑ मेन्या ॥१६॥
यो व॑ आपोऽपां वत्सो३ऽप्स्व१न्तर्य॑जुष्योद्ग देवयज॑न: ।
इदं तमति॑ सृजामि तं माभ्यव॑निक्षि ।
तेन तमभ्यति॑सृजामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
तं व॑धेयं तं स्तृ॑षीयानेन ब्रह्म॑णानेन कर्म॑णानया॑ मेन्या ॥१७॥
यो व॑ आपोऽपां वृ॑षभो३ऽप्स्व१न्तर्य॑जुष्योद्ग देवयज॑न: ।
इदं तमति॑ सृजामि तं माभ्यव॑निक्षि ।
तेन तमभ्यति॑सृजामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
तं व॑धेयं तं स्तृ॑षीयानेन ब्रह्म॑णानेन कर्म॑णानया॑ मेन्या ॥१८॥
यो व॑ आपोऽपां हि॑रण्यगर्भो३ऽप्स्व१न्तर्य॑जुष्योद्ग देवयज॑न: ।
इदं तमति॑ सृजामि तं माभ्यव॑निक्षि ।
तेन तमभ्यति॑सृजामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
तं व॑धेयं तं स्तृ॑षीयानेन ब्रह्म॑णानेन कर्म॑णानया॑ मेन्या ॥१९॥
यो व॑ आपोऽपामश्मा पृश्नि॑र्दिव्यो३ऽप्स्व१न्तर्य॑जुष्योद्ग देवयज॑न: ।
इदं तमति॑ सृजामि तं माभ्यव॑निक्षि ।
तेन तमभ्यति॑सृजामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
तं व॑धेयं तं स्तृ॑षीयानेन ब्रह्म॑णानेन कर्म॑णानया॑ मेन्या ॥२०॥
यो व॑ आपोऽपामग्नयोप्स्व१न्तर्य॑जुष्योद्ग देवयज॑न: ।
इदं तमति॑ सृजामि तं माभ्यव॑निक्षि ।
तैस्तमभ्यति॑सृजामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
तं व॑धेयं तं स्तृ॑षीयानेन ब्रह्म॑णानेन कर्म॑णानया॑ मेन्या ॥२१॥
यद॑र्वाचीनं॑ त्रैहायणादनृ॑तं किं चो॑दिम ।
आपो॑ मा तस्मात्सर्व॑स्माद्दुरितात्पान्त्वंह॑स: ॥२२॥
समुद्रं व: प्र हि॑णोमि स्वां योनिमपी॑तन ।
अरि॑ष्टा: सर्व॑हायसो मा च॑ न: किं चनाम॑मत् ॥२३॥
अरिप्रा आपो अप॑ रिप्रमस्मत् ।
प्रास्मदेनो॑ दुरितं सुप्रती॑का: प्र दुष्वप्न्यं प्र मलं॑ वहन्तु ॥२४॥
विष्णो: क्रमो॑ऽसि सपत्नहा पृ॑थिवीसं॑शितोऽग्निते॑जा: ।
पृथिवीमनु वि क्र॑मेऽहं पृ॑थिव्यास्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥२५॥
विष्णो: क्रमो॑ऽसि सपत्नहान्तरि॑क्षसंशितो वायुते॑जा: ।
अन्तरि॑क्षमनु वि क्र॑मेऽहमन्तरि॑क्षात्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥२६॥
विष्णो: क्रमो॑ऽसि सपत्नहा द्यौसं॑शित: सूर्य॑तेजा: ।
दिवमनु वि क्र॑मेऽहं दिवस्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥२७॥
विष्णो: क्रमो॑ऽसि सपत्नहा दिक्सं॑शितो मन॑स्तेजा: ।
दिशोनु वि क्र॑मेऽहं दिग्भ्यस्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥२८॥
विष्णो: क्रमो॑ऽसि सपत्नहाशा॑संशितो वात॑तेजा: ।
आशा अनु वि क्र॑मेऽहमाशा॑भ्यस्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥२९॥
विष्णो: क्रमो॑ऽसि सपत्नहा ऋक्सं॑शित: साम॑तेजा: ।
ऋचोऽनु वि क्र॑मेऽहमृग्भ्यस्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥३०॥
विष्णो: क्रमो॑ऽसि सपत्नहा यज्ञसं॑शितो ब्रह्म॑तेजा: ।
यज्ञमनु वि क्र॑मेऽहं यज्ञात्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥३१॥
विष्णो: क्रमो॑ऽसि सपत्नहौष॑धीसंशित: सोम॑तेजा: ।
ओष॑धीरनु वि क्र॑मेऽहमोष॑धीभ्यस्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥३२॥
विष्णो: क्रमो॑ऽसि सपत्नहाप्सुसं॑शितो वरु॑णतेजा: ।
अपोऽनु वि क्र॑मेऽहमद्भ्यस्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥३३॥
विष्णो: क्रमो॑ऽसि सपत्नहा कृषिसं॑शितोऽन्न॑तेजा: ।
कृषिमनु वि क्र॑मेऽहं कृष्यास्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥३४॥
विष्णो: क्रमो॑ऽसि सपत्नहा प्राणसं॑शित: पुरु॑षतेजा: ।
प्राणमनु वि क्र॑मेऽहं प्राणात्तं निर्भ॑जामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
स मा जी॑वीत्तं प्राणो ज॑हातु ॥३५॥
जितमस्माकमुद्भि॑न्नमस्माक॑मभ्यद्गष्ठां विश्वा: पृत॑ना अरा॑ती: ।
इदमहमा॑मुष्यायणस्यामुष्या॑: पुत्रस्य वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥३६॥
सूर्य॑स्यावृत॑मन्वाव॑र्ते दक्षि॑णामन्वावृत॑म् ।
सा मे द्रवि॑णं यच्छतु सा मे॑ ब्राह्मणवर्चसम् ॥३७॥
दिशो ज्योति॑ष्मतीरभ्याव॑र्ते ।
ता मे द्रवि॑णं यच्छन्तु ता मे॑ ब्राह्मणवर्चसम् ॥३८॥
सप्तऋषीनभ्याव॑र्ते ।
ता मे द्रवि॑णं यच्छन्तु ता मे॑ ब्राह्मणवर्चसम् ॥३९॥
ब्रह्माभ्याव॑र्ते ।
तन्मे द्रवि॑णं यच्छन्तु तन्मे॑ ब्राह्मणवर्चसम् ॥४०॥
ब्राह्मणाँ अभ्याव॑र्ते ।
त मे द्रवि॑णं यच्छन्तु त मे॑ ब्राह्मणवर्चसम् ॥४१॥
यं वयं मृगया॑महे तं वधै स्तृ॑णवामहै ।
व्यात्ते॑ परमेष्ठिनो ब्रह्मणापी॑पदाम तम् ॥४२॥
वैश्वानरस्य दंष्ट्रा॑भ्यां हेतिस्तं सम॑धादभि ।
इयं तं प्सात्वाहु॑ति: समिद्देवी सही॑यसी ॥४३॥
राज्ञो वरु॑णस्य बन्धोद्गऽसि ।
सो३ऽमुमा॑मुष्यायणममुष्या॑: पुत्रमन्ने॑ प्राणे ब॑धान ॥४४॥
यत्ते अन्नं॑ भुवस्पत आक्षियति॑ पृथिवीमनु॑ ।
तस्य॑ नस्त्वं भु॑वस्पते संप्रय॑च्छ प्रजापते ॥४५॥
अपो दिव्या अ॑चायिषं रसे॑न सम॑पृक्ष्महि ।
पय॑स्वानग्न आग॑मं तं मा सं सृ॑ज वर्च॑सा ॥४६॥
सं मा॑ग्ने वर्च॑सा सृज सं प्रजया समायु॑षा ।
विद्युर्मे॑ अस्य देवा इन्द्रो॑ विद्यात्सह ऋषि॑भि: ॥४७॥
यद॑ग्ने अद्य मि॑थुना शपा॑तो यद्वाचस्तृष्टं जनय॑न्त रेभा: ।
मन्योर्मन॑स: शरव्या३ जाय॑ते या तया॑ विध्य हृद॑ये यातुधाना॑न् ॥४८॥
परा॑ शृणीहि तप॑सा यातुधानान्परा॑ग्ने रक्षो हर॑सा शृणीहि ।
परार्चिषा मूर॑देवाञ्छृणीहि परा॑सुतृप: शोशु॑चत: शृणीहि ॥४९॥
अपाम॑स्मै वज्रं प्र ह॑रामि चतु॑र्भृष्टिं शीर्षभिद्या॑य विद्वान् ।
सो अस्याङ्गा॑नि प्र शृ॑णातु सर्वा तन्मे॑ देवा अनु॑ जानन्तु विश्वे॑ ॥५०॥
 
 

षष्ठं सूक्तम्» पञ्चत्रिंशदृचस्यास्य सूक्तस्य बृहस्पतिरृषि: ।  प्रथमाद्वितीययोरृचोश्चतुर्थ्यादिद्वात्रिंशतश्च फालमणिर्वनस्पतिर्वा  तृतीयायाश्च आपो देवता: |  प्रथमाचतुर्थ्येकविंशीनां गायत्री द्वितीयातृतीयाष्टादश्येकोनविंशीद्वाविंशीनामष्टाविंश्यादितृचस्य द्वात्रिंश्यादितृचस्य चानुष्टुप्  पञ्चम्या: षट्पदा जगती  षष्ठ्या: सप्तपदा विराट् शक्वरी  सप्तम्यादितृचस्य त्र्यवसानाष्टपदाष्टि:  दशम्यास्त्र्यवसाना नवपदा धृति: एकादशीविंश्योस्त्रयोविंश्यादिपञ्चानाञ्च पथ्यापङ्क्ति: द्वादश्यादितृचद्वयस्य त्र्यवसाना षट्पदा शक्वरी एकत्रिंश्यास्त्र्यवसाना षट्पदा जगती पञ्चत्रिंश्याश्च पञ्चपदा त्र्यनुष्टुब्गर्भा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

अरातीयोर्भ्रातृ॑व्यस्य दुर्हार्दो॑ द्विषत: शिर॑: ।
अपि॑ वृश्चाम्योज॑सा ॥१॥
वर्म मह्य॑मयं मणि: फाला॑ज्जात: क॑रिष्यति ।
पूर्णो मन्थेन माग॑मद्रसे॑न सह वर्च॑सा ॥२॥
यत्त्वा॑ शिक्व: पराव॑धीत्तक्षा हस्ते॑न वास्या॑ ।
आप॑स्त्वा तस्मा॑ज्जीवला: पुनन्तु शुच॑य: शुचि॑म् ॥३॥
हिर॑ण्यस्रगयं मणि: श्रद्धां यज्ञं महो दध॑त् ।
गृहे व॑सतु नोऽति॑थि: ॥४॥
तस्मै॑ घृतं सुरां मध्वन्न॑मन्नं क्षदामहे ।
स न॑: पितेव॑ पुत्रेभ्य: श्रेय॑:श्रेयश्चिकित्सतु भूयो॑भूय: श्व:श्वो॑ देवेभ्यो॑ मणिरेत्य॑ ॥५॥
यमब॑ध्नाद्बृहस्पति॑र्मणिं फालं॑ घृतश्चुत॑मुग्रं ख॑दिरमोज॑से ।
तमग्नि: प्रत्य॑मुञ्चत सो अ॑स्मै दुह आज्यं भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥६॥
यमब॑ध्नाद्बृहस्पति॑र्मणिं फालं॑ घृतश्चुत॑मुग्रं ख॑दिरमोज॑से ।
तमिन्द्र: प्रत्य॑मुञ्चतौज॑से वीर्याद्गय कम् ।
सो अ॑स्मै बलमिद्दु॑हे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥७॥
यमब॑ध्नाद्बृहस्पति॑र्मणिं फालं॑ घृतश्चुत॑मुग्रं ख॑दिरमोज॑से ।
तं सोम: प्रत्य॑मुञ्चत महे श्रोत्रा॑य चक्ष॑से ।
सो अ॑स्मै वर्च इद्दु॑हे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥८॥
यमब॑ध्नाद्बृहस्पति॑र्मणिं फालं॑ घृतश्चुत॑मुग्रं ख॑दिरमोज॑से ।
तं सूर्य: प्रत्य॑मुञ्चत तेनेमा अ॑जयद्दिश॑: ।
सो अ॑स्मै भूतिमिद्दु॑हे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥९॥
यमब॑ध्नाद्बृहस्पति॑र्मणिं फालं॑ घृतश्चुत॑मुग्रं ख॑दिरमोज॑से ।
तं बिभ्र॑च्चन्द्रमा॑ मणिमसु॑राणां पुरो॑ऽजयद्दानवानां॑ हिरण्ययी॑: ।
सो अ॑स्मै श्रियमिद्दु॑हे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥१०॥
यमब॑ध्नाद्बृहस्पतिर्वाता॑य मणिमाशवे॑ ।
सो अ॑स्मै वाजिनं॑ द्दुहे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥११॥
यमब॑ध्नाद्बृहस्पतिर्वाता॑य मणिमाशवे॑ ।
तेनेमां मणिना॑ कृषिमश्विना॑वभि र॑क्षत: ।
स भिषग्भ्यां महो॑ दुहे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥१२॥
यमब॑ध्नाद्बृहस्पतिर्वाता॑य मणिमाशवे॑ ।
तं बिभ्र॑त्सविता मणिं तेनेदम॑जयत्स्वद्ग: ।
सो अ॑स्मै सूनृतां॑ दुहे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥१३॥
यमब॑ध्नाद्बृहस्पतिर्वाता॑य मणिमाशवे॑ ।
तमापो बिभ्र॑तीर्मणिं सदा॑ धावन्त्यक्षि॑ता: ।
स आ॑भ्योऽमृतमिद्दु॑हे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥१४॥
यमब॑ध्नाद्बृहस्पतिर्वाता॑य मणिमाशवे॑ ।
तं राजा वरु॑णो मणिं प्रत्य॑मुञ्चत शंभुव॑म् ।
सो अ॑स्मै सत्यमिद्दु॑हे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥१५॥
यमब॑ध्नाद्बृहस्पतिर्वाता॑य मणिमाशवे॑ ।
तं देवा बिभ्र॑तो मणिं सर्वाँ॑ल्लोकान्युधाज॑यन् ।
स ए॑भ्यो जितिमिद्दु॑हे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥१६॥
यमब॑ध्नाद्बृहस्पतिर्वाता॑य मणिमाशवे॑ ।
तमिमं देवता॑ मणिं प्रत्य॑मुञ्चन्त शंभुव॑म् ।
स आ॑भ्यो विश्वमिद्दु॑हे भूयो॑भूय: श्व:श्वस्तेन त्वं द्वि॑षतो ज॑हि ॥१७॥
ऋतवस्तम॑बध्नतार्तवास्तम॑बध्नत ।
संवत्सरस्तं बद्ध्वा सर्वं॑ भूतं वि र॑क्षति ॥१८॥
अन्तर्देशा अ॑बध्नत प्रदिशस्तम॑बध्नत ।
प्रजाप॑तिसृष्टो मणिर्द्वि॑षतो मेऽध॑राँ अक: ॥१९॥
अथ॑र्वाणो अबध्नताथर्वणा अ॑बध्नत ।
तैर्मेदिनो अङ्गि॑रसो दस्यू॑नां बिभिदु: पुरस्तेन त्वं द्वि॑षतो ज॑हि ॥२०॥
तं धाता प्रत्य॑मुञ्चत स भूतं व्यद्गकल्पयत् ।
तेन त्वं द्वि॑षतो ज॑हि ॥२१॥
यमब॑ध्नाद्बृहस्पति॑र्देवेभ्यो असु॑रक्षितिम् ।
स मायं मणिराग॑मद्रसे॑न सह वर्च॑सा ॥२२॥
यमब॑ध्नाद्बृहस्पति॑र्देवेभ्यो असु॑रक्षितिम् ।
स मायं मणिराग॑मत्सह गोभि॑रजाविभिरन्ने॑न प्रजया॑ सह ॥२३॥
यमब॑ध्नाद्बृहस्पति॑र्देवेभ्यो असु॑रक्षितिम् ।
स मायं मणिराग॑मत्सह व्री॑हियवाभ्यां मह॑सा भूत्या॑ सह ॥२४॥
यमब॑ध्नाद्बृहस्पति॑र्देवेभ्यो असु॑रक्षितिम् ।
स मायं मणिराग॑मन्मधो॑र्घृतस्य धार॑या कीलाले॑न मणि: सह ॥२५॥
यमब॑ध्नाद्बृहस्पति॑र्देवेभ्यो असु॑रक्षितिम् ।
स मायं मणिराग॑मदूर्जया पय॑सा सह द्रवि॑णेन श्रिया सह ॥२६॥
यमब॑ध्नाद्बृहस्पति॑र्देवेभ्यो असु॑रक्षितिम् ।
स मायं मणिराग॑मत्तेज॑सा त्विष्या॑ सह यश॑सा कीर्त्याद्ग सह ॥२७॥
यमब॑ध्नाद्बृहस्पति॑र्देवेभ्यो असु॑रक्षितिम् ।
स मायं मणिराग॑मत्सर्वा॑भिर्भूति॑भि: सह ॥२८॥
तमिमं देवता॑ मणिं मह्यं॑ ददतु पुष्ट॑ये ।
अभिभुं क्ष॑त्रवर्ध॑नं सपत्नदम्भ॑नं मणिम् ॥२९॥
ब्रह्म॑णा तेज॑सा सह प्रति॑ मुञ्चामि मे शिवम् ।
असपत्न: स॑पत्नहा सपत्नान्मेऽध॑राँ अक: ॥३०॥
उत्त॑रं द्विषतो मामयं मणि: कृ॑णोतु देवजा: ।
यस्य॑ लोका इमे त्रय: पयो॑ दुग्धमुपास॑ते ।
स मायमधि॑ रोहतु मणि: श्रैष्ठ्या॑य मूर्धत: ॥३१॥
यं देवा: पितरो॑ मनुष्याद्ग उपजीव॑न्ति सर्वदा ।
स मायमधि॑ रोहतु मणि: श्रैष्ठ्या॑य मूर्धत: ॥३२॥
यथा बीज॑मुर्वरा॑यां कृष्टे फाले॑न रोह॑ति ।
एवा मयि॑ प्रजा पशवोऽन्न॑मन्नं वि रो॑हतु ॥३३॥
यस्मै॑ त्वा यज्ञवर्धन मणे॑ प्रत्यमु॑चं शिवम् ।
तं त्वं श॑तदक्षिण मणे श्रैष्ठ्या॑य जिन्वतात् ॥३४॥
एतमिध्मं समाहि॑तं जुषाणो अग्ने प्रति॑ हर्य होमै॑: ।
तस्मि॑न्विधेम सुमतिं स्वस्ति प्रजां चक्षु॑: पशून्त्समि॑द्धे जातवे॑दसि ब्रह्म॑णा ॥३५॥
 
 

सप्तमं सूक्तम्» चतुश्चत्वारिंशदृचस्यास्य सूक्तस्याथर्वा क्षुद्र ऋषि: | स्कम्भोऽध्यात्मञ्च देवता: |  प्रथमर्चो विराड्जगती   द्वितीयाष्टम्योर्भुरिक्त्रिष्टुप्  सप्तमीत्रयोदश्यो: परोष्णिक्  दशमीचतुर्दशीषोडश्यष्टादश्येकोनविंशीनामुपरिष्टाद्बृहती एकादशीद्वादशीपञ्चदशीविंशीद्वाविंश्येकोनचत्वारिंशीनामुपरिष्टाज्ज्योतिर्जगती  सप्तदश्यास्त्र्यवसाना षट्पदा जगती  एकविंश्या बृहतीगर्भानुष्टुप् त्रयोविंश्याद्यष्टानां सप्तत्रिंशीचत्वारिंश्योश्चानुष्टुप्  एकत्रिंश्या मध्येज्योतिर्जगती द्वात्रिंशीचतुस्त्रिंशीषट्त्रिंशीनामुपरिष्टाद्विराड्बृहती  त्रयस्त्रिंश्या: पराविराडनुष्टुप्  पञ्चत्रिंश्याश्चतुष्पदा जगती तृतीयादिचतसृणां नवम्यष्टात्रिंशीद्विचत्वारिंशीत्रिचत्वारिंशीनां त्रिष्टुप्  एकचत्वारिंश्या आर्षी त्रिपदा गायत्री  चतुश्चत्वारिंश्याश्चैकावसाना पञ्चपदा निचृत्पदपङ्क्तिर्द्विपदार्च्यनुष्टुब्वा छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

कस्मिन्नङ्गे तपो॑ अस्याधि॑ तिष्ठति कस्मिन्नङ्ग॑ ऋतमस्याध्याहि॑तम् ।
क्वद्ग व्रतं क्वद्ग श्रद्धास्य॑ तिष्ठति कस्मिन्नङ्गे॑ सत्यम॑स्य प्रति॑ष्ठितम् ॥१॥
कस्मादङ्गा॑द्दीप्यते अग्निर॑स्य कस्मादङ्गा॑त्पवते मातरिश्वा॑ ।
कस्मादङ्गाद्वि मि॑मीतेऽधि॑ चन्द्रमा॑ मह स्कम्भस्य मिमा॑नो अङ्ग॑म् ॥२॥
कस्मिन्नङ्गे॑ तिष्ठति भूमि॑रस्य कस्मिन्नङ्गे॑ तिष्ठत्यन्तरि॑क्षम् ।
कस्मिन्नङ्गे॑ तिष्ठत्याहि॑ता द्यौ: कस्मिन्नङ्गे॑ तिष्ठत्युत्त॑रं दिव: ॥३॥
क्व१ प्रेप्स॑न्दीप्यत ऊर्ध्वो अग्नि: क्व१ प्रेप्स॑न्पवते मातरिश्वा॑ ।
यत्र प्रेप्स॑न्तीरभियन्त्यावृत॑: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥४॥
क्वाद्गर्धमासा: क्वद्ग यन्ति मासा॑: संवत्सरेण॑ सह सं॑विदाना: ।
यत्र यन्त्यृतवो यत्रा॑र्तवा: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥५॥
क्व१ प्रेप्स॑न्ती युवती विरू॑पे अहोरात्रे द्र॑वत: संविदाने ।
यत्र प्रेप्स॑न्तीरभियन्त्याप॑: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥६॥
यस्मि॑न्त्स्तब्ध्वा प्रजाप॑तिर्लोकान्त्सर्वाँ अधा॑रयत् ।
स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥७॥
यत्प॑रमम॑वमं यच्च॑ मध्यमं प्रजाप॑ति: ससृजे विश्वरू॑पम् ।
किय॑ता स्कम्भ: प्र वि॑वेश तत्र यन्न प्रावि॑शत्कियत्तद्ब॑भूव ॥८॥
किय॑ता स्कम्भ: प्र वि॑वेश भूतं किय॑द्भविष्यदन्वाश॑येऽस्य ।
एकं यदङ्गमकृ॑णोत्सहस्रधा किय॑ता स्कम्भ: प्र वि॑वेश तत्र॑ ॥९॥
यत्र॑ लोकांश्च कोशांश्चापो ब्रह्म जना॑ विदु: ।
अस॑च्च यत्र सच्चान्त स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥१०॥
यत्र तप॑: पराक्रम्य॑ व्रतं धारयत्युत्त॑रम् ।
ऋतं च यत्र॑ श्रद्धा चापो ब्रह्म॑ समाहि॑ता: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥११॥
यस्मिन्भूमि॑रन्तरि॑क्षं द्यौर्यस्मिन्नध्याहि॑ता ।
यत्राग्निश्चन्द्रमा: सूर्यो वातस्तिष्ठन्त्यार्पि॑ता: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥१२॥
यस्य त्रय॑स्त्रिंशद्देवा अङ्गे सर्वे॑ समाहि॑ता: ।
स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥१३॥
यत्र ऋष॑य: प्रथमजा ऋच: साम यजु॑र्मही ।
एकर्षिर्यस्मिन्नार्पि॑त: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥१४॥
यत्रामृतं॑ च मृत्युश्च पुरुषेऽधि॑ समाहि॑ते ।
समुद्रो यस्य॑ नाड्य१ पुरुषेऽधि॑ समाहि॑ता: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥१५॥
यस्य चत॑स्र: प्रदिशो॑ नाड्य१स्तिष्ठ॑न्ति प्रथमा: ।
यज्ञो यत्र परा॑क्रान्त: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥१६॥
ये पुरु॑षे ब्रह्म॑ विदुस्ते वि॑दु: परमेष्ठिन॑म् ।
यो वेद॑ परमेष्ठिनं यश्च वेद॑ प्रजाप॑तिम् ।
ज्येष्ठं ये ब्राह्म॑णं विदुस्ते स्कम्भम॑नुसंवि॑दु: ॥१७॥
यस्य शिरो॑ वैश्वानरश्चक्षुरङ्गि॑रसोऽभ॑वन् ।
अङ्गा॑नि यस्य॑ यातव॑: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥१८॥
यस्य ब्रह्म मुख॑माहुर्जिह्वां म॑धुकशामुत ।
विराजमूधो यस्याहु: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥१९॥
यस्मादृचो॑ अपात॑क्षन्यजुर्यस्मा॑दपाक॑षन् ।
सामा॑नि यस्य लोमा॑न्यथर्वाङ्गिरसो मुखं॑ स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥२०॥
असच्चाखां प्रतिष्ठ॑न्तीं परममि॑व जना॑ विदु: ।
उतो सन्म॑न्यन्तेऽव॑रे ये ते शाखा॑मुपास॑ते ॥२१॥
यत्रा॑दित्याश्च॑ रुद्राश्च वस॑वश्च समाहि॑ता: ।
भूतं च यत्र भव्यं॑ च सर्वे॑ लोका: प्रति॑ष्ठिता: स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥२२॥
यस्य त्रय॑स्त्रिंशद्देवा निधिं रक्ष॑न्ति सर्वदा ।
निधिं तमद्य को वे॑द यं दे॑वा अभिरक्ष॑थ ॥२३॥
यत्र॑ देवा ब्र॑ह्मविदो ब्रह्म॑ ज्येष्ठमुपास॑ते ।
यो वै तान्विद्यात्प्रत्यक्षं स ब्रह्मा वेदि॑ता स्यात् ॥२४॥
बृहन्तो नाम ते देवा येऽस॑त: परि॑ जज्ञिरे ।
एकं तदङ्गं॑ स्कम्भस्यास॑दाहु: परो जना॑: ॥२५॥
यत्र॑ स्कम्भ: प्र॑जनय॑न्पुराणं व्यव॑र्तयत् ।
एकं तदङ्गं॑ स्कम्भस्य॑ पुराणम॑नुसंवि॑दु: ॥२६॥
यस्य त्रय॑स्त्रिंशद्देवा अङ्गे गात्रा॑ विभेजिरे ।
तान्वै त्रय॑स्त्रिंशद्देवानेके॑ ब्रह्मविदो॑ विदु: ॥२७॥
हिरण्यगर्भं प॑रमम॑नत्युद्यं जना॑ विदु: ।
स्कम्भस्तदग्रे प्रासि॑ञ्चद्धिर॑ण्यं लोके अ॑न्तरा ॥२८॥
स्कम्भे लोका: स्कम्भे तप॑: स्कम्भेऽध्यृतमाहि॑तम् ।
स्कम्भं॑ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं॑ समाहि॑तम् ॥२९॥
इन्द्रे॑ लोका इन्द्रे तप इन्द्रेऽध्यृतमाहि॑तम् ।
इन्द्रं॑ त्वा वेद प्रत्यक्षं॑ स्कम्भे सर्वं प्रति॑ष्ठितम् ॥३०॥
नाम नाम्ना॑ जोहवीति पुरा सूर्या॑त्पुरोषस॑: ।
यदज: प्र॑थमं सं॑बभूव स ह तत्स्वराज्य॑मियाय यस्मान्नान्यत्परमस्ति॑ भूतम् ॥३१॥
यस्य भूमि॑: प्रमान्तरि॑क्षमुतोदर॑म् ।
दिवं यश्चक्रे मूर्धानं तस्मै॑ ज्येष्ठाय ब्रह्म॑णे नम॑: ॥३२॥
यस्य सूर्यश्चक्षु॑श्चन्द्रमा॑श्च पुन॑र्णव: ।
अग्निं यश्चक्र आस्यं१ तस्मै॑ ज्येष्ठाय ब्रह्म॑णे नम॑: ॥३३॥
यस्य वात॑: प्राणापानौ चक्षुरङ्गि॑रसोऽभ॑वन् ।
दिशो यश्चक्रे प्रज्ञानीस्तस्मै॑ ज्येष्ठाय ब्रह्म॑णे नम॑: ॥३४॥
स्कम्भो दा॑धार द्यावा॑पृथिवी उभे इमे स्कम्भो दा॑धारोर्व१न्तरि॑क्षम् ।
स्कम्भो दा॑धार प्रदिश: षडुर्वी: स्कम्भ इदं विश्वं भुव॑नमा वि॑वेश ॥३५॥
य: श्रमात्तप॑सो जातो लोकान्त्सर्वा॑न्त्समानशे ।
सोमं यश्चक्रे केव॑लं तस्मै॑ ज्येष्ठाय ब्रह्म॑णे नम॑: ॥३६॥
कथं वातो नेल॑यति कथं न र॑मते मन॑: ।
किमाप॑: सत्यं प्रेप्स॑न्तीर्नेल॑यन्ति कदा चन ॥३७॥
महद्यक्षं भुव॑नस्य मध्ये तप॑सि क्रान्तं स॑लिलस्य॑ पृष्ठे ।
तस्मि॑ञ्छ्रयन्ते य उ के च॑ देवा वृक्षस्य स्कन्ध॑: परित॑ इव शाखा॑: ॥३८॥
यस्मै हस्ता॑भ्यां पादा॑भ्यां वाचा श्रोत्रे॑ण चक्षु॑षा ।
यस्मै॑ देवा: सदा॑ बलिं प्रयच्छ॑न्ति विमितेऽमि॑तं स्कम्भं तं ब्रू॑हि कतम: स्वि॑देव स: ॥३९॥
अप तस्य॑ हतं तमो व्यावृ॑त्त: स पाप्मना॑ ।
सर्वा॑णि तस्मिञ्ज्योतीं॑षि यानि त्रीणि॑ प्रजाप॑तौ ॥४०॥
यो वे॑तसं हि॑रण्ययं तिष्ठ॑न्तं सलिले वेद॑ ।
स वै गुह्य॑: प्रजाप॑ति: ॥४१॥
तन्त्रमेके॑ युवती विरू॑पे अभ्याक्रामं॑ वयत: षण्म॑यूखम् ।
प्रान्या तन्तूं॑स्तिरते॑ धत्ते अन्या नाप॑ वृञ्जाते न ग॑मातो अन्त॑म् ॥४२॥
तयो॑रहं प॑रिनृत्य॑न्त्योरिव न वि जा॑नामि यतरा परस्ता॑त् ।
पुमा॑नेनद्वयत्युद्गृ॑णत्ति पुमा॑नेनद्वि ज॑भाराधि नाके॑ ॥४३॥
इमे मयूखा उप॑ तस्तभुर्दिवं सामा॑नि चक्रुस्तस॑राणि वात॑वे ॥४४॥
 
 
 

अष्टमं सूक्तम्» चतुश्चत्वारिंशदृचस्यास्य सूक्तस्य कुत्स ऋषि: | अध्यात्मं देवता: |  प्रथमर्च उपरिष्टाद्विराड्बृहती  द्वितीयाया बृहतीगर्भानुष्टुप्  तृतीयाचतुर्थ्यष्टमीनवमीत्रयोदशीनां षोडश्यादितृचस्य चतुर्विंश्यष्टाविंशीपञ्चत्रिंशीषट्त्रिंशीचत्वारिंशीचतुश्चत्वारिंशीनाञ्च त्रिष्टुप्  पञ्चम्या भुरिगनुष्टुप्  षष्ठीचतुर्दश्योरेकोनविंश्यादितृचस्य त्रयोविंशीपञ्चविंश्येकोनत्रिंशीनामेकत्रिंश्यादिचतसृणां सप्तत्रिंश्यष्टात्रिंश्येकचत्वारिंशीत्रिचत्वारिंशीनाञ्चानुष्टुप्  सप्तम्या: पराबृहती त्रिष्टुप्  दशम्या अनुष्टुब्गर्भा त्रिष्टुप्  एकादश्या जगती  द्वादश्या: पुरोबृहती त्रिष्टुब्गर्भार्षी पङ्क्ति: पञ्चदशीसप्तविंश्योर्भुरिग्बृहती  द्वाविंश्या: पुर उष्णिक्  षड्विंश्या द्व्युष्णिग्गर्भानुष्टुप्  त्रिंश्या भुरिक्त्रिष्टुप्  एकोनचत्वारिंश्या बृहतीगर्भा त्रिष्टुप्  द्विचत्वारिंश्याश्च विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यो भूतं च भव्यं॑ च सर्वं यश्चा॑धितिष्ठ॑ति ।
स्व१र्यस्य॑ च केव॑लं तस्मै॑ ज्येष्ठाय ब्रह्म॑णे नम॑: ॥१॥
स्कम्भेनेमे विष्ट॑भिते द्यौश्च भूमि॑श्च तिष्ठत: ।
स्कम्भ इदं सर्व॑मात्मन्वद्यत्प्राणन्नि॑मिषच्च यत् ॥२॥
तिस्रो ह॑ प्रजा अ॑त्यायमा॑यन्न्य१न्या अर्कमभितो॑ऽविशन्त ।
बृहन्ह॑ तस्थौ रज॑सो विमानो हरि॑तो हरि॑णीरा वि॑वेश ॥३॥
द्वाद॑श प्रधय॑श्चक्रमेकं त्रीणि नभ्या॑नि क उ तच्चि॑केत ।
तत्राह॑तास्त्रीणि॑ शतानि॑ शङ्कव॑: षष्टिश्च खीला अवि॑चाचला ये ॥४॥
इदं स॑वितर्वि जा॑नीहि षड्यमा एक॑ एकज: ।
तस्मि॑न्हापित्वमि॑च्छन्ते य ए॑षामेक॑ एकज: ॥५॥
आवि: सन्निहि॑तं गुहा जरन्नाम॑ महत्पदम् ।
तत्रेदं सर्वमार्पि॑तमेज॑त्प्राणत्प्रति॑ष्ठितम् ॥६॥
एक॑चक्रं वर्तत एक॑नेमि सहस्रा॑क्षरं प्र पुरो नि पश्चा ।
अर्धेन विश्वं भुव॑नं जजान यद॑स्यार्धं क्व१ तद्ब॑भूव ॥७॥
पञ्चवाही व॑हत्यग्र॑मेषां प्रष्ट॑यो युक्ता अ॑नुसंव॑हन्ति ।
अया॑तमस्य ददृशे न यातं परं नेदीयोऽव॑रं दवी॑य: ॥८॥
तिर्यग्बि॑लश्चमस ऊर्ध्वबु॑ध्नस्तस्मिन्यशो निहि॑तं विश्वरू॑पम् ।
तदा॑सत ऋष॑य: सप्त साकं ये अस्य गोपा म॑हतो ब॑भूवु: ॥९॥
या पुरस्ता॑द्युज्यते या च॑ पश्चाद्या विश्वतो॑ युज्यते या च॑ सर्वत॑: ।
यया॑ यज्ञ: प्राङ्तायते तां त्वा॑ पृच्छामि कतमा सा ऋचाम् ॥१०॥
यदेज॑ति पत॑ति यच्च तिष्ठ॑ति प्राणदप्रा॑णन्निमिषच्च यद्भुव॑त् ।
तद्दा॑धार पृथिवीं विश्वरू॑पं तत्संभूय॑ भवत्येक॑मेव ॥११॥
अनन्तं वित॑तं पुरुत्रानन्तमन्त॑वच्चा सम॑न्ते ।
ते ना॑कपालश्च॑रति विचिन्वन्विद्वान्भूतमुत भव्य॑मस्य ॥१२॥
प्रजाप॑तिश्चरति गर्भे॑ अन्तरदृ॑श्यमानो बहुधा वि जा॑यते ।
अर्धेन विश्वं भुव॑नं जजान यद॑स्यार्धं क॑तम: स केतु: ॥१३॥
ऊर्ध्वं भर॑न्तमुदकं कुम्भेने॑वोदहार्यद्गम् ।
पश्य॑न्ति सर्वे चक्षु॑षा न सर्वे मन॑सा विदु: ॥१४॥
दूरे पूर्णेन॑ वसति दूर ऊनेन॑ हीयते ।
महद्यक्षं भुव॑नस्य मध्ये तस्मै॑ बलिं रा॑ष्ट्रभृतो॑ भरन्ति ॥१५॥
यत: सूर्य॑: उदेत्यस्तं यत्र॑ च गच्छ॑ति ।
तदेव म॑न्येऽहं ज्येष्ठं तदु नात्ये॑ति किं चन ॥१६॥
ये अर्वाङ्मध्य॑ उत वा॑ पुराणं वेदं॑ विद्वांस॑मभितो वद॑न्ति ।
आदित्यमेव ते परि॑ वदन्ति सर्वे॑ अग्निं द्वितीयं॑ त्रिवृतं॑ च हंसम् ॥१७॥
सहस्राह्ण्यं विय॑तावस्य पक्षौ हरे॑र्हंसस्य पत॑त: स्वर्गम् ।
स देवान्त्सर्वानुर॑स्युपदद्य॑ संपश्य॑न्याति भुव॑नानि विश्वा॑ ॥१८॥
सत्येनोर्ध्वस्त॑पति ब्रह्म॑णार्वाङ्वि प॑श्यति ।
प्राणेन॑ तिर्यङ् प्राण॑ति यस्मि॑ञ्ज्येष्ठमधि॑ श्रितम् ॥१९॥
यो वै ते विद्यादरणी याभ्यां॑ निर्मथ्यते वसु॑ ।
स विद्वाञ्ज्येष्ठं म॑न्येत स वि॑द्याद्ब्राह्म॑णं महत् ॥२०॥
अपादग्रे सम॑भवत्सो अग्रे स्व१राभ॑रत् ।
चतु॑ष्पाद्भूत्वा भोग्य: सर्वमाद॑त्त भोज॑नम् ॥२१॥
भोग्यो॑ भवदथो अन्न॑मदद्बहु ।
यो देवमु॑त्तराव॑न्तमुपासा॑तै सनातन॑म् ॥२२॥
सनातन॑मेनमाहुरुताद्य स्यात्पुन॑र्णव: ।
अहोरात्रे प्र जा॑येते अन्यो अन्यस्य॑ रूपयो॑: ॥२३॥
शतं सहस्र॑मयुतं न्यद्गर्बुदमसंख्येयं स्वम॑स्मिन्निवि॑ष्टम् ।
तद॑स्य घ्नन्त्यभिपश्य॑त एव तस्मा॑द्देवो रो॑चत एष एतत् ॥२४॥
बालादेक॑मणीयस्कमुतैकं नेव॑ दृश्यते ।
तत: परि॑ष्वजीयसी देवता सा मम॑ प्रिया ॥२५॥
इयं क॑ल्याण्य१जरा मर्त्य॑स्यामृता॑ गृहे ।
यस्मै॑ कृता शये स यश्चकार॑ जजार स: ॥२६॥
त्वं स्त्री त्वं पुमा॑नसि त्वं कु॑मार उत वा॑ कुमारी॥
त्वं जीर्णो दण्डेन॑ वञ्चसि त्वं जातो भ॑वसि विश्वतो॑मुख: ॥२७॥
उतैषां॑ पितोत वा॑ पुत्र ए॑षामुतैषां॑ ज्येष्ठ उत वा॑ कनिष्ठ: ।
एको॑ ह देवो मन॑सि प्रवि॑ष्ट: प्रथमो जात: स उ गर्भे॑ अन्त: ॥२८॥
पूर्णात्पूर्णमुद॑चति पूर्णं पूर्णेन॑ सिच्यते ।
उतो तदद्य वि॑द्याम यतस्तत्प॑रिषिच्यते॑ ॥२९॥
एषा सनत्नी सन॑मेव जातैषा पु॑राणी परि सर्वं॑ बभूव ।
मही देव्यु१षसो॑ विभाती सैके॑नैकेन मिषता वि च॑ष्टे ॥३०॥
अविर्वै नाम॑ देवतर्तेना॑स्ते परी॑वृता ।
तस्या॑ रूपेणेमे वृक्षा हरि॑ता हरि॑तस्रज: ॥३१॥
अन्ति सन्तं न ज॑हात्यन्ति सन्तं न प॑श्यति ।
देवस्य॑ पश्य काव्यं न म॑मार न जी॑र्यति ॥३२॥
अपूर्वेणे॑षिता वाचस्ता व॑दन्ति यथायथम् ।
वद॑न्तीर्यत्र गच्छ॑न्ति तदा॑हुर्ब्राह्म॑णं महत् ॥३३॥
यत्र॑ देवाश्च॑ मनुष्याद्गश्चारा नाभा॑विव श्रिता: ।
अपां त्वा पुष्पं॑ पृच्छामि यत्र तन्मायया॑ हितम् ॥३४॥
येभिर्वात॑ इषित: प्रवाति ये दद॑न्ते पञ्च दिश॑: सध्रीची॑: ।
य आहु॑तिमत्यम॑न्यन्त देवा अपां नेतार॑: कतमे त आ॑सन् ॥३५॥
इमामे॑षां पृथिवीं वस्त एकोऽन्तरि॑क्षं पर्येको॑ बभूव ।
दिव॑मेषां ददते यो वि॑धर्ता विश्वा आशा: प्रति॑ रक्षन्त्येके॑ ॥३६॥
यो विद्यात्सूत्रं वित॑तं यस्मिन्नोता॑: प्रजा इमा: ।
सूत्रं सूत्र॑स्य यो विद्यात्स वि॑द्याद्ब्राह्म॑णं महत् ॥३७॥
वेदाहं सूत्रं वित॑तं यस्मिन्नोता॑: प्रजा इमा: ।
सूत्रं सूत्र॑स्याहं वेदाथो यद्ब्राह्म॑णं महद् ॥३८॥
यद॑न्तरा द्यावा॑पृथिवी अग्निरैत्प्रदह॑न्विश्वदाव्यद्ग: ।
यत्राति॑ष्ठन्नेक॑पत्नी: परस्तात्क्वेद्गवासीन्मातरिश्वा॑ तदानी॑म् ॥३९॥
अप्स्वाद्गसीन्मातरिश्वा प्रवि॑ष्ट: प्रवि॑ष्टा देवा: स॑लिलान्या॑सन्॥
बृहन्ह॑ तस्थौ रज॑सो विमान: पव॑मानो हरित आ वि॑वेश ॥४०॥
उत्त॑रेणेव गायत्रीममृतेऽधि वि च॑क्रमे ।
साम्ना ये साम॑ संविदुरजस्तद्द॑दृशे क्वद्ग ॥४१॥
निवेश॑न: संगम॑नो वसू॑नां देव इ॑व सविता सत्यध॑र्मा ।
इन्द्रो न त॑स्थौ समरे धना॑नाम् ॥४२॥
पुण्डरी॑कं नव॑द्वारं त्रिभिर्गुणेभिरावृ॑तम् ।
तस्मिन्यद्यक्षमा॑त्मन्वत्तद्वै ब्र॑ह्मविदो॑ विदु: ॥४३॥
अकामो धीरो॑ अमृत॑: स्वयंभू रसे॑न तृप्तो न कुत॑श्चनोन॑: ।
तमेव विद्वान्न बि॑भाय मृत्योरात्मानं धीर॑मजरं युवा॑नम् ॥४४॥
 
 
 
नवमं सूक्तम्» सप्तविंशत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | शतौदना देवता: |  प्रथमर्चस्त्रिष्टुप्  द्वितीयादिदशानां त्रयोदश्यादिद्वादशानाञ्चानुष्टुप्  द्वादश्या: पथ्यापङ्क्ति:  पञ्चविंश्या द्व्युष्णिग्गर्भानुष्टुप् षड्विंश्या: पञ्चपदा बृहत्यनुष्टुबुष्णिग्गर्भा जगती सप्तविंश्याश्च पञ्चपदातिजागतानुष्टुब्गर्भा शक्वरी छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
अघायतामपि॑ नह्या मुखा॑नि सपत्ने॑षु वज्र॑मर्पयैतम् ।
इन्द्रे॑ण दत्ता प्र॑थमा शतौद॑ना भ्रातृव्यघ्नी यज॑मानस्य गातु: ॥१॥
वेदि॑ष्टे चर्म॑ भवतु बर्हिर्लोमा॑नि यानि॑ ते ।
एषा त्वा॑ रशनाग्र॑भीद्ग्रावा॑ त्वैषोऽधि॑ नृत्यतु ॥२॥
बाला॑स्ते प्रोक्ष॑णी: सन्तु जिह्वा सं मा॑र्ष्टुघ्न्ये ।
शुद्धा त्वं यज्ञिया॑ भूत्वा दिवं प्रेहि॑ शतौदने ॥३॥
य: शतौद॑नां पच॑ति कामप्रेण स क॑ल्पते ।
प्रीता ह्यद्गस्यर्त्विज: सर्वे यन्ति॑ यथायथम् ॥४॥
स स्वर्गमा रो॑हति यत्रादस्त्रि॑दिवं दिव: ।
अपूपना॑भिं कृत्वा यो ददा॑ति शतौद॑नाम् ॥५॥
स तांल्लोकान्त्समा॑प्नोति ये दिव्या ये च पार्थि॑वा: ।
हिर॑ण्यज्योतिषं कृत्वा यो ददा॑ति शतौद॑नाम् ॥६॥
ये ते॑ देवि शमितार॑: पक्तारो ये च॑ ते जना॑: ।
ते त्वा सर्वे॑ गोप्स्यन्ति मैभ्यो॑ भैषी: शतौदने ॥७॥
वस॑वस्त्वा दक्षिणत उ॑त्तरान्मरुत॑स्त्वा ।
आदित्या: पश्चाद्गो॑प्स्यन्ति साग्नि॑ष्टोममति॑ द्रव ॥८॥
देवा: पितरो॑ मनुष्याद्ग गन्धर्वाप्सरस॑श्च ये ।
ते त्वा सर्वे॑ गोप्स्यन्ति साति॑रात्रमति॑ द्रव ॥९॥
अन्तरि॑क्षं दिवं भूमि॑मादित्यान्मरुतो दिश॑: ।
लोकान्त्स सर्वा॑नाप्नोति यो ददा॑ति शतौद॑नाम् ॥१०॥
घृतं प्रोक्षन्ती॑ सुभगा॑ देवी देवान्ग॑मिष्यति ।
पक्तार॑मघ्न्ये मा हिं॑सीर्दिवं प्रेहि॑ शतौदने ॥११॥
ये देवा दि॑विषदो॑ अन्तरिक्षसद॑श्च ये ये चेमे भूम्यामधि॑ ।
तेभ्यस्त्वं धु॑क्ष्व सर्वदा क्षीरं सर्पिरथो मधु॑ ॥१२॥
यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च॑ ते हनू॑ ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥१३॥
यौ त ओष्ठौ ये नासि॑के ये शृङ्गे ये च तेऽक्षि॑णी ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥१४॥
यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥१५॥
यत्ते यकृद्ये मतस्ने यदान्त्रम्याश्च ते गुदा: ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥१६॥
यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥१७॥
यत्ते॑ मज्जा यदस्थि यन्मांसं यच्च लोहि॑तम् ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥१८॥
यौ ते॑ बाहू ये दोषणी यावंसौ या च॑ ते ककुत् ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥१९॥
यास्ते॑ ग्रीवा ये स्कन्धा या: पृष्टीर्याश्च पर्श॑व: ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥२०॥
यौ त॑ ऊरू अ॑ष्ठीवन्तौ ये श्रोणी या च॑ ते भसत् ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥२१॥
यत्ते पुच्छं ये ते बाला यदूधो ये च॑ ते स्तना॑: ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥२२॥
यास्ते जङ्घा: या: कुष्ठि॑का ऋच्छरा ये च॑ ते शफा: ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥२३॥
यत्ते चर्म॑ शतौदने यानि लोमा॑न्यघ्न्ये ।
आमिक्षां॑ दुह्रतां दात्रे क्षीरं सर्पिरथो मधु॑ ॥२४॥
क्रोडौ ते॑ स्तां पुरोदाशावाज्ये॑नाभिघा॑रितौ ।
तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥
उलूख॑ले मुस॑ले यश्च चर्म॑णि यो वा शूर्पे॑ तण्डुल: कण॑: ।
यं वा वातो॑ मातरिश्वा पव॑मानो ममाथाग्निष्टद्धोता सुहु॑तं कृणोतु ॥२६॥
अपो देवीर्मधु॑मतीर्घृतश्चुतो॑ ब्रह्मणां हस्ते॑षु प्रपृथक्सा॑दयामि ।
यत्का॑म इदम॑भिषिञ्चामि॑ वोऽहं तन्मे सर्वं सं प॑द्यतां वयं स्या॑म पत॑यो रयीणाम् ॥२७॥
 
 

दशमं सूक्तम्» चतुस्त्रिंशदृचस्यास्य सूक्तस्य कश्यप ऋषि: | वशा देवता: | प्रथमर्च: ककुम्मत्यनुष्टुप्  द्वितीयादितृचस्य सप्तमीनवम्योरेकादश्यादिद्वादशानां पञ्चविंश्यष्टाविंशीत्रींशीत्रयस्त्रिंशीचतुस्त्रिंशीनाञ्चानुष्टुप्  पञ्चम्या: पञ्चपदातिजागतानुष्टुब्गर्भा स्कन्धोग्रीवी बृहती षष्ठ्यष्टमीदशमीनां विराडनुष्टुप्  त्रयोविंश्या बृहती  चतुर्विंश्या उपरिष्टाद्बृहती  षड्विंश्या आस्तारपङ्क्ति:  सप्तविंश्या: शङ्कुमत्यनुष्टुप् एकोनत्रिंश्यास्त्रिपदा विराड्गायत्री  एकत्रिंश्या उष्णिग्गर्भानुष्टुप् द्वात्रिंश्याश्च विराट्पथ्याबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

नम॑स्ते जाय॑मानायै जाताया॑ उत ते नम॑: ।
बाले॑भ्य: शफेभ्यो॑ रूपाया॑घ्न्ये ते नम॑: ॥१॥
यो विद्यात्सप्त प्रवत॑: सप्त विद्यात्प॑रावत॑: ।
शिरो॑ यज्ञस्य यो विद्यात्स वशां प्रति॑ गृह्णीयात् ॥२॥
वेदाहं सप्त प्रवत॑: सप्त वे॑द परावत॑: ।
शिरो॑ यज्ञस्याहं वे॑द सोमं॑ चास्यां विचक्षणम् ॥३॥
यया द्यौर्यया॑ पृथिवी ययापो॑ गुपिता इमा: ।
वशां सहस्र॑धारां ब्रह्म॑णाच्छाव॑दामसि ॥४॥
शतं कंसा: शतं दोग्धार॑: शतं गोप्तारो अधि॑ पृष्ठे अ॑स्या: ।
ये देवास्तस्यां॑ प्राणन्ति ते वशां वि॑दुरेकधा ॥५॥
यज्ञपदीरा॑क्षीरा स्वधाप्रा॑णा महीलु॑का ।
वशा पर्जन्य॑पत्नी देवाँ अप्ये॑ति ब्रह्म॑णा ॥६॥
अनु॑ त्वाग्नि: प्रावि॑शदनु सोमो॑ वशे त्वा ।
ऊध॑स्ते भद्रे पर्जन्यो॑ विद्युत॑स्ते स्तना॑ वशे ॥७॥
अपस्त्वं धु॑क्षे प्रथमा उर्वरा अप॑रा वशे ।
तृतीयं॑ राष्ट्रं धुक्षेऽन्नं॑ क्षीरं व॑शे त्वम् ॥८॥
यदा॑दित्यैर्हूयमा॑नोपाति॑ष्ठ ऋतवरि ।
इन्द्र॑: सहस्रं पात्रान्त्सोमं॑ त्वापाययद्वशे ॥९॥
यदनूचीन्द्रमैरात्त्व॑ ऋषभोद्गऽह्वयत् ।
तस्मा॑त्ते वृत्रहा पय॑: क्षीरं क्रुद्धोद्गऽहरद्वशे ॥१०॥
यत्ते॑ क्रुद्धो धन॑पतिरा क्षीरमह॑रद्वशे ।
इदं तदद्य नाक॑स्त्रिषु पात्रे॑षु रक्षति ॥११॥
त्रिषु पात्रे॑षु तं सोममा देव्यद्गहरद्वशा ।
अथ॑र्वा यत्र॑ दीक्षितो बर्हिष्यास्त॑ हिरण्यये॑ ॥१२॥
सं हि सोमेनाग॑त समु सर्वे॑ण पद्वता॑ ।
वशा स॑मुद्रमध्य॑ष्ठद्गन्धर्वै: कलिभि॑: सह ॥१३॥
सं हि वातेनाग॑त समु सर्वै॑: पतत्रिभि॑: ।
वशा स॑मुद्रे प्रानृ॑त्यदृच: सामा॑नि बिभ्र॑ती ॥१४॥
सं हि सूर्येणाग॑त समु सर्वे॑ण चक्षु॑षा ।
वशा स॑मुद्रमत्य॑ख्यद्भद्रा ज्योतीं॑षि बिभ्र॑ती ॥१५॥
अभीवृ॑ता हिर॑ण्येन यदति॑ष्ठ ऋतावरि ।
अश्व॑: समुद्रो भूत्वाध्य॑स्कन्दद्वशे त्वा ॥१६॥
तद्भद्रा: सम॑गच्छन्त वशा देष्ट्र्यथो॑ स्वधा ।
अथ॑र्वा यत्र॑ दीक्षितो बर्हिष्यास्त॑ हिरण्यये॑ ॥१७॥
वशा माता रा॑जन्यद्गस्य वशा माता स्व॑धे तव॑ ।
वशाया॑ यज्ञ आयु॑धं तत॑श्चित्तम॑जायत ॥१८॥
ऊर्ध्वो बिन्दुरुद॑चरद्ब्रह्म॑ण: ककु॑दादधि॑ ।
ततस्त्वं ज॑ज्ञिषे वशे ततो होता॑जायत ॥१९॥
आस्नस्ते गाथा॑ अभवन्नुष्णिहा॑भ्यो बलं॑ वशे ।
पाजस्याद्गज्जज्ञे यज्ञ स्तने॑भ्यो रश्मयस्तव॑ ॥२०॥
ईर्माभ्यामय॑नं जातं सक्थि॑भ्यां च वशे तव॑ ।
आन्त्रेभ्यो॑ जज्ञिरे अत्रा उदरादधि॑ वीरुध॑: ॥२१॥
यदुदरं वरु॑णस्यानुप्रावि॑शथा वशे ।
तत॑स्त्वा ब्रह्मोद॑ह्वयत्स हि नेत्रमवेत्तव॑ ॥२२॥
सर्वे गर्भा॑दवेपन्त जाय॑मानादसूस्वद्ग: ।
ससूव हि तामाहुर्वशेति ब्रह्म॑भि: कॢप्त: स ह्यद्गस्या बन्धु॑: ॥२३॥
युध एक: सं सृ॑जति यो अ॑स्या एक इद्वशी ।
तरां॑सि यज्ञा अ॑भवन्तर॑सां चक्षु॑रभवद्वशा ॥२४॥
वशा यज्ञं प्रत्य॑गृह्णाद्वशा सूर्य॑मधारयत् ।
वशाया॑मन्तर॑विशदोदनो ब्रह्मणा॑ सह ॥२५॥
वशामेवामृत॑माहुर्वशां मृत्युमुपा॑सते ।
वशेदं सर्व॑मभवद्देवा म॑नुष्या३ असु॑रा: पितर ऋष॑य: ॥२६॥
य एवं विद्यात्स वशां प्रति॑ गृह्णीयात् ।
तथा हि यज्ञ: सर्व॑पाद्दुहे दात्रेऽन॑पस्फुरन् ॥२७॥
तिस्रो जिह्वा वरु॑णस्यान्तर्दी॑द्यत्यासनि॑ ।
तासां या मध्ये राज॑ति सा वशा दु॑ष्प्रतिग्रहा॑ ॥२८॥
चतुर्धा रेतो॑ अभवद्वशाया॑: ।
आपस्तुरी॑यममृतं तुरी॑यं यज्ञस्तुरी॑यं पशवस्तुरी॑यम् ॥२९॥
वशा द्यौर्वशा पृ॑थिवी वशा विष्णु॑: प्रजाप॑ति: ।
वशाया॑ दुग्धम॑पिबन्त्साध्या वस॑वश्च ये ॥३०॥
वशाया॑ दुग्धं पीत्वा साध्या वस॑वश्च ये ।
ते वै ब्रध्नस्य॑ विष्टपि पयो॑ अस्या उपा॑सते ॥३१॥
सोम॑मेनामेके॑ दुह्रे घृतमेक उपा॑सते ।
य एवं विदुषे॑ वशां ददुस्ते गतास्त्रि॑दिवं दिव: ॥३२॥
ब्राह्मणेभ्यो॑ वशां दत्त्वा सर्वां॑ल्लोकान्त्सम॑श्नुते ।
ऋतं ह्यद्गस्यामार्पि॑तमपि ब्रह्माथो तप॑: ॥३३॥
वशां देवा उप॑ जीवन्ति वशां म॑नुष्याद्ग उत ।
वशेदं सर्व॑मभवद्यावत्सूर्यो॑ विपश्य॑ति ॥३४॥
 

॥ इति दशमं काण्डम् ॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *