अथर्ववेद संहिता- काण्डम् १३ (Atharvved Kand 13)
अथर्ववेद संहिता
॥अथ त्रयोदशं काण्डम्॥
प्रथमं सूक्तम्» षष्ट्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | प्रथमाद्वितीययोरृचोश्चतुर्थ्यादिचतुर्विंशतेर्द्वात्रिंश्याद्येकोनत्रिंशतश्चाध्यात्मरोहिदादित्या: तृतीयाया: मरुत: अष्टाविंश्यादितृचस्याग्नि: एकत्रिंश्याश्चाग्निर्मन्त्रोक्ताश्च देवता: | प्रथमाद्वितीयाषष्ठीसप्तमीदशम्येकादशीविंशीनां द्वाविंश्यादिचतसृणां सप्तविंशीत्रयस्त्रिंशीचतुस्त्रिंश्यष्टात्रिंश्येकचत्वारिंशीषट्पञ्चाश्यष्टपञ्चाशीनाञ्च त्रिष्टुप् तृतीयादितृचस्य नवमीद्वादश्योश्च जगती अष्टम्या भुरिक्त्रिष्टुप् त्रयोदश्या अतिशाक्वरगर्भातिजगती चतुर्दश्यास्त्रिपदा पुर:परशाक्वरा विपरीतपादलक्ष्मा पङ्क्ति: पञ्चदश्या अतिजागतगर्भा जगती षोडश्येकोनत्रिंशीत्रिंशीद्वात्रिंश्येकोनचत्वारिंशीचत्वारिंशीनां पञ्चचत्वारिंश्यादिसप्तानां त्रिपञ्चाशीचतुष्पञ्चाश्योश्चानुष्टुप् सप्तदश्या: पञ्चपदा ककुम्मती जगती अष्टादश्या: पञ्चपदा परशाक्वरा भुरिक्ककुम्मत्यतिजगती एकोनविंश्या: पञ्चपदातिजागता ककुम्मत्यतिजगती एकविंश्या आर्षी निचृद्गायत्री षड्विंश्या विराट्परोष्णिक् अष्टाविंश्या भुरिगनुष्टुप् एकत्रिंश्या: पञ्चपदा ककुम्मती शाक्वरगर्भा जगती पञ्चत्रिंश्या उपरिष्टाद्बृहती षट्त्रिंश्या निचृन्महाबृहती सप्तत्रिंश्या: परशाक्वरा विराडतिजगती द्विचत्वारिंश्या विराड्जगती त्रिचत्वारिंश्या विराण्महाबृहती चतुश्चत्वारिंश्या: परोष्णिक् द्विपञ्चाश्या: पथ्यापङ्क्ति: पञ्चपञ्चाश्या: ककुम्मती बृहतीगर्भा पथ्यापङ्क्ति: सप्तपञ्चाश्या: ककुम्मत्यनुष्टुप् एकोनषष्टीषष्ट्योश्च गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
उदेहि॑ वाजिन्यो अप्स्व१न्तरिदं राष्ट्रं प्र वि॑श सूनृता॑वत् ।
यो रोहि॑तो विश्व॑मिदं जजान स त्वा॑ राष्ट्राय सुभृ॑तं बिभर्तु ॥१॥
उद्वाज आ गन्यो अप्स्व१न्तर्विश आ रो॑ह त्वद्यो॑नयो या: ।
सोमं दधा॑नोऽप ओष॑धीर्गाश्चतु॑ष्पदो द्विपद आ वे॑शयेह ॥२॥

यूयमुग्रा म॑रुत: पृश्निमातर इन्द्रे॑ण युजा प्र मृ॑णीत शत्रू॑न् ।
आ वो रोहि॑त: शृणवत्सुदानवस्त्रिषप्तासो॑ मरुत: स्वादुसंमुद: ॥३॥
रुहो॑ रुरोह रोहि॑त आ रु॑रोह गर्भो जनी॑नां जनुषा॑मुपस्थ॑म् ।
तभि: संर॑ब्धमन्व॑विन्दन्षडुर्वीर्गातुं प्रपश्य॑न्निह राष्ट्रमाहा॑: ॥४॥
द्वितीयं सूक्तम्» षट्चत्वारिंशदृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | अध्यात्मरोहितादित्या देवता: | प्रथमर्चो द्वादश्यादिचतसृणामेकोनचत्वारिंश्यादितृचस्य चानुष्टुप् द्वितीयातृतीयाष्टमीत्रिचत्वारिंशीनां जगती चतुर्थ्यादिचतसृणां नवम्यष्टाविंश्योरेकत्रिंश्यादितृचस्य पञ्चत्रिंशीषट्त्रिंश्यष्टात्रिंशीद्विचत्वारिंशीषट्चत्वारिंशीनाञ्च त्रिष्टुप् दशम्या आस्तारपङ्क्ति: एकादश्या बृहतीगर्भा त्रिष्टुप् षोडश्यादिनवानामार्षी गायत्री पञ्चविंश्या: ककुम्मत्यास्तारपङ्क्ति: षड्विंश्या: पुरोद्व्यतिजागता भुरिग्जगती सप्तविंश्या विराड्जगती एकोनत्रिंश्या बार्हतगर्भानुष्टुप् त्रिंश्या: पञ्चपदोष्णिग्बृहतीगर्भातिजगती चतुस्त्रिंश्या आर्षी पङ्क्ति: सप्तत्रिंश्या: पञ्चपदा विराड्गर्भा जगती चतुश्चत्वारिंश्याश्चतुष्पदा पुर:शाक्वरा भुरिग्जगती पञ्चचत्वारिंश्याश्चातिजागतगर्भा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
उद॑स्य केतवो॑ दिवि शुक्रा भ्राज॑न्त ईरते ।
आदित्यस्य॑ नृचक्ष॑सो महि॑व्रतस्य मीढुष॑: ॥१॥
य इमे द्यावा॑पृथिवी जजान यो द्रापिं॑ कृत्वा भुव॑नानि वस्ते॑ ।
यस्मि॑न्क्षियन्ति॑ प्रदिश: षडुर्वीर्या: प॑तङ्गो अनु॑ विचाक॑शीति तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१॥
चतुर्थं सूक्तम्» । प्रथम: पर्याय:» स एति सविता इत्यारभ्य अन्नाद्येन इत्यन्तानां षट्पर्यायाणां ब्रह्मा ऋषि: | मन्त्रोक्ता देवता: ॥ त्रयोदशर्चस्यास्य पर्यायस्य प्रथमाद्येकादशर्चां प्राजापत्यानुष्टुप् द्वादश्या विराड्गायत्री त्रयोदश्याश्चासुर्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)
स ए॑ति सविता स्वद्गर्दिवस्पृष्ठेद्गऽवचाक॑शत् ॥१॥
कीर्तिश्च यशश्चाम्भ॑श्च नभ॑श्च ब्राह्मणवर्चसं चान्नं॑ चान्नाद्यं॑ च ॥१॥
ब्रह्म॑ च तप॑श्च कीर्तिश्च यशश्चाम्भ॑श्च नभ॑श्च ब्राह्मणवर्चसं चान्नं॑ चान्नाद्यं॑ च ।
य एतं देवमे॑कवृतं वेद॑ ॥१॥
स वा अह्नो॑ऽजायत तस्मादह॑रजायत ॥१॥
भूयानिन्द्रो॑ नमुराद्भूया॑निन्द्रासि मृत्युभ्य॑: ॥१॥
उरु: पृथु: सुभूर्भुव इति त्वोपा॑स्महे वयम् ।
नम॑स्ते अस्तु पश्यत पश्य॑ मा पश्यत ।
अन्नाद्ये॑न यश॑सा तेज॑सा ब्राह्मणवर्चसेन॑ ॥१॥

आ ते॑ राष्ट्रमिह रोहि॑तोऽहार्षीद्व्याद्गस्थन्मृधो अभ॑यं ते अभूत् ।
तस्मै॑ ते द्यावा॑पृथिवी रेवती॑भि: कामं॑ दुहातामिह शक्व॑रीभि: ॥५॥

रोहि॑तो द्यावा॑पृथिवी ज॑जान तत्र तन्तुं॑ परमेष्ठी त॑तान ।
तत्र॑ शिश्रियेऽज एक॑पादोऽदृं॑हद्द्यावा॑पृथिवी बले॑न ॥६॥

रोहि॑तो द्यावा॑पृथिवी अ॑दृंहत्तेन स्वद्ग स्तभितं तेन नाक॑: ।
तेनान्तरि॑क्षं विमि॑ता रजां॑सि तेन॑ देवा अमृतमन्व॑विन्दन् ॥७॥

वि रोहि॑तो अमृशद्विश्वरू॑पं समाकुर्वाण: प्ररुहो रुह॑श्च ।
दिवं॑ रूढ्वा म॑हता म॑हिम्ना सं ते॑ राष्ट्रम॑नक्तु पय॑सा घृतेन॑ ॥८॥

यास्ते रुह॑: प्ररुहो यास्त॑ आरुहो याभि॑रापृणासि दिव॑मन्तरि॑क्षम् ।
तासां ब्रह्म॑णा पय॑सा ववृधानो विशि राष्ट्रे जा॑गृहि रोहि॑तस्य ॥९॥

यस्ते विशस्तप॑स: संबभूवुर्वत्सं गा॑यत्रीमनु ता इहागु॑: ।
तास्त्वा वि॑शन्तु मन॑सा शिवेन संमा॑ता वत्सो अभ्येद्गतु रोहि॑त: ॥१०॥

ऊर्ध्वो रोहि॑तो अधि नाके॑ अस्थाद्विश्वा॑ रूपाणि॑ जनयन्युवा॑ कवि: ।
तिग्मेनाग्निर्ज्योति॑षा वि भा॑ति तृतीये॑ चक्रे रज॑सि प्रियाणि॑ ॥११॥

सहस्र॑शृङ्गो वृषभो जातवे॑दा घृताहु॑त: सोम॑पृष्ठ: सुवीर॑: ।
मा मा॑ हासीन्नाथितो नेत्त्वा जहा॑नि गोपोषं च॑ मे वीरपोषं च॑ धेहि ॥१२॥

रोहि॑तो यज्ञस्य॑ जनिता मुखं॑ च रोहि॑ताय वाचा श्रोत्रे॑ण मन॑सा जुहोमि ।
रोहि॑तं देवा य॑न्ति सुमनस्यमा॑ना: स मा रोहै॑: सामित्यै रो॑हयतु ॥१३॥

रोहि॑तो यज्ञं व्यद्गदधाद्विश्वक॑र्मणे तस्मात्तेजांस्युप॑ मेमान्यागु॑: ।
वोचेयं॑ ते नाभिं भुव॑नस्याधि॑ मज्मनि॑ ॥१४॥

आ त्वा॑ रुरोह बृहत्यू३त पङ्क्तिरा ककुब्वर्च॑सा जातवेद: ।
आ त्वा॑ रुरोहोष्णिहाक्षरो व॑षट्कार आ त्वा॑ रुरोह रोहि॑तो रेत॑सा सह ॥१५॥

अयं व॑स्ते गर्भं॑ पृथिव्या दिवं॑ वस्तेऽयमन्तरि॑क्षम् ।
अयं ब्रध्नस्य॑ विष्टपि स्वद्गर्लोकान्व्याद्गनशे ॥१६॥

वाच॑स्पते पृथिवी न॑: स्योना स्योना योनिस्तल्पा॑ न: सुशेवा॑ ।
इहैव प्राण: सख्ये नो॑ अस्तु तं त्वा॑ परमेष्ठिन्पर्यग्निरायु॑षा वर्च॑सा दधातु ॥१७॥

वाच॑स्पत ऋतव: पञ्च ये नौ॑ वैश्वकर्मणा: परि ये सं॑बभूवु: ।
इहैव प्राण: सख्ये नो॑ अस्तु तं त्वा॑ परमेष्ठिन्परि रोहि॑त आयु॑षा वर्च॑सा दधातु ॥१८॥

वाच॑स्पते सौमनसं मन॑श्च गोष्ठे नो गा जनय योनि॑षु प्रजा: ।
इहैव प्राण: सख्ये नो॑ अस्तु तं त्वा॑ परमेष्ठिन्पर्यहमायु॑षा वर्च॑सा दधातु ॥१९॥

परि॑ त्वा धात्सविता देवो अग्निर्वर्च॑सा मित्रावरु॑णावभि त्वा॑ ।
सर्वा अरा॑तीरवक्रामन्नेहीदं राष्ट्रम॑कर: सूनृता॑वत् ॥२०॥

यं त्वा पृष॑ती रथे प्रष्टिर्वह॑ति रोहित ।
शुभा या॑सि रिणन्नप: ॥२१॥
शुभा या॑सि रिणन्नप: ॥२१॥
अनु॑व्रता रोहि॑णी रोहि॑तस्य सूरि: सुवर्णा॑ बृहती सुवर्चा: ।
तया वाजा॑न्विश्वरू॑पां जयेम तया विश्वा: पृत॑ना अभि ष्या॑म ॥२२॥

इदं सदो रोहि॑णी रोहि॑तस्यासौ पन्था: पृष॑ती येन याति॑ ।
तां ग॑न्धर्वा: कश्यपा उन्न॑यन्ति तां र॑क्षन्ति कवयोऽप्र॑मादम् ॥२३॥

सूर्यस्याश्वा हर॑य: केतुमन्त: सदा॑ वहन्त्यमृता॑: सुखं रथ॑म् ।
घृतपावा रोहि॑तो भ्राज॑मानो दिवं॑ देव: पृष॑तीमा वि॑वेश ॥२४॥

यो रोहि॑तो वृषभस्तिग्मशृ॑ङ्ग: पर्यग्निं परि सूर्यं॑ बभूव॑ ।
यो वि॑ष्टभ्नाति॑ पृथिवीं दिवं॑ च तस्मा॑द्देवा अधि सृष्टी॑: सृजन्ते ॥२५॥

रोहि॑तो दिवमारु॑हन्महत: पर्य॑र्णवात् ।
सर्वा॑ रुरोह रोहि॑तो रुह॑: ॥२६॥
सर्वा॑ रुरोह रोहि॑तो रुह॑: ॥२६॥
वि मि॑मीष्व पय॑स्वतीं घृताचीं॑ देवानां॑ धेनुरन॑पस्पृगेषा ।
इन्द्र: सोमं॑ पिबतु क्षेमो॑ अस्त्वग्नि: प्र स्तौ॑तु वि मृधो॑ नुदस्व ॥२७॥

समि॑द्धो अग्नि: स॑मिधानो घृतवृ॑द्धो घृताहु॑त: ।
अभीषाट्वि॑श्वाषाडग्नि: सपत्ना॑न्हन्तु ये मम॑ ॥२८॥

हन्त्वे॑नान्प्र द॑हत्वरिर्यो न॑: पृतन्यति॑ ।
क्रव्यादाग्निना॑ वयं सपत्नान्प्र द॑हामसि ॥२९॥

अवाचीनानव॑ जहीन्द्र वज्रे॑ण बाहुमान् ।
अधा॑ सपत्ना॑न्मामकानग्नेस्तेजो॑भिरादि॑षि ॥३०॥
अग्ने॑ सपत्नानध॑रान्पादयास्मद्व्यथया॑ सजातमुत्पिपा॑नं बृहस्पते ।
इन्द्रा॑ग्नी मित्रा॑वरुणावध॑रे पद्यन्तामप्र॑तिमन्यूयमाना: ॥३१॥

उद्यंस्त्वं दे॑व सूर्य सपत्नानव॑ मे जहि ।
अवै॑नानश्म॑ना जहि ते य॑न्त्वधमं तम॑: ॥३२॥

वत्सो विराजो॑ वृषभो म॑तीनामा रु॑रोह शुक्रपृ॑ष्ठोऽन्तरि॑क्षम् ।
घृतेनार्कमभ्यद्गर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्म॑णा वर्धयन्ति ॥३३॥

दिवं॑ च रोह॑ पृथिवीं च॑ रोह राष्ट्रं च रोह द्रवि॑णं च रोह ।
प्रजां च रोहामृतं॑ च रोह रोहि॑तेन तन्वं१ सं स्पृ॑षस्व ॥३४॥

ये देवा रा॑ष्ट्रभृतोऽभितो यन्ति सूर्य॑म् ।
तैष्टे रोहि॑त: संविदानो राष्ट्रं द॑धातु सुमनस्यमा॑न: ॥३५॥

उत्त्वा॑ यज्ञा ब्रह्म॑पूता वहन्त्यध्वगतो हर॑यस्त्वा वहन्ति ।
तिर: स॑मुद्रमति॑ रोचसेऽर्णवम् ॥३६॥
तिर: स॑मुद्रमति॑ रोचसेऽर्णवम् ॥३६॥
रोहि॑ते द्यावा॑पृथिवी अधि॑ श्रिते व॑सुजिति॑ गोजिति॑ संधनाजिति॑ ।
सहस्रं यस्य जनि॑मानि सप्त च॑ वोचेयं॑ ते नाभिं भुव॑नस्याधि॑ मज्मनि॑ ॥३७॥

यशा या॑सि प्रदिशो दिश॑श्च यशा: प॑शूनामुत च॑र्षणीनाम् ।
यशा: पृ॑थिव्या अदि॑त्या उपस्थेऽहं भू॑यासं सवितेव चारु॑: ॥३८॥

अमुत्र सन्निह वे॑त्थेत: संस्तानि॑ पश्यसि ।
इत: प॑श्यन्ति रोचनं दिवि सूर्यं॑ विपश्चित॑म् ॥३९॥

देवो देवान्म॑र्चयस्यन्तश्च॑रस्यर्णवे ।
समानमग्निमि॑न्धते तं वि॑दु: कवय: परे॑ ॥४०॥

अव: परे॑ण पर एनाव॑रेण पदा वत्सं बिभ्र॑ती गौरुद॑स्थात् ।
सा कद्रीची कं स्विदर्धं परा॑गात्क्वद्ग स्वित्सूते नहि यूथे अस्मिन् ॥४१॥

एक॑पदी द्विपदी सा चतु॑ष्पद्यष्टाप॑दी नव॑पदी बभूवुषी॑ ।
सहस्रा॑क्षरा भुव॑नस्य पङ्क्तिस्तस्या॑: समुद्रा अधि वि क्ष॑रन्ति ॥४२॥

आरोहन्द्याममृत: प्राव॑ मे वच॑: ।
उत्त्वा॑ यज्ञा ब्रह्म॑पूता वहन्त्यध्वगतो हर॑यस्त्वा वहन्ति ॥४३॥

वेद तत्ते॑ अमर्त्य यत्त॑ आक्रम॑णं दिवि ।
यत्ते॑ सधस्थं॑ परमे व्योद्गमन् ॥४४॥
यत्ते॑ सधस्थं॑ परमे व्योद्गमन् ॥४४॥
सूर्यो द्यां सूर्य॑: पृथिवीं सूर्य आपोऽति॑ पश्यति ।
सूर्यो॑ भूतस्यैकं चक्षुरा रु॑रोह दिवं॑ महीम् ॥४५॥

उर्वीरा॑सन्परिधयो वेदिर्भूमि॑रकल्पत ।
तत्रैतावग्नी आध॑त्त हिमं घ्रंसं च रोहि॑त: ॥४६॥

हिमं घ्रंसं चाधाय यूपा॑न्कृत्वा पर्व॑तान् ।
वर्षाज्या॑वग्नी ई॑जाते रोहि॑तस्य स्वर्विद॑: ॥४७॥

स्वर्विदो रोहि॑तस्य ब्रह्म॑णाग्नि: समि॑ध्यते ।
तस्मा॑द्घ्रंसस्तस्मा॑द्धिमस्तस्मा॑द्यज्ञोद्गऽजायत ॥४८॥

ब्रह्म॑णाग्नी वा॑वृधानौ ब्रह्म॑वृद्धौ ब्रह्मा॑हुतौ ।
ब्रह्मे॑द्धावग्नी ई॑जाते रोहि॑तस्य स्वर्विद॑: ॥४९॥

सत्ये अन्य: समाहि॑तोऽप्स्व१न्य समि॑ध्यते ।
ब्रह्मे॑द्धावग्नी ई॑जाते रोहि॑तस्य स्वर्विद॑: ॥५०॥

यं वात॑: परिशुम्भ॑ति यं वेन्द्रो ब्रह्म॑णस्पति॑: ।
ब्रह्मे॑द्धावग्नी ई॑जाते रोहि॑तस्य स्वर्विद॑: ॥५१॥

वेदिं भूमिं॑ कल्पयित्वा दिवं॑ कृत्वा दक्षि॑णाम् ।
घ्रंसं तदग्निं कृत्वा चकार विश्व॑मात्मन्वद्वर्षेणाज्ये॑न रोहि॑त: ॥५२॥

वर्षमाज्यं॑ घ्रंसो अग्निर्वेदिर्भूमि॑रकल्पत ।
तत्रैतान्पर्व॑तानग्निर्गीर्भिरूर्ध्वाँ अ॑कल्पयत् ॥५३॥

गीर्भिरूर्ध्वान्क॑ल्पयित्वा रोहि॑तो भूमि॑मब्रवीत् ।
त्वयीदं सर्वं॑ जायतां यद्भूतं यच्च॑ भाव्यद्गम् ॥५४॥

स यज्ञ: प्र॑थमो भूतो भव्यो॑ अजायत ।
तस्मा॑द्ध जज्ञ इदं सर्वं यत्किं चेदं विरोच॑ते रोहि॑तेन ऋषिणाभृ॑तम् ॥५५॥

यश्च गां पदा स्फुरति॑ प्रत्यङ् सूर्यं॑ च मेह॑ति ।
तस्य॑ वृश्चामि ते मूलं न च्छायां क॑रवोऽप॑रम् ॥५६॥

यो मा॑भिच्छायमत्येषि मां चाग्निं चा॑न्तरा ।
तस्य॑ वृश्चामि ते मूलं न च्छायां क॑रवोऽप॑रम् ॥५७॥

यो अद्य दे॑व सूर्य त्वां च मां चा॑न्तराय॑ति ।
दुष्वप्न्यं तस्मिञ्छम॑लं दुरितानि॑ च मृज्महे ॥५८॥
मा प्र गा॑म पथो वयं मा यज्ञादि॑न्द्र सोमिन॑: ।
मान्त स्थु॑र्नो अरा॑तय: ॥५९॥

यो यज्ञस्य॑ प्रसाध॑नस्तन्तु॑र्देवेष्वात॑त: ।
तमाहु॑तमशीमहि ॥६०॥
तमाहु॑तमशीमहि ॥६०॥
द्वितीयं सूक्तम्» षट्चत्वारिंशदृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | अध्यात्मरोहितादित्या देवता: | प्रथमर्चो द्वादश्यादिचतसृणामेकोनचत्वारिंश्यादितृचस्य चानुष्टुप् द्वितीयातृतीयाष्टमीत्रिचत्वारिंशीनां जगती चतुर्थ्यादिचतसृणां नवम्यष्टाविंश्योरेकत्रिंश्यादितृचस्य पञ्चत्रिंशीषट्त्रिंश्यष्टात्रिंशीद्विचत्वारिंशीषट्चत्वारिंशीनाञ्च त्रिष्टुप् दशम्या आस्तारपङ्क्ति: एकादश्या बृहतीगर्भा त्रिष्टुप् षोडश्यादिनवानामार्षी गायत्री पञ्चविंश्या: ककुम्मत्यास्तारपङ्क्ति: षड्विंश्या: पुरोद्व्यतिजागता भुरिग्जगती सप्तविंश्या विराड्जगती एकोनत्रिंश्या बार्हतगर्भानुष्टुप् त्रिंश्या: पञ्चपदोष्णिग्बृहतीगर्भातिजगती चतुस्त्रिंश्या आर्षी पङ्क्ति: सप्तत्रिंश्या: पञ्चपदा विराड्गर्भा जगती चतुश्चत्वारिंश्याश्चतुष्पदा पुर:शाक्वरा भुरिग्जगती पञ्चचत्वारिंश्याश्चातिजागतगर्भा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
उद॑स्य केतवो॑ दिवि शुक्रा भ्राज॑न्त ईरते ।
आदित्यस्य॑ नृचक्ष॑सो महि॑व्रतस्य मीढुष॑: ॥१॥
दिशां प्रज्ञानां॑ स्वरय॑न्तमर्चिषा॑ सुपक्षमाशुं पतय॑न्तमर्णवे ।
स्तवा॑म सूर्यं भुव॑नस्य गोपां यो रश्मिभिर्दिश॑ आभाति सर्वा॑: ॥२॥

यत्प्राङ् प्रत्यङ् स्वधया यासि शीभं नाना॑रूपे अह॑नी कर्षि॑ मायया॑ ।
तदा॑दित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जाय॑से ॥३॥

विपश्चितं॑ तरणिं भ्राज॑मानं वह॑न्ति यं हरित॑: सप्त बह्वी: ।
स्रुताद्यमत्रिर्दिव॑मुन्निनाय तं त्वा॑ पश्यन्ति परियान्त॑माजिम् ॥४॥

मा त्वा॑ दभन्परियान्त॑माजिं स्वस्ति दुर्गाँ अति॑ याहि शीभ॑म् ।
दिवं॑ च सूर्य पृथिवीं च॑ देवीम॑होरात्रे विमिमा॑नो यदेषि॑ ॥५॥

स्वस्ति ते॑ सूर्य चरसे रथा॑य येनोभावन्तौ॑ परियासि॑ सद्य: ।
यं ते वह॑न्ति हरितो वहि॑ष्ठा: शतमश्वा यदि॑ वा सप्त बह्वी: ॥६॥

सुखं सूर्य रथ॑मंशुमन्तं॑ स्योनं सुवह्निमधि॑ तिष्ठ वाजिन॑म् ।
यं ते वह॑न्ति हरितो वहि॑ष्ठा: शतमश्वा यदि॑ वा सप्त बह्वी: ॥७॥

सप्त सूर्यो॑ हरितो यात॑वे रथे हिर॑ण्यत्वचसो बृहतीर॑युक्त ।
अमो॑चि शुक्रो रज॑स: परस्ता॑द्विधूय॑ देवस्तमो दिवमारु॑हत् ॥८॥

उत्केतुना॑ बृहता देव आगन्नपा॑वृक्तमोऽभि ज्योति॑रश्रैत् ।
दिव्य: सु॑पर्ण: स वीरो व्यद्गख्यददि॑ते: पुत्रो भुव॑नानि विश्वा॑ ॥९॥

उद्यन्रश्मीना त॑नुषे विश्वा॑ रुपाणि॑ पुष्यसि ।
उभा स॑मुद्रौ क्रतु॑ना वि भा॑सि सर्वाँ॑ल्लोकान्प॑रिभूर्भ्राज॑मान: ॥१०॥

पूर्वापरं च॑रतो माययैतौ शिशू क्रीड॑न्तौ परि॑ यातोऽर्णवम् ।
विश्वान्यो भुव॑ना विचष्टे॑ हैरण्यैरन्यं हरितो॑ वहन्ति ॥११॥

दिवि त्वात्रि॑रधारयत्सूर्या मासा॑य कर्त॑वे ।
स ए॑षि सुधृ॑तस्तपन्विश्वा॑ भूतावचाक॑शत् ॥१२॥

उभावन्तौ सम॑र्षसि वत्स: सं॑मातरा॑विव ।
नन्वे३तदित: पुरा ब्रह्म॑ देवा अमी वि॑दु: ॥१३॥

यत्स॑मुद्रमनु॑ श्रितं तत्सि॑षासति सूर्य॑: ।
अध्वा॑स्य वित॑तो महान्पूर्वश्चाप॑रश्च य: ॥१४॥

तं समा॑प्नोति जूतिभिस्ततो नाप॑ चिकित्सति ।
तेनामृत॑स्य भक्षं देवानां नाव॑ रुन्धते ॥१५॥

उदु त्यं जातवे॑दसं देवं व॑हन्ति केतव॑: ।
दृशे विश्वा॑य सूर्य॑म् ॥१६॥
दृशे विश्वा॑य सूर्य॑म् ॥१६॥
अप त्ये तायवो॑ यथा नक्ष॑त्रा यन्त्यक्तुभि॑: ।
सूरा॑य विश्वच॑क्षसे ॥१७॥
सूरा॑य विश्वच॑क्षसे ॥१७॥
अदृ॑श्रन्नस्य केतवो वि रश्मयो जनाँ अनु॑ ।
भ्राज॑न्तो अग्नयो॑ यथा ॥१८॥
भ्राज॑न्तो अग्नयो॑ यथा ॥१८॥
तरणि॑र्विश्वद॑र्शतो ज्योतिष्कृद॑सि सूर्य ।
विश्वमा भा॑सि रोचन ॥१९॥
विश्वमा भा॑सि रोचन ॥१९॥
प्रत्यङ् देवानां विश॑: प्रत्यङ्ङुदे॑षि मानु॑षी: ।
प्रत्यङ्विश्वं स्वद्गर्दृशे ॥२०॥
प्रत्यङ्विश्वं स्वद्गर्दृशे ॥२०॥
येना॑ पावक चक्ष॑सा भुरण्यन्तं जनाँ अनु॑ ।
त्वं व॑रुण पश्य॑सि ॥२१॥
त्वं व॑रुण पश्य॑सि ॥२१॥
वि द्यामे॑षि रज॑स्पृथ्वहर्मिमा॑नो अक्तुभि॑: ।
पश्यञ्जन्मा॑नि सूर्य ॥२२॥
पश्यञ्जन्मा॑नि सूर्य ॥२२॥
सप्त त्वा॑ हरितो रथे वह॑न्ति देव सूर्य ।
शोचिष्के॑शं विचक्षणम् ॥२३॥
शोचिष्के॑शं विचक्षणम् ॥२३॥
अयु॑क्त सप्त शुन्ध्युव: सूरो रथ॑स्य नप्त्यद्ग: ।
ताभि॑र्याति स्वयु॑क्तिभि: ॥२४॥
ताभि॑र्याति स्वयु॑क्तिभि: ॥२४॥
रोहि॑तो दिवमारु॑हत्तप॑सा तपस्वी ।
स योनिमैति स उ॑ जायते पुन: स देवानामधि॑पतिर्बभूव ॥२५॥

यो विश्वच॑र्षणिरुत विश्वतो॑मुखो यो विश्वत॑स्पाणिरुत विश्वत॑स्पृथ: ।
सं बाहुभ्यां भर॑ति सं पत॑त्रैर्द्यावा॑पृथिवी जनय॑न्देव एक॑: ॥२६॥

एक॑पाद्द्विप॑दो भूयो वि च॑क्रमे द्विपात्त्रिपा॑दमभ्येद्गति पश्चात् ।
द्विपा॑द्ध षट्प॑दो भूयो वि च॑क्रमे त एक॑पदस्तन्वं१ समा॑सते ॥२७॥

अत॑न्द्रो यास्यन्हरितो यदास्थाद्द्वे रूपे कृ॑णुते रोच॑मान: ।
केतुमानुद्यन्त्सह॑मानो रजां॑सि विश्वा॑ आदित्य प्रवतो वि भा॑सि ॥२८॥

बण्महाँ अ॑सि सूर्य बडा॑दित्य महाँ अ॑सि ।
महांस्ते॑ महतो म॑हिमा त्वमा॑दित्य महाँ अ॑सि ॥२९॥

रोच॑से दिवि रोच॑से अन्तरि॑क्षे पत॑ङ्ग पृथिव्यां रोच॑से रोच॑से अप्स्व१न्त ।
उभा स॑मुद्रौ रुच्या व्याद्गपिथ देवो दे॑वासि महिष: स्वर्जित् ॥३०॥

अर्वाङ् परस्तात्प्रय॑तो व्यध्व आशुर्वि॑पश्चित्पतय॑न्पतङ्ग: ।
विष्णुर्विचि॑त्त: शव॑साधितिष्ठन्प्र केतुना॑ सहते विश्वमेज॑त् ॥३१॥

चित्राश्चि॑कित्वान्म॑हिष: सु॑पर्ण आ॑रोचयन्रोद॑सी अन्तरि॑क्षम् ।
अहोरात्रे परि सूर्यं वसा॑ने प्रास्य विश्वा॑ तिरतो वीर्याद्गणि ॥३२॥

तिग्मो विभ्राज॑न्तन्वं१ शिशा॑नोऽरंगमास॑: प्रवतो ररा॑ण: ।
ज्योति॑ष्मान्पक्षी म॑हिषो व॑योधा विश्वा आस्था॑त्प्रदिश: कल्प॑मान: ॥३३॥

चित्रं देवानां॑ केतुरनी॑कं ज्योति॑ष्मान्प्रदिश: सूर्य॑ उद्यन् ।
दिवाकरोऽति॑ द्युम्नैस्तमां॑सि विश्वा॑तारीद्दुरितानि॑ शुक्र: ॥३४॥

चित्रं देवानामुद॑गादनी॑कं चक्षु॑र्मित्रस्य वरु॑णस्याग्ने: ।
आप्राद्द्यावा॑पृथिवी अन्तरि॑क्षं सूर्य॑ आत्मा जग॑तस्तस्थुष॑श्च ॥३५॥

उच्चा पत॑न्तमरुणं सु॑पर्णं मध्ये॑ दिवस्तरणिं भ्राज॑मानम् ।
पश्या॑म त्वा सवितारं यमाहुरज॑स्रं ज्योतिर्यदवि॑न्ददत्रि॑: ॥३६॥

दिवस्पृष्ठे धाव॑मानं सुपर्णमदि॑त्या: पुत्रं नाथका॑म उप॑ यामि भीत: ।
स न॑: सूर्य प्र ति॑र दीर्घमायुर्मा रि॑षाम सुमतौ ते॑ स्याम ॥३७॥

सहस्राह्ण्यं विय॑तावस्य पक्षौ हरे॑र्हंसस्य पत॑त: स्वर्गम् ।
स देवान्त्सर्वानुर॑स्युपदद्य॑ संपश्य॑न्याति भुव॑नानि विश्वा॑ ॥३८॥

रोहि॑त: कालो अ॑भवद्रोहितोऽग्रे॑ प्रजाप॑ति: ।
रोहि॑तो यज्ञानां मुखं रोहि॑त: स्व१राभ॑रत् ॥३९॥

रोहि॑तो लोको अ॑भवद्रोहितोऽत्य॑तपद्दिव॑म् ।
रोहि॑तो रश्मिभिर्भूमिं॑ समुद्रमनु सं च॑रत् ॥४०॥

सर्वा दिश: सम॑चरद्रोहितोऽधि॑पतिर्दिव: ।
दिवं॑ समुद्रमाद्भूमिं सर्वं॑ भूतं वि र॑क्षति ॥४१॥

आरोह॑ञ्छुक्रो बृ॑हतीरत॑न्द्रो द्वे रूपे कृ॑णुते रोच॑मान: ।
चित्रश्चि॑कित्वान्म॑हिषो वात॑माया याव॑तो लोकानभि यद्विभाति॑ ॥४२॥

अभ्य१न्यदे॑ति पर्यन्यद॑स्यतेऽहोरात्राभ्यां॑ महिष: कल्प॑मान: ।
सूर्यं॑ वयं रज॑सि क्षियन्तं॑ गातुविदं॑ हवामहे नाध॑माना: ॥४३॥

पृथिवीप्रो म॑हिषो नाध॑मानस्य गातुरद॑ब्धचक्षु: परि विश्वं॑ बभूव॑ ।
विश्वं॑ संपश्य॑न्त्सुविदत्रो यज॑त्र इदं शृ॑णोतु यदहं ब्रवी॑मि ॥४४॥

पर्य॑स्य महिमा पृ॑थिवीं स॑मुद्रं ज्योति॑षा विभ्राजन्परि द्यामन्तरि॑क्षम् ।
सर्वं॑ संपश्य॑न्त्सुविदत्रो यज॑त्र इदं शृ॑णोतु यदहं ब्रवी॑मि ॥४५॥

अबो॑ध्यग्नि: समिधा जना॑नां प्रति॑ धेनुमि॑वायतीमुषस॑म् ।
यह्वा इ॑व प्र वयामुज्जिहा॑ना: प्र भानव॑: सिस्रते नाकमच्छ॑ ॥४६॥

तृतीयं सूक्तम्» षड्विंशत्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | अध्यात्मरोहितादित्या देवता: | प्रथमाषोडश्यष्टादश्येकविंशीनामृचां चतुरवसानाष्टपदाकृति: द्वितीयायास्त्र्यवसाना षट्पदा भुरिगष्टि: तृतीयायास्त्र्यवसाना षट्पदाष्टि: चतुर्थ्यास्त्र्यवसाना षट्पदातिशाक्वरगर्भा धृति: पञ्चमीषष्ठ्योश्चतुरवसाना सप्तपदा शाक्वरातिशाक्वरगर्भा प्रकृति: सप्तम्याश्चतुरवसाना सप्तपदानुष्टुब्गर्भातिधृति: अष्टमीविंशीद्वाविंशीनां त्र्यवसाना षट्पदात्यष्टि: नवम्यादिचतसृणां चतुरवसाना सप्तपदा भुरिगतिधृति: त्रयोदशीचतुर्दश्योश्चतुरवसानाष्टपदा कृति: पञ्चदश्याश्चतुरवसाना सप्तपदा निचृदतिधृति: सप्तदशीचतुर्विंश्योश्चतुरवसाना सप्तपदा कृति: एकोनविंश्याश्चतुरवसानाष्टपदा भुरिगाकृति: त्रयोविंशीपञ्चविंश्योश्चतुरवसानाष्टपदा विकृति: षड्विंश्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
य इमे द्यावा॑पृथिवी जजान यो द्रापिं॑ कृत्वा भुव॑नानि वस्ते॑ ।
यस्मि॑न्क्षियन्ति॑ प्रदिश: षडुर्वीर्या: प॑तङ्गो अनु॑ विचाक॑शीति तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१॥
यस्माद्वाता॑ ऋतुथा पव॑न्ते यस्मा॑त्समुद्रा अधि॑ विक्षर॑न्ति तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥२॥

यो मारय॑ति प्राणय॑ति यस्मा॑त्प्राणन्ति भुव॑नानि विश्वा तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥३॥

य: प्राणेन द्यावा॑पृथिवी तर्पय॑त्यपानेन॑ समुद्रस्य॑ जठरं य: पिप॑र्ति तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥४॥

यस्मि॑न्विराट्प॑रमेष्ठी प्रजाप॑तिरग्निर्वै॑श्वानर: सह पङ्क्त्या श्रित: ।
य: पर॑स्य प्राणं प॑रमस्य तेज॑ आददे तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥५॥

यस्मिन्षडुर्वी: पञ्च दिशो अधि॑श्रिताश्चत॑स्र आपो॑ यज्ञस्य त्रयोऽक्षरा॑: ।
यो अ॑न्तरा रोद॑सी क्रुद्धश्चक्षुषैक्ष॑त तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥६॥

यो अ॑न्नादो अन्न॑पतिर्बभूव ब्रह्म॑णस्पति॑रुत य: ।
भूतो भ॑विष्यत्भुव॑नस्य यस्पतिस्तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥७॥

अहोरात्रैर्विमि॑तं त्रिंशद॑ङ्गं त्रयोदशं मासं यो निर्मिमी॑ते तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥८॥

कृष्णं नियानं हर॑य: सुपर्णा अपो वसा॑ना दिवमुत्प॑तन्ति ।
त आव॑वृत्रन्त्सद॑नादृतस्य तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥९॥

यत्ते॑ चन्द्रं क॑श्यप रोचनावद्यत्सं॑हितं पु॑ष्कलं चित्रभा॑नु ।
यस्मिन्त्सूर्या आर्पि॑ता: सप्त साकं तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१०॥

बृहदे॑नमनु॑ वस्ते पुरस्ता॑द्रथंतरं प्रति॑ गृह्णाति पश्चात् ।
ज्योतिर्वसा॑ने सदमप्र॑मादं तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥११॥

बृहदन्यत॑: पक्ष आसी॑द्रथंतरमन्यत: सब॑ले सध्रीची॑ ।
यद्रोहि॑तमज॑नयन्त देवास्तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१२॥

स वरु॑ण: सायमग्निर्भ॑वति स मित्रो भ॑वति प्रातरुद्यन् ।
स स॑विता भूत्वान्तरि॑क्षेण याति स इन्द्रो॑ भूत्वा त॑पति मध्यतो दिवं तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१३॥
स स॑विता भूत्वान्तरि॑क्षेण याति स इन्द्रो॑ भूत्वा त॑पति मध्यतो दिवं तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१३॥
सहस्राह्ण्यं विय॑तावस्य पक्षौ हरे॑र्हंसस्य पत॑त: स्वर्गम् ।
स देवान्त्सर्वानुर॑स्युपदद्य॑ संपश्य॑न्याति भुव॑नानि विश्वा तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१४॥

अयं स देवो अप्स्व१न्त सहस्र॑मूल: परुशाको अत्त्रि॑: ।
य इदं विश्वं भुव॑नं जजान तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१५॥

शुक्रं व॑हन्ति हर॑यो रघुष्यदो॑ देवं दिवि वर्च॑सा भ्राज॑मानम् ।
यस्योर्ध्वा दिवं॑ तन्व१स्तप॑न्त्यर्वाङ् सुवर्णै॑: पटरैर्वि भा॑ति तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१६॥

येना॑दित्यान्हरित॑: संवह॑न्ति येन॑ यज्ञेन॑ बहवो यन्ति॑ प्रजानन्त॑: ।
यदेकं ज्योति॑र्बहुधा विभाति तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१७॥

सप्त यु॑ञ्जन्ति रथमेक॑चक्रमेको अश्वो॑ वहति सप्तना॑मा ।
त्रिनाभि॑ चक्रमजर॑मनर्वं यत्रेमा विश्वा भुवनाधि॑ तस्थुस्तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१८॥

अष्टधा युक्तो व॑हति वह्नि॑रुग्र: पिता देवानां॑ जनिता म॑तीनाम् ।
ऋतस्य तन्तुं मन॑सा मिमान: सर्वा दिश॑: पवते मातरिश्वा तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥१९॥

सम्यञ्चं तन्तुं॑ प्रदिशोऽनु सर्वा॑ अन्तर्गा॑यत्र्याममृत॑स्य गर्भे तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥२०॥

निम्रुच॑स्तिस्रो व्युषो॑ ह तिस्रस्त्रीणि रजां॑सि दिवो॑ अङ्ग तिस्र: ।
विद्मा ते॑ अग्ने त्रेधा जनित्रं॑ त्रेधा देवानां जनि॑मानि विद्म तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥२१॥

वि य और्णो॑त्पृथिवीं जाय॑मान आ स॑मुद्रमद॑धादन्तरि॑क्षे तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥२२॥

त्वम॑ग्ने क्रतु॑भि: केतुभि॑र्हितो३ऽर्क: समि॑द्ध उद॑रोचथा दिवि ।
किमभ्याद्गर्चन्मरुत: पृश्नि॑मातरो यद्रोहि॑तमज॑नयन्त देवास्तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥२३॥

य आ॑त्मदा ब॑लदा यस्य विश्व॑ उपास॑ते प्रशिषं यस्य॑ देवा: ।
यो३ऽस्येशे॑ द्विपदो यश्चतु॑ष्पदस्तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥२४॥
यो३ऽस्येशे॑ द्विपदो यश्चतु॑ष्पदस्तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥२४॥
एक॑पाद्द्विप॑दो भूयो वि च॑क्रमे द्विपात्त्रिपा॑दमभ्येद्गति पश्चात् ।
चतु॑ष्पाच्चक्रे द्विप॑दामभिस्वरे संपश्य॑न्पङ्क्तिमु॑पतिष्ठ॑मानस्तस्य॑ देवस्य॑ ।
क्रुद्धस्यैतदागो य एवं विद्वांसं॑ ब्राह्मणं जिनाति॑ ।
उद्वे॑पय रोहित प्र क्षि॑णीहि ब्रह्मज्यस्य प्रति॑ मुञ्च पाशा॑न् ॥२५॥

कृष्णाया॑: पुत्रो अर्जु॑नो रात्र्या॑ वत्सोद्गऽजायत ।
स ह द्यामधि॑ रोहति रुहो॑ रुरोह रोहि॑त: ॥२६॥
स ह द्यामधि॑ रोहति रुहो॑ रुरोह रोहि॑त: ॥२६॥
चतुर्थं सूक्तम्» । प्रथम: पर्याय:» स एति सविता इत्यारभ्य अन्नाद्येन इत्यन्तानां षट्पर्यायाणां ब्रह्मा ऋषि: | मन्त्रोक्ता देवता: ॥ त्रयोदशर्चस्यास्य पर्यायस्य प्रथमाद्येकादशर्चां प्राजापत्यानुष्टुप् द्वादश्या विराड्गायत्री त्रयोदश्याश्चासुर्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)
स ए॑ति सविता स्वद्गर्दिवस्पृष्ठेद्गऽवचाक॑शत् ॥१॥
रश्मिभिर्नभ आभृ॑तं महेन्द्र एत्यावृ॑त: ॥२॥
स धाता स वि॑धर्ता स वायुर्नभ उच्छ्रि॑तम् ।
रश्मिभिर्नभ आभृ॑तं महेन्द्र एत्यावृ॑त: ॥३॥

सोद्गऽर्यमा स वरु॑ण: स रुद्र: स म॑हादेव: ।
रश्मिभिर्नभ आभृ॑तं महेन्द्र एत्यावृ॑त: ॥४॥

सो अग्नि: स उ सूर्य: स उ॑ एव म॑हायम: ।
रश्मिभिर्नभ आभृ॑तं महेन्द्र एत्यावृ॑त: ॥५॥

तं वत्सा उप॑ तिष्ठन्त्येक॑शीर्षाणो युता दश॑ ।
रश्मिभिर्नभ आभृ॑तं महेन्द्र एत्यावृ॑त: ॥६॥

पश्चात्प्राञ्च आ त॑न्वन्ति यदुदेति वि भा॑सति ।
रश्मिभिर्नभ आभृ॑तं महेन्द्र एत्यावृ॑त: ॥७॥

तस्यैष मारु॑तो गण: स ए॑ति शिक्याकृ॑त: ॥८॥
रश्मिभिर्नभ आभृ॑तं महेन्द्र एत्यावृ॑त: ॥९॥
तस्येमे नव कोशा॑ विष्टम्भा न॑वधा हिता: ॥१०॥
स प्रजाभ्यो वि प॑श्यति यच्च॑ प्राणति यच्च न ॥११॥
तमिदं निग॑तं सह: स एष एक॑ एकवृदेक॑ एव ॥१२॥
एते अ॑स्मिन्देवा ए॑कवृतो॑ भवन्ति ॥१३॥
द्वितीय: पर्याय:» अष्टर्चस्यास्य पर्यायस्य प्रथमर्चो भुरिक्साम्नी त्रिष्टुप् द्वितीयाया आसुरी पङ्क्ति: तृतीयाषष्ठ्यो: प्राजापत्यानुष्टुप् चतुर्थीपञ्चम्योरासुरी गायत्री सप्तम्या द्विपदा विराड्गायत्री अष्टम्याश्चासुर्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
कीर्तिश्च यशश्चाम्भ॑श्च नभ॑श्च ब्राह्मणवर्चसं चान्नं॑ चान्नाद्यं॑ च ॥१॥
य एतं देवमे॑कवृतं वेद॑ ॥२॥
न द्वितीयो न तृतीय॑श्चतुर्थो नाप्यु॑च्यते ।
य एतं देवमे॑कवृतं वेद॑ ॥३॥
य एतं देवमे॑कवृतं वेद॑ ॥३॥
न प॑ञ्चमो न षष्ठ: स॑प्तमो नाप्यु॑च्यते ।
य एतं देवमे॑कवृतं वेद॑ ॥४॥
य एतं देवमे॑कवृतं वेद॑ ॥४॥
नाष्टमो न न॑वमो द॑शमो नाप्यु॑च्यते ।
य एतं देवमे॑कवृतं वेद॑ ॥५॥
य एतं देवमे॑कवृतं वेद॑ ॥५॥
स सर्व॑स्मै वि प॑श्यति यच्च॑ प्राणति यच्च न ।
य एतं देवमे॑कवृतं वेद॑ ॥६॥
य एतं देवमे॑कवृतं वेद॑ ॥६॥
तमिदं निग॑तं सह: स एष एक॑ एकवृदेक॑ एव ।
य एतं देवमे॑कवृतं वेद॑ ॥७॥
य एतं देवमे॑कवृतं वेद॑ ॥७॥
सर्वे॑ अस्मिन्देवा ए॑कवृतो॑ भवन्ति ।
य एतं देवमे॑कवृतं वेद॑ ॥८॥
य एतं देवमे॑कवृतं वेद॑ ॥८॥
तृतीय: पर्याय:» सप्तर्चस्यास्य पर्यायस्य प्रथमर्चो भुरिक्प्राजापत्या त्रिष्टुप् द्वितीयाया आर्ची गायत्री तृतीयायास्त्रिष्टुप् चतुर्थ्या एकपदासुरी गायत्री पञ्चम्या आर्च्यनुष्टुप् षष्ठीसप्तम्योश्च प्राजापत्यानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
ब्रह्म॑ च तप॑श्च कीर्तिश्च यशश्चाम्भ॑श्च नभ॑श्च ब्राह्मणवर्चसं चान्नं॑ चान्नाद्यं॑ च ।
य एतं देवमे॑कवृतं वेद॑ ॥१॥
भूतं च भव्यं॑ च श्रद्धा च रुचि॑श्च स्वर्गश्च॑ स्वधा च॑ ॥२॥
य एतं देवमे॑कवृतं वेद॑ ॥३॥
स एव मृत्यु: सो३ऽमृतं सो३ऽभ्वं१ स रक्ष॑: ॥४॥
स रुद्रो व॑सुवनि॑र्वसुदेये॑ नमोवाके व॑षट्कारोऽनु संहि॑त: ॥५॥
तस्येमे सर्वे॑ यातव उप॑ प्रशिष॑मासते ॥६॥
तस्यामू सर्वा नक्ष॑त्रा वशे॑ चन्द्रम॑सा सह ॥७॥

चतुर्थ: पर्याय:» सप्तदशर्चस्यास्य पर्यायस्य प्रथमापञ्चम्येकादशीद्वादशीसप्तदशीनामृचामासुरी गायत्री द्वितीयाचतुर्थीसप्तम्यष्टमीचतुर्दशीनां प्राजापत्यानुष्टुप् तृतीयाया विराड्गायत्री षष्ठीनवमीदशमीनां साम्न्युष्णिक् त्रयोदश्या: साम्नी बृहती पञ्चदश्या आर्षी गायत्री षोडश्याश्च साम्न्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
स वा अह्नो॑ऽजायत तस्मादह॑रजायत ॥१॥
स वै रात्र्या॑ अजायत तस्माद्रात्रि॑रजायत ॥२॥
स वा अन्तरि॑क्षादजायत तस्मा॑दन्तरि॑क्षमजायत ॥३॥
स वै वायोर॑जायत तस्मा॑द्वायुर॑जायत ॥४॥
स वै दिवोद्गऽजायत तस्माद्द्यौरध्य॑जायत ॥५॥
स वै दिग्भ्योद्गऽजायत तस्माद्दिशोद्गऽजायन्त ॥६॥
स वै भूमे॑रजायत तस्माद्भूमि॑रजायत ॥७॥
स वा अग्नेर॑जायत तस्मा॑दग्निर॑जायत ॥८॥
स वा अद्भ्योद्गऽजायत तस्मादापो॑ऽजायन्त ॥९॥
स वा ऋग्भ्योद्गऽजायत तस्मादृचो॑ऽजायन्त ॥१०॥
स वै यज्ञाद॑जायत तस्मा॑द्यज्ञोद्गऽजायत ॥११॥
स यज्ञस्तस्य॑ यज्ञ: स यज्ञस्य शिर॑स्कृतम् ॥१२॥

स स्त॑नयति स वि द्यो॑तते स उ अश्मा॑नमस्यति ॥१३॥
पापाय॑ वा भद्राय॑ वा पुरु॑षायासु॑राय वा ॥१४॥
यद्वा॑ कृणोष्योष॑धीर्यद्वा वर्ष॑सि भद्रया यद्वा॑ जन्यमवी॑वृध: ॥१५॥
तावां॑स्ते मघवन्महिमोपो॑ ते तन्वद्ग: शतम् ॥१६॥
उपो॑ ते बध्वे बद्धा॑नि यदि वासि न्यद्गर्बुदम् ॥१७॥
पञ्चम: पर्याय:» षडृचस्यास्य पर्यायस्य प्रथमर्च आसुरी गायत्री द्वितीयाया यवमध्या गायत्री तृतीयाया: साम्न्युष्णिक् चतुर्थ्या निचृत्साम्नी बृहती पञ्चम्या: प्राजापत्यानुष्टुप् षष्ठ्याश्च विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
भूयानिन्द्रो॑ नमुराद्भूया॑निन्द्रासि मृत्युभ्य॑: ॥१॥
भूयानरा॑त्या: शच्या: पतिस्त्वमि॑न्द्रासि विभू: प्रभूरिति त्वोपा॑स्महे वयम् ॥२॥
नम॑स्ते अस्तु पश्यत पश्य॑ मा पश्यत ॥३॥
अन्नाद्ये॑न यश॑सा तेज॑सा ब्राह्मणवर्चसेन॑ ॥४॥
अम्भो अमो मह: सह इति त्वोपा॑स्महे वयम् ।
नम॑स्ते अस्तु पश्यत पश्य॑ मा पश्यत ।
अन्नाद्ये॑न यश॑सा तेज॑सा ब्राह्मणवर्चसेन॑ ॥५॥

अम्भो॑ अरुणं र॑जतं रज: सह इति त्वोपा॑स्महे वयम् ।
नम॑स्ते अस्तु पश्यत पश्य॑ मा पश्यत ।
अन्नाद्ये॑न यश॑सा तेज॑सा ब्राह्मणवर्चसेन॑ ॥६॥

षष्ठ: पर्याय:» पञ्चर्चस्यास्य पर्यायस्य प्रथमाद्वितीययोरृचो: प्राजापत्यानुष्टुप् तृतीयाया द्विपदार्षी गायत्री चतुर्थ्या: साम्न्युष्णिक् पञ्चम्याश्च निचृत्साम्नी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)
उरु: पृथु: सुभूर्भुव इति त्वोपा॑स्महे वयम् ।
नम॑स्ते अस्तु पश्यत पश्य॑ मा पश्यत ।
अन्नाद्ये॑न यश॑सा तेज॑सा ब्राह्मणवर्चसेन॑ ॥१॥
प्रथो वरो व्यचो॑ लोक इति त्वोपा॑स्महे वयम् ।
नम॑स्ते अस्तु पश्यत पश्य॑ मा पश्यत ।
अन्नाद्ये॑न यश॑सा तेज॑सा ब्राह्मणवर्चसेन॑ ॥२॥

भव॑द्वसुरिदद्व॑सु: संयद्व॑सुरायद्व॑सुरिति त्वोपा॑स्महे वयम् ॥३॥
नम॑स्ते अस्तु पश्यत पश्य॑ मा पश्यत ॥४॥
अन्नाद्ये॑न यश॑सा तेज॑सा ब्राह्मणवर्चसेन॑ ॥५॥
॥इति त्रयोदशं काण्डम्॥
अथर्ववेद के अन्य काण्ड यहाँ से पढें
0 comments