HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् ५ (Atharvved Kand 5)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥ अथ पञ्चमं काण्डम् ॥
 

प्रथमं सूक्तम्» नवर्चस्यास्य सूक्तस्य बृहद्दिवोऽथर्वा ऋषि: | वरुणो देवता: | प्रथमर्च: पराबृहती त्रिष्टुप्   द्वितीयादिपञ्चानामष्टम्याश्च त्रिष्टुप् सप्तम्या विराट् त्रिष्टुप्  नवम्याश्च त्र्यवसाना षट्पदात्यष्टिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
ऋध॑ङ्मन्त्रो योनिं य आ॑बभूवामृता॑सुर्वर्ध॑मान: सुजन्मा॑ ।
अद॑ब्धासुर्भ्राज॑मानोऽहे॑व त्रितो धर्ता दा॑धार त्रीणि॑ ॥१॥
आ यो धर्मा॑णि प्रथम: ससाद ततो वपूं॑षि कृणुषे पुरूणि॑ ।
धास्युर्योनिं॑ प्रथम आ वि॑वेशा यो वाचमनु॑दितां चिकेत॑ ॥२॥
यस्ते शोका॑य तन्वंद्ग रिरेच क्षरद्धिर॑ण्यं शुचयोऽनु स्वा: ।
अत्रा॑ दधेते अमृता॑नि नामास्मे वस्त्रा॑णि विश एर॑यन्ताम् ॥३॥
प्र यदेते प्र॑तरं पूर्व्यं गु: सद॑:सद आतिष्ठ॑न्तो अजुर्यम् ।
कवि: शुषस्य॑ मातरा॑ रिहाणे जाम्यै धुर्यं पतिमेर॑येथाम् ॥४॥
तदू षु ते॑ महत्पृ॑थुज्मन्नम॑: कवि: काव्ये॑न कृणोमि ।
यत्सम्यञ्चा॑वभियन्ता॑वभि क्षामत्रा॑ मही रोध॑चक्रे वावृधेते॑ ॥५॥
सप्त मर्यादा॑: कवय॑स्ततक्षुस्तासामिदेका॑मभ्यंद्गहुरो गा॑त् ।
आयोर्ह॑ स्कम्भ उप॑मस्य नीडे पथां वि॑सर्गे धरुणे॑षु तस्थौ ॥६॥
उतामृता॑सुर्व्रत॑ एमि कृन्वन्नसु॑रात्मा तन्व१स्तत्सुमद्गु॑: ।
उत वा॑ शक्रो रत्नं दधा॑त्यूर्जया॑ वा यत्सच॑ते हविर्दा: ॥७॥
उत पुत्र: पितरं॑ क्षत्रमी॑डे ज्येष्ठं मर्याद॑मह्वयन्त्स्वस्तये॑ ।
दर्शन्नु ता व॑रुण यास्ते॑ विष्ठा आवर्व्र॑तत: कृणवो वपूं॑षि ॥८॥
अर्धमर्धेन पय॑सा पृणक्ष्यर्धेन॑ शुष्म वर्धसे अमुर ।
अविं॑ वृधाम शग्मियं सखा॑यं वरु॑णं पुत्रमदि॑त्या इषिरम् ।
कविशस्तान्य॑स्मै वपूं॑ष्यवोचाम रोद॑सी सत्यवाचा॑ ॥९॥
 
 
द्वितीयं सूक्तम्» नवर्चस्यास्य सूक्तस्य बृहद्दिवोऽथर्वा ऋषि: | वरुणो देवता: | प्रथमाद्यष्टर्चां त्रिष्टुप्  नवम्याश्च भुरिक्परातिजागता त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


तदिदा॑स भुव॑नेषु ज्येष्ठं यतो॑ जज्ञ उग्रस्त्वेषनृ॑म्ण: ।
सद्यो ज॑ज्ञानो नि रि॑णाति शत्रूननु यदे॑नं मद॑न्ति विश्व ऊमा॑: ॥१॥
वावृधान: शव॑सा भूर्यो॑जा: शत्रु॑र्दासाय॑ भियसं॑ दधाति ।
अव्य॑नच्च व्यनच्च सस्नि सं ते॑ नवन्त प्रभृ॑ता मदे॑षु ॥२॥
त्वे क्रतुमपि॑ पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमा॑: ।
स्वादो: स्वादी॑य: स्वादुना॑ सृजा समद: सु मधु मधु॑नाभि यो॑धी: ॥३॥
यदि॑ चिन्नु त्वा धना जय॑न्तं रणे॑रणे अनुमद॑न्ति विप्रा॑: ।
ओजी॑य: शुष्मिन्त्स्थिरमा त॑नुष्व मा त्वा॑ दभन्दुरेवा॑स: कशोका॑: ॥४॥
त्वया॑ वयं शा॑शद्महे रणे॑षु प्रपश्य॑न्तो युधेन्या॑नि भूरि॑ ।
चोदया॑मि त आयु॑धा वचो॑भि: सं ते॑ शिशामि ब्रह्म॑णा वयां॑सि ॥५॥
नि तद्द॑धिषेऽव॑रे परे॑ च यस्मिन्नाविथाव॑सा दुरोणे ।
आ स्था॑पयत मातरं॑ जिगत्नुमत॑ इन्वत कर्व॑राणि भूरि॑ ॥६॥
स्तुष्व व॑र्ष्मन्पुरुवर्त्मा॑नं समृभ्वा॑णमिनत॑ममाप्तमाप्त्याना॑म् ।
आ द॑र्शति शव॑सा भूर्यो॑जा: प्र स॑क्षति प्रतिमानं॑ पृथिव्या: ॥७॥
इमा ब्रह्म॑ बृहद्दि॑व: कृणवदिन्द्रा॑य शूषम॑ग्रिय: स्वर्षा: ।
महो गोत्रस्य॑ क्षयति स्वराजा तुर॑श्चिद्विश्व॑मर्णवत्तप॑स्वान् ॥८॥
एवा महान्बृहद्दि॑वो अथर्वावो॑चत्स्वां तन्व१मिन्द्र॑मेव ।
स्वसा॑रौ मातरिभ्व॑री अरिप्रे हिन्वन्ति॑ चैने शव॑सा वर्धय॑न्ति च ॥९॥
 
 
 
तृतीयं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य बृहद्दिवोऽथर्वा ऋषि: | प्रथमाद्वितीययोरृचोर्विहव्योऽग्नि:  तृतीयाचतुर्थ्योर्देवा: पञ्चम्या द्रविणोदादय:  षष्ठीनवमीदशमीनां विश्वे देवा: सप्तम्या: सोम:  अष्टम्येकादश्योश्चेन्द्रो देवता: | प्रथमर्चस्तृतीयादिसप्तानामेकादश्याश्च त्रिष्टुप् द्वितीयाया भुरिक्त्रिष्टुप्  दशम्याश्च विराड्जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


ममा॑ग्ने वर्चो॑ विहवेष्व॑स्तु वयं त्वेन्धा॑नास्तन्वंद्ग पुषेम ।
मह्यं॑ नमन्तां प्रदिशश्चत॑स्रस्त्वयाध्य॑क्षेण पृत॑ना जयेम ॥१॥
अग्ने॑ मन्युं प्र॑तिनुदन्परे॑षां त्वं नो॑ गोपा: परि॑ पाहि विश्वत॑: ।
अपा॑ञ्चो यन्तु निवता॑ दुरस्यवोऽमैषां॑ चित्तं प्रबुधां वि ने॑शत् ॥२॥
मम॑ देवा वि॑हवे स॑न्तु सर्व इन्द्र॑वन्तो मरुतो विष्णु॑रग्नि: ।
ममान्तरि॑क्षमुरुलो॑कमस्तु मह्यं वात॑: पवतां कामा॑यास्मै ॥३॥
मह्यं॑ यजन्तां मम यानीष्टाकू॑ति: सत्या मन॑सो मे अस्तु ।
एनो मा नि गां॑ कतमच्चनाहं विश्वे॑ देवा अभि र॑क्षन्तु मेह ॥४॥
मयि॑ देवा द्रवि॑णमा य॑जन्तां मय्याशीर॑स्तु मयि॑ देवहू॑ति: ।
दैवा: होता॑र: सनिषन्न एतदरि॑ष्टा: स्याम तन्वाद्ग सुवीरा॑: ॥५॥
दैवी॑: षडुर्वीरुरु न॑: कृणोत विश्वे॑ देवास इह मा॑दयध्वम् ।
मा नो॑ विददभिभा मो अश॑स्तिर्मा नो॑ विदद्वृजिना द्वेष्या या ॥६॥
तिस्रो दे॑वीर्महि॑ न: शर्म॑ यच्छत प्रजायै॑ नस्तन्वे३ यच्च॑ पुष्टम् ।
मा हा॑स्महि प्रजया मा तनूभिर्मा र॑धाम द्विषते सो॑म राजन् ॥७॥
उरुव्यचा॑ नो महिष: शर्म॑ यच्छत्वस्मिन्हवे॑ पुरुहूत: पु॑रुक्षु ।
स न॑: प्रजायै॑ हर्यश्व मृडेन्द्र मा नो॑ रीरिषो मा परा॑ दा: ॥८॥
धाता वि॑धाता भुव॑नस्य यस्पति॑र्देव: स॑विताभि॑मातिषाह: ।
आदित्या रुद्रा अश्विनोभा देवा: पा॑न्तु यज॑मानं निरृथात् ॥९॥
ये न॑: सपत्ना अप ते भ॑वन्त्विन्द्राग्निभ्यामव॑ बाधामह एनान् ।
आदित्या रुद्रा उ॑परिस्पृशो॑ नो उग्रं चेत्तार॑मधिराजम॑क्रत ॥१०॥
अर्वाञ्चमिन्द्र॑ममुतो॑ हवामहे यो गोजिद्ध॑नजिद॑श्वजिद्य: ।
इमं नो॑ यज्ञं वि॑हवे शृ॑णोत्वस्माक॑मभूर्हर्यश्व मेदी ॥११॥
 
 
 
चतुर्थं सूक्तम्» दशर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | कुष्ठो यक्ष्मनाशनञ्च देवता: | प्रथमादिचतुरृचां सप्तम्यादितृचस्य चानुष्टुप्  पञ्चम्या भुरिगनुष्टुप्  षष्ठ्या गायत्री  दशम्याश्च उष्णिग्गर्भा निचृदनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यो गिरिष्वजा॑यथा वीरुधां बल॑वत्तम: ।
कुष्ठेहि॑ तक्मनाशन तक्मानं॑ नाशय॑न्नित: ॥१॥
सुपर्णसुव॑ने गिरौ जातं हिमव॑तस्परि॑ ।
धनै॑रभि श्रुत्वा य॑न्ति विदुर्हि त॑क्मनाश॑नम् ॥२॥
अश्वत्थो दे॑वसद॑नस्तृतीय॑स्यामितो दिवि ।
तत्रामृत॑स्य चक्ष॑णं देवा: कुष्ठ॑मवन्वत ॥३॥
हिरण्ययी नौर॑चरद्धिर॑ण्यबन्धना दिवि ।
तत्रामृत॑स्य पुष्पं॑ देवा: कुष्ठ॑मवन्वत ॥४॥
हिरण्यया: पन्था॑न आसन्नरि॑त्राणि हिरण्यया॑ ।
नावो॑ हिरण्ययी॑रासन्याभि: कुष्ठं॑ निराव॑हन् ॥५॥
इमं मे॑ कुष्ठ पूरु॑षं तमा व॑ह तं निष्कु॑रु ।
तमु॑ मे अगदं कृ॑धि ॥६॥
देवेभ्यो अधि॑ जातोद्गऽसि सोम॑स्यासि सखा॑ हित: ।
स प्राणाय॑ व्यानाय चक्षु॑षे मे अस्मै मृ॑ड ॥७॥
उद॑ङ् जातो हिमव॑त: स प्राच्यां नी॑यसे जन॑म् ।
तत्र कुष्ठ॑स्य नामा॑न्युत्तमानि वि भे॑जिरे ॥८॥
उत्तमो नाम॑ कुष्ठस्युत्तमो नाम॑ ते पिता ।
यक्ष्मं॑ च सर्वं॑ नाशय॑ तक्मानं॑ चारसं कृ॑धि ॥९॥
शीर्षामयमु॑पहत्यामक्ष्योस्तन्वो३ रप॑: ।
कुष्ठस्तत्सर्वं निष्क॑रद्दैवं॑ समह वृष्ण्य॑म् ॥१०॥
 
 
 

पञ्चमं सूक्तम्» नवर्चस्यास्य सूक्तस्याथर्वा ऋषि: | लाक्षा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


रात्री॑ माता नभ॑: पितार्यमा ते॑ पितामह: ।
सिलाची नाम वा अ॑सि सा देवाना॑मसि स्वसा॑ ॥१॥
यस्त्वा पिब॑ति जीव॑ति त्राय॑से पुरु॑षं त्वम् ।
भर्त्री हि शश्व॑तामसि जना॑नां च न्यञ्च॑नी ॥२॥
वृक्षंवृ॑क्षमा रो॑हसि वृषण्यन्ती॑व कन्यला॑ ।
जय॑न्ती प्रत्यातिष्ठ॑न्ती स्पर॑णी नाम वा अ॑सि ॥३॥
यद्दण्डेन यदिष्वा यद्वारुर्हर॑सा कृतम् ।
तस्य त्वम॑सि निष्कृ॑ति: सेमं निष्कृ॑धि पूरु॑षम् ॥४॥
भद्रात्प्लक्षान्निस्ति॑ष्ठस्यश्वत्थात्ख॑दिराद्धवात् ।
भद्रान्न्यग्रोधा॑त्पर्णात्सा न एह्य॑रुन्धति ॥५॥
हिर॑ण्यवर्णे सुभ॑गे सूर्य॑वर्णे वपु॑ष्टमे ।
रुतं ग॑च्छासि निष्कृते निष्कृ॑तिर्नाम वा अ॑सि ॥६॥
हिर॑ण्यवर्णे सुभ॑गे शुष्मे लोम॑शवक्षने ।
अपाम॑सि स्वसा॑ लाक्षे वातो॑ हात्मा ब॑भूव ते ॥७॥
सिलाची नाम॑ कानीनोऽज॑बभ्रु पिता तव॑ ।
अश्वो॑ यमस्य य: श्यावस्तस्य॑ हास्नास्यु॑क्षिता ॥८॥
अश्व॑स्यास्न: संप॑तिता सा वृक्षाँ अभि सि॑ष्यदे ।
सरा प॑तत्रिणी॑ भूत्वा सा न एह्य॑रुन्धति ॥९॥
 
 
 

षष्ठं सूक्तम्» चतुर्दशर्चस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमर्चो ब्रह्मादित्य: द्वितीयाया: कर्माणि  तृतीयाचतुर्थ्यो रुद्रगणा: पञ्चम्यादिचतसृणां सोमारुद्रौ  नवम्या हेति:  दशम्या अग्नि: एकादश्यादिचतसृणाञ्च सर्वात्मा रुद्रो देवता: |  प्रथमानवम्योत्रिष्टुप्  द्वितीयाया अनुष्टुप्  तृतीयाया जगती चतुर्थ्या: पञ्चपदानुष्टुबुष्णिक्त्रिष्टुब्गर्भा जगती  पञ्चम्यादितृचस्य त्रिपदा विराड्गायत्री  अष्टम्या एकावसाना द्विपदार्च्यनुष्टुप्  दशम्या: प्रस्तारपङ्क्ति: एकादश्यादितृचस्य पङ्क्ति:  चतुर्दश्याश्च स्वराट् पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


ब्रह्म॑ जज्ञानं प्र॑थमं पुरस्ताद्वि सी॑मत: सुरुचो॑ वेन आ॑व: ।
स बुध्न्याद्ग उपमा अ॑स्य विष्ठा: सतश्च योनिमस॑तश्च वि व॑: ॥१॥
अना॑प्ता ये व॑: प्रथमा यानि कर्मा॑णि चक्रिरे ।
वीरान्नो अत्र मा द॑भन्तद्व॑ एतत्पुरो द॑धे ॥२॥
सहस्र॑धार एव ते सम॑स्वरन्दिवो नाके मधु॑जिह्वा असश्चत॑: ।
तस्य स्पशो न नि मि॑षन्ति भूर्ण॑य: पदेप॑दे पाशिन॑: सन्ति सेत॑वे ॥३॥
पर्यू षु प्र ध॑न्वा वाज॑सातये परि॑ वृत्राणि॑ सक्षणि॑: ।
द्विषस्तदध्य॑र्णवेने॑यसे सनिस्रसो नामा॑सि त्रयोदशो मास इन्द्र॑स्य गृह: ॥४॥
न्वे३तेना॑रात्सीरसौ स्वाहा॑ ।
तिग्मायु॑धौ तिग्महे॑ती सुषेवौ सोमा॑रुद्राविह सु मृ॑डतं न: ॥५॥
अवैतेना॑रात्सीरसौ स्वाहा॑ ।
तिग्मायु॑धौ तिग्महे॑ती सुषेवौ सोमा॑रुद्राविह सु मृ॑डतं न: ॥६॥
अपैतेना॑रात्सीरसौ स्वाहा॑ ।
तिग्मायु॑धौ तिग्महे॑ती सुषेवौ सोमा॑रुद्राविह सु मृ॑डतं न: ॥७॥
मुमुक्तमस्मान्दु॑रिताद॑वद्याज्जुषेथां॑ यज्ञममृत॑मस्मासु॑ धत्तम् ॥८॥
चक्षु॑षो हेते मन॑सो हेते ब्रह्म॑णो हेते तप॑सश्च हेते ।
मेन्या मेनिर॑स्यमेनयस्ते स॑न्तु ये३ऽस्माँ अ॑भ्यघायन्ति॑ ॥९॥
यो३ऽस्मांश्चक्षु॑षा मन॑सा चित्त्याकू॑त्या च यो अ॑घायुर॑भिदासा॑त् ।
त्वं तान॑ग्ने मेन्यामेनीन्कृ॑णु स्वाहा॑ ॥१०॥
इन्द्र॑स्य गृहोद्गऽसि ।
तं त्वा प्र प॑द्ये तं त्वा प्र वि॑शामि सर्व॑गु: सर्व॑पूरुष: सर्वा॑त्मा सर्व॑तनू: सह यन्मेऽस्ति तेन॑ ॥११॥
इन्द्र॑स्य शर्मा॑सि ।
तं त्वा प्र प॑द्ये तं त्वा प्र वि॑शामि सर्व॑गु: सर्व॑पूरुष: सर्वा॑त्मा सर्व॑तनू: सह यन्मेऽस्ति तेन॑ ॥१२॥
इन्द्र॑स्य वर्मा॑सि ।
तं त्वा प्र प॑द्ये तं त्वा प्र वि॑शामि सर्व॑गु: सर्व॑पूरुष: सर्वा॑त्मा सर्व॑तनू: सह यन्मेऽस्ति तेन॑ ॥१३॥
इन्द्र॑स्य वरू॑थमसि ।
तं त्वा प्र प॑द्ये तं त्वा प्र वि॑शामि सर्व॑गु: सर्व॑पूरुष: सर्वा॑त्मा सर्व॑तनू: सह यन्मेऽस्ति तेन॑ ॥१४॥
 
 
 
सप्तमं सूक्तम्» दशर्चस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमादितृचस्य षष्ठ्यादिपञ्चर्चाञ्चारातय:  चतुर्थीपञ्चम्योश्च सरस्वती देवता: | प्रथमाया विराड्गर्भा प्रस्तारपङ्क्ति: द्वितीयातृतीयापञ्चमीनां सप्तम्यादिचतसृणाञ्चानुष्टुप् चतुर्थ्या: मध्याबृहती  षष्ठ्याश्च प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


आ नो॑ भर मा परि॑ ष्ठा अराते मा नो॑ रक्षीर्दक्षि॑णां नीयमा॑नाम् ।
नमो॑ वीर्त्साया अस॑मृद्धये नमो॑ अस्त्वरा॑तये ॥१॥
यम॑राते पुरोधत्से पुरु॑षं परिरापिण॑म् ।
नम॑स्ते तस्मै॑ कृण्मो मा वनिं व्य॑थयीर्मम॑ ॥२॥
प्र णो॑ वनिर्देवकृ॑ता दिवा नक्तं॑ च कल्पताम् ।
अरा॑तिमनुप्रेमो॑ वयं नमो॑ अस्त्वरा॑तये ॥३॥
सर॑स्वतीमनु॑मतिं भगं यन्तो॑ हवामहे ।
वाचं॑ जुष्टां मधु॑मतीमवादिषं देवानां॑ देवहू॑तिषु ॥४॥
यं याचा॑म्यहं वाचा सर॑स्वत्या मनोयुजा॑ ।
श्रद्धा तमद्य वि॑न्दतु दत्ता सोमे॑न बभ्रुणा॑ ॥५॥
मा वनिं मा वाचं॑ नो वीर्त्सी॑रुभावि॑न्द्राग्नी आ भ॑रतां नो वसू॑नि ।
सर्वे॑ नो अद्य दित्सन्तोऽरा॑तिं प्रति॑ हर्यत ॥६॥
परोऽपे॑ह्यसमृद्धे वि ते॑ हेतिं न॑यामसि ।
वेद॑ त्वाहं निमीव॑न्तीं नितुदन्ती॑मराते ॥७॥
उत नग्ना बोभु॑वती स्वप्नया स॑चसे जन॑म् ।
अरा॑ते चित्तं वीर्त्सन्त्याकू॑तिं पुरु॑षस्य च ॥८॥
या म॑हती महोन्मा॑ना विश्वा आशा॑ व्यानशे ।
तस्यै॑ हिरण्यकेश्यै निरृ॑त्या अकरं नम॑: ॥९॥
हिर॑ण्यवर्णा सुभगा हिर॑ण्यकशिपुर्मही ।
तस्यै हिर॑ण्यद्रापयेऽरा॑त्या अकरं नम॑: ॥१०॥
 
 
 
अष्टमं सूक्तम्» नवर्चस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमाद्वितीययोरृचोरग्नि: तृतीयाया विश्वे देवा:  चतुर्थ्यादिषण्णाञ्चेन्द्रो देवता: |  प्रथमापञ्चम्यष्टमीनामनुष्टुप्  द्वितीयायास्त्र्यवसाना षट्पदा जगती  तृतीयाचतुर्थ्योर्भुरिक्पथ्यापङ्क्ति:  षष्ठ्या आस्तारपङ्क्ति: सप्तम्या द्व्युष्णिग्गर्भा पथ्यापङ्क्ति: नवम्याश्च त्र्यवसाना षट्पदा द्व्युष्णिग्गर्भा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


वैकङ्कतेनेध्मेन॑ देवेभ्य आज्यं॑ वह ।
अग्ने ताँ इह मा॑दय सर्व आ य॑न्तु मे हव॑म् ॥१॥
इन्द्रा या॑हि मे हव॑मिदं क॑रिष्यामि तच्छृ॑णु ।
इम ऐन्द्रा अ॑तिसरा आकू॑तिं सं न॑मन्तु मे ।
तेभि॑: शकेम वीर्यं१ जात॑वेदस्तनू॑वशिन् ॥२॥
यदसावमुतो॑ देवा अदेव: संश्चिकी॑र्षति ।
मा तस्याग्निर्हव्यं वा॑क्षीद्धवं॑ देवा अ॑स्य मोप॑ गुर्ममैव हवमेत॑न ॥३॥
अति॑ धावतातिसरा इन्द्र॑स्य वच॑सा हत ।
अविं वृक॑ इव मथ्नीत स वो जीवन्मा मो॑चि प्रानमस्यापि॑ नह्यत ॥४॥
यममी पु॑रोदधिरे ब्रह्माणमप॑भूतये ।
इन्द्र स ते॑ अधस्पदं तं प्रत्य॑स्यामि मृत्यवे॑ ॥५॥
यदि॑ प्रेयुर्दे॑वपुरा ब्रह्म वर्मा॑णि चक्रिरे ।
तनूपानं॑ परिपाणं॑ कृण्वाना यदु॑पोचिरे सर्वं तद॑रसं कृ॑धि ॥६॥
यानसाव॑तिसरांश्चकार॑ कृणव॑च्च यान् ।
त्वं तानि॑न्द्र वृत्रहन्प्रतीच: पुनरा कृ॑धि यथामुं तृणहां जन॑म् ॥७॥
यथेन्द्र॑ उद्वाच॑नं लब्ध्वा चक्रे अ॑धस्पदम् ।
कृण्वे३ऽहमध॑रांस्तथामूंछ॑श्वतीभ्य: समा॑भ्य: ॥८॥
अत्रै॑नानिन्द्र वृत्रहन्नुग्रो मर्म॑णि विध्य ।
अत्रैवैना॑नभि तिष्ठेन्द्र॑ मेद्य१हं तव॑ ।
अनु॑ त्वेन्द्रा र॑भामहे स्याम॑ सुमतौ तव॑ ॥९॥
 
 
 

नवमं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | वास्तोष्पतिर्देवता: | प्रथमापञ्चम्योरृचोर्दैवी बृहती   द्वितीयाषष्ठ्योर्दैवी त्रिष्टुप् तृतीयाचतुर्थ्योर्दैवी जगती सप्तम्या: पञ्चपदा विराडुष्णिग्बृहतीगर्भा पञ्चपदा जगती अष्टम्याश्च त्र्यवसाना चतुष्पदा पुरस्कृतित्रिष्टुब्बृहतीगर्भातिजगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


दिवे स्वाहा॑ ॥१॥
पृथिव्यै स्वाहा॑ ॥२॥
अन्तरि॑क्षाय स्वाहा॑ ॥३॥
अन्तरि॑क्षाय स्वाहा॑ ॥४॥
दिवे स्वाहा॑ ॥५॥
पृथिव्यै स्वाहा॑ ॥६॥
सूर्यो॑ मे चक्षुर्वात॑: प्राणो३ऽन्तरि॑क्षमात्मा पृ॑थिवी शरी॑रम् ।
अस्तृतो नामाहमयम॑स्मि स आत्मानं नि द॑धे द्यावा॑पृथिवीभ्यां॑ गोपीथाय॑ ॥७॥
उदायुरुद्बलमुत्कृतमुत्कृत्यामुन्म॑नीषामुदि॑न्द्रियम् ।
आयु॑ष्कृदायु॑ष्पत्नी स्वधा॑वन्तौ गोपा मे॑ स्तं गोपायतं॑ मा ।
आत्मसदौ॑ मे स्तं मा मा॑ हिंसिष्टम् ॥८॥
 
 
 
दशमं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | वास्तोष्पतिर्देवता: | प्रथमादिषडृचां यवमध्या त्रिपदा गायत्री  सप्तम्या यवमध्या ककुप् अष्टम्याश्च पुरोधृतिद्व्यनुष्टुब्गर्भा पराष्टिस्त्र्यवसाना चतुष्पदातिजगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अश्मवर्म मे॑ऽसि यो मा प्राच्या॑ दिशोद्गऽघायुर॑भिदासा॑त् ।
एतत्स ऋ॑च्छात् ॥१॥
अश्मवर्म मे॑ऽसि यो मा दक्षि॑णाया दिशोद्गऽघायुर॑भिदासा॑त् ।
एतत्स ऋ॑च्छात् ॥२॥
अश्मवर्म मे॑ऽसि यो मा॑ प्रतीच्या॑ दिशोद्गऽघायुर॑भिदासा॑त् ।
एतत्स ऋ॑च्छात् ॥३॥
अश्मवर्म मेऽसि यो मोदी॑च्या दिशोद्गऽघायुर॑भिदासा॑त् ।
एतत्स ऋ॑च्छात् ॥४॥
अश्मवर्म मे॑ऽसि यो मा॑ ध्रुवाया॑ दिशोद्गऽघायुर॑भिदासा॑त् ।
एतत्स ऋ॑च्छात् ॥५॥
अश्मवर्म मे॑ऽसि यो मोर्ध्वाया॑ दिशोद्गऽघायुर॑भिदासा॑त् ।
एतत्स ऋ॑च्छात् ॥६॥
अश्मवर्म मे॑ऽसि यो मा॑ दिशाम॑न्तर्देशेभ्यो॑ऽघायुर॑भिदासा॑त् ।
एतत्स ऋ॑च्छात् ॥७॥
बृहता मन उप॑ ह्वये मातरिश्व॑ना प्राणापानौ ।
सूर्याच्चक्षु॑रन्तरि॑क्षाच्छ्रोत्रं॑ पृथिव्या: शरी॑रम् ।
सर॑स्वत्या वाचमुप॑ ह्वयामहे मनोयुजा॑ ॥८॥
 
 
 
एकादशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्याथर्वा ऋषि: | वरुणो देवता: | प्रथमर्चो भुरिक्त्रिष्टुप्  द्वितीयाचतुर्थीपञ्चमीनां सप्तम्यादिचतसृणाञ्च त्रिष्टुप्  तृतीयाया: पङ्क्ति:  षष्ठ्या: पञ्चपदातिशक्वरी  एकादश्याश्च त्र्यवसाना षट्पदात्यष्टिछन्दांसि॥ (www.hindumantavya.blogspot.in)


कथं महे असु॑रायाब्रवीरिह कथं पित्रे हर॑ये त्वेषनृ॑म्ण: ।
पृश्निं॑ वरुण दक्षि॑णां ददावान्पु॑नर्मघ त्वं मन॑साचिकित्सी: ॥१॥
न कामे॑न पुन॑र्मघो भवामि सं च॑क्षे कं पृश्नि॑मेतामुपा॑जे ।
केन नु त्वम॑थर्वन्काव्ये॑न केन॑ जातेना॑सि जातवे॑दा: ॥२॥
सत्यमहं ग॑भीर: काव्ये॑न सत्यं जातेना॑स्मि जातवे॑दा: ।
न मे॑ दासो नार्यो॑ महित्वा व्रतं मी॑माय यदहं ध॑रिष्ये ॥३॥
न त्वदन्य: कवित॑रो न मेधया धीर॑तरो वरुण स्वधावन् ।
त्वं ता विश्वा भुव॑नानि वेत्थ स चिन्नु त्वज्जनो॑ मायी बि॑भाय ॥४॥
त्वं ह्य१ङ्ग व॑रुण स्वधावन्विश्वा वेत्थ जनि॑म सुप्रणीते ।
किं रज॑स एना परो अन्यद॑स्त्येना किं परेणाव॑रममुर ॥५॥
एकं रज॑स एना परो अन्यद॑स्त्येना पर एके॑न दुर्णशं॑ चिदर्वाक् ।
तत्ते॑ विद्वान्व॑रुण प्र ब्र॑वीम्यधोव॑चस: पणयो॑ भवन्तु नीचैर्दासा उप॑ सर्पन्तु भूमि॑म् ॥६॥
त्वं ह्य१ङ्ग व॑रुण ब्रवी॑षि पुन॑र्मघेष्ववद्यानि भूरि॑ ।
मो षु पणीँरभ्ये३ताव॑तो भून्मा त्वा॑ वोचन्नराधसं जना॑स: ॥७॥
मा मा॑ वोचन्नराधसं जना॑स: पुन॑स्ते पृश्निं॑ जरितर्ददामि ।
स्तोत्रं मे विश्वमा या॑हि शची॑भिरन्तर्विश्वा॑सु मानु॑षीषु दिक्षु ॥८॥
आ ते॑ स्तोत्राण्युद्य॑तानि यन्त्वन्तर्विश्वा॑सु मानु॑षीषु दिक्षु ।
देहि नु मे यन्मे अद॑त्तो असि युज्यो॑ मे सप्तप॑द: सखा॑सि ॥९॥
समा नौ बन्धु॑र्वरुण समा जा वेदाहं तद्यन्ना॑वेषा समा जा ।
ददा॑मि तद्यत्ते अद॑त्तो अस्मि युज्य॑स्ते सप्तप॑द: सखा॑स्मि ॥१०॥
देवो देवाय॑ गृणते व॑योधा विप्रो विप्रा॑य स्तुवते सु॑मेधा: ।
अजी॑जनो हि व॑रुण स्वधावन्नथ॑र्वाणं पितरं॑ देवब॑न्धुम् ।
तस्मा॑ उ राध॑: कृणुहि सुप्रशस्तं सखा॑ नो असि परमं च बन्धु॑: ॥११॥
 
 
 

द्वादशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्याङ्गिरा ऋषि: | जातवेदा अग्निर्देवता: |  प्रथमाद्वितीययोरृचोश्चतुर्थ्याद्यष्टानाञ्च त्रिष्टुप्  तृतीयायाश्च पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


समि॑द्धो अद्य मनु॑षो दुरोणे देवो देवान्य॑जसि जातवेद: ।
आ च वह॑ मित्रमहश्चिकित्वान्त्वं दूत: कविर॑सि प्रचे॑ता: ॥१॥
तनू॑नपात्पथ ऋतस्य यानान्मध्वा॑ समञ्जन्त्स्वदया॑ सुजिह्व ।
मन्मा॑नि धीभिरुत यज्ञमृन्धन्दे॑वत्रा च॑ कृणुह्यध्वरं न॑: ॥२॥
आजुह्वा॑न ईड्यो बन्द्यश्चा या॑ह्यग्ने वसु॑भि: सजोषा॑: ।
त्वं देवाना॑मसि यह्व होता स ए॑नान्यक्षीषितो यजी॑यान् ॥३॥
प्राचीनं॑ बर्हि: प्रदिशा॑ पृथिव्या वस्तो॑रस्या वृ॑ज्यते अग्रे अह्ना॑म् ।
व्युद्ग प्रथते वितरं वरी॑यो देवेभ्यो अदि॑तये स्योनम् ॥४॥
व्यच॑स्वतीरुर्विया वि श्र॑यन्तां पति॑भ्यो न जन॑य: शुम्भ॑माना: ।
देवी॑र्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो॑ भवत सुप्रायणा: ॥५॥
आ सुष्वय॑न्ती यजते उपाके॑ उषासानक्ता॑ सदतां नि योनौ॑ ।
दिव्ये योष॑णे बृहती सु॑रुक्मे अधि श्रियं॑ शुक्रपिशं दधा॑ने ॥६॥
दैव्या होता॑रा प्रथमा सुवाचा मिमा॑ना यज्ञं मनु॑षो यज॑ध्यै ।
प्रचोदय॑न्ता विदथे॑षु कारू प्राचीनं ज्योति॑: प्रदिशा॑ दिशन्ता॑ ॥७॥
आ नो॑ यज्ञं भार॑ती तूय॑मेत्विडा॑ मनुष्वदिह चेतय॑न्ती ।
तिस्रो देवीर्बर्हिरेदं स्योनं सर॑स्वती: स्वप॑स: सदन्ताम् ॥८॥
य इमे द्यावा॑पृथिवी जनि॑त्री रूपैरपिं॑शद्भुव॑नानि विश्वा॑ ।
तमद्य हो॑तरिषितो यजी॑यान्देवं त्वष्टा॑रमिह य॑क्षि विद्वान् ॥९॥
उपाव॑सृज त्मन्या॑ समञ्जन्देवानां पाथ॑ ऋतुथा हवींषि॑ ।
वनस्पति॑: शमिता देवो अग्नि: स्वद॑न्तु हव्यं मधु॑ना घृतेन॑ ॥१०॥
सद्यो जातो व्यद्गमिमीत यज्ञमग्निर्देवाना॑मभवत्पुरोगा: ।
अस्य होतु॑: प्रशिष्यृतस्य॑ वाचि स्वाहा॑कृतं हविर॑दन्तु देवा: ॥११॥
 
 
 
 
त्रयोदशं सूक्तम्» एकादशरचस्यास्य सूक्तस्य गरुत्मानृषि: । तक्षको देवता: | प्रथमातृतीययोरृचोर्जगती  द्वितीयाया आस्तारपङ्क्ति:  चतुर्थीसप्तम्यष्टमीनामनुष्टुप्  पञ्चम्यास्त्रिष्टुप् षष्ठ्या: पथ्यापङ्क्ति: नवम्या भुरिग्जगती  दशम्येकादश्योश्च निचृद्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


ददिर्हि मह्यं वरु॑णो दिव: कविर्वचो॑भिरुग्रैर्नि रि॑णामि ते विषम् ।
खातमखा॑तमुत सक्तम॑ग्रभमिरे॑व धन्वन्नि ज॑जास ते विषम् ॥१॥
यत्ते अपो॑दकं विषं तत्त॑ एतास्व॑ग्रभम् ।
गृह्णामि॑ ते मध्यममु॑त्तमं रस॑मुतावमं भियसा॑ नेशदादु॑ ते ॥२॥
वृषा॑ मे रवो नभ॑सा न त॑न्यतुरुग्रेण॑ ते वच॑सा बाध आदु॑ ते ।
अहं तम॑स्य नृभि॑रग्रभं रसं तम॑स इव ज्योतिरुदे॑तु सूर्य॑: ॥३॥
चक्षु॑षा ते चक्षु॑र्हन्मि विषेण॑ हन्मि ते विषम् ।
अहे॑ म्रियस्व मा जी॑वी: प्रत्यगभ्येद्गतु त्वा विषम् ॥४॥
कैरा॑त पृश्न उप॑तृण्य बभ्र आ मे॑ शृणुतासि॑ता अली॑का: ।
मा मे सख्यु॑: स्तामानमपि॑ ष्ठाताश्रावय॑न्तो नि विषे र॑मध्वम् ॥५॥
असितस्य॑ तैमातस्य॑ बभ्रोरपो॑दकस्य च ।
सात्रासाहस्याहं मन्योरव ज्यामि॑व धन्व॑नो वि मु॑ञ्चामि रथाँ॑ इव ॥६॥
आलि॑गी च विलि॑गी च पिता च॑ माता च॑ ।
विद्म व॑: सर्वतो बन्ध्वर॑सा: किं क॑रिष्यथ ॥७॥
उरुगूला॑या दुहिता जाता दास्यसि॑क्न्या ।
प्रतङ्कं॑ दद्रुषी॑णां सर्वा॑सामरसं विषम् ॥८॥
कर्णा श्वावित्तद॑ब्रवीद्गिरेर॑वचरन्तिका ।
या: काश्चेमा: ख॑नित्रिमास्तासा॑मरसत॑मं विषम् ॥९॥
ताबुवं न ताबुवं न घेत्त्वम॑सि ताबुव॑म् ।
ताबुवे॑नारसं विषम् ॥१०॥
तस्तुवं न तस्तुवं न घेत्त्वम॑सि तस्तुव॑म् ।
तस्तुवे॑नारसं विषम् ॥११॥
 
 

चतुर्दशं सूक्तम्» त्रयोदशर्चस्यास्य सूक्तस्य शुक्र ऋषि: |  प्रथमाद्वितीययोरृचोरोषधि: ।  तृतीयाद्येकादशानाञ्च कृत्यापरिहरणं देवता: |  प्रथमाद्वितीयाचतुर्थीषष्ठीसप्तमीनवमीनामनुष्टुप् तृतीयापञ्चमीद्वादशीनां भुरिगनुष्टुप्  अष्टम्यास्त्रिपदा विराडनुष्टुप्  दशम्या निचृद्बृहती  एकादश्यास्त्रिपदा साम्नी त्रिष्टुप् त्रयोदश्याश्च स्वराडनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


सुपर्णस्त्वान्व॑विन्दत्सूकरस्त्वा॑खनन्नसा ।
दिप्सौ॑षधे त्वं दिप्स॑न्तमव॑ कृत्याकृतं॑ जहि ॥१॥
अव॑ जहि यातुधानानव॑ कृत्याकृतं॑ जहि ।
अथो यो अस्मान्दिप्स॑ति तमु त्वं ज॑ह्योषधे ॥२॥
रिश्य॑स्येव परीशासं प॑रिकृत्य परि॑ त्वच: ।
कृत्यां कृ॑त्याकृते॑ देवा निष्कमि॑व प्रति॑ मुञ्चत ॥३॥
पुन॑: कृत्यां कृ॑त्याकृते॑ हस्तगृह्य परा॑ णय ।
समक्षम॑स्मा आ धे॑हि यथा॑ कृत्याकृतं हन॑त् ॥४॥
कृत्या: स॑न्तु कृत्याकृते॑ शपथ॑: शपथीयते ।
सुखो रथ॑ इव वर्ततां कृत्या कृ॑त्याकृतं पुन॑: ॥५॥
यदि स्त्री यदि॑ वा पुमा॑न्कृत्यां चकार॑ पाप्मने॑ ।
तामु तस्मै॑ नयामस्यश्व॑मिवाश्वाभिधान्या॑ ॥६॥
यदि वासि॑ देवकृ॑ता यदि॑ वा पुरु॑षै: कृता ।
तां त्वा पुन॑र्णयामसीन्द्रे॑ण सयुजा॑ वयम् ॥७॥
अग्ने॑ पृतनाषाट् पृत॑ना: सहस्व ।
पुन॑: कृत्यां कृ॑त्याकृते॑ प्रतिहर॑णेन हरामसि ॥८॥
कृत॑व्यधनि विद्य तं यश्चकार तमिज्ज॑हि ।
न त्वामच॑क्रुषे वयं वधाय सं शि॑शीमहि ॥९॥
पुत्र इ॑व पितरं॑ गच्छ स्वज इ॑वाभिष्ठि॑तो दश ।
बन्धमि॑वावक्रामी ग॑च्छ कृत्ये॑ कृत्याकृतं पुन॑: ॥१०॥
उदेणीव॑ वारण्यद्गभिस्कन्धं॑ मृगीव॑ ।
कृत्या कर्तार॑मृच्छतु ॥११॥
इष्वा ऋजी॑य: पततु द्यावा॑पृथिवी तं प्रति॑ ।
सा तं मृगमि॑व गृह्णतु कृत्या कृ॑त्याकृतं पुन॑: ॥१२॥
अग्निरि॑वैतु प्रतिकूल॑मनुकूल॑मिवोदकम् ।
सुखो रथ॑ इव वर्ततां कृत्या कृ॑त्याकृतं पुन॑: ॥१३॥
 
 
 
पञ्चदशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य विश्वामित्र ऋषि: | मधुलौषधिर्देवता: | प्रथमादितृचस्य षष्ठीदशम्योकादशीनामृचामनुष्टुप्  चतुर्थ्या: पुरस्ताद्बृहती  पञ्चम्या: सप्तम्यादितृचस्य च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


एका॑ च मे दश॑ च मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥१॥
द्वे च॑ मे विंशतिश्च॑ मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥२॥
तिस्रश्च॑ मे त्रिंशच्च॑ मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥३॥
चत॑स्रश्च मे चत्वारिंशच्च॑ मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥४॥
पञ्च च॑ मे पञ्चाशच्च॑ मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥५॥
षट्च॑ मे षष्टिश्च॑ मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥६॥
सप्त च॑ मे सप्ततिश्च॑ मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥७॥
अष्ट च॑ मेऽशीतिश्च॑ मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥८॥
नव॑ च मे नवतिश्च॑ मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥९॥
दश॑ च मे शतं च॑ मेऽपवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥१०॥
शतं च॑ मे सहस्रं॑ चापवक्तार॑ ओषधे ।
ऋत॑जात ऋता॑वरि मधु॑ मे मधुला क॑र: ॥११॥
 
 
 
षोडशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य विश्वामित्र ऋषि: | एकवृषो देवता: | प्रथमाचतुर्थीपञ्चमीनामृचां सप्तम्यादिचतसृणाञ्च साम्न्युष्णिक् द्वितीयातृतीयाषष्ठीनामासुर्यनुष्टुप् एकादश्याश्चासुरी गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
यद्ये॑कवृषोऽसि॑ सृजारसोद्गऽसि ॥१॥
यदि॑ द्विवृषोऽसि॑ सृजारसोद्गऽसि ॥२॥
यदि॑ त्रिवृसोऽसि॑ सृजारसोद्गऽसि ॥३॥
यदि॑ चतुर्वृषोऽसि॑ सृजारसोद्गऽसि ॥४॥
यदि॑ पञ्चवृषोऽसि॑ सृजारसोद्गऽसि ॥५॥
यदि॑ षड्वृषोऽसि॑ सृजारसोद्गऽसि ॥६॥
यदि॑ सप्तवृषोऽसि॑ सृजारसोद्गऽसि ॥७॥
यद्य॑ष्टवृषोऽसि॑ सृजारसोद्गऽसि ॥८॥
यदि॑ नववृषोऽसि॑ सृजारसोद्गऽसि ॥९॥
यदि॑ दशवृषोऽसि॑ सृजारसोद्गऽसि ॥१०॥
यद्ये॑कादशोऽसि सोऽपो॑दकोऽसि ॥११॥
 
 
 
सप्तदशं सूक्तम्» अष्टादशर्चस्यास्य सूक्तस्य मयोभूरृषि: । ब्रह्मजाया देवता: | प्रथमादिषडृचां त्रिष्टुप्  सप्तम्यादिद्वादशानाञ्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


तेद्गऽवदन्प्रथमा ब्र॑ह्मकिल्बिषेऽकू॑पार: सलिलो मा॑तरिश्वा॑ ।
वीडुह॑रास्तप॑ उग्रं म॑योभूरापो॑ देवी: प्र॑थमजा ऋतस्य॑ ॥१॥
सोमो राजा॑ प्रथमो ब्र॑ह्मजायां पुन: प्राय॑च्छदहृ॑णीयमान: ।
अन्वर्तिता वरु॑णो मित्र आ॑सीदग्निर्होता॑ हस्तगृह्या नि॑नाय ॥२॥
हस्ते॑नैव ग्राह्यद्ग आधिर॑स्या ब्रह्मजायेति चेदवो॑चत् ।
न दूताय॑ प्रहेया॑ तस्थ एषा तथा॑ राष्ट्रं गु॑पितं क्षत्रिय॑स्य ॥३॥
यामाहुस्तार॑कैषा वि॑केशीति॑ दुच्छुनां ग्राम॑मवपद्य॑मानाम् ।
सा ब्र॑ह्मजाया वि दु॑नोति राष्ट्रं यत्र प्रापा॑दि शश उ॑ल्कुषीमा॑न् ॥४॥
ब्रह्मचारी च॑रति वेवि॑षद्विष: स देवानां॑ भवत्येकमङ्ग॑म् ।
तेन॑ जायामन्व॑विन्दद्बृहस्पति: सोमे॑न नीतां जुह्वं१ न दे॑वा: ॥५॥
देवा वा एतस्या॑मवदन्त पूर्वे॑ सप्तऋषयस्तप॑सा ये नि॑षेदु: ।
भीमा जाया ब्रा॑ह्मणस्याप॑नीता दुर्धां द॑धाति परमे व्योद्गमन् ॥६॥
ये गर्भा॑ अवपद्य॑न्ते जगद्यच्चा॑पलुप्यते॑ ।
वीरा ये तृह्यन्ते॑ मिथो ब्र॑ह्मजाया हि॑नस्ति तान् ॥७॥
उत यत्पत॑यो दश॑ स्त्रिया: पूर्वे अब्रा॑ह्मणा: ।
ब्रह्मा चेद्धस्तमग्र॑हीत्स एव पति॑रेकधा ॥८॥
ब्राह्मण एव पतिर्न रा॑जन्यो३ न वैश्य॑: ।
तत्सूर्य॑: प्रब्रुवन्ने॑ति पञ्चभ्यो॑ मानवेभ्य॑: ॥९॥
पुनर्वै देवा अ॑ददु: पुन॑र्मनुष्याद्ग अददु: ।
राजा॑न: सत्यं गृ॑ह्णाना ब्र॑ह्मजायां पुन॑र्ददु: ॥१०॥
पुनर्दाय॑ ब्रह्मजायां कृत्वा देवैर्नि॑किल्बिषम् ।
ऊर्जं॑ पृथिव्या भक्त्वोरु॑गायमुपा॑सते ॥११॥
नास्य॑ जाया श॑तवाही क॑ल्याणी तल्पमा श॑ये ।
यस्मि॑न्राष्ट्रे नि॑रुध्यते॑ ब्रह्मजायाचि॑त्त्या ॥१२॥
न वि॑कर्ण: पृथुशि॑रास्तस्मिन्वेश्म॑नि जायते ।
यस्मि॑न्राष्ट्रे नि॑रुध्यते॑ ब्रह्मजायाचि॑त्त्या ॥१३॥
नास्य॑ क्षत्ता निष्कग्री॑व: सूनाना॑मेत्यग्रत: ।
यस्मि॑न्राष्ट्रे नि॑रुध्यते॑ ब्रह्मजायाचि॑त्त्या ॥१४॥
नास्य॑ श्वेत: कृ॑ष्णकर्णो॑ धुरि युक्तो म॑हीयते ।
यस्मि॑न्राष्ट्रे नि॑रुध्यते॑ ब्रह्मजायाचि॑त्त्या ॥१५॥
नास्य क्षेत्रे॑ पुष्करिणी नाण्डीकं॑ जायते बिस॑म् ।
यस्मि॑न्राष्ट्रे नि॑रुध्यते॑ ब्रह्मजायाचि॑त्त्या ॥१६॥
नास्मै पृश्निं वि दु॑हन्ति येद्गऽस्या दोह॑मुपास॑ते ।
यस्मि॑न्राष्ट्रे नि॑रुध्यते॑ ब्रह्मजायाचि॑त्त्या ॥१७॥
नास्य॑ धेनु: क॑ल्याणी नानड्वान्त्स॑हते धुर॑म् ।
विजा॑निर्यत्र॑ ब्राह्मणो रात्रिं वस॑ति पापया॑ ॥१८॥
 
 
 

अष्टादशं सूक्तम्» पञ्चदशर्चस्यास्य सूक्तस्य मयोभूरृषि: । ब्रह्मगवी ब्राह्मणश्च देवता: | प्रथमादितृचस्य षष्ठीसप्तम्योरृचोर्दशम्यादितृचस्य चतुर्दशीपञ्चदश्योश्चानुष्टुप्  चतुर्थ्या भुरिक्त्रिष्टुप् पञ्चम्यष्टमीनवमीत्रयोदशीनाञ्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


नैतां ते॑ देवा अ॑ददुस्तुभ्यं॑ नृपते अत्त॑वे ।
मा ब्रा॑ह्मणस्य॑ राजन्य गां जि॑घत्सो अनाद्याम् ॥१॥
अक्षद्रु॑ग्धो राजन्यद्ग: पाप आ॑त्मपराजित: ।
स ब्रा॑ह्मणस्य गाम॑द्यादद्य जी॑वानि मा श्व: ॥२॥
आवि॑ष्टिताघवि॑षा पृदाकूरि॑व चर्म॑णा ।
सा ब्रा॑ह्मणस्य॑ राजन्य तृष्टैषा गौर॑नाद्या ॥३॥
निर्वै क्षत्रं नय॑ति हन्ति वर्चोऽग्निरिवार॑ब्धो वि दु॑नोति सर्व॑म् ।
यो ब्रा॑ह्मणं मन्य॑ते अन्न॑मेव स विषस्य॑ पिबति तैमातस्य॑ ॥४॥
य ए॑नं हन्ति॑ मृदुं मन्य॑मानो देवपीयुर्धन॑कामो न चित्तात् ।
सं तस्येन्द्रो हृद॑येऽग्निमि॑न्ध उभे ए॑नं द्विष्टो नभ॑सी चर॑न्तम् ॥५॥
न ब्रा॑ह्मणो हिं॑सितव्यो३ऽग्नि: प्रियत॑नोरिव ।
सोमो ह्यद्गस्य दायाद इन्द्रो॑ अस्याभिशस्तिपा: ॥६॥
शतापा॑ष्ठां नि गि॑रति तां न श॑क्नोति नि:खिद॑म् ।
अन्नं यो ब्रह्मणां॑ मल्व: स्वाद्व१द्मीति मन्य॑ते ॥७॥
जिह्वा ज्या भव॑ति कुल्म॑लं वाङ्ना॑डीका दन्तास्तप॑साभिदि॑ग्धा: ।
तेभि॑र्ब्रह्मा वि॑ध्यति देवपीयून्हृ॑द्बलैर्धनु॑र्भिर्देवजू॑तै: ॥८॥
तीक्ष्णेष॑वो ब्राह्मणा हे॑तिमन्तो यामस्य॑न्ति शरव्यां३ न सा मृषा॑ ।
अनुहाय तप॑सा मन्युना॑ चोत दूरादव॑ भिन्दन्त्येनम् ॥९॥
ये सहस्रमरा॑जन्नास॑न्दशशता उत ।
ते ब्रा॑ह्मणस्य गां जग्ध्वा वै॑तहव्या: परा॑भवन् ॥१०॥
गौरेव तान्हन्यमा॑ना वैतहव्याँ अवा॑तिरत् ।
ये केस॑रप्राबन्धायाश्चरमाजामपे॑चिरन् ॥११॥
एक॑शतं ता जनता या भूमिर्व्यद्गधूनुत ।
प्रजां हिं॑सित्वा ब्राह्म॑णीमसंभव्यं परा॑भवन् ॥१२॥
देवपीयुश्च॑रति मर्त्ये॑षु गरगीर्णो भ॑वत्यस्थि॑भूयान् ।
यो ब्रा॑ह्मणं देवब॑न्धुं हिनस्ति न स पि॑तृयाणमप्ये॑ति लोकम् ॥१३॥
अग्निर्वै न॑: पदवाय: सोमो॑ दायाद उ॑च्यते ।
हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो॑ विदु: ॥१४॥
इषु॑रिव दिग्धा नृ॑पते पृदाकूरि॑व गोपते ।
सा ब्रा॑ह्मणस्येषु॑र्घोरा तया॑ विध्यति पीय॑त: ॥१५॥
 
 
 
 
एकोनविंशं सूक्तम्» पञ्चदशर्चस्यास्य सूक्तस्य मयोभूरृषि: । ब्रह्मगवी ब्राह्मणश्च देवता: | प्रथमर्चस्तृतीयादिचतसृणामष्टम्याद्यष्टानाञ्चानुष्टुप् द्वितीयाया विराट् पुरस्ताद्बृहती  सप्तम्याश्चोपरिष्टाद्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अतिमात्रम॑वर्धन्त नोदि॑व दिव॑मस्पृशन् ।
भृगुं॑ हिंसित्वा सृञ्ज॑या वैतहव्या: परा॑भवन् ॥१॥
ये बृहत्सा॑मानमाङ्गिरसमार्प॑यन्ब्राह्मणं जना॑: ।
पेत्वस्तेषा॑मुभयादमवि॑स्तोकान्या॑वयत् ॥२॥
ये ब्रा॑ह्मणं प्रत्यष्ठी॑वन्ये वा॑स्मिञ्छुल्कमी॑षिरे ।
अस्नस्ते मध्ये॑ कुल्याया: केशान्खाद॑न्त आसते ॥३॥
ब्रह्मगवी पच्यमा॑ना यावत्साभि विजङ्ग॑हे ।
तेजो॑ राष्ट्रस्य निर्ह॑न्ति न वीरो जा॑यते वृषा॑ ॥४॥
क्रूरम॑स्या आशस॑नं तृष्टं पि॑शितम॑स्यते ।
क्षीरं यद॑स्या: पीयते तद्वै पितृषु किल्बि॑षम् ॥५॥
उग्रो राजा मन्य॑मानो ब्राह्मणं यो जिघ॑त्सति ।
परा तत्सि॑च्यते राष्ट्रं ब्रा॑ह्मणो यत्र॑ जीयते॑ ॥६॥
अष्टाप॑दी चतुरक्षी चतु॑:श्रोत्रा चतु॑र्हनु: ।
द्व्याद्गस्या द्विजि॑ह्वा भूत्वा सा राष्ट्रमव॑ धूनुते ब्रह्मज्यस्य॑ ॥७॥
तद्वै राष्ट्रमा स्र॑वति नावं॑ भिन्नामि॑वोदकम् ।
ब्रह्माणं यत्र हिंस॑न्ति तद्राष्ट्रं ह॑न्ति दुच्छुना॑ ॥८॥
तं वृक्षा अप॑ सेधन्ति छायां नो मोप॑गा इति॑ ।
यो ब्रा॑ह्मणस्य सद्धन॑मभि ना॑रद मन्य॑ते ॥९॥
विषमेतद्देवकृ॑तं राजा वरु॑णोऽब्रवीत् ।
न ब्रा॑ह्मणस्य गां जग्ध्वा राष्त्रे जा॑गार कश्चन ॥१०॥
नवैव ता न॑वतयो या भूमिर्व्यद्गधूनुत ।
प्रजां हिं॑सित्वा ब्राह्म॑णीमसंभव्यं परा॑भवन् ॥११॥
यां मृताया॑नुबध्नन्ति॑ कूद्यंद्ग पदयोप॑नीम् ।
तद्वै ब्र॑ह्मज्य ते देवा उ॑पस्तर॑णमब्रुवन् ॥१२॥
अश्रू॑णि कृप॑मानस्य यानि॑ जीतस्य॑ वावृतु: ।
तं वै ब्र॑ह्मज्य ते देवा अपां भागम॑धारयन् ॥१३॥
येन॑ मृतं स्नपय॑न्ति श्मश्रू॑णि येनोन्दते॑ ।
तं वै ब्र॑ह्मज्य ते देवा अपां भागम॑धारयन् ॥१४॥
न वर्षं मै॑त्रावरुणं ब्र॑ह्मज्यमभि व॑र्षति ।
नास्मै समि॑ति: कल्पते न मित्रं न॑यते वश॑म् ॥१५॥
 
 
 
 
विंशं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | वानस्पत्यदुन्दुभिर्देवता: | प्रथमर्चो जगती  द्वितीयाद्येकादशानाञ्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


उच्चैर्घो॑षो दुन्दुभि: स॑त्वनायन्वा॑नस्पत्य: संभृ॑त उसिऋया॑भि: ।
वाचं॑ क्षुणुवानो दमय॑न्त्सपत्ना॑न्त्सिंह इ॑व जेष्यन्नभि तं॑स्तनीहि ॥१॥
सिंह इ॑वास्तानीद्द्रुवयो विब॑द्धोऽभिक्रन्द॑न्नृषभो वा॑सितामि॑व ।
वृषा त्वं वध्र॑यस्ते सपत्ना॑ ऐन्द्रस्ते शुष्मो॑ अभिमातिषाह: ॥२॥
वृषे॑व यूथे सह॑सा विदानो गव्यन्नभि रु॑व संधनाजित् ।
शुचा वि॑ध्य हृद॑यं परे॑षां हित्वा ग्रामान्प्रच्यु॑ता यन्तु शत्र॑व: ॥३॥
संजयन्पृत॑ना ऊर्ध्वमा॑युर्गृह्या॑ गृह्णानो ब॑हुधा वि च॑क्ष्व ।
दैवीं वाचं॑ दुन्दुभ आ गु॑रस्व वेधा: शत्रू॑णामुप॑ भरस्व वेद॑: ॥४॥
दुन्दुभेर्वाचं प्रय॑तां वद॑न्तीमाशृण्वती ना॑थिता घोष॑बुद्धा ।
नारी॑ पुत्रं धा॑वतु हस्तगृह्या॑मित्री भीता स॑मरे वधाना॑म् ॥५॥
पूर्वो॑ दुन्दुभे प्र व॑दासि वाचं भूम्या॑: पृष्ठे व॑द रोच॑मान: ।
अमित्रसेनाम॑भिजञ्ज॑भानो द्युमद्व॑द दुन्दुभे सूनृता॑वत् ॥६॥
अन्तरेमे नभ॑सी घोषो॑ अस्तु पृथ॑क्ते ध्वनयो॑ यन्तु शीभ॑म् ।
अभि क्र॑न्द स्तनयोत्पिपा॑न: श्लोककृन्मि॑त्रतूर्या॑य स्वर्धी ॥७॥
धीभि: कृत: प्र व॑दाति वाचमुद्ध॑र्षय सत्व॑नामायु॑धानि ।
इन्द्र॑मेदी सत्व॑नो नि ह्व॑यस्व मित्रैरमित्राँ अव॑ जङ्घनीहि ॥८॥
संक्रन्द॑न: प्रवदो धृष्णुषे॑ण: प्रवेदकृद्ब॑हुधा ग्रा॑मघोषी ।
श्रियो॑ वन्वानो वयुना॑नि विद्वान्कीर्तिं बहुभ्यो वि ह॑र द्विराजे ॥९॥
श्रेय॑:केतो वसुजित्सही॑यान्त्संग्रामजित्संशि॑तो ब्रह्म॑णासि ।
अंशूनि॑व ग्रावा॑धिषव॑णे अद्रि॑र्गव्यन्दु॑न्दुभेऽधि॑ नृत्य वेद॑: ॥१०॥
शत्रूषाण्नीषाद॑भिमातिषाहो गवेष॑ण: सह॑मान उद्भित् ।
वाग्वीव मन्त्रं प्र भ॑रस्व वाचं सांग्रा॑मजित्यायेषमुद्व॑देह ॥११॥
अच्युतच्युत्समदो गमि॑ष्ठो मृधो जेता॑ पुरएतायोध्य: ।
इन्द्रे॑ण गुप्तो विदथा॑ निचिक्य॑द्धृद्द्योत॑नो द्विषतां या॑हि शीभ॑म् ॥१२॥
 
 

एकविंशं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: |  प्रथमादिनवर्चा वानस्पत्यदुन्दुभि:  दशम्यादितृचस्य चादित्यादयो देवता: | प्रथमाचतुर्थीपञ्चमीनां पथ्यापङ्क्ति:  ७ द्वितीयातृतीययो: सप्तम्यादिचतसृणाञ्चानुष्टुप्  षष्ठ्या जगती  एकादश्या बृहतीगर्भा त्रिष्टुप्  द्वादश्याश्च त्रिपदा यवमध्या गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


विहृ॑दयं वैमनस्यं वदामित्रे॑षु दुन्दुभे ।
विद्वेषं कश्म॑शं भयममित्रे॑षु नि द॑ध्मस्यवै॑नान्दुन्दुभे जहि ॥१॥
उद्वेप॑माना मन॑सा चक्षु॑षा हृद॑येन च ।
धाव॑न्तु बिभ्य॑तोऽमित्रा॑: प्रत्रासेनाज्ये॑ हुते ॥२॥
वानस्पत्य: संभृ॑त उस्रिया॑भिर्विश्वगो॑त्र्य: ।
प्रत्रासममित्रे॑भ्यो वदाज्ये॑नाभिघा॑रित: ॥३॥
यथा॑ मृगा: सं॑विजन्त॑ आरण्या: पुरु॑षादधि॑ ।
एव त्वं दु॑न्दुभेऽमित्रा॑नभि क्र॑न्द प्र त्रा॑सयाथो॑ चित्तानि॑ मोहय ॥४॥
यथा वृका॑दजावयो धाव॑न्ति बहु बिभ्य॑ती: ।
एव त्वं दु॑न्दुभेऽमित्रा॑नभि क्र॑न्द प्र त्रा॑सयाथो॑ चित्तानि॑ मोहय ॥५॥
यथा॑ श्येनात्प॑तत्रिण॑: संविजन्ते अह॑र्दिवि सिंहस्य॑ स्तनथोर्यथा॑ ।
एव त्वं दु॑न्दुभेऽमित्रा॑नभि क्र॑न्द प्र त्रा॑सयाथो॑ चित्तानि॑ मोहय ॥६॥
परामित्रा॑न्दुन्दुभिना॑ हरिणस्याजिने॑न च ।
सर्वे॑ देवा अ॑तित्रसन्ये सं॑ग्रामस्येश॑ते ॥७॥
यैरिन्द्र॑: प्रक्रीड॑ते पद्घोषैश्छायया॑ सह ।
तैरमित्रा॑स्त्रसन्तु नोऽमी ये यन्त्य॑नीकश: ॥८॥
ज्याघोषा दु॑न्दुभयोऽभि क्रो॑शन्तु या दिश॑: ।
सेना: परा॑जिता यतीरमित्रा॑णामनीकश: ॥९॥
आदि॑त्य चक्षुरा द॑त्स्व मरी॑चयोऽनु॑ धावत ।
पत्सङ्गिनीरा स॑जन्तु विग॑ते बाहुवीर्येद्ग ॥१०॥
यूयमुग्रा म॑रुत: पृश्निमातर इन्द्रे॑ण युजा प्र मृ॑नीत शत्रू॑न् ।
सोमो राजा वरु॑णो राजा॑ महादेव उत मृत्युरिन्द्र॑: ॥११॥
एता दे॑वसेना: सूर्य॑केतव: सचे॑तस: ।
अमित्रा॑न्नो जयन्तु स्वाहा॑ ॥१२॥
 
 
 
द्वाविंशं सूक्तम्» चतुर्दशर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | तक्मनाशनो देवता: | प्रथमर्चो भुरिक्त्रिष्टुप्  द्वितीयायास्त्रिष्टुप्  तृतीयाचतुर्थ्यो: षष्ठश्चादिनवानाञ्चानुष्टुप्  पञ्चम्याश्च विराट् पथ्याबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अग्निस्तक्मानमप॑ बाधतामित: सोमो ग्रावा वरु॑ण: पूतद॑क्षा: ।
वेदि॑र्बर्हि: समिध: शोशु॑चाना अप द्वेषां॑स्यमुया भ॑वन्तु ॥१॥
अयं यो विश्वान्हरि॑तान्कृणोष्यु॑च्छोचय॑न्नग्निरि॑वाभिदुन्वन् ।
अधा हि त॑क्मन्नरसो हि भूया अधा न्यद्गङ्ङ्धराङ्वा परे॑हि ॥२॥
य: प॑रुष: पा॑रुषेयोद्गऽवध्वंस इ॑वारुण: ।
तक्मानं॑ विश्वधावीर्याधराञ्चं परा॑ सुवा ॥३॥
अधराञ्चं प्र हि॑णोमि नम॑: कृत्वा तक्मने॑ ।
शकम्भरस्य॑ मुष्टिहा पुन॑रेतु महावृषान् ॥४॥
ओको॑ अस्य मूज॑वन्त ओको॑ अस्य महावृषा: ।
याव॑ज्जातस्त॑क्मंस्तावा॑नसि बल्हि॑केषु न्योचर: ॥५॥
तक्मन्व्याद्गल वि ग॑द व्यद्गङ्ग भूरि॑ यावय ।
दासीं निष्टक्व॑रीमिच्छ तां वज्रे॑ण सम॑र्पय ॥६॥
तक्मन्मूज॑वतो गच्छ बल्हि॑कान्वा परस्तराम् ।
शूद्रामि॑च्छ प्रफर्व्यं१ तां त॑क्मन्वीद्गव धूनुहि ॥७॥
महावृषान्मूज॑वतो बन्ध्व॑द्धि परेत्य॑ ।
प्रैतानि॑ तक्मने॑ ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥
अन्यक्षेत्रे न र॑मसे वशी सन्मृ॑डयासि न: ।
अभू॑दु प्रार्थस्तक्मा स ग॑मिष्यति बल्हि॑कान् ॥९॥
यत्त्वं शीतोऽथो॑ रूर: सह कासावे॑पय: ।
भीमास्ते॑ तक्मन्हेतयस्ताभि॑: स्म परि॑ वृङ्ग्धि न: ॥१०॥
मा स्मैतान्त्सखी॑न्कुरुथा बलासं॑ कासमु॑द्युगम् ।
मा स्मातोऽर्वाङै: पुनस्तत्त्वा॑ तक्मन्नुप॑ ब्रुवे ॥११॥
तक्मन्भ्रात्रा॑ बलासे॑न स्वस्रा कासि॑कया सह ।
पाप्मा भ्रातृ॑व्येण सह गच्छामुमर॑णं जन॑म् ॥१२॥
तृती॑यकं वितृतीयं स॑दन्दिमुत शा॑रदम् ।
तक्मानं॑ शीतं रूरं ग्रैष्मं॑ नाशय वार्षिंकम् ॥१३॥
गन्धारि॑भ्यो मूज॑वद्भ्योऽङ्गे॑भ्यो मगधे॑भ्य: ।
प्रैष्यन्जन॑मिव शेवधिं तक्मानं परि॑ दद्मसि ॥१४॥
 
 
 
त्रयोविंशं सूक्तम्» त्रयोदशर्चस्यास्य सूक्तस्य कण्व ऋषि: | इन्द्रादयो देवा देवता: | प्रथमादिद्वादशर्चामनुष्टुप्  त्रयोदश्याश्च विरादनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


ओते॑ मे द्यावा॑पृथिवी ओता॑ देवी सर॑स्वती ।
ओतौ॑ म इन्द्र॑श्चाग्निश्च क्रिमिं॑ जम्भयतामिति॑ ॥१॥
अस्येन्द्र॑ कुमारस्य क्रिमी॑न्धनपते जहि ।
हता विश्वा अरा॑तय उग्रेण वच॑सा मम॑ ॥२॥
यो अक्ष्यौद्ग परिसर्प॑ति यो नासे॑ परिसर्प॑ति ।
दतां यो मद्यं गच्छ॑ति तं क्रिमिं॑ जम्भयामसि ॥३॥
सरू॑पौ द्वौ विरू॑पौ द्वौ कृष्णौ द्वौ रोहि॑तौ द्वौ ।
बभ्रुश्च॑ बभ्रुक॑र्णश्च गृध्र: कोक॑श्च ते हता: ॥४॥
ये क्रिम॑य: शितिकक्षा ये कृष्णा: शि॑तिबाह॑व: ।
ये के च॑ विश्वरू॑पास्तान्क्रिमी॑न्जम्भयामसि ॥५॥
उत्पुरस्तात्सूर्य॑ एति विश्वदृ॑ष्टो अदृष्टहा ।
दृष्टांश्च घ्नन्नदृष्टां॑श्च सर्वां॑श्च प्रमृणन्क्रिमी॑न् ॥६॥
येवा॑षास: कष्क॑षास एजत्का: शि॑पवित्नुका: ।
दृष्टश्च॑ हन्यतां क्रिमि॑रुतादृष्ट॑श्च हन्यताम् ॥७॥
हतो येवा॑ष: क्रिमी॑णां हतो न॑दनिमोत ।
सर्वान्नि म॑ष्मषाक॑रं दृषदा खल्वाँ इव ॥८॥
त्रिशीर्षाणं॑ त्रिककुदं क्रिमिं॑ सारङ्गमर्जु॑नम् ।
शृणाम्य॑स्य पृष्टीरपि॑ वृश्चामि यच्छिर॑: ॥९॥
अत्रिवद्व॑: क्रिमयो हन्मि कण्ववज्ज॑मदग्निवत् ।
अगस्त्य॑स्य ब्रह्म॑णा सं पि॑नष्म्यहं क्रिमी॑न् ॥१०॥
हतो राजा क्रिमी॑णामुतैषां॑ स्थपति॑र्हत: ।
हतो हतमा॑ता क्रिमि॑र्हतभ्रा॑ता हतस्व॑सा ॥११॥
हतासो॑ अस्य वेशसो॑ हतास: परि॑वेशस: ।
अथो ये क्षु॑ल्लका इ॑व सर्वे ते क्रिम॑यो हता: ॥१२॥
सर्वे॑षां च क्रिमी॑णां सर्वा॑सां च क्रिमीणा॑म् ।
भिनद्म्यश्म॑ना शिरो दहा॑म्यग्निना मुख॑म् ॥१३॥
 
 
 
चतुर्विंशं सूक्तम्» सप्तदशर्चस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमर्च: सविता  द्वितीयाया अग्नि:  तृतीयाया द्यावापृथिव्यौ  चतुर्थ्या वरुण:  पञ्चम्या मित्रावरुणौ  षष्ठ्या मरुत:  सप्तम्या: सोम:  अष्टम्या वायु:  नवम्या सूर्य:  दशम्याश्चन्द्रमा:  एकादश्या इन्द्र:  द्वादश्या मरुतां पिता त्रयोदश्या मृत्यु:  चतुर्दश्या यम:  पञ्चदश्या: पितर: षोडश्या अपरे तता:  सप्तदश्याश्च तनस्ततामहा देवता: | प्रथमादिदशानां द्वादश्यादितृचस्य चातिशक्वरी एकादश्या: शक्वरी पञ्चदशीषोडश्योस्त्रिपदा भुरिगतिजगती सप्तदश्याश्च त्रिपदा विराट् शक्वरी छन्दांसि॥ (www.hindumantavya.blogspot.in)


सविता प्र॑सवानामधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥१॥
अग्निर्वनस्पती॑नामधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥२॥
द्यावा॑पृथिवी दा॑तॄणामधि॑पत्नी: स मा॑वताम् ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥३॥
वरु॑णोऽपामधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥४॥
मित्रावरु॑णौ वृष्ट्याधि॑पती तौ मा॑वताम् ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥५॥
मरुत: पर्व॑तानामधि॑पतयस्ते मा॑वन्तु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥६॥
सोमो॑ वीरुधामधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥७॥
वायुरन्तरि॑क्षस्याधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥८॥
सूर्यश्चक्षु॑षामधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥९॥
चन्द्रमा नक्ष॑त्राणामधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥१०॥
इन्द्रो॑ दिवोऽधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥११॥
मरुतां॑ पिता प॑शूनामधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥१२॥
मृत्यु: प्रजानामधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥१३॥
यम: पि॑तॄणामधि॑पति: स मा॑वतु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥१४॥
पितर: परे ते मा॑वन्तु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥१५॥
तता अव॑रे ते मा॑वन्तु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥१६॥
तत॑स्ततामहास्ते मा॑वन्तु ।
अस्मिन्ब्रह्म॑ण्यस्मिन्कर्म॑ण्यस्यां पु॑रोधाया॑मस्यां प्र॑तिष्ठाया॑मस्यां ।
चित्त्या॑मस्यामाकू॑त्यामस्यामाशिष्यस्यां देवहू॑त्यां स्वाहा॑ ॥१७॥
 
 
 
पञ्चविंशं सूक्तम्» त्रयोदशर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | योनिर्गर्भो मन्त्रोक्ता देवाश्च देवता: |  प्रथमादिद्वादशर्चानुष्टुप्  त्रयोदश्याश्च विराट् पुरस्ताद्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


पर्व॑ताद्दिवो योनेरङ्गा॑दङ्गात्समाभृ॑तम् ।
शेपो गर्भ॑स्य रेतोधा: सरौ॑ पर्णमिवा द॑धत् ॥१॥
यथेयं पृ॑थिवी मही भूतानां गर्भ॑मादधे ।
एवा द॑धामि ते गर्भं तस्मै त्वामव॑से हुवे ॥२॥
गर्भं॑ धेहि सिनीवालि गर्भं॑ धेहि सरस्वति ।
गर्भं॑ ते अश्विनोभा ध॑त्तां पुष्क॑रस्रजा ॥३॥
गर्भं॑ ते मित्रावरु॑णौ गर्भं॑ देवो बृहस्पति॑: ।
गर्भं॑ त इन्द्र॑श्चाग्निश्च गर्भं॑ धाता द॑धातु ते ॥४॥
विष्णुर्योनिं॑ कल्पयतु त्वष्टा॑ रूपाणि॑ पिंशतु ।
आ सि॑ञ्चतु प्रजाप॑तिर्धाता गर्भं॑ दधातु ते ॥५॥
यद्वेद राजा वरु॑णो यद्वा॑ देवी सर॑स्वती ।
यदिन्द्रो॑ वृत्रहा वेद तद्ग॑र्भकर॑णं पिब ॥६॥
गर्भो॑ अस्योष॑धीनां गर्भो वनस्पती॑नाम् ।
गर्भो विश्व॑स्य भूतस्य सो अ॑ग्ने गर्भमेह धा॑: ॥७॥
अधि॑ स्कन्द वीरय॑स्व गर्भमा धे॑हि यो॑न्या॑म् ।
वृषा॑सि वृष्ण्यावन्प्रजायै त्वा न॑यामसि ॥८॥
वि जि॑हीष्व बार्हत्सामे गर्भ॑स्ते योनिमा श॑याम् ।
अदु॑ष्टे देवा: पुत्रं सो॑मपा उ॑भयाविन॑म् ॥९॥
धात: श्रेष्ठे॑न रूपेणास्या नार्या॑ गवीन्यो: ।
पुमां॑सं पुत्रमा धे॑हि दशमे मासि सूत॑वे ॥१०॥
त्वष्ट: श्रेष्ठे॑न रूपेणास्या नार्या॑ गवीन्यो: ।
पुमां॑सं पुत्रमा धे॑हि दशमे मासि सूत॑वे ॥११॥
सवि॑त: श्रेष्ठे॑न रूपेणास्या नार्या॑ गवीन्यो: ।
पुमां॑सं पुत्रमा धे॑हि दशमे मासि सूत॑वे ॥१२॥
प्रजा॑पते श्रेष्ठे॑न रूपेणास्या नार्या॑ गवीन्यो: ।
पुमां॑सं पुत्रमा धे॑हि दशमे मासि सूत॑वे ॥१३॥
 
 
 
षड्विंशं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | वास्तोष्पतिर्बह्वयो मन्तोर्क्ता वा देवता: |   प्रथमापञ्चम्योरृचोर्द्विपदार्च्युष्णिक्  ४ ६ १० द्वितीयाचतुर्थ्यो: षष्ठ्यादितृचस्य दशम्येकादश्योश्च द्विपदा प्राजापत्या बृहती  तृतीयायास्त्रिपदा विराड्गायत्री  नवम्यास्त्रिपदा पिपीलिकमध्या पुरउष्णिक् एता एकावसाना:  द्वादश्याश्च परातिशक्वरी चतुष्पदा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


यजूं॑षि यज्ञे समिध: स्वाहाग्नि: प्र॑विद्वानिह वो॑ युनक्तु ॥१॥
युनक्तु॑ देव: स॑विता प्र॑जानन्नस्मिन्यज्ञे म॑हिष: स्वाहा॑ ॥२॥
इन्द्र॑ उक्थामदान्यस्मिन्यज्ञे प्र॑विद्वान्यु॑नक्तु सुयुज: स्वाहा॑ ॥३॥
प्रैषा यज्ञे निविद: स्वाहा॑ शिष्टा: पत्नी॑भिर्वहतेह युक्ता: ॥४॥
छन्दां॑सि यज्ञे म॑रुत: स्वाहा॑ मातेव॑ पुत्रं पि॑पृतेह युक्ता: ॥५॥
एयम॑गन्बर्हिषा प्रोक्ष॑णीभिर्यज्ञं त॑न्वानादि॑ति: स्वाहा॑ ॥६॥
विष्णु॑र्युनक्तु बहुधा तपां॑स्यस्मिन्यज्ञे सुयुज: स्वाहा॑ ॥७॥
त्वष्टा॑ युनक्तु बहुधा नु रूपा अस्मिन्यज्ञे सुयुज: स्वाहा॑ ॥८॥
भगो॑ युनक्त्वाशिषो न्व१स्मा अस्मिन्यज्ञे प्र॑विद्वान्यु॑नक्तु सुयुज: स्वाहा॑ ॥९॥
सोमो॑ युनक्तु बहुधा पयां॑स्यस्मिन्यज्ञे सुयुज: स्वाहा॑ ॥१०॥
इन्द्रो॑ युनक्तु बहुधा वीर्याद्गण्यस्मिन्यज्ञे सुयुज: स्वाहा॑ ॥११॥
अश्वि॑ना ब्रह्मणा या॑तमर्वाञ्चौ॑ वषट्कारेण॑ यज्ञं वर्धय॑न्तौ ।
बृह॑स्पते ब्रह्मणा या॑ह्यर्वाङ् यज्ञो अयं स्वद्गरिदं यज॑मानाय स्वाहा॑ ॥१२॥
 
 
 

सप्तविंशं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | अग्निर्देवता: |  प्रथमर्चो बृहतीगर्भा त्रिष्टुप्  द्वितीयाया द्विपदा साम्नी भुरिगनुष्टुप्  तृतीयाया द्विपदार्ची बृहती  चतुर्थ्या द्विपदा साम्नी भुरिग्बृहती  पञ्चम्या द्विपदा साम्नी त्रिष्टुप् षष्ठ्या द्विपदा विराड्गायत्री  सप्तम्या द्विपदा साम्नी बृहती द्वितीयादिषडेकावसाना:  अष्टम्या: संस्तारपङ्क्ति:  नवम्या: षड्पदानुष्टुब्गर्भा परातिजगती  दशम्यादितृचस्य च पुर उष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


ऊर्ध्वा अ॑स्य समिधो॑ भवन्त्यूर्ध्वा शुक्रा शोचींष्यग्ने: ।
द्युमत्त॑मा सुप्रती॑क: ससू॑नुस्तनूनपादसु॑रो भूरि॑पाणि: ॥१॥
देवो देवेषु॑ देव: पथो अ॑नक्ति मध्वा॑ घृतेन॑ ॥२॥
मध्वा॑ यज्ञं न॑क्षति प्रैणानो नराशंसो॑ अग्नि: सुकृद्देव: स॑विता विश्ववा॑र: ॥३॥
अच्छायमे॑ति शव॑सा घृता चिदीदा॑नो वह्निर्नम॑सा ॥४॥
अग्नि: स्रुचो॑ अध्वरेषु॑ प्रयक्षु स य॑क्षदस्य महिमान॑मग्ने: ॥५॥
तरी मन्द्रासु॑ प्रयक्षु वस॑वश्चाति॑ष्ठन्वसुधात॑रश्च ॥६॥
द्वारो॑ देवीरन्व॑स्य विश्वे॑ व्रतं र॑क्षन्ति विश्वहा॑ ॥७॥
उरुव्यच॑साग्नेर्धाम्ना पत्य॑माने ।
आ सुष्वय॑न्ती यजते उपाके॑ उषासानक्तेमं यज्ञम॑वतामध्वरं न॑: ॥८॥
दैवा होता॑र ऊर्ध्वम॑ध्वरं नोऽग्नेर्जिह्वयाभि गृ॑नत गृनता॑ न: स्विद्गष्टये ।
तिस्रो देवीर्बर्हिरेदं स॑दन्तामिडा सर॑स्वती मही भार॑ती गृणाना ॥९॥
तन्न॑स्तुरीपमद्भु॑तं पुरुक्षु ।
देव॑ त्वष्टा रायस्पोषं वि ष्य नाभि॑मस्य ॥१०॥
वन॑स्पतेऽव॑ सृजा ररा॑ण: ।
त्मना॑ देवेभ्यो॑ अग्निर्हव्यं श॑मिता स्व॑दयतु ॥११॥
अग्ने स्वाहा॑ कृणुहि जातवेद: ।
इन्द्रा॑य यज्ञं विश्वे॑ देवा हविरिदं जु॑षन्ताम् ॥१२॥
 
 

अष्टाविंशं सूक्तम्» चतुर्दशर्चस्यास्य सूक्तस्याथर्वा ऋषि: | अग्न्यादयो मन्त्रोक्तास्त्रिवृच्च देवता: | प्रथमादिपञ्चर्चामष्टम्येकादशीचतुर्दशीनाञ्च त्रिष्टुप्  षष्ठ्या: पञ्चपदातिशक्वरी सप्तमीनवमीदशमीद्वादशीनां ककुम्मत्यनुष्टुप्  त्रयोदश्याश्च पुर उष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


नव॑ प्राणान्नवभि: सं मि॑मीते दीर्घायुत्वाय॑ शतशा॑रदाय ।
हरि॑ते त्रीणि॑ रजते त्रीन्यय॑सि त्रीणि तपसावि॑ष्ठितानि ॥१॥
अग्नि: सूर्य॑श्चन्द्रमा भूमिरापो द्यौरन्तरि॑क्षं प्रदिशो दिश॑श्च ।
आर्तवा ऋतुभि॑: संविदाना अनेन॑ मा त्रिवृता॑ पारयन्तु ॥२॥
त्रय: पोषा॑स्त्रिवृति॑ श्रयन्तामनक्तु॑ पूषा पय॑सा घृतेन॑ ।
अन्न॑स्य भूमा पुरु॑षस्य भूमा भूमा प॑शूनां त इह श्र॑यन्ताम् ॥३॥
इममा॑दित्या वसु॑ना समु॑क्षतेमम॑ग्ने वर्धय ववृधान: ।
इममि॑न्द्र सं सृ॑ज वीर्येद्गणास्मिन्त्रिवृच्छ्र॑यतां पोषयिष्णु ॥४॥
भूमि॑ष्ट्वा पातु हरि॑तेन विश्वभृदग्नि: पि॑पर्त्वय॑सा सजोषा॑: ।
वीरुद्भि॑ष्टे अर्जु॑नं संविदानं दक्षं॑ दधातु सुमनस्यमा॑नम् ॥५॥
त्रेधा जातं जन्म॑नेदं हिर॑ण्यमग्नेरेकं॑ प्रियत॑मं बभूव सोमस्यैकं॑ हिंसितस्य परा॑पतत् ।
अपामेकं॑ वेधसां रेत॑ आहुस्तत्ते हिर॑ण्यं त्रिवृदस्त्वायु॑षे ॥६॥
त्र्यायुषं जमद॑ग्ने: कश्यप॑स्य त्र्यायुषम् ।
त्रेधामृत॑स्य चक्ष॑णं त्रीण्यायूं॑षि तेऽकरम् ॥७॥
त्रय॑: सुपर्णास्त्रिवृता यदाय॑न्नेकाक्षरम॑भिसंभूय॑ शक्रा: ।
प्रत्यौ॑हन्मृत्युममृते॑न साकम॑न्तर्दधा॑ना दुरितानि विश्वा॑ ॥८॥
दिवस्त्वा॑ पातु हरि॑तं मध्या॑त्त्वा पात्वर्जु॑नम् ।
भूम्या॑ अयस्मयं॑ पातु प्रागा॑द्देवपुरा अयम् ॥९॥
इमास्तिस्रो दे॑वपुरास्तास्त्वा॑ रक्षन्तु सर्वत॑: ।
तास्त्वं बिभ्र॑द्वर्चस्व्युत्त॑रो द्विषतां भ॑व ॥१०॥
पुरं॑ देवाना॑ममृतं हिर॑ण्यं य आ॑बेधे प्र॑थमो देवो अग्रे॑ ।
तस्मै नमो दश प्राची॑: कृणोम्यनु॑ मन्यतां त्रिवृदाबधे॑ मे ॥११॥
आ त्वा॑ चृतत्वर्यमा पूषा बृहस्पति॑: ।
अह॑र्जातस्य यन्नाम तेन त्वाति॑ चृतामसि ॥१२॥
ऋतुभि॑ष्ट्वार्तवैरायु॑षे वर्च॑से त्वा ।
संवत्सरस्य तेज॑सा तेन संह॑नु कृण्मसि ॥१३॥
घृतादुल्लु॑प्तं मधु॑ना सम॑क्तं भूमिदृंहमच्यु॑तं पारयिष्णु ।
भिन्दत्सपत्नानध॑रांश्च कृण्वदा मा॑ रोह महते सौभ॑गाय ॥१४॥
 
 

एकोनत्रिंशं सूक्तम्» पञ्चदशर्चस्यास्य सूक्तस्य चातन ऋषि: | जातवेदा मन्त्रोक्ता वा देवता: |  प्रथमाद्वितीयाचतुर्थीनामृचां षष्ठ्यादिषण्णाञ्च त्रिष्टुप् तृतीयायास्त्रिपदा विराड्गायत्री  पञ्चम्या: पुरोऽतिजगती विराड्जगती द्वादश्या भुरिगनुष्टुप् त्रयोदशीपञ्चदश्योरनुष्टुप् चतुर्दश्याश्च चतुष्पदा पराबृहती ककुम्मत्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


पुरस्ता॑द्युक्तो व॑ह जातवेदोऽग्ने॑ विद्धि क्रियमा॑णं यथेदम् ।
त्वं भिषग्भे॑षजस्या॑सि कर्ता त्वया गामश्वं पुरु॑षं सनेम ॥१॥
तथा तद॑ग्ने कृणु जातवेदो विश्वे॑भिर्देवै: सह सं॑विदान: ।
यो नो॑ दिदेव॑ यतमो जघास यथा सो अस्य प॑रिधिष्पता॑ति ॥२॥
यथा सो अस्य प॑रिधिष्पता॑ति तथा तद॑ग्ने कृणु जातवेद: ।
विश्वे॑भिर्देवै: सह सं॑विदान: ॥३॥
अक्ष्यौ३ नि वि॑ध्य हृद॑यं नि वि॑ध्य जिह्वां नि तृ॑न्द्धि प्र दतो मृ॑णीहि ।
पिशाचो अस्य य॑तमो जघासाग्ने॑ यविष्ठ प्रति शृ॑णीहि ॥४॥
यद॑स्य हृतं विहृ॑तं यत्परा॑भृतमात्मनो॑ जग्धं य॑तमत्पि॑शाचै: ।
तद॑ग्ने विद्वान्पुनरा भ॑र त्वं शरी॑रे मांसमसुमेर॑याम: ॥५॥
आमे सुप॑क्वे शबले विप॑क्वे यो मा॑ पिशाचो अश॑ने ददम्भ॑ ।
तदात्मना॑ प्रजया॑ पिशाचा वि या॑तयन्तामगदो३ऽयम॑स्तु ॥६॥
क्षिरे मा॑ मन्थे य॑तमो ददम्भा॑कृष्टपच्ये अश॑ने धान्ये३ य: ।
तदात्मना॑ प्रजया॑ पिशाचा वि या॑तयन्तामगदो३ऽयम॑स्तु ॥७॥
अपां मा पाने॑ यतमो ददम्भ॑ क्रव्याद्या॑तूनां शय॑ने शया॑नम् ।
तदात्मना॑ प्रजया॑ पिशाचा वि या॑तयन्तामगदो३ऽयम॑स्तु ॥८॥
दिवा॑ मा नक्तं॑ यतमो ददम्भ॑ क्रव्याद्या॑तूनां शय॑ने शया॑नम् ।
तदात्मना॑ प्रजया॑ पिशाचा वि या॑तयन्तामगदो३ऽयम॑स्तु ॥९॥
क्रव्याद॑मग्ने रुधिरं पि॑शाचं म॑नोहनं॑ जहि जातवेद: ।
तमिन्द्रो॑ वाजी वज्रे॑ण हन्तु च्छिनत्तु सोम: शिरो॑ अस्य धृष्णु: ॥१०॥
सनाद॑ग्ने मृणसि यातुधानान्न त्वा रक्षां॑सि पृत॑नासु जिग्यु: ।
सहमू॑राननु॑ दह क्रव्यादो मा ते॑ हेत्या मु॑क्षत दैव्या॑या: ॥११॥
समाह॑र जातवेदो यद्धृतं यत्परा॑भृतम् ।
गात्रा॑ण्यस्य वर्धन्तामंशुरिवा प्या॑यतामयम् ॥१२॥
सोम॑स्येव जातवेदो अंशुरा प्या॑यतामयम् ।
अग्ने॑ विरप्शिनं मेध्य॑मयक्ष्मं कृ॑णु जीव॑तु ॥१३॥
एतास्ते॑ अग्ने समिध॑: पिशाचजम्भ॑नी: ।
तास्त्वं जु॑षस्व प्रति॑ चैना गृहाण जातवेद: ॥१४॥
तार्ष्टाघीर॑ग्ने समिध: प्रति॑ गृह्णाह्यर्चिषा॑ ।
जहा॑तु क्रव्याद्रूपं यो अ॑स्य मांसं जिही॑र्षति ॥१५॥
 
 
 

त्रिंशं सूक्तम्» सप्तदशास्य सूक्तस्योन्मोचन आयुष्यकाम ऋषि: | मन्त्रोक्ता आयुर्वा देवता: |  प्रथमर्च: पथ्या पङ्क्ति: द्वितीयादिसप्तानामृचां दशम्या एकादश्यास्त्रयोदश्या:पञ्चदश्या:षोडश्याश्चानुष्टुप् नवम्या भुरिगनुष्टुप्  द्वादश्याश्चतुष्पदा विराड्जगती चतुर्दश्या विराट्प्रस्तारपङ्क्ति:  सप्तदश्याश्च षट्पदा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


आवत॑स्त आवत॑: परावत॑स्त आवत॑: ।
इहैव भ॑व मा नु गा मा पूर्वाननु॑ गा: पितॄनसुं॑ बध्नामि ते दृढम् ॥१॥
यत्त्वा॑भिचेरु: पुरु॑ष: स्वो यदर॑णो जन॑: ।
उन्मोचनप्रमोचने उभे वाचा व॑दामि ते ॥२॥
यद्दुद्रोहि॑थ शेपिषे स्त्रियै पुंसे अचि॑त्त्या ।
उन्मोचनप्रमोचने उभे वाचा व॑दामि ते ॥३॥
यतेन॑सो मातृकृ॑ताच्छेषे॑ पितृकृ॑ताच्च यत् ।
उन्मोचनप्रमोचने उभे वाचा व॑दामि त ॥४॥
यत्ते॑ माता यत्ते॑ पिता जामिर्भ्राता॑ च सर्ज॑त: ।
प्रत्यक्से॑वस्व भेषजं जरद॑ष्टिं कृणोमि त्वा ॥५॥
इहैधि॑ पुरुष सर्वे॑ण मन॑सा सह ।
दूतौ यमस्य मानु॑ गा अधि॑ जीवपुरा इ॑हि ॥६॥
अनु॑हूत: पुनरेहि॑ विद्वानुदय॑नं पथ: ।
आरोह॑णमाक्रम॑णं जीव॑तोजीवतोऽय॑नम् ॥७॥
मा बि॑भेर्न म॑रिष्यसि जरद॑ष्टिं कृणोमि त्वा ।
निर॑वोचमहं यक्ष्ममङ्गे॑भ्यो अङ्गज्वरं तव॑ ॥८॥
अङ्गभेदो अ॑ङ्गज्वरो यश्च॑ ते हृदयामय: ।
यक्ष्म॑: श्येन इ॑व प्राप॑प्तद्वाचा साढ: प॑रस्तराम् ॥९॥
ऋषी॑ बोधप्रतीबोधाव॑स्वप्नो यश्च जागृ॑वि: ।
तौ ते॑ प्राणस्य॑ गोप्तारौ दिवा नक्तं॑ च जागृताम् ॥१०॥
अयमग्निरु॑पसद्य॑ इह सूर्य उदे॑तु ते ।
उदेहि॑ मृत्योर्ग॑म्भीरात्कृष्णाच्चित्तम॑सस्परि॑ ॥११॥
नमो॑ यमाय नमो॑ अस्तु मृत्यवे नम॑: पितृभ्य॑ उत ये नय॑न्ति ।
उत्पार॑णस्य यो वेद तमग्निं पुरो द॑धेऽस्मा अ॑रिष्टता॑तये ॥१२॥
ऐतु॑ प्राण ऐतु मन ऐतु चक्षुरथो बल॑म् ।
शरी॑रमस्य सं वि॑दां तत्पद्भ्यां प्रति॑ तिष्ठतु ॥१३॥
प्राणेना॑ग्ने चक्षु॑षा सं सृ॑जेमं समी॑रय तन्वा३ सं बले॑न ।
वेत्थामृत॑स्य मा नु गान्मा नु भूमि॑गृहो भुवत् ॥१४॥
मा ते॑ प्राण उप॑ दसन्मो अ॑पानोऽपि॑ धायि ते ।
सूर्यस्त्वाधि॑पतिर्मृत्योरुदाय॑च्छतु रश्मिभि॑: ॥१५॥
इवमन्तर्व॑दति जिह्वा बद्धा प॑निष्पदा ।
त्वया यक्ष्मं निर॑वोचं शतं रोपी॑श्च तक्मन॑: ॥१६॥
अयं लोक: प्रियत॑मो देवानामप॑राजित: ।
यस्मै त्वमिह मृत्यवे॑ दिष्ट: पु॑रुष जज्ञिषे ।
स च त्वानु॑ ह्वयामसि मा पुरा जरसो॑ मृथा: ॥१७॥
 
 
 

एकत्रिंशं सूक्तम्» द्वादशस्यास्य सूक्तस्य शुक्र ऋषि: | कृत्याप्रतिहरणं देवता: | प्रथमादिदशानामृचामनुष्टुप् एकादश्या बृहतीगर्भानुष्टुप्  द्वादश्याश्च पथ्या बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


यां ते॑ चक्रुरामे पात्रे यां चक्रुर्मिश्रधा॑न्ये ।
आमे मांसे कृत्यां यां चक्रु: पुन: प्रति॑ हरामि ताम् ॥१॥
यां ते॑ चक्रु: कृ॑कवाका॑वजे वा यां कु॑रीरिणि॑ ।
अव्यां॑ ते कृत्यां यां चक्रु: पुन: प्रति॑ हरामि ताम् ॥२॥
यां ते॑ चक्रुरेक॑शफे पशूनामु॑भयाद॑ति ।
गर्दभे कृत्यां यां चक्रु: पुन: प्रति॑ हरामि ताम् ॥३॥
यां ते॑ चक्रुर॑मूलायां॑ वलगं वा॑ नराच्याम् ।
क्षेत्रे॑ ते कृत्यां यां चक्रु: पुन: प्रति॑ हरामि ताम् ॥४॥
यां ते॑ चक्रुर्गार्ह॑पत्ये पूर्वाग्नावुत दुश्चित॑: ।
शाला॑यां कृत्यां यां चक्रु: पुन: प्रति॑ हरामि ताम् ॥५॥
यां ते॑ चक्रु: सभायां यां चक्रुर॑धिदेव॑ने ।
अक्षेषु॑ कृत्यां यां चक्रु: पुन: प्रति॑ हरामि ताम् ॥६॥
यां ते॑ चक्रु: सेना॑यां यां चक्रुरि॑ष्वायुधे ।
दुन्दुभौ कृत्यां यां चक्रु: पुन: प्रति॑ हरामि ताम् ॥७॥
यां ते॑ कृत्यां कूपे॑ऽवदधु: श्म॑शाने वा॑ निचख्नु: ।
सद्म॑नि कृत्याम्यां चक्रु: पुन: प्रति॑ हरामि ताम् ॥८॥
यां ते॑ चक्रु: पु॑रुषास्थे अग्नौ संक॑सुके च याम् ।
म्रोकं नि॑र्दाहं क्रव्यादं पुन: प्रति॑ हरामि ताम् ॥९॥
अप॑थेना ज॑भारैणां तां पथेत: प्र हि॑ण्मसि ।
अधी॑रो मर्याधीरे॑भ्य: सं ज॑भाराचि॑त्त्या ॥१०॥
यश्चकार न शशाक कर्तुं॑ शश्रे पाद॑मङ्गुरि॑म् ।
चकार॑ भद्रमस्मभ्य॑मभगो भग॑वद्भ्य: ॥११॥
कृत्याकृतं॑ वलगिनं॑ मूलिनं॑ शपथेय्यद्गम् ।
इन्द्रस्तं ह॑न्तु महता वधेनाग्निर्वि॑ध्यत्वस्तया॑ ॥१२॥
 

॥ इति पञ्चमं काण्डम ॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *