HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् ७ (Atharvved Kand 7)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥ अथ सप्तमं काण्डम् ॥


प्रथमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | आत्मा देवता: | प्रथमर्चस्त्रिष्टुप्  द्वितीयायाश्च विराड्जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


धीती वा ये अन॑यन्वाचो अग्रं मन॑सा वा येऽव॑दन्नृतानि॑ ।
तृतीये॑न ब्रह्म॑णा वावृधानास्तुरीयेणामन्वत नाम धेनो: ॥१॥
स वे॑द पुत्र: पितरं स मातरं स सूनुर्भु॑वत्स भु॑वत्पुन॑र्मघ: ।
स द्यामौ॑र्णोदन्तरि॑क्षं स्व१ स इदं विश्व॑मभवत्स आभ॑रत् ॥२॥
 
 

द्वितीयं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | आत्मा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

अथ॑र्वाणं पितरं॑ देवब॑न्धुं मातुर्गर्भं॑ पितुरसुं युवा॑नम् ।
य इमं यज्ञं मन॑सा चिकेत प्र णो॑ वोचस्तमिहेह ब्र॑व: ॥१॥

 
तृतीयं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | आत्मा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अया विष्ठा जनयन्कर्व॑राणि स हि घृणि॑रुरुर्वरा॑य गातु: ।
स प्रत्युदै॑द्धरुणं मध्वो अग्रं स्वया॑ तन्वाद्ग तन्वद्गमैरयत ॥१॥
 
 

चतुर्थं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | वायुर्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


एक॑या च दशभि॑श्च सुहुते द्वाभ्या॑मिष्टये॑ विंशत्या च॑ ।
तिसृभि॑श्च वह॑से त्रिंशता॑ च वियुग्भि॑र्वाय इह ता वि मु॑ञ्च ॥१॥
 
 

पञ्चमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | आत्मा देवता: | प्रथमाद्वितीयापञ्चमीनामृचां त्रिष्टुप्  तृतीयाया: पङ्क्ति: चतुर्थ्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यज्ञेन॑ यज्ञम॑यजन्त देवास्तानि धर्मा॑णि प्रथमान्या॑सन् ।
ते ह नाकं॑ महिमान॑: सचन्त यत्र पूर्वे॑ साध्या: सन्ति॑ देवा: ॥१॥
यज्ञो ब॑भूव स आ ब॑भूव स प्र ज॑ज्ञे स उ॑ वावृधे पुन॑: ।
स देवानामधि॑पतिर्बभूव सो अस्मासु द्रवि॑णमा द॑धातु ॥२॥
यद्देवा देवान्हविषाऽय॑जन्ताम॑र्त्यान्मनसा म॑र्त्येन ।
मदे॑म तत्र॑ परमे व्योद्गमन्पश्ये॑म तदुदि॑तौ सूर्य॑स्य ॥३॥
यत्पुरु॑षेण हविषा॑ यज्ञं देवा अत॑न्वत ।
अस्ति नु तस्मादोजी॑यो यद्विहव्ये॑नेजिरे ॥४॥
मुग्धा देवा उत शुनाऽय॑जन्तोत गोरङ्गै॑: पुरुधाऽय॑जन्त ।
य इमं यज्ञं मन॑सा चिकेत प्र णो॑ वोचस्तमिहेह ब्र॑व: ॥५॥
 
 
 
षष्ठं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | अदितिर्देवता: |  प्रथमर्चस्त्रिष्टुप्  द्वितीयायाश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अदि॑तिर्द्यौरदि॑तिरन्तरि॑क्षमदि॑तिर्माता स पिता स पुत्र: ।
विश्वे॑ देवा अदि॑ति: पञ्च जना अदि॑तिर्जातमदि॑तिर्जनि॑त्वम् ॥१॥
महीमू षु मातरं॑ सुव्रताना॑मृतस्य पत्नीमव॑से हवामहे ।
तुविक्षत्रामजर॑न्तीमुरूचीं सुशर्मा॑णमदि॑तिं सुप्रणी॑तिम् ॥२॥
 
 
सप्तमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | अदितिर्देवता: | विराड्जगती छन्द:॥ (www.hindumantavya.blogspot.in)


सुत्रामा॑णं पृथिवीं द्याम॑नेहसं॑ सुशर्मा॑णमदि॑तिं सुप्रणी॑तिम् ।
दैवीं नावं॑ स्वरित्रामना॑गसो अस्र॑वन्तीमा रु॑हेमा स्वस्तये॑ ॥१॥
वाज॑स्य नु प्र॑सवे मातरं॑ महीमदि॑तिं नाम वच॑सा करामहे ।
यस्या॑ उपस्थ॑ उर्व१न्तरि॑क्षं सा न: शर्म॑ त्रिवरू॑थं नि य॑च्छात् ॥२॥
 
 
 
अष्टमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | अदितिर्देवता: | आर्सी जगती छन्द:॥ (www.hindumantavya.blogspot.in)


दिते॑: पुत्राणामदि॑तेरकारिषमव॑ देवानां॑ बृहताम॑नर्मणा॑म् ।
तेषां हि धाम॑ गभिषक्स॑मुद्रियं नैनान्नम॑सा परो अ॑स्ति कश्चन ॥१॥
 
 

नवमं सूक्तम्» एकर्चस्यास्य सूक्तस्योपरिबभ्रव ऋषि: | बृहस्पतिर्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


भद्रादधि श्रेय: प्रेहि बृहस्पति॑: पुरएता ते॑ अस्तु ।
अथेममस्या वर आ पृ॑थिव्या आरेश॑त्रुं कृणुहि सर्व॑वीरम् ॥१॥
 
 
 
दशमं सूक्तम्» चतुरृचस्यास्य सूक्तस्योपरिबभ्रव ऋषि: | पूषा देवता: | प्रथमाद्वितीययोरृचोस्त्रिष्टुप्  तृतीयायास्त्रिपदार्षी गायत्री चतुर्थ्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्रप॑थे पथाम॑जनिष्ट पूषा प्रप॑थे दिव: प्रप॑थे पृथिव्या: ।
उभे अभि प्रियत॑मे सधस्थे आ च परा॑ च चरति प्रजानन् ॥१॥
पूषेमा आशा अनु॑ वेद सर्वा: सो अस्माँ अभ॑यतमेन नेषत् ।
स्वस्तिदा आघृ॑णि: सर्व॑वीरोऽप्र॑युच्छन्पुर ए॑तु प्रजानन् ॥२॥
पूषन्तव॑ व्रते वयं न रि॑ष्येम कदा चन ।
स्तोतार॑स्त इह स्म॑सि ॥३॥
परि॑ पूषा परस्ताद्धस्तं॑ दधातु दक्षि॑णम् ।
पुन॑र्नो नष्टमाज॑तु सं नष्टेन॑ गमेमहि ॥४॥
 
 
 
एकादशं सूक्तम्» एकर्चस्यास्य सूक्तस्य शौनक ऋषि: | सरस्वती देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यस्ते स्तन॑: शशयुर्यो म॑योभूर्य: सु॑म्नयु: सुहवो य: सुदत्र॑: ।
येन विश्वा पुष्य॑सि वार्या॑णि सर॑स्वति तमिह धात॑वे क: ॥१॥
 
 

द्वादशं सूक्तम्» एकर्चस्यास्य सूक्तस्य शौनक ऋषि: | सरस्वती देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यस्ते॑ पृथु स्त॑नयित्नुर्य ऋष्वो दैव॑: केतुर्विश्व॑माभूष॑तीदम् ।
मा नो॑ वधीर्विद्युता॑ देव सस्यं मोत व॑धी रश्मिभि: सूर्य॑स्य ॥१॥
 
 

त्रयोदशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य शौनक ऋषि: |  प्रथमर्च: सभासमिती पितरो वा  द्वितीयाया: सभा  तृतीयाया इन्द्र:  चतुर्थ्याश्च मन्त्रोक्ता देवता: | प्रथमाया भुरिक्त्रिष्टुप्  द्वितीयादितृचस्य चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


सभा च॑ मा समि॑तिश्चावतां प्रजाप॑तेर्दुहितरौ॑ संविदाने ।
येना॑ संगच्छा उप॑ मा स शि॑क्षाच्चारु॑ वदानि पितर: संग॑तेषु ॥१॥
विद्म ते॑ सभे नाम॑ नरिष्टा नाम वा अ॑सि ।
ये ते के च॑ सभासदस्ते मे॑ सन्तु सवा॑चस: ॥२॥
एषामहं समासी॑नानां वर्चो॑ विज्ञानमा द॑दे ।
अस्या: सर्व॑स्या: संसदो मामि॑न्द्र भगिनं॑ कृणु ॥३॥
यद्वो मन: परा॑गतं यद्बद्धमिह वेह वा॑ ।
तद्व आ व॑र्तयामसि मयि॑ वो रमतां मन॑: ॥४॥
 
 
 
चतुर्दशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | सूर्यो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यथा सूर्यो नक्ष॑त्राणामुद्यंस्तेजां॑स्याददे ।
एवा स्त्रीणां च॑ पुंसां च॑ द्विषतां वर्च आ द॑दे ॥१॥
याव॑न्तो मा सपत्ना॑नामायन्तं॑ प्रतिपश्य॑थ ।
उद्यन्त्सूर्य॑ इव सुप्तानां॑ द्विषतां वर्च आ द॑दे ॥२॥
 
 

पञ्चदशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | सविता देवता: |  प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयायास्त्रिष्टुप्  चतुर्थ्याश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अभि त्यं देवं स॑वितार॑मोण्योद्ग: कविक्र॑तुम् ।
अर्चा॑मि सत्यस॑वं रत्नधामभि प्रियं मतिम् ॥१॥
ऊर्ध्वा यस्यामतिर्भा अदि॑द्युतत्सवी॑मनि ।
हिर॑ण्यपाणिरमिमीत सुक्रतु॑: कृपात्स्वद्ग: ॥२॥
सावीर्हि दे॑व प्रथमाय॑ पित्रे वर्ष्माण॑मस्मै वरिमाण॑मस्मै ।
अथास्मभ्यं॑ सवितर्वार्या॑णि दिवोदि॑व आ सु॑वा भूरि॑ पश्व: ॥३॥
दमू॑ना देव: स॑विता वरे॑ण्यो दधद्रत्नं दक्षं॑ पितृभ्य आयूं॑षि ।
पिबात्सोमं॑ ममद॑देनमिष्टे परि॑ज्मा चित्क्रमते अस्य धर्म॑णि ॥४॥
 
 
 
षोडशं सूक्तम्» एकर्चस्यास्य सूक्तस्य भृगुरृषि: । सविता देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


तां स॑वित: सत्यस॑वां सुचित्रामाहं वृ॑णे सुमतिं विश्ववा॑राम् ।
याम॑स्य कण्वो अदु॑हत्प्रपी॑नां सहस्र॑धारां महिषो भगा॑य ॥१॥
 
 
 
सप्तदशं सूक्तम्» एकर्चस्यास्य सूक्तस्य भृगुरृषि: । सविता देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


बृह॑स्पते सवि॑तर्वर्धयै॑नं ज्योतयै॑नं महते सौभ॑गाय ।
संशि॑तं चित्संतरं सं शि॑शाधि विश्व॑ एनमनु॑ मदन्तु देवा: ॥१॥
 
 
 
अष्टादशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य भृगुरृषि: । सविता मन्त्रोक्ता वा देवता: | प्रथमर्चस्त्रिपदार्षी गायत्री  द्वितीयाया अनुष्टुप् तृतीयाचतुर्थ्योश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


धाता द॑धातु नो रयिमीशा॑नो जग॑तस्पति॑: ।
स न॑: पूर्णेन॑ यच्छतु ॥१॥
धाता द॑धातु दाशुषे प्राचीं॑ जीवातुमक्षि॑ताम् ।
वयं देवस्य॑ धीमहि सुमतिं विश्वरा॑धस: ॥२॥
धाता विश्वा वार्या॑ दधातु प्रजाका॑माय दाशुषे॑ दुरोणे ।
तस्मै॑ देवा अमृतं सं व्य॑यन्तु विश्वे॑ देवा अदि॑ति: सजोषा॑: ॥३॥
धाता राति: स॑वितेदं जु॑षन्तां प्रजाप॑तिर्निधिप॑तिर्नो अग्नि: ।
त्वष्टा विष्णु॑: प्रजया॑ संरराणो यज॑मानाय द्रवि॑णं दधातु ॥४॥
 
 
 
एकोनविंशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | पर्जन्य: पृथिवी वा देवता: | प्रथमर्चश्चतुष्पदा भुरिगुष्णिक्  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्र न॑भस्व पृथिवि भिन्द्धी३दं दिव्यं नभ॑: ।
उत्नो दिव्यस्य॑ नो धातरीशा॑नो वि ष्या दृति॑म् ॥१॥
न घ्रंस्त॑ताप न हिमो ज॑घान प्र न॑भतां पृथिवी जीरदा॑नु: ।
आप॑श्चिदस्मै घृतमित्क्ष॑रन्ति यत्र सोम: सदमित्तत्र॑ भद्रम् ॥२॥
 
 
 
विंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ता देवता: | जगती छन्द:॥ (www.hindumantavya.blogspot.in)


प्रजाप॑तिर्जनयति प्रजा इमा धाता द॑धातु सुमनस्यमा॑न: ।
संजानाना: संम॑नस: सयो॑नयो मयि॑ पुष्टं पु॑ष्टपति॑र्दधातु ॥१॥
 
 
एकविंशं सूक्तम्» षडृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | अनुमतिर्देवता: | प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयायास्त्रिष्टुप्  चतुर्थ्या भुरिगनुष्टुप् पञ्चम्या जगती  षष्ठ्याश्चातिशाक्वरगर्भा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अन्वद्य नोऽनु॑मतिर्यज्ञं देवेषु॑ मन्यताम् ।
अग्निश्च॑ हव्यवाह॑नो भव॑तां दाशुषे मम॑ ॥१॥
अन्विद॑नुमते त्वं मंस॑से शं च॑ नस्कृधि ।
जुषस्व॑ हव्यमाहु॑तं प्रजां दे॑वि ररास्व न: ॥२॥
अनु॑ मन्यतामनुमन्य॑मान: प्रजाव॑न्तं रयिमक्षी॑यमाणम् ।
तस्य॑ वयं हेड॑सि मापि॑ भूम सुमृडीके अ॑स्य सुमतौ स्या॑म ॥३॥
यत्ते नाम॑ सुहवं॑ सुप्रणीतेऽनु॑मते अनु॑मतं सुदानु॑ ।
तेना॑ नो यज्ञं पि॑पृहि विश्ववारे रयिं नो॑ धेहि सुभगे सुवीर॑म् ॥४॥
एमं यज्ञमनु॑मतिर्जगाम सुक्षेत्रता॑यै सुवीरता॑यै सुजा॑तम् ।
भद्रा ह्यद्गस्या: प्रम॑तिर्बभूव सेमं यज्ञम॑वतु देवगो॑पा ॥५॥
अनु॑मति: सर्व॑मिदं ब॑भूव यत्तिष्ठ॑ति चर॑ति यदु॑ च विश्वमेज॑ति ।
तस्या॑स्ते देवि सुमतौ स्यामानु॑मते अनु हि मंस॑से न: ॥६॥
 
 
 

द्वाविंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आत्मा देवता: | पराशक्वरी विराड्गर्भा जगती छन्द:॥ (www.hindumantavya.blogspot.in)


समेत विश्वे वच॑सा पतिं॑ दिव एको॑ विभूरति॑थिर्जना॑नाम् ।
स पूर्व्यो नूत॑नमाविवा॑सत्तं व॑र्तनिरनु॑ वावृत एकमित्पुरु ॥१॥
 
 
 
त्रयोविंशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ता देवता: |  प्रथमर्चो द्विपदैकावसाना विराड्गायत्री  द्वितीयायाश्च त्रिपदानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अयं सहस्रमा नो॑ दृशे क॑वीनां मतिर्ज्योतिर्विध॑र्मणि ॥१॥
ब्रध्न: समीची॑रुषस: समै॑रयन् ।
अरेपस: सचे॑तस: स्वस॑रे मन्युमत्त॑माश्चिते गो: ॥२॥
 
 
 
चतुर्विंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य यम ऋषि: | दु:स्वप्ननाशनं देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


दौष्व॑प्न्यं दौर्जी॑वित्यं रक्षो॑ अभ्वद्गमराय्यद्ग: ।
दुर्णाम्नी: सर्वा॑ दुर्वाचस्ता अस्मन्ना॑शयामसि ॥१॥
 
 

पञ्चविंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | सविता देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यन्न इन्द्रो अख॑नद्यदग्निर्विश्वे॑ देवा मरुतो यत्स्वर्का: ।
तदस्मभ्यं॑ सविता सत्यध॑र्मा प्रजाप॑तिरनु॑मतिर्नि य॑च्छात् ॥१॥
 
 

षड्विंशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य मेधातिथिरृषि: । विष्णुर्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


ययोरोज॑सा स्कभिता रजां॑सि यौ वीर्यैद्गर्वीरत॑मा शवि॑ष्ठा ।
यौ पत्ये॑ते अप्र॑तीतौ सहो॑भिर्विष्णु॑मगन्वरु॑णं पूर्वहू॑ति: ॥१॥
यस्येदं प्रदिशि यद्विरोच॑ते प्र चान॑ति वि च चष्टे शची॑भि: ।
पुरा देवस्य धर्म॑णा सहो॑भिर्विष्णु॑मगन्वरु॑णं पूर्वहू॑ति: ॥२॥
 
 
 
सप्तविंशं सूक्तम्» अष्टार्चस्यास्य सूक्तस्य मेधातिथिरृषि: । विष्णुर्देवता: | प्रथमाष्टम्योरृचोस्त्रिष्टुप्  द्वितीयायास्त्रिपदा विराड्गायत्री तृतीयायास्त्र्यवसाना षट्पदा विराट् शक्वरी चतुर्थ्यादिचतसृणाञ्च गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


विष्णोर्नु कं प्रा वो॑चं वीर्याद्गणि य: पार्थि॑वानि विममे रजां॑सि ।
यो अस्क॑भायदुत्त॑रं सधस्थं॑ विचक्रमाणस्त्रेधोरु॑गाय: ॥१॥
प्र तद्विष्णु॑ स्तवते वीर्याद्गणि मृगो न भीम: कु॑चरो गि॑रिष्ठा: ।
परावत आ ज॑गम्यात्पर॑स्या: ॥२॥
यस्योरुषु॑ त्रिषु विक्रम॑णेष्वधिक्षियन्ति भुव॑नानि विश्वा॑ ।
उरु वि॑ष्णो वि क्र॑मस्वोरु क्षया॑य नस्कृधि ।
घृतं घृ॑तयोने पिब प्रप्र॑ यज्ञप॑तिं तिर ॥३॥
इदं विष्णुर्वि च॑क्रमे त्रेधा नि द॑धे पदा ।
समू॑ढमस्य पंसुरे ॥४॥
त्रीणि॑ पदा वि च॑क्रमे विष्णु॑र्गोपा अदा॑भ्य: ।
इतो धर्मा॑णि धारय॑न् ॥५॥
विष्णो: कर्मा॑णि पश्यत यतो॑ व्रतानि॑ पस्पशे ।
इन्द्र॑स्य युज्य: सखा॑ ॥६॥
तद्विष्णो॑: परमं पदं सदा॑ पश्यन्ति सूरय॑: ।
दिवीद्गव चक्षुरात॑तम् ॥७॥
दिवो वि॑ष्ण उत वा॑ पृथिव्या महो वि॑ष्ण उरोरन्तरि॑क्षात् ।
हस्तौ॑ पृणस्व बहुभि॑र्वसव्यै॑राप्रय॑च्छ दक्षि॑णादोत सव्यात् ॥८॥
 
 
 

अष्टाविंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य मेधातिथिरृषि: । इडा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


इडैवास्माँ अनु॑ वस्तां व्रतेन यस्या॑: पदे पुनते॑ देवयन्त॑: ।
घृतप॑दी शक्व॑री सोम॑पृष्ठोप॑ यज्ञम॑स्थित वैश्वदेवी ॥१॥
 
 
 
एकोनत्रिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य मेधातिथिरृषि: । वेदो देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


वेद: स्वस्तिर्द्रु॑घण: स्वस्ति: प॑रशुर्वेदि॑: परशुर्न॑: स्वस्ति ।
हविष्कृतो॑ यज्ञिया॑ यज्ञका॑मास्ते देवासो॑ यज्ञमिमं जु॑षन्ताम् ॥१॥
 
 
 
त्रिंशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य मेधातिथिरृषि: । मन्त्रोक्ता देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अग्ना॑विष्णू महि तद्वां॑ महित्वं पाथो घृतस्य गुह्य॑स्य नाम॑ ।
दमे॑दमे सप्त रत्ना दधा॑नौ प्रति॑ वां जिह्वा घृतमा च॑रण्यात् ॥१॥
अग्ना॑विष्णू महि धाम॑ प्रियं वां॑ वीथो घृतस्य गुह्या॑ जुषाणौ ।
दमे॑दमे सुष्टुत्या वा॑वृधानौ प्रति॑ वां जिह्वा घृतमुच्च॑रण्यात् ॥२॥
 
 
 
एकत्रिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | द्यावापृथिव्यौ मन्त्रोक्ता वा देवता: | बृहती छन्द:॥ (www.hindumantavya.blogspot.in)


स्वाक्तं॑ मे द्यावा॑पृथिवी स्वाक्तं॑ मित्रो अ॑करयम् ।
स्वाक्तं॑ मे ब्रह्म॑णस्पति: स्वाक्तं॑ सविता क॑रत् ॥१॥
 
 
 
द्वात्रिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | इन्द्रो देवता: | भुरिक्त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


इन्द्रोतिभि॑र्बहुलाभि॑र्नो अद्य या॑वच्छ्रेष्ठाभि॑र्मघवञ्छूर जिन्व ।
यो नो द्वेष्ट्यध॑र सस्प॑दीष्ट यमु॑ द्विष्मस्तमु॑ प्राणो ज॑हातु ॥१॥
 
 
 
त्रयस्त्रिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आयुर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


उप॑ प्रियं पनि॑प्नतं युवा॑नमाहुतीवृध॑म् ।
अग॑न्म बिभ्र॑तो नमो॑ दीर्घमायु॑: कृणोतु मे ॥१॥
 
 
चतुस्त्रिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मरुदादयो देवता: | पथ्यापङ्क्तिश्छन्द:॥ (www.hindumantavya.blogspot.in)


सं मा॑ सिञ्चन्तु मरुत: सं पूष सं बृहस्पति॑: ।
सं मायमग्नि: सि॑ञ्चतु प्रजया॑ च धने॑न च दीर्घमायु॑: कृणोतु मे ॥१॥
 
 

पञ्चत्रिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | जातवेदा देवता: | जगती छन्द:॥ (www.hindumantavya.blogspot.in)


अग्ने॑ जातान्प्र णु॑दा मे सपत्नान्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
अधस्पदं कृ॑णुष्व ये पृ॑तन्यवोऽना॑गसस्ते वयमदि॑तये स्याम ॥१॥
 
 

षड्विंशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | जातवेदा देवता: | प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्रान्यान्त्सपत्नान्त्सह॑सा सह॑स्व प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
इदं राष्ट्रं पि॑पृहि सौभ॑गाय विश्व॑ एनमनु॑ मदन्तु देवा: ॥१॥
इमा यास्ते॑ शतं हिरा: सहस्रं॑ धमनी॑रुत ।
तासां॑ ते सर्वा॑सामहमश्म॑ना बिलमप्य॑धाम् ॥२॥
परं योनेरव॑रं ते कृणोमि मा त्वा॑ प्रजाभि भून्मोत सूनु॑: ।
अस्वं१ त्वाप्र॑जसं कृणोम्यश्मा॑नं ते अपिधानं कृणोमि ॥३॥
 
 

सप्तत्रिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | अक्षि देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अक्ष्यौद्ग नौ मधु॑संकाशे अनी॑कं नौ समञ्ज॑नम् ।
अन्त: कृ॑ष्णुष्व मां हृदि मन इन्नौ॑ सहास॑ति ॥१॥
 
 

अष्टात्रिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अभि त्वा मनु॑जातेन दधा॑मि मम वास॑सा ।
यथाऽसो मम केव॑लो नान्यासां॑ कीर्तया॑श्चन ॥१॥
 
 

एकोनचत्वारिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | आसुरीवनस्पतिर्देवता: |  प्रथमाद्वितीयाचतुर्थीपञ्चमीनामृचामनुष्टुप्  तृतीयायाश्च चतुष्पदोष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


इदं ख॑नामि भेषजं मां॑पश्यम॑भिरोरुदम् ।
परायतो निवर्त॑नमायत: प्र॑तिनन्द॑नम् ॥१॥
येना॑ निचक्र आ॑सुरीन्द्रं॑ देवेभ्यस्परि॑ ।
तेना नि कु॑र्वे त्वामहं यथा तेऽसा॑नि सुप्रि॑या ॥२॥
प्रतीची सोम॑मसि प्रतीच्युत सूर्य॑म् ।
प्रतीची विश्वा॑न्देवान्तां त्वाच्छाव॑दामसि ॥३॥
अहं व॑दामि नेत्त्वं सभायामह त्वं वद॑ ।
ममेदसस्त्वं केव॑लो नान्यासां॑ कीर्तया॑श्चन ॥४॥
यदि वासि॑ तिरोजनं यदि॑ वा नद्यद्गस्तिर: ।
इयं ह मह्यं त्वामोष॑धिर्बद्ध्वेव न्यान॑यत् ॥५॥
 
 

चत्वारिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य प्रस्कण्व ऋषि: | मन्त्रोक्ता देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


दिव्यं सु॑पर्णं प॑यसं बृहन्त॑मपां गर्भं॑ वृषभमोष॑धीनाम् ।
अभीपतो वृष्ट्या तर्पय॑न्तमा नो॑ गोष्ठे र॑यिष्ठां स्था॑पयाति ॥१॥
 
 

एकचत्वारिंशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य प्रस्कण्व ऋषि: | सरस्वान् देवता: | प्रथमर्चो भुरिक्त्रिष्टुप्  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यस्य॑ व्रतं पशवो यन्ति सर्वे यस्य॑ व्रत उ॑पतिष्ठ॑न्त आप॑: ।
यस्य॑ व्रते पु॑ष्टपतिर्निवि॑ष्टस्तं सर॑स्वन्तमव॑से हवामहे ॥१॥
आ प्रत्यञ्चं॑ दाशुषे॑ दाश्वंसं सर॑स्वन्तं पुष्टपतिं॑ रयिष्ठाम् ।
रायस्पोषं॑ श्रवस्युं वसा॑ना इह हु॑वेम सद॑नं रयीणाम् ॥२॥
 
 
 
द्विचत्वारिंशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य प्रस्कण्व ऋषि: | श्येनो देवता: | प्रथमर्चो जगती  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अति धन्वान्यत्यपस्त॑तर्द श्येनो नृचक्षा॑ अवसानदर्श: ।
तरन्विश्वान्यव॑रा रजांसीन्द्रे॑ण सख्या॑ शिव आ ज॑गम्यात् ॥१॥
श्येनो नृचक्षा॑ दिव्य: सु॑पर्ण: सहस्र॑पाच्छतयो॑निर्वयोधा: ।
स नो नि य॑च्छाद्वसु यत्परा॑भृतमस्माक॑मस्तु पितृषु॑ स्वधाव॑त् ॥२॥
 
 

त्रिचत्वारिंशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य प्रस्कण्व ऋषि: | मन्त्रोक्ता देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


सोमा॑रुद्रा वि वृ॑हतं विषू॑चीममी॑वा या नो गय॑माविवेश॑ ।
बाधे॑थां दूरं निरृ॑तिं पराचै: कृतं चिदेन: प्र मु॑मुक्तमस्मत् ॥१॥
सोमा॑रुद्रा युवमेतान्यस्मद्विश्वा॑ तनूषु॑ भेषजानि॑ धत्तम् ।
अव॑ स्यतं मुञ्चतं यन्नो अस॑त्तनूषु॑ बद्धं कृतमेनो॑ अस्मत् ॥२॥
 
 
 
चतुश्चत्वारिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य प्रस्कण्व ऋषि: | वाग्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


शिवास्त एका अशि॑वास्त एका: सर्वा॑ बिभर्षि सुमनस्यमा॑न: ।
तिस्रो वाचो निहि॑ता अन्तरस्मिन्तासामेका वि प॑पातानु घोष॑म् ॥१॥
 
 
 
पञ्चचत्वारिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य प्रस्कण्व ऋषि: | मन्त्रोक्ता देवता: | भुरिक्त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


उभा जि॑ग्यथुर्न परा॑ जयेथे न परा॑ जिग्ये कतरश्चनैन॑यो: ।
इन्द्र॑श्च विष्णो यदप॑स्पृधेथां त्रेधा सहस्रं वि तदै॑रयेथाम् ॥१॥
 
 

षट्चत्वारिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य प्रस्कण्व ऋषि: | भेषजं देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


जना॑द्विश्वजनीना॑त्सिन्धुतस्पर्याभृ॑तम् ।
दूरात्त्वा॑ मन्य उद्भृ॑तमीर्ष्याया नाम॑ भेषजम् ॥१॥
 
 

सप्तचत्वारिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य प्रस्कण्व ऋषि: | मन्त्रोक्ता देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अग्नेरि॑वास्य दह॑तो दावस्य दह॑त: पृथ॑क् ।
एतामेतस्येर्ष्यामुद्राग्निमि॑व शमय ॥१॥
 
 

अष्टचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: |  प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


सिनी॑वालि पृथु॑ष्टुके या देवानामसि स्वसा॑ ।
जुषस्व॑ हव्यमाहु॑तं प्रजां दे॑वि दिदिड्ढि न: ॥१॥
या सु॑बाहु: स्व॑ङ्गुरि: सुषूमा॑ बहुसूव॑री ।
तस्यै॑ विश्पत्न्यै॑ हवि: सि॑नीवाल्यै जु॑होतन ॥२॥
या विश्पत्नीन्द्रमसि॑ प्रतीची॑ सहस्र॑स्तुकाभियन्ती॑ देवी ।
विष्णो॑: पत्नि तुभ्यं॑ राता हवींषि पतिं॑ देवि राध॑से चोदयस्व ॥३॥
 
 

एकोनपञ्चाशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: |  प्रथमर्चो जगती  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


कुहूं देवीं सुकृतं॑ विद्मनाप॑समस्मिन्यज्ञे सुहवा॑ जोहवीमि ।
सा नो॑ रयिं विश्ववा॑रं नि य॑च्छाद्ददा॑तु वीरं शतदा॑यमुक्थ्यद्गम् ॥१॥
कुहूर्देवाना॑ममृत॑स्य पत्नी हव्या॑ नो अस्य हविषो॑ जुषेत ।
शृनोतु॑ यज्ञमु॑शती नो॑ अद्य रायस्पोषं॑ चिकितुषी॑ दधातु ॥२॥
 
 

पञ्चाशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | जगती छन्द:॥ (www.hindumantavya.blogspot.in)


राकामहं सुहवा॑ सुष्टुती हु॑वे शृणोतु॑ न: सुभगा बोध॑तु त्मना॑ ।
सीव्यत्वप॑: सूच्याच्छि॑द्यमानया ददा॑तु वीरं शतदा॑यमुक्थ्यद्गम् ॥१॥
यास्ते॑ राके सुमतय॑: सुपेश॑सो याभिर्ददा॑सि दाशुषे वसू॑नि ।
ताभि॑र्नो अद्य सुमना॑ उपाग॑हि सहस्रापोषं सु॑भगे ररा॑णा ॥२॥
 
 
एकपञ्चाशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | देवपत्न्यो देवता: | प्रथमर्च आर्षी जगती  द्वितीयायाश्च चतुष्पदा पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


देवानां पत्नी॑रुशतीर॑वन्तु न: प्राव॑न्तु नस्तुजये वाज॑सातये ।
या: पार्थि॑वासो या अपामपि॑ व्रते ता नो॑ देवी: सुहवा: शर्म॑ यच्छन्तु ॥१॥
उत ग्ना व्य॑न्तु देवप॑त्नीरिन्द्राण्य१ग्नाय्यश्विनी राट् ।
आ रोद॑सी वरुणानी शृ॑णोतु व्यन्तु॑ देवीर्य ऋतुर्जनी॑नाम् ॥२॥
 
 
 

द्विपञ्चाशं सूक्तम्» नवर्चस्यास्य सूक्तस्याङ्गिरा ऋषि: | इन्द्रो देवता: | प्रथमाद्वितीयापञ्चम्यष्टमीनवमीनामृचामनुष्टुप्   तृतीयासप्तम्योस्त्रिष्टुप् चतुर्थ्या जगती  षष्ठ्याश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यथा॑ वृक्षमशनि॑र्विश्वाहा हन्त्य॑प्रति ।
एवाहमद्य कि॑तवानक्षैर्ब॑ध्यासमप्रति ॥१॥
तुराणामतु॑राणां विशामव॑र्जुषीणाम् ।
समैतु॑ विश्वतो भगो॑ अन्तर्हस्तं कृतं मम॑ ॥२॥
ईडे॑ अग्निं स्वाव॑सुं नमो॑भिरिह प्र॑सक्तो वि च॑यत्कृतं न॑: ।
रथै॑रिव प्र भ॑रे वाजय॑द्भि: प्रदक्षिणं मरुतां स्तोम॑मृध्याम् ॥३॥
वयं ज॑येम त्वया॑ युजा वृत॑मस्माकमंशमुद॑वा भरे॑भरे ।
अस्मभ्य॑मिन्द्र वरी॑य: सुगं कृ॑धि प्र शत्रू॑णां मघवन्वृष्ण्या॑ रुज ॥४॥
अजै॑षं त्वा संलि॑खितमजै॑षमुत संरुध॑म् ।
अविं वृको यथा मथ॑देवा म॑थ्नामि ते कृतम् ॥५॥
उत प्रहामति॑दीवा जयति कृतमि॑व श्वघ्नी वि चि॑नोति काले ।
यो देवका॑मो न धनं॑ रुणद्धि समित्तं राय: सृ॑जति स्वधाभि॑: ॥६॥
गोभि॑ष्टरेमाम॑तिं दुरेवां यवे॑न वा क्षुधं॑ पुरुहूत विश्वे॑ ।
वयं राज॑सु प्रथमा धनान्यरि॑ष्टासो वृजनीभि॑र्जयेम ॥७॥
कृतं मे दक्षि॑णे हस्ते॑ जयो मे॑ सव्य आहि॑त: ।
गोजिद्भू॑यासमश्वजिद्ध॑नंजयो हि॑रण्यजित् ॥८॥
अक्षा: फल॑वतीं द्युवं॑ दत्त गां क्षीरिणी॑मिव ।
सं मा॑ कृतस्य धार॑या धनु: स्नाव्ने॑व नह्यत ॥९॥
 
 
 

त्रिपञ्चाशं सूक्तम्» एकर्चस्यास्य सूक्तस्याङ्गिरा ऋषि: | इन्द्राबृहस्पती देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


बृहस्पति॑र्न: परि॑ पातु पश्चादुतोत्त॑रस्मादध॑रादघायो: ।
इन्द्र॑: पुरस्ता॑दुत म॑ध्यतो न: सखा सखि॑भ्यो वरी॑य: कृणोतु ॥१॥
 
 
 

चतुष्पञ्चाशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | सांमनस्यमश्विनौ च देवता: | प्रथमर्च: ककुम्मत्यनुष्टुप्  द्वितीयायाश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


संज्ञानं॑ न: स्वेभि॑: संज्ञानमर॑णेभि: ।
संज्ञान॑मश्विना युवमिहास्मासु नि य॑च्छतम् ॥१॥
सं जा॑नामहै मन॑सा सं चि॑कित्वा मा यु॑ष्महि मन॑सा दैव्ये॑न ।
मा घोषा उत्स्थु॑र्बहुले विनिर्ह॑ते मेषु॑: पप्तदिन्द्रस्याहन्याग॑ते ॥२॥
 
 
 
पञ्चपञ्चाशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आयु॑: बृहस्पत्यश्विनो वा देवता: |  प्रथमाद्वितीययोरृचोस्त्रिष्टुप्  तृतीयाया भुरिक्त्रिष्टुप् चतुर्थ्या उष्णिग्गर्भार्षी पङ्क्ति:  पञ्चम्यादितृचस्य चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अमुत्रभूयादधि यद्यमस्य बृह॑स्पतेरभिश॑स्तेरमुञ्च: ।
प्रत्यौ॑हतामश्विना॑ मृत्युमस्मद्देवाना॑मग्ने भिषजा शची॑भि: ॥१॥
सं क्रा॑मतं मा ज॑हीतं शरी॑रं प्राणापानौ ते॑ सयुजा॑विह स्ता॑म् ।
शतं जी॑व शरदो वर्ध॑मानोऽग्निष्टे॑ गोपा अ॑धिपा वसि॑ष्ठ: ॥२॥
आयुर्यत्ते अति॑हितं पराचैर॑पान: प्राण: पुनरा तावि॑ताम् ।
अग्निष्टदाहार्निरृ॑तेरुपस्थात्तदात्मनि पुनरा वे॑शयामि ते ॥३॥
मेमं प्राणो हा॑सीन्मो अ॑पानोद्गऽवहाय परा॑ गात् ।
सप्तर्षिभ्य॑ एनं परि॑ ददामि ते ए॑नं स्वस्ति जरसे॑ वहन्तु ॥४॥
प्र वि॑षतं प्राणापानावनड्वाहा॑विव व्रजम् ।
अयं ज॑रिम्ण: शे॑वधिररि॑ष्ट इह व॑र्धताम् ॥५॥
आ ते॑ प्राणं सु॑वामसि परा यक्ष्मं॑ सुवामि ते ।
आयु॑र्नो विश्वतो॑ दधदयमग्निर्वरे॑ण्य: ॥६॥
उद्वयं तम॑सस्परि रोह॑न्तो नाक॑मुत्तमम् ।
देवं दे॑वत्रा सूर्यमग॑न्म ज्योति॑रुत्तमम् ॥७॥
 
 
 
षट्पञ्चाशं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ऋक्सामनी देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

ऋचं साम॑ यजामहे याभ्यां कर्मा॑णि कुर्वते॑ ।
एते सद॑सि राजतो यज्ञं देवेषु॑ यच्छत: ॥१॥
 
 

सप्तपञ्चाशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य भृगुरृषि: । इन्द्रो देवता: |  प्रथमर्चोऽनुष्टुप् द्वितीयायाश्च विराट्परोष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


ऋचं साम यदप्रा॑क्षं हविरोजो यजुर्बल॑म् ।
एष मा तस्मान्मा हिं॑सीद्वेद॑: पृष्ट: श॑चीपते ॥१॥
ये ते पन्थानोऽव॑ दिवो येभिर्विश्वमैर॑य: ।
तेभि॑: सुम्नया धे॑हि नो वसो ॥२॥
 
 

अष्टपञ्चाशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमर्च: पादत्रयस्य तृतीयादिषण्णाञ्च मन्त्रोक्ता वृश्चिकादयो ब्रह्मणस्पतिर्वा   प्रथमायास्तुरीयपादस्य द्वितीयायाश्च वनस्पतिर्देवता: | प्रथमादितृचस्य पञ्चम्यादिचतसृणाञ्चानुष्टुप्  चतुर्थ्याश्च विराट् प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


तिर॑श्चिराजेरसितात्पृदा॑को: परि संभृ॑तम् ।
तत्कङ्कप॑र्वणो विषमियं वीरुद॑नीनशत् ॥१॥
इयं वीरुन्मधु॑जाता मधुश्चुन्म॑धुला मधू: ।
सा विह्रु॑तस्य भेषज्यथो॑ मशकजम्भ॑नी ॥२॥
यतो॑ दष्टं यतो॑ धीतं तत॑स्ते निर्ह्व॑यामसि ।
अर्भस्य॑ तृप्रदंशिनो॑ मशक॑स्यारसं विषम् ॥३॥
अयं यो वक्रो विप॑रुर्व्यद्गङ्गो मुखा॑नि वक्रा वृ॑जिना कृणोषि॑ ।
तानि त्वं ब्र॑ह्मणस्पते इषीका॑मिव सं न॑म: ॥४॥
अरसस्य॑ शर्कोट॑स्य नीचीन॑स्योपसर्प॑त: ।
विषं ह्य१स्यादिष्यथो॑ एनमजीजभम् ॥५॥
न ते॑ बाह्वोर्बल॑मस्ति न शीर्षे नोत म॑ध्यत: ।
अथ किं पापया॑ऽमुया पुच्छे॑ बिभर्ष्यर्भकम् ॥६॥
अदन्ति॑ त्वा पिपीलि॑का वि वृ॑श्चन्ति मयूर्यद्ग: ।
सर्वे॑ भल ब्रवाथ शार्को॑टमरसं विषम् ॥७॥
य उभाभ्यां॑ प्रहर॑सि पुच्छे॑न चास्येद्गन च ।
आस्ये३ न ते॑ विषं किमु॑ ते पुच्छधाव॑सत् ॥८॥
 
 
 
एकोनषष्टितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य वामदेव ऋषि: | सरस्वती देवता: | जगती छन्द:॥ (www.hindumantavya.blogspot.in)


यदाशसा वद॑तो मे विचुक्षुभे यद्याच॑मानस्य चर॑तो जनाँ अनु॑ ।
यदात्मनि॑ तन्वोद्ग मे विरि॑ष्टं सर॑स्वती तदा पृ॑णद्घृतेन॑ ॥१॥
सप्त क्ष॑रन्ति सिश॑वे मरुत्व॑ते पित्रे पुत्रासो अप्य॑वीवृतन्नृतानि॑ ।
उभे इद॑स्योभे अ॑स्य राजत उभे य॑तेते उभे अ॑स्य पुष्यत: ॥२॥
 
 

षष्टितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य कौरुपथिरृषि: । मन्त्रोक्ता देवता: | प्रथमर्चो जगती  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


इन्द्रा॑वरुणा सुतपाविमं सुतं सोमं॑ पिबतं मद्यं॑ धृतव्रतौ ।
युवो रथो॑ अध्वरो देववी॑तये प्रति स्वस॑रमुप॑ यातु पीतये॑ ॥१॥
इन्द्रा॑वरुणा मधु॑मत्तमस्य वृष्ण: सोम॑स्य वृषणा वृ॑षेथाम् ।
इदं वामन्ध: परि॑षिक्तमासद्यास्मिन्बर्हिषि॑ मादयेथाम् ॥२॥
 
 
 
एकषष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य बादरायणिरृषि: । अरिनाशनं देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यो न: शपादश॑पत: शप॑तो यश्च॑ न: शपा॑त् ।
वृक्ष इ॑व विद्युता॑ हत आ मूलादनु॑ शुष्यतु ॥१॥
 
 
 
द्विषष्टितमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | रम्यगृहा वास्तोष्पतिश्च देवता: | प्रथमर्च: परानुष्टुप्त्रिष्टुप्  द्वितीयादिषण्णाञ्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


ऊर्जं बिभ्र॑द्वसुवनि॑: सुमेधा अघो॑रेण चक्षु॑षा मित्रिये॑ण ।
गृहानैमि॑ सुमना वन्दमानो रम॑ध्वं मा बि॑भीत मत् ॥१॥
इमे गृहा म॑योभुव ऊर्ज॑स्वन्त: पय॑स्वन्त: ।
पूर्णा वामेन तिष्ठ॑न्तस्ते नो॑ जानन्त्वायत: ॥२॥
येषा॑मध्येति॑ प्रवसन्येषु॑ सौमनसो बहु: ।
गृहानुप॑ ह्वयामहे ते नो॑ जानन्त्वायत: ॥३॥
उप॑हूता भूरि॑धना: सखा॑य: स्वादुसं॑मुद: ।
अक्षुध्या अ॑तृष्या स्त गृहा मास्मद्बि॑भीतन ॥४॥
उप॑हूता इह गाव उप॑हूता अजावय॑: ।
अथो अन्न॑स्य कीलाल उप॑हूतो गृहेषु॑ न: ॥५॥
सूनृता॑वन्त: सुभगा इरा॑वन्तो हसामुदा: ।
अतृष्या अउ॑क्षुध्या स्त गृहा मास्मद्बि॑भीतन ॥६॥
इहैव स्त मानु॑ गात विश्वा॑ रूपाणि॑ पुष्यत ।
ऐष्या॑मि भद्रेणा॑ सह भूयां॑सो भवता मया॑ ॥७॥
 
 
 
त्रिषष्टितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यद॑ग्ने तप॑सा तप॑ उपतप्याम॑हे तप॑: ।
प्रिया: श्रुतस्य॑ भूयास्मायु॑ष्मन्त: सुमेधस॑: ॥१॥
अग्ने तप॑स्तप्यामह उप॑ तप्यामहे तप॑: ।
श्रुतानि॑ शृण्वन्तो॑ वयमायु॑ष्मन्त: सुमेधस॑: ॥२॥
 
 

चतु:षष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य कश्यपो मरीचिरृषि: । अग्निर्देवता: | जगती छन्द:॥ (www.hindumantavya.blogspot.in)


अयमग्नि: सत्प॑तिर्वृद्धवृ॑ष्णो रथीव॑ पत्तीन॑जयत्पुरोहि॑त: ।
नाभा॑ पृथिव्यां निहि॑तो दवि॑द्युतदधस्पदं कृ॑णुतां ये पृ॑तन्यव॑: ॥१॥
 
 
 
पञ्चषष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य कश्यपो मरीचिरृषि: । जातवेदा देवता: | जगती छन्द:॥ (www.hindumantavya.blogspot.in)


पृतनाजितं सह॑मानमग्निमुक्थ्यैर्ह॑वामहे परमात्सधस्था॑त् ।
स न॑: पर्षदति॑ दुर्गाणि विश्वा क्षाम॑द्देवोऽति॑ दुरितान्यग्नि: ॥१॥
 
 

षट्षष्टितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य यम ऋषि: | मन्त्रोक्ता निरृतिर्वा देवता: |  प्रथमर्चो भुरिगनुष्टुप्  द्वितीयायाश्च न्यङ्कुसारिणी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


इदं यत्कृष्ण: शकुनि॑रभिनिष्पतन्नपी॑पतत् ।
आपो॑ मा तस्मात्सर्व॑स्माद्दुरितात्पान्त्वंह॑स: ॥१॥
इदं यत्कृष्ण: शकुनि॑रवामृ॑क्षन्निरृते ते मुखे॑न ।
अग्निर्मा तस्मादेन॑सो गार्ह॑पत्य: प्र मु॑ञ्चतु ॥२॥
 
 
 

सप्तषष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्य शुक्र ऋषि: | अपामार्गवीरुद्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


प्रतीचीन॑फलो हि त्वमपा॑मार्ग रुरोहि॑थ ।
सर्वान्मच्छपथाँ अधि वरी॑यो यवया इत: ॥१॥
यद्दु॑ष्कृतं यच्छम॑लं यद्वा॑ चेरिम पापया॑ ।
त्वया तद्वि॑श्वतोमुखापा॑मार्गाप॑ मृज्महे ॥२॥
श्यावद॑ता कुनखिना॑ बण्डेन यत्सहासिम ।
अपा॑मार्ग त्वया॑ वयं सर्वं तदप॑ मृज्महे ॥३॥
 
 
 
अष्टषष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ब्राह्मणो देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यद्यन्तरि॑क्षे यदि वात आस यदि॑ वृक्षेषु यदि वोल॑पेषु ।
यदश्र॑वन्पशव॑ उद्यमा॑नं तद्ब्राह्म॑णं पुन॑रस्मानुपैतु॑ ॥१॥
 
 

एकोनसप्ततितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आत्मा देवता: | पुर:परोष्णिग्बृहती छन्द:॥ (www.hindumantavya.blogspot.in)


पुनर्मैत्वि॑न्द्रियं पुन॑रात्मा द्रवि॑णं ब्राह्म॑णं च ।
पुन॑रग्नयो धिष्ण्या॑ यथास्थाम क॑ल्पयन्तामिहैव ॥१॥
 
 

सप्ततितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य शन्तातिरृषि: । सरस्वती देवता: |  प्रथमर्चोऽनुष्टुप्  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


सर॑स्वति व्रतेषु॑ ते दिव्येषु॑ देवि धाम॑सु ।
जुषस्व॑ हव्यमाहु॑तं प्रजां दे॑वि ररास्व न: ॥१॥
इदं ते॑ हव्यं घृतव॑त्सरस्वतीदं पि॑तॄणां हविरास्यं१ यत् ।
इमानि॑ त उदिता शंत॑मानि तेभि॑र्वयं मधु॑मन्त: स्याम ॥२॥
 
 
 
एकसप्ततितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य शन्तातिरृषि: । सरस्वती देवता: | गायत्री छन्द:॥ (www.hindumantavya.blogspot.in)


शिवा न: शंत॑मा भव सुमृडीका स॑रस्वति ।
मा ते॑ युयोम संदृश॑: ॥१॥
 
 
द्विसप्ततितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य शन्तातिरृषि: । सुखं देवता: | पथ्यापङ्क्तिश्छन्द:॥ (www.hindumantavya.blogspot.in)

शं नो वातो॑ वातु शं न॑स्तपतु सूर्य॑: ।
अहा॑नि शं भ॑वन्तु न: शं रात्री प्रति॑ धीयतां शमुषा नो व्युद्गच्छतु ॥१॥
 
 

त्रिसप्ततितमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता: श्येनो वा देवता: | प्रथमर्चस्त्रिष्टुप्  द्वितीयाया अतिजगतीगर्भा जगती तृतीयाया: पुर:ककुम्मत्यनुष्टुप्  चतुर्थीपञ्चम्योश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यत्किं चासौ मन॑सा यच्च॑ वाचा यज्ञैर्जुहोति॑ हविषा यजु॑षा ।
तन्मृत्युना निरृ॑ति: संविदाना पुरा सत्यादाहु॑तिं हन्त्वस्य ॥१॥
यातुधाना निरृ॑तिरादु रक्षस्ते अ॑स्य घ्नन्त्वनृ॑तेन सत्यम् ।
इन्द्रे॑षिता देवा आज्य॑मस्य मथ्नन्तु मा तत्सं पा॑दि यदसौ जुहोति॑ ॥२॥
अजिराधिराजौ श्येनौ सं॑पातिना॑विव ।
आज्यं॑ पृतन्यतो ह॑तां यो न: कश्चा॑भ्यघायति॑ ॥३॥
अपा॑ञ्चौ त उभौ बाहू अपि॑ नह्याम्यास्यद्गम् ।
अग्नेर्देवस्य॑ मन्युना तेन॑ तेऽवधिषं हवि: ॥४॥
अपि॑ नह्यामि ते बाहू अपि॑ नह्याम्यास्यद्गम् ।
अग्नेर्घोरस्य॑ मन्युना तेन॑ऽवधिषं हवि: ॥५॥
 
 
 
चतु:सप्ततितमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


परि॑ त्वाग्ने पुरं॑ वयं विप्रं॑ सहस्य धीमहि ।
धृषद्व॑र्णं दिवेदि॑वे हन्तारं॑ भङ्गुराव॑त: ॥१॥
 
 

पञ्चसप्ततितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | इन्द्रो देवता: | प्रथमर्चोऽनुष्टुप्  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


उत्ति॑ष्ठताव॑ पश्यतेन्द्र॑स्य भागमृत्विय॑म् ।
यदि॑ श्रातं जुहोत॑न यद्यश्रा॑तं ममत्त॑न ॥१॥
श्रातं हविरो ष्वि॑न्द्र प्र या॑हि जगाम सूरो अध्व॑नो वि मध्य॑म् ।
परि॑ त्वासते निधिभि: सखा॑य: कुलपा न व्रा॑जपतिं चर॑न्तम् ॥२॥
 
 

षट्सप्ततितमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


श्रातं म॑न्य ऊध॑नि श्रातमग्नौ सुशृ॑तं मन्ये तदृतं नवी॑य: ।
माध्य॑न्दिनस्य सव॑नस्य दध्न: पिबे॑न्द्र वज्रिन्पुरुकृज्जु॑षाण: ॥१॥
 
 
 
सप्तसप्ततितमं सूक्तम्» एकादशर्चस्यास्य सूक्तस्याथर्वा ऋषि: | घर्मोऽश्विनौ॑ प्रत्यृचं मन्त्रोक्ता वा देवता: |   प्रथमाचतुर्थीषष्ठीनामृचां जगती  द्वितीयाया: पथ्याबृहती   तृतीयापञ्चम्यो: सप्तम्यादिपञ्चानाञ्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


समि॑द्धो अग्निर्वृ॑षणा रथी दिवस्तप्तो घर्मो दु॑ह्यते वामिषे मधु॑ ।
वयं हि वां॑ पुरुदमा॑सो अश्विना हवा॑महे सधमादे॑षु कारव॑: ॥१॥
समि॑द्धो अग्निर॑श्विना तप्तो वां॑ घर्म आ ग॑तम् ।
दुह्यन्ते॑ नूनं वृ॑षणेह धेनवो दस्रा मद॑न्ति वेधस॑: ॥२॥
स्वाहा॑कृत: शुचि॑र्देवेषु॑ यज्ञो यो अश्विनो॑श्चमसो दे॑वपान॑: ।
तमु विश्वे॑ अमृता॑सो जुषाणा ग॑न्धर्वस्य प्रत्यास्ना रि॑हन्ति ॥३॥
यदुस्रियास्वाहु॑तं घृतं पयोऽयं स वा॑मश्विना भाग आ ग॑तम् ।
माध्वी॑ धर्तारा विदथस्य सत्पती तप्तं घर्मं पि॑बतं रोचने दिव: ॥४॥
तप्तो वां॑ घर्मो न॑क्षतु स्वहो॑ता प्र वा॑मध्वर्युश्च॑रतु पय॑स्वान् ।
मधो॑र्दुग्धस्या॑श्विना तनाया॑ वीतं पातं पय॑स उस्रिया॑या: ॥५॥
उप॑ द्रव पय॑सा गोधुगोषमा घर्मे सि॑ञ्च पय॑ उस्रिया॑या: ।
वि नाक॑मख्यत्सविता वरे॑ण्योऽनुप्रयाण॑मुषसो वि रा॑जति ॥६॥
उप॑ ह्वये सुदुघां॑ धेनुमेतां सुहस्तो॑ गोधुगुत दो॑हदेनाम् ।
श्रेष्ठं॑ सवं स॑विता सा॑विषन्नोऽभीद्गद्धो घर्मस्तदु षु प्र वो॑चत् ॥७॥
हिङ्कृण्वती व॑सुपत्नी वसू॑नां वत्समिच्छन्ती मन॑सा न्याग॑न् ।
दुहामश्विभ्यां पयो॑ अघ्न्येयं सा व॑र्धतां महते सौभ॑गाय ॥८॥
जुष्टो दमू॑ना अति॑थिर्दुरोण इमं नो॑ यज्ञमुप॑ याहि विद्वान् ।
विश्वा॑ अग्ने अभियुजो॑ विहत्य॑ शत्रूयतामा भ॑रा भोज॑नानि ॥९॥
अग्ने शर्ध॑ महते सौभ॑गाय तव॑ द्युम्नान्यु॑त्तमानि॑ सन्तु ।
सं जा॑स्पत्यं सुयममा कृ॑णुष्व शत्रूयतामभि ति॑ष्ठा महां॑सि ॥१०॥
सूयवसाद्भग॑वती हि भूया अधा॑ वयं भग॑वन्त: स्याम ।
अद्धि तृण॑मघ्न्ये विश्वदानीं पिब॑ शुद्धमु॑दकमाचर॑न्ती ॥११॥
 
 
 
अष्टसप्ततितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | मन्त्रोक्ता जातवेदा वा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अपचितां लोहि॑नीनां कृष्णा मातेति॑ शुश्रुम ।
मुने॑र्देवस्य मूले॑न सर्वा॑ विध्यामि ता अहम् ॥१॥
विध्या॑म्यासां प्रथमां विध्या॑म्युत म॑ध्यमाम् ।
इदं ज॑घन्याद्गमासामा च्छि॑नद्मि स्तुका॑मिव ॥२॥
त्वाष्ट्रेणाहं वच॑सा वि त॑ ईर्ष्याम॑मीमदम् ।
अथो यो मन्युष्टे॑ पते तमु॑ ते शमयामसि ॥३॥
व्रतेन त्वं व्र॑तपते सम॑क्तो विश्वाहा॑ सुमना॑ दीदिहीह ।
तं त्वा॑ वयं जा॑तवेद: समि॑द्धं प्रजाव॑न्त उप॑ सदेम सर्वे॑ ॥४॥
 
 
 
एकोनाशीतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्योपरिबभ्रव ऋषि: | अघ्न्या देवता: | प्रथमर्चस्त्रिष्टुप्  द्वितीयायाश्च त्र्यवसाना भुरिक्पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्रजाव॑ती: सूयव॑से रुशन्ती॑: शुद्धा अप: सु॑प्रपाणे पिब॑न्ती: ।
मा व॑ स्तेन ई॑शत माघशं॑स: परि॑ वो रुद्रस्य॑ हेतिर्वृ॑णक्तु ॥१॥
पदज्ञा स्थ रम॑तय: संहि॑ता विश्वना॑म्नी: ।
उप॑ मा देवीर्देवेभिरेत॑ ।
इमं गोष्ठमिदं सदो॑ घृतेनास्मान्त्समु॑क्षत ॥२॥
 
 

अशीतितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | अपचिद्भैषज्यं देवता: |  प्रथमर्चो विराडनुष्टुप्  द्वितीयाया: परोष्णिक्  तृतीयाचतुर्थ्योश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


आ सुस्रस॑: सुस्रसो अस॑तीभ्यो अस॑त्तरा: ।
सेहो॑ररसत॑रा लवणाद्विक्ले॑दीयसी: ॥१॥
या ग्रैव्या॑ अपचितोऽथो या उ॑पपक्ष्याद्ग: ।
विजाम्नि या अ॑पचित॑: स्वयंस्रस॑: ॥२॥
य: कीक॑सा: प्रशृणाति॑ तलीद्यद्गमवतिष्ठ॑ति ।
निर्हास्तं सर्वं॑ जायान्यं य: कश्च॑ ककुदि॑ श्रित: ॥३॥
पक्षी जायान्य॑: पतति स आ वि॑शति पूरु॑षम् ।
तदक्षि॑तस्य भेषजमुभयो: सुक्ष॑तस्य च ॥४॥
 
 
 
एकाशीतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | जायान्य इन्द्रश्च देवता: | प्रथमर्चो भुरिगनुष्टुप्  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


विद्म वै ते॑ जायान्य जानं यतो॑ जायान्य जाय॑से ।
कथं ह तत्र त्वं ह॑नो यस्य॑ कृण्मो हविर्गृहे ॥१॥
धृषत्पि॑ब कलशे सोम॑मिन्द्र वृत्रहा शू॑र समरे वसू॑नाम् ।
माध्य॑न्दिने सव॑न आ वृ॑षस्व रयिष्ठानो॑ रयिमस्मासु॑ धेहि ॥२॥
 
 

द्व्यशीतितमं सूक्तम्» तृचस्यास्य सूक्तस्याङ्गिरा ऋषि: | मरुतो देवता: | प्रथमर्चस्त्रिपदा गायत्री  द्वितीयायास्त्रिष्टुप्  तृतीयायाश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


सांत॑पना इदं हविर्मरु॑तस्तज्जु॑जुष्टन ।
अस्माकोती रि॑शादसह् ॥१॥
यो नो मर्तो॑ मरुतो दुर्हृणायुस्तिरश्चित्तानि॑ वसवो जिघां॑सति ।
द्रुह: पाशान्प्रति॑ मुञ्चतां स तपि॑ष्ठेन तप॑सा हन्तना तम् ॥२॥
संवत्सरीणा॑ मरुत॑: स्वर्का उरुक्ष॑या: सग॑णा मानु॑षास: ।
ते अस्मत्पाशान्प्र मु॑ञ्चन्त्वेन॑स: सांतपना म॑त्सरा मा॑दयिष्णव॑: ॥३॥
 
 
 
त्र्यशीतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्देवता: | प्रथमर्च: परोष्णिक्  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


वि ते॑ मुञ्चामि रशनां वि योक्त्रं वि नियोज॑नम् ।
इहैव त्वमज॑स्र एध्यग्ने ॥१॥
अस्मै क्षत्राणि॑ धारय॑न्तमग्ने युनज्मि॑ त्वा ब्रह्म॑णा दैव्ये॑न ।
दीदिह्य१स्मभ्यं द्रवि॑णेह भद्रं प्रेमं वो॑चो हविर्दां देवता॑सु ॥२॥
 
 
 
चतुरशीतितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | अमावास्या देवता: | प्रथमर्चो जगती  द्वितीयादितृचस्य च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यत्ते॑ देवा अकृ॑ण्वन्भागधेयममा॑वास्ये संवस॑न्तो महित्वा ।
तेना॑ नो यज्ञं पि॑पृहि विश्ववारे रयिं नो॑ धेहि सुभगे सुवीर॑म् ॥१॥
अहमेवास्म्य॑मावास्या३ मामा व॑सन्ति सुकृतो मयीमे ।
मयि॑ देवा उभये॑ साद्याश्चेन्द्र॑ज्येष्ठा: सम॑गच्छन्त सर्वे॑ ॥२॥
आगन्रात्री॑ संगम॑नी वसू॑नामूर्जं॑ पुष्टं वस्वा॑वेशय॑न्ती ।
अमावास्याद्गयै हविषा॑ विधेमोर्जं दुहा॑ना पय॑सा न आग॑न् ॥३॥
अमा॑वास्ये न त्वदेतान्यन्यो विश्वा॑ रूपाणि॑ परिभूर्ज॑जान ।
यत्का॑मास्ते जुहुमस्तन्नो॑ अस्तु वयं स्या॑म पत॑यो रयीणाम् ॥४॥
 
 

पञ्चाशीतितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमाद्वितीयाचतुर्थीनामृचां पौर्णमासी  तृतीयायाश्च प्रजापतिर्देवता: | प्रथमातृतीयाचतुर्थीनां त्रिष्टुप्  द्वितीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


पूर्णा पश्चादुत पूर्णा पुरस्तादुन्म॑ध्यत: पौ॑र्णमासी जि॑गाय ।
तस्यां॑ देवै: संवस॑न्तो महित्वा नाक॑स्य पृष्ठे समिषा म॑देम ॥१॥
वृषभं वाजिनं॑ वयं पौ॑र्णमासं य॑जामहे ।
स नो॑ ददात्वक्षि॑तां रयिमनु॑पदस्वतीम् ॥२॥
प्रजा॑पते न त्वदेतान्यन्यो विश्वा॑ रूपाणि॑ परिभूर्ज॑जान ।
यत्का॑मास्ते जुहुमस्तन्नो॑ अस्तु वयं स्या॑म पत॑यो रयीणाम् ॥३॥
पौर्णमासी प्र॑थमा यज्ञिया॑सीदह्नां रात्री॑णामतिशर्वरेषु॑ ।
ये त्वां यज्ञैर्य॑ज्ञिये अर्धय॑न्त्यमी ते नाके॑ सुकृत: प्रवि॑ष्टा: ॥४॥
 
 
 

षडशीतितमं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: | सावित्री सूर्यश्चन्द्रमाश्च देवता: | प्रथमाद्वितीयाषष्ठीनामृचां त्रिष्टुप्  तृतीयाया अनुष्टुप् चतुर्थ्या आस्तारपङ्क्ति:  पञ्चम्याश्च सम्राडास्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


पूर्वापरं च॑रतो माययैतौ शिशू क्रीड॑न्तौ परि॑ यातोऽर्णवम् ।
विश्वान्यो भुव॑ना विचष्ट॑ ऋतूँरन्यो विदध॑ज्जायसे नव॑: ॥१॥
नवो॑नवो भवसि जाय॑मानोऽह्नां॑ केतुरुषसा॑मेष्यग्र॑म् ।
भागं देवेभ्यो वि द॑धास्यायन्प्र च॑न्द्रमस्तिरसे दीर्घमायु॑: ॥२॥
सोम॑स्यांशो युधां पतेऽनू॑नो नाम वा अ॑सि ।
अनू॑नं दर्श मा कृधि प्रजया॑ च धने॑न च ॥३॥
दर्शोद्गऽसि दर्शतोद्गऽसि सम॑ग्रोऽसि सम॑न्त: ।
सम॑ग्र: सम॑न्तो भूयासं गोभिरश्वै॑: प्रजया॑ पशुभि॑र्गृहैर्धने॑न ॥४॥
यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्या॑यस्व ।
आ वयं प्या॑शिषीमहि गोभिरश्वै॑: प्रजया॑ पशुभि॑र्गृहैर्धने॑न ॥५॥
यं देवा अंशुमा॑प्यायय॑न्ति यमक्षि॑तमक्षि॑ता भक्षय॑न्ति ।
तेनास्मानिन्द्रो वरु॑णो बृहस्पतिरा प्या॑ययन्तु भुव॑नस्य गोपा: ॥६॥
 
 

सप्ताशीतितमं सूक्तम्» षडृचस्यास्य सूक्तस्य शौनक ऋषि: | अग्निर्देवता: | प्रथमर्चश्चतुर्थ्यादितृचस्य च त्रिष्टुप्  द्वितीयाया: ककुम्मती बृहती तृतीयायाश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अभ्यद्गर्चत सुष्टुतिं गव्य॑माजिमस्मासु॑ भद्रा द्रवि॑णानि धत्त ।
इमं यज्ञं न॑यत देवता॑ नो घृतस्य धारा मधु॑मत्पवन्ताम् ॥१॥
मय्यग्रे॑ अग्निं गृ॑ह्णामि सह क्षत्रेण वर्च॑सा बले॑न ।
मयि॑ प्रजां मय्यायु॑र्दधामि स्वाहा मय्यग्निम् ॥२॥
इहैवाग्ने अधि॑ धारया रयिं मा त्वा नि क्रन्पूर्व॑चित्ता निकारिण॑: ।
क्षत्रेणा॑ग्ने सुयम॑मस्तु तुभ्य॑मुपसत्ता व॑र्धतां ते अनि॑ष्टृत: ॥३॥
अन्वग्निरुषसामग्र॑मख्यदन्वहा॑नि प्रथमो जातवे॑दा: ।
अनु सूर्य॑ उषसो अनु॑ रश्मीननु द्यावा॑पृथिवी आ वि॑वेश ॥४॥
प्रत्यग्निरुषसामग्र॑मख्यत्पत्यहा॑नि प्रथमो जातवे॑दा: ।
प्रति सूर्य॑स्य पुरुधा च॑ रश्मीन्प्रति द्यावा॑पृथिवी आ त॑तान ॥५॥
घृतं ते॑ अग्ने दिव्ये सधस्थे॑ घृतेन त्वां मनु॑रद्या समि॑न्धे ।
घृतं ते॑ देवीर्नप्त्य१ आ व॑हन्तु घृतं तुभ्यं॑ दुह्रतां गावो॑ अग्ने ॥६॥
 
 

अष्टाशीतितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य शुन:शेप ऋषि: | वरुणो देवता: | प्रथमर्चोऽनुष्टुप्  द्वितीयाया: पथ्यापङ्क्ति:  तृतीयायास्त्रिष्टुप् चतुर्थ्याश्च बृहतीगर्भा त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अप्सु ते॑ राजन्वरुण गृहो हि॑रण्ययो॑ मिथ: ।
ततो॑ धृतव्र॑तो राजा सर्वा धामा॑नि मुञ्चतु ॥१॥
दाम्नो॑दाम्नो राजन्नितो व॑रुण मुञ्च न: ।
यदापो॑ अघ्न्या इति वरुणेति यदू॑चिम ततो॑ वरुण मुञ्च न: ॥२॥
उदु॑त्तमं व॑रुण पाश॑मस्मदवा॑धमं वि म॑ध्यमं श्र॑थाय ।
अधा॑ वयमा॑दित्य व्रते तवाना॑गसो अदि॑तये स्याम ॥३॥
प्रास्मत्पाशा॑न्वरुण मुञ्च सर्वान्य उ॑त्तमा अ॑धमा वा॑रुणा ये ।
दुष्वप्न्यं॑ दुरितं नि ष्वास्मदथ॑ गच्छेम सुकृतस्य॑ लोकम् ॥४॥
 
 
 
एकोननवतितमं सूक्तम्» तृचस्यास्य सूक्तस्य भृगुरृषि: ।  प्रथमर्चोऽग्नि: द्वितीयातृतीययोश्चेन्द्रो देवता: |  प्रथमाया जगती द्वितीयातृतीययोश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अनाधृष्यो जातवे॑दा अम॑र्त्यो विराडग्ने क्षत्रभृद्दी॑दिहीह ।
विश्वा अमी॑वा: प्रमुञ्चन्मानु॑षीभि: शिवाभि॑रद्य परि॑ पाहि नो गय॑म् ॥१॥
इन्द्र॑ क्षत्रमभि वाममोजोऽजा॑यथा वृषभ चर्षणीनाम् ।
अपा॑नुदो जन॑ममित्रायन्त॑मुरुं देवेभ्यो॑ अकृणोरु लोकम् ॥२॥
मृगो न भीम: कु॑चरो गि॑रिष्ठा: प॑रावत आ ज॑गम्यात्पर॑स्या: ।
सृकं संशाय॑ पविमि॑न्द्र तिग्मं वि शत्रू॑न्ताढि वि मृघो॑ नुदस्व ॥३॥
 
 

नवतितमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | तार्क्ष्यो देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


त्यमू षु वाजिनं॑ देवजू॑तं सहो॑वानं तरुतारं रथा॑नाम् ।
अरि॑ष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्य॑मिहा हु॑वेम ॥१॥
 
 
एकनवतितमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


त्रातारमिन्द्र॑मवितारमिन्द्रं हवे॑हवे सुहवं शूरमिन्द्र॑म् ।
हुवे नु शक्रं पु॑रुहूतमिन्द्रं॑ स्वस्ति न इन्द्रो॑ मघवा॑न्कृणोतु ॥१॥
 
 

द्विनवतितमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | रुद्रो देवता: | जगती छन्द:॥ (www.hindumantavya.blogspot.in)


यो अग्नौ रुद्रो यो अप्स्व१न्तर्य ओष॑धीर्वीरुध॑ आविवेश॑ ।
य इमाविश्वा भुव॑नानि चाकॢपे तस्मै॑ रुद्राय नमो॑ अस्त्वग्नये॑ ॥१॥
 

त्रिनवतितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य गरुत्मानृषि: । तक्षको देवता: | त्र्यवसाना बृहती छन्द:॥ (www.hindumantavya.blogspot.in)


अपेह्यरि॑रस्यरिर्वा अ॑सि ।
विषे विषम॑पृक्था विषमिद्वा अ॑पृक्था: ।
अहि॑मेवाभ्यपे॑हि तं ज॑हि ॥१॥
 
 
चतुर्नवतितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य सिन्धुद्वीप ऋषि: | अग्निर्देवता: |  ३ प्रथमातृतीयाचतुर्थीनामृचामनुष्टुप्  द्वितीयायाश्च त्रिपदा निचृत्परोष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अपो दिव्या अ॑चायिषं रसे॑न सम॑पृक्ष्महि ।
पय॑स्वानग्न आग॑मं तं मा सं सृ॑ज वर्च॑सा ॥१॥
सं मा॑ग्ने वर्च॑सा सृज सं प्रजया समायु॑षा ।
विद्युर्मे॑ अस्य देवा इन्द्रो॑ विद्यात्सह ऋषि॑भि: ॥२॥
इदमा॑प: प्र व॑हतावद्यं च मलं॑ च यत् ।
यच्चा॑भिदुद्रोहानृ॑तं यच्च॑ शेपे अभीरु॑णम् ॥३॥
एधो॑ऽस्येधिषीय समिद॑सि समे॑धिषीय ।
तेजो॑ऽसि तेजो मयि॑ धेहि ॥४॥
 
 

पञ्चनवतितमं सूक्तम्» तृचस्यास्य सूक्तस्याङ्गिरा ऋषि: | मन्त्रोक्ता देवता: | प्रथमर्चो गायत्री  द्वितीयाया विराट् पुरस्ताद्बृहती तृतीयायाश्च त्र्यवसाना षट्पदा भुरिग्जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अपि॑ वृश्च पुराणवद्व्रतते॑रिव गुष्पितम् ।
ओजो॑ दासस्य॑ दम्भय ॥१॥
वयं तद॑स्य संभृ॑तं वस्विन्द्रे॑ण वि भ॑जामहै ।
म्लापया॑मि भ्रज: शिभ्रं वरु॑णस्य व्रतेन॑ ते ॥२॥
यथा शेपो॑ अपाया॑तै स्त्रीषु चासदना॑वया: ।
अवस्थस्य॑ क्नदीव॑त: शाङ्कुरस्य॑ नितोदिन॑: ।
यदात॑तमव तत्त॑नु यदुत्त॑तं नि तत्त॑नु ॥३॥
 
 
षण्णवतितमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


इन्द्र॑: सुत्रामा स्ववाँ अवो॑भि: सुमृडीको भ॑वतु विश्ववे॑दा: ।
बाध॑तां द्वेषो अभ॑यं न: कृणोतु सुवीर्य॑स्य पत॑य: स्याम ॥१॥
 
 
सप्तनवतितमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


स सुत्रामा स्ववाँ इन्द्रो॑ अस्मदाराच्चिद्द्वेष॑: सनुतर्यु॑योतु ।
तस्य॑ वयं सु॑मतौ यज्ञियस्यापि॑ भद्रे सौ॑मनसे स्या॑म ॥१॥
 
 
अष्टनवतितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (www.hindumantavya.blogspot.in)


इन्द्रे॑ण मन्युना॑ वयमभि ष्या॑म पृतन्यत: ।
घ्नन्तो॑ वृत्राण्य॑प्रति ॥१॥
 
 
 
नवनवतितमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | सोमो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


ध्रुवं ध्रुवेण॑ हविषाव सोमं॑ नयामसि ।
यथा॑ न इन्द्र: केव॑लीर्विश: संम॑नसस्कर॑त् ॥१॥
 
 
 
शततमं सूक्तम्» तृचस्यास्य सूक्तस्य कपिञ्जल ऋषि: | गृध्रौ देवता: |  प्रथमर्चोऽनुष्टुप्  द्वितीयातृतीययोश्च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


उद॑स्य श्यावौ वि॑थुरौ गृध्रौ द्यामि॑व पेततु: ।
उच्छोचनप्रशोचनवस्योच्छोच॑नौ हृद: ॥१॥
अहमे॑नावुद॑तिष्ठिपं गावौ॑ श्रान्तसदा॑विव ।
कुर्कुरावि॑व कूज॑न्तावुदव॑न्तौ वृका॑विव ॥२॥
आतोदिनौ॑ नितोदिनावथो॑ संतोदिना॑वुत ।
अपि॑ नह्याम्यस्य मेढ्रं य इत: स्त्री पुमा॑ञ्जभार॑ ॥३॥
 
 
 
एकोत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्य कपिञ्जल ऋषि: | वयो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अस॑दन्गाव: सदनेऽप॑प्तद्वसतिं वय॑: ।
आस्थाने पर्व॑ता अस्थु: स्थाम्नि॑ वृक्काव॑तिष्ठिपम् ॥१॥
 
 

द्व्युत्तरशततमं सूक्तम्» अष्टर्चस्यास्य सूक्तस्याथर्वा ऋषि: | इन्द्राग्नी देवता: | प्रथमादिचतसृणामृचां त्रिष्टुप्  पञ्चम्यास्त्रिपदार्ची भुरिग्गायत्री षष्ठ्यास्त्रिपदा प्राजापत्या बृहती  सप्तम्यास्त्रिपदा साम्नी भुरिग्जगती अष्टम्याश्चोपरिष्टाद्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


यदद्य त्वा॑ प्रयति यज्ञे अस्मिन्होत॑श्चिकित्वन्नवृ॑णीमहीह ।
ध्रुवम॑यो ध्रुवमुता श॑विष्ठ प्रविद्वान्यज्ञमुप॑ याहि सोम॑म् ॥१॥
समि॑न्द्र नो मन॑सा नेष गोभि: सं सूरिभि॑र्हरिवन्त्सं स्वस्त्या ।
सं ब्रह्म॑णा देवहि॑तं यदस्ति सं देवानां॑ सुमतौ यज्ञिया॑नाम् ॥२॥
यानाव॑ह उशतो दे॑व देवांस्तान्प्रेर॑य स्वे अ॑ग्ने सधस्थे॑ ।
जक्षिवांस॑: पपिवांसो मधू॑न्यस्मै ध॑त्त वसवो वसू॑नि ॥३॥
सुगा वो॑ देवा: सद॑ना अकर्म य आ॑जग्म सव॑ने मा जुषाणा: ।
वह॑माना भर॑माणा: स्वा वसू॑नि वसुं॑ घर्मं दिवमा रो॑हतानु॑ ॥४॥
यज्ञ॑ यज्ञं ग॑च्छ यज्ञप॑तिं गच्छ ।
स्वां योनिं॑ गच्छ स्वाहा॑ ॥५॥
एष ते॑ यज्ञो य॑ज्ञपते सहसू॑क्तवाक: ।
सुवीर्य: स्वाहा॑ ॥६॥
वष॑ड्धुतेभ्यो वषडहु॑तेभ्य: ।
देवा॑ गातुविदो गातुं वित्त्वा गातुमि॑त ॥७॥
मन॑सस्पत इमं नो॑ दिवि देवेषु॑ यज्ञम् ।
स्वाहा॑ दिवि स्वाहा॑ पृथिव्यां स्वाहान्तरि॑क्षे स्वाहा वाते॑ धां स्वाहा॑ ॥८॥
 
 
 
त्र्युत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | विराट्त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


सं बर्हिरक्तं हविषा॑ घृतेन समिन्द्रे॑ण वसु॑ना सं मरुद्भि॑: ।
सं देवैर्विश्वदे॑वेभिरक्तमिन्द्रं॑ गच्छतु हवि: स्वाहा॑ ॥१॥
 
 
 
चतुरुत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | भुरिक्त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


परि॑ स्तृणीहि परि॑ धेहि वेदिं मा जामिं मो॑षीरमुया शया॑नाम् ।
होतृषद॑नं हरि॑तं हिरण्ययं॑ निष्का एते यज॑मानस्य लोके ॥१॥
 
 
 
पञ्चोत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्य यम ऋषि: | दु:स्वप्ननाशनं देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


पर्याव॑र्ते दुष्वप्न्या॑त्पापात्स्वप्न्यादभू॑त्या: ।
ब्रह्माहमन्त॑रं कृण्वे परा स्वप्न॑मुखा: शुच॑: ॥१॥
 
 
 
षडुत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्य यम ऋषि: | दु:स्वप्ननाशनं देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यत्स्वप्ने अन्न॑मश्नामि न प्रातर॑धिगम्यते॑ ।
सर्वं तद॑स्तु मे शिवं नहि तद्दृष्यते दिवा॑ ॥१॥
 
 
 
सप्तोत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्य प्रजापतिरृषि: । मन्त्रोक्ता देवता: | विराट् पुरस्ताद्बृहती छन्द:॥ (www.hindumantavya.blogspot.in)


नमस्कृत्य द्यावा॑पृथिवीभ्या॑मन्तरि॑क्षाय मृत्यवे॑ ।
मेक्षाम्यूर्ध्वस्तिष्ठन्मा मा॑ हिंसिषुरीश्वरा: ॥१॥
 
 
 
अष्टोत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्य प्रजापतिरृषि: । ब्रह्मात्मा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


को अस्या नो॑ द्रुहोद्गऽवद्यव॑त्या उन्ने॑ष्यति क्षत्रियो वस्य॑ इच्छन् ।
को यज्ञका॑म: क उ पूर्ति॑काम: को देवेषु॑ वनुते दीर्घमायु॑: ॥१॥
 
 

नवोत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्य प्रजापतिरृषि: । ब्रह्मात्मा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


क: पृश्निं॑ धेनुं वरु॑णेन दत्तामथ॑र्वने सुदुघां नित्य॑वत्साम् ।
बृहस्पति॑ना सख्यंद्ग जुषाणो य॑थावशं तन्वद्ग: कल्पयाति ॥१॥
 
 

दशोत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अपक्रामन्पौरु॑षेयाद्वृणानो दैव्यं वच॑: ।
प्रणी॑तीरभ्याव॑र्तस्व विश्वे॑भि: सखि॑भि: सह ॥१॥
 
 
एकादशोत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | पूर्वार्धस्य मन्त्रोक्ता जातवेदा वा उत्तरार्धस्य च वरुणो देवता: | बृहतीगर्भा त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यदस्मृ॑ति चकृम किं चि॑दग्न उपारिम चर॑णे जातवेद: ।
तत॑: पाहि त्वं न॑: प्रचेत: शुभे सखि॑भ्यो अमृतत्वम॑स्तु न: ॥१॥
 

द्वादशोत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्य भृगुरृषि: । सूर्य आपो वा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अव॑ दिवस्ता॑रयन्ति सप्त सूर्य॑स्य रश्मय॑: ।
आप॑: समुद्रिया धारास्तास्ते शल्यम॑सिस्रसन् ॥१॥
 
 
त्रयोदशोत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य भृगुरृषि: । अग्निर्देवता: | प्रथमर्चो बृहतीगर्भा त्रिष्टुप्  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यो न॑स्तायद्दिप्स॑ति यो न॑ आवि: स्वो विद्वानर॑णो वा नो अग्ने ।
प्रतीच्येत्वर॑णी दत्वती तान्मैषा॑मग्ने वास्तु॑ भून्मो अप॑त्यम् ॥१॥
यो न॑: सुप्ताञ्जाग्र॑तो वाभिदासात्तिष्ठ॑तो वा चर॑तो जातवेद: ।
वैश्वानरेण॑ सयुजा॑ सजोषास्तान्प्रतीचो निर्द॑ह जातवेद: ॥२॥
 
 
 
चतुर्दशोत्तरशततमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य बादरायणिरृषि: । अग्निर्मन्त्रोक्ता वा देवता: | प्रथमर्चो विराट् पुरस्ताद्बृहती - द्वितीयातृतीयापञ्चमीषष्ठीनां त्रिष्टुप्  चतुर्थीसप्तम्योश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


इदमुग्राय॑ बभ्रवे नमो यो अक्षेषु॑ तनूवशी ।
घृतेन कलिं॑ शिक्षामि स नो॑ मृडातीदृशे॑ ॥१॥
घृतम॑प्सराभ्यो॑ वह त्वम॑ग्ने पांसूनक्षेभ्य: सिक॑ता अपश्च॑ ।
यथाभागं हव्यदा॑तिं जुषाणा मद॑न्ति देवा उभया॑नि हव्या ॥२॥
अप्सरस॑: सधमादं॑ मदन्ति हविर्धान॑मन्तरा सूर्यं॑ च ।
ता मे हस्तौ सं सृ॑जन्तु घृतेन॑ सपत्नं॑ मे कितवं र॑न्धयन्तु ॥३॥
आदिनवं प्र॑तिदीव्ने॑ घृतेनास्माँ अभि क्ष॑र ।
वृक्षमि॑वाशन्या॑ जहि यो अस्मान्प्र॑तिदीव्य॑ति ॥४॥
यो नो॑ द्युवे धन॑मिदं चकार यो अक्षाणां ग्लह॑नं शेष॑णं च ।
स नो॑ देवो हविरिदं जु॑षाणो ग॑न्धर्वेभि॑: सधमादं॑ मदेम ॥५॥
संव॑सव इति॑ वो नामधेय॑मुग्रंपश्या रा॑ष्ट्रभृतो ह्य१क्षा ।
तेभ्यो॑ व इन्दवो हविषा॑ विधेम वयं स्या॑म पत॑यो रयीणाम् ॥६॥
देवान्यन्ना॑थितो हुवे ब्र॑ह्मचर्यं यदू॑षिम ।
अक्षान्यद्बभ्रूनालभे ते नो॑ मृडन्त्वीदृशे॑ ॥७॥
 
 

पञ्चदशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य भृगुरृषि: । इन्द्राग्नी देवता: |  प्रथमर्चो गायत्री द्वितीयायास्त्रिष्टुप्  तृतीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अग्न इन्द्र॑श्च दाशुषे॑ हतो वृत्राण्य॑प्रति ।
उभा हि वृ॑त्रहन्त॑मा ॥१॥
याभ्यामज॑यन्त्स्व१रग्र॑ एव यावा॑तस्थतुर्भुव॑नानि विश्वा॑ ।
प्रच॑र्षणीवृष॑णा वज्र॑बाहू अग्निमिन्द्रं॑ वृत्रहणा॑ हुवेऽहम् ॥२॥
उप॑ त्वा देवो अ॑ग्रमीच्चमसेन बृहस्पति॑: ।
इन्द्र॑ गीर्भिर्न आ वि॑श यज॑मानाय सुन्वते ॥३॥
 
 
 
षोडशोत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | वृषभो देवता: | पराबृहती त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


इन्द्र॑स्य कुक्षिर॑सि सोमधान॑ आत्मा देवाना॑मुत मानु॑षाणाम् ।
इह प्रजा ज॑नय यास्त॑ आसु या अन्यत्रेह तास्ते॑ रमन्ताम् ॥१॥
 
 

सप्तदशोत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य वरुण ऋषि: | आपो देवता: | प्रथमर्चो भुरिगनुष्टुप्  द्वितीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


शुम्भ॑नी द्यावा॑पृथिवी अन्ति॑सुम्ने महि॑व्रते ।
आप॑: सप्त सु॑स्रुवुर्देवीस्ता नो॑ मुञ्चन्त्वंह॑स: ॥१॥
मुञ्चन्तु॑ मा शपथ्या३दथो॑ वरुण्याद्गदुत ।
अथो॑ यमस्य पड्वी॑शाद्विश्व॑स्माद्देवकिल्बिषात् ॥२॥
 
 
 
अष्टादशोत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य भार्गव ऋषि: | तृष्टिका देवता: |  प्रथमर्चो विराडनुष्टुप्  द्वितीयायाश्च शङ्कुमती चतुष्पदा भुरिगुष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


तृष्टि॑के तृष्ट॑वन्दन उदमूं छि॑न्धि तृष्टिके ।
यथा॑ कृतद्विष्टासोऽमुष्मै॑ शेप्याव॑ते ॥१॥
तृष्टासि॑ तृष्टिका विषा वि॑षातक्यद्गसि ।
परि॑वृक्ता यथास॑स्यृषभस्य॑ वशेव॑ ॥२॥
 
 

एकोनविंशत्युत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य भार्गव ऋषि: | अग्नीषोमौ देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


आ ते॑ ददे वक्षणा॑भ्य आ तेऽहं हृद॑याद्ददे ।
आ ते मुख॑स्य सङ्का॑शात्सर्वं॑ ते वर्च आ द॑दे ॥१॥
प्रेतो य॑न्तु व्याद्गध्य: प्रानुध्या: प्रो अश॑स्तय: ।
अग्नी र॑क्षस्विनी॑र्हन्तु सोमो॑ हन्तु दुरस्यती: ॥२॥
 
 

विंशत्युत्तरशततमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | सविता जातवेदाश्च देवता: | प्रथमाचतुर्थ्योरृचोरनुष्टुप्  द्वितीयातृतीययोश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्र प॑तेत: पा॑पि लक्ष्मि नश्येत: प्रामुत॑: पत ।
अयस्मये॑नाङ्केन॑ द्विषते त्वा स॑जामसि ॥१॥
या मा॑ लक्ष्मी: प॑तयालूरजु॑ष्टाभिचस्कन्द वन्द॑नेव वृक्षम् ।
अन्यत्रास्मत्स॑वितस्तामितो धा हिर॑ण्यहस्तो वसु॑ नो ररा॑ण: ॥२॥
एक॑शतं लक्ष्म्यो३ मर्त्य॑स्य साकं तन्वाद्ग जनुषोऽधि॑ जाता: ।
तासां पापि॑ष्ठा निरित: प्र हि॑ण्म: शिवा अस्मभ्यं॑ जातवेदो निय॑च्छ ॥३॥
एता ए॑ना व्याक॑रं खिले गा विष्ठि॑ता इव ।
रम॑न्तां पुण्या॑ लक्ष्मीर्या: पापीस्ता अ॑नीनशम् ॥४॥
 
 

एकविंशत्युत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | चन्द्रमा देवता: | प्रथमर्च: परोष्णिक्  द्वितीयायाश्चैकावसाना द्विपदार्च्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


नमो॑ रूराय च्यव॑नाय नोद॑नाय धृष्णवे॑ ।
नम॑: शीताय॑ पूर्वकामकृत्व॑ने ॥१॥
यो अ॑न्येद्युरु॑भयद्युरभ्येतीमं मण्डूक॑मभ्येद्गत्वव्रत: ॥२॥
 
 

द्वाविंशत्युत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | इन्द्रो देवता: | पथ्याबृहती छन्द:॥ (www.hindumantavya.blogspot.in)


आ मन्द्रैरि॑न्द्र हरि॑भिर्याहि मयूर॑रोमभि: ।
मा त्वा के चिद्वि य॑मन्विं न पाशिनोऽति धन्वे॑व ताँ इ॑हि ॥१॥
 
 
त्रयोविंशत्युत्तरशततमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | मन्त्रोक्ता चन्द्रमा वा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


मर्मा॑णि ते वर्म॑णा छादयामि सोम॑स्त्वा राजामृतेनानु॑ वस्ताम् ।
उरोर्वरी॑यो वरु॑णस्ते कृणोतु जय॑न्तं त्वानु॑ देवा म॑दन्तु ॥१॥
 

॥ इति सप्तमं काण्डम् ॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *