HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् ६ (Atharvved Kand 6)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥ अथ षष्ठं काण्डम् ॥
 


प्रथमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | सविता देवता: | प्रथमर्चस्त्रिपदा पिपीलिकमध्या साम्नी जगती द्वितीयातृतीययोश्च पिपीलिकमध्या पुर उष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


दोषो गा॑य बृहद्गा॑य द्युमद्धे॑हि ।
आथ॑र्वण स्तुहि देवं स॑वितार॑म् ॥१॥
तमु॑ ष्टुहि यो अन्त: सिन्धौ॑ सूनु: ।
सत्यस्य युवा॑नमद्रो॑घवाचं सुशेव॑म् ॥२॥
स घा॑ नो देव: स॑विता सा॑विषदमृता॑नि भूरि॑ ।
उभे सु॑ष्टुती सुगात॑वे ॥३॥
 
 
द्वितीयं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | सोमो वनस्पतिर्देवता: | परोष्णिक् छन्द:॥ (www.hindumantavya.blogspot.in)


 
इन्द्रा॑य सोम॑मृत्विज: सुनोता च॑ धावत ।
स्तोतुर्यो वच॑: शृणवद्धवं॑ च मे ॥॥
आ यं विशन्तीन्द॑वो वयो न वृक्षमन्ध॑स: ।
विर॑प्शिन्वि मृधो॑ जहि रक्षस्विनी॑: ॥२॥
सुनोता॑ सोमपाव्ने सोममिन्द्रा॑य वज्रिणे॑ ।
युवा जेतेशा॑न: स पु॑रुष्टुत: ॥३॥
 
 
तृतीयं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | प्रथमर्च: पथ्याबृहती  द्वितीययोश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


पातं न॑ इन्द्रापूषणादि॑ति: पान्तु॑ मरुत॑: ।
अपां॑ नपात्सिन्धव: सप्त पा॑तन पातु॑ नो विष्णु॑रुत द्यौ: ॥१॥
पातां नो द्यावा॑पृथिवी अभिष्ट॑ये पातु ग्रावा पातु सोमो॑ नो अंह॑स: ।
पातु॑ नो देवी सुभगा सर॑स्वती पात्वग्नि: शिवा ये अ॑स्य पायव॑: ॥२॥
पातां नो॑ देवाश्विना॑ शुभस्पती॑ उषासानक्तोत न॑ उरुष्यताम् ।
अपां॑ नपादभि॑ह्रुती गय॑स्य चिद्देव॑ त्वष्टर्वर्धय॑ सर्वता॑तये ॥३॥
 
 
 
चतुर्थं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | प्रथमर्च: पथ्याबृहती  द्वितीयाया: संस्तारपङ्क्ति: तृतीयायाश्च त्रिपदा विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


त्वष्टा॑ मे दैव्यं वच॑: पर्जन्यो ब्रह्म॑णस्पति॑: ।
पुत्रैर्भ्रातृ॑भिरदि॑तिर्नु पा॑तु नो दुष्टरं त्राय॑माणं सह॑: ॥१॥
अंशो भगो वरु॑णो मित्रो अ॑र्यमादि॑ति: पान्तु॑ मरुत॑: ।
अप तस्य द्वेषो॑ गमेदभिह्रुतो॑ यावयच्छत्रुमन्ति॑तम् ॥२॥
धिये सम॑श्विना प्राव॑तं न उरुष्या ण॑ उरुज्मन्नप्र॑युच्छन् ।
द्यौ३ष्पित॑र्यावय॑ दुछुना या ॥३॥
 
 
 
पञ्चमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: |   प्रथमातृतीययोरृचोरग्नि: द्वितीयायाश्चेन्द्रो देवते ।   प्रथमातृतीययोरनुष्टुप् द्वितीयायाश्च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


उदे॑नमुत्तरं नयाग्ने॑ घृतेना॑हुत ।
समे॑नं वर्च॑सा सृज प्रजया॑ च बहुं कृ॑धि ॥१॥
इन्द्रेमं प्र॑तरं कृ॑धि सजाताना॑मसद्वशी ।
रायस्पोषे॑ण सं सृ॑ज जीवात॑वे जरसे॑ नय ॥२॥
यस्य॑ कृण्मो हविर्गृहे तम॑ग्ने वर्धया त्वम् ।
तस्मै सोमो अधि॑ ब्रवदयं च ब्रह्म॑णस्पति॑: ॥३॥
 
 
 
षष्ठं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमर्चो ब्रह्मणस्पति: द्वितीयातृतीययोश्च सोमो देवते । अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यो३ऽस्मान्ब्र॑ह्मणस्पतेऽदे॑वो अभिमन्य॑ते ।
सर्वं तं र॑न्धयासि मे यज॑मानाय सुन्वते ॥१॥
यो न॑: सोम सुशंसिनो॑ दु:शंस॑ आदिदे॑शति ।
वज्रे॑णास्य मुखे॑ जहि स संपि॑ष्टो अपा॑यति ॥२॥
यो न॑: सोमाभिदास॑ति सना॑भिर्यश्च निष्ट्य॑: ।
अप तस्य बलं॑ तिर महीव द्यौर्व॑धत्मना॑ ॥३॥
 
 

सप्तमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमाद्वितीययोरृचो: सोम: तृतीयायाश्च विश्वे देवा देवता: |  प्रथमाया निचृद्गायत्री द्वितीयातृतीययोश्च गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


येन॑ सोमादि॑ति: पथा मित्रा वा यन्त्यद्रुह॑: ।
तेना नोऽवसा ग॑हि ॥१॥
येन॑ सोम साहन्त्यासु॑रान्रन्धया॑सि न: ।
तेना॑ नो अधि॑ वोचत ॥२॥
येन॑ देवा असु॑राणामोजांस्यवृ॑णीध्वम् ।
तेना॑ न: शर्म॑ यच्छत ॥३॥
 
 

अष्टमं सूक्तम्» तृचस्यास्य सूक्तस्य जमदग्निरृषि: । कामात्मा देवता: | पथ्यापङ्क्तिश्छन्द:॥ (www.hindumantavya.blogspot.in)


यथा॑ वृक्षं लिबु॑जा समन्तं प॑रिषस्वजे ।
एवा परि॑ ष्वजस्व मां यथा मां कामिन्यसो यथा मन्नाप॑गा अस॑: ॥१॥
यथा॑ सुपर्ण: प्रपत॑न्पक्षौ निहन्ति भूम्या॑म् ।
एवा नि ह॑न्मि ते मनो यथा मां कामिन्यसो यथा मन्नाप॑गा अस॑: ॥२॥
यथेमे द्यावा॑पृथिवी सद्य: पर्येति सूर्य॑: ।
एवा पर्ये॑मि ते मनो यथा मां कामिन्यसो यथा मन्नाप॑गा अस॑: ॥३॥
 
 

नवमं सूक्तम्» तृचस्यास्य सूक्तस्य जमदग्निरृषि: । कामात्मा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


वाञ्छ॑ मे तन्वं१ पादौ वाञ्छाक्ष्यौ३ वाञ्छ॑ सक्थ्यौद्ग ।
अक्ष्यौद्ग वृषण्यन्त्या: केशा मां ते कामे॑न शुष्यन्तु ॥१॥
मम॑ त्वा दोषणिश्रिषं॑ कृणोमि॑ हृदयश्रिष॑म् ।
यथा मम क्रतावसो मम॑ चित्तमुपाय॑सि ॥२॥
यासां नाभि॑रारेह॑णं हृदि संवन॑नं कृतम् ।
गावो॑ घृतस्य॑ मातरोऽमूं सं वा॑नयन्तु मे ॥३॥
 
 
 
दशमं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: ।  प्रथमर्चोऽग्नि: द्वितीयाया वायु:  तृतीयायाश्च सूर्यो देवता: |  प्रथमाया: साम्नी त्रिष्टुप्  द्वितीयाया: प्राजापत्या बृहती  तृतीयायाश्च साम्नी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


पृथिव्यै श्रोत्रा॑य वनस्पति॑भ्योऽग्नयेऽधि॑पतये स्वाहा॑ ॥१॥
प्राणायान्तरि॑क्षाय वयो॑भ्यो वायवेऽधि॑पतये स्वाहा॑ ॥२॥
दिवे चक्षु॑षे नक्ष॑त्रेभ्य: सूर्यायाधि॑पतये स्वाहा॑ ॥३॥
 
 
 
एकादशं सूक्तम्» तृचस्यास्य सूक्तस्य प्रजापतिरृषि: । रेतो मन्त्रोक्ता वा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


शमीम॑श्वत्थ आरू॑ढस्तत्र॑ पुंसुव॑नं कृतम् ।
तद्वै पुत्रस्य वेद॑नं तत्स्त्रीष्वा भ॑रामसि ॥१॥
पुंसि वै रेतो॑ भवति तत्स्त्रियामनु॑ षिच्यते ।
तद्वै पुत्रस्य वेद॑नं तत्प्रजाप॑तिरब्रवीत् ॥२॥
प्रजाप॑तिरनु॑मति: सिनीवाल्यद्गचीकॢपत् ।
स्त्रैषू॑यमन्यत्र दधत्पुमां॑समु दधदिह ॥३॥
 
 

द्वादशं सूक्तम्» तृचस्यास्य सूक्तस्य गरुत्मानृषि: । तक्षको देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


परि द्यामि॑व सूर्योऽही॑नां जनि॑मागमम् ।
रात्री जग॑दिवान्यद्धंसात्तेना॑ ते वारये विषम् ॥१॥
यद्ब्रह्मभिर्यदृषि॑भिर्यद्देवैर्वि॑दितं पुरा ।
यद्भूतं भव्य॑मासन्वत्तेना॑ ते वारये विषम् ॥२॥
मध्वा॑ पृञ्चे नद्य१ पर्व॑ता गिरयो मधु॑ ।
मधु परु॑ष्णी शीपा॑ला शमास्ने अ॑स्तु शं हृदे ॥३॥
 
 
 

त्रयोदशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | मृत्युर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


नमो॑ देववधेभ्यो नमो॑ राजवधेभ्य॑: ।
अथो ये विश्या॑नां वधास्तेभ्यो॑ मृत्यो नमो॑ऽस्तु ते ॥१॥
नम॑स्ते अधिवाकाय॑ परावाकाय॑ ते नम॑: ।
सुमत्यै मृ॑त्यो ते नमो॑ दुर्मत्यै त॑ इदं नम॑: ॥२॥
नम॑स्ते यातुधाने॑भ्यो नम॑स्ते भेषजेभ्य॑: ।
नम॑स्ते मृत्यो मूले॑भ्यो ब्राह्मणेभ्य॑ इदं नम॑: ॥३॥
 
 

चतुर्दशं सूक्तम्» तृचस्यास्य सूक्तस्य बभ्रुपिङ्गल ऋषि: | बलासो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अस्थिस्रंसं प॑रुस्रंसमास्थि॑तं हृदयामयम् ।
बलासं सर्वं॑ नाशयाङ्गेष्ठा यश्च पर्व॑सु ॥१॥
निर्बलासं॑ बलासिन॑: क्षिणोमि॑ मुष्करं य॑था ।
छिनद्म्य॑स्य बन्ध॑नं मूल॑मुर्वार्वा इ॑व ॥२॥
निर्ब॑लासेत: प्र प॑ताशुंग: शि॑शुको य॑था ।
अथो इट॑ इव हायनोऽप॑ द्राह्यवी॑रहा ॥३॥
 
 

पञ्चदशं सूक्तम्» तृचस्यास्य सूक्तस्योद्दालक ऋषि: | वनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


उत्तमो अस्योष॑धीनां तव॑ वृक्षा उ॑पस्तय॑: ।
उपस्तिर॑स्तु सो३ऽस्माकं यो अस्माँ अ॑भिदास॑ति ॥१॥
सब॑न्धुश्चास॑बन्धुश्च यो अस्माँ अ॑भिदास॑ति ।
तेषां सा वृक्षाणा॑मिवाहं भू॑यासमुत्तम: ॥२॥
यथा सोम ओष॑धीनामुत्तमो हविषां॑ कृत: ।
तलाशा॑ वृक्षाणा॑मिवाहं भू॑यासमुत्तम: ॥३॥
 
 
 
षोडशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य शौनक ऋषि: | मन्त्रोक्ताश्चन्द्रमा वा देवता: | प्रथमर्चो निचृत्त्रिपदा गायत्री  द्वितीयाया अनुष्टुप्  तृतीयाया बृहतीगर्भा ककुम्मत्यनुष्टुप्  चतुर्थ्याश्च त्रिपदा प्रतिष्ठा गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


आब॑यो अना॑बयो रस॑स्त उग्र आ॑बयो ।
आ ते॑ करम्भम॑द्मसि ॥१॥
विहल्हो नाम॑ ते पिता मदाव॑ती नाम॑ ते माता ।
स हि॑न त्वम॑सि यस्त्वमात्मानमाव॑य: ॥२॥
तौवि॑लिकेऽवे॑लयावायमै॑लब ऐ॑लयीत् ।
बभ्रुश्च॑ बभ्रुक॑र्णश्चापे॑हि निरा॑ल ॥३॥
अलसाला॑सि पूर्वा॑ सिलाञ्जा॑लास्युत्त॑रा ।
नीलागलसाला॑ ॥४॥
 
 
 
सप्तदशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | गर्भदृंहणं देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यथेयं पृ॑थिवी मही भूतानां गर्भ॑मादधे ।
एवा ते॑ ध्रियतां गर्भो अनु सूतुं सवि॑तवे ॥१॥
यथेयं पृ॑थिवी मही दाधारेमान्वनस्पती॑न् ।
एवा ते॑ ध्रियतां गर्भो अनु सूतुं सवि॑तवे ॥२॥
यथेयं पृ॑थिवी मही दाधार पर्व॑तान्गिरीन् ।
एवा ते॑ ध्रियतां गर्भो अनु सूतुं सवि॑तवे ॥३॥
यथेयं पृ॑थिवी मही दाधार विष्ठि॑तं जग॑त् ।
एवा ते॑ ध्रियतां गर्भो अनु सूतुं सवि॑तवे ॥४॥
 
 

अष्टादशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | ईर्ष्याविनाशनं देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


ईर्ष्याया ध्राजिं॑ प्रथमां प्र॑थमस्या॑ उताप॑राम् ।
अग्निं हृ॑दय्यं१ शोकं तं ते निर्वा॑पयामसि ॥१॥
यथा भूमि॑र्मृतम॑ना मृतान्मृतम॑नस्तरा ।
यथोत मम्रुषो मन॑ एवेर्ष्योर्मृतं मन॑: ॥२॥
अदो यत्ते॑ हृदि श्रितं म॑नस्कं प॑तयिष्णुकम् ।
तत॑स्त ईर्ष्यां मु॑ञ्चामि निरूष्माणं दृते॑रिव ॥३॥
 
 
 
एकोनविंशं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: । चन्द्रमा मन्त्रोक्ता वा देवता: | प्रथमर्चोऽनुष्टुप्  द्वितीयातृतीययोश्च गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


पुनन्तु॑ मा देवजना: पुनन्तु मन॑वो धिया ।
पुनन्तु विश्वा॑ भूतानि पव॑मान: पुनातु मा ॥१॥
पव॑मान: पुनातु मा क्रत्वे दक्षा॑य जीवसे॑ ।
अथो॑ अरिष्टता॑तये ॥२॥
उभाभ्यां देव सवित: पवित्रे॑ण सवेन॑ च ।
अस्मान्पु॑नीहि चक्ष॑से ॥३॥
 
 
 

विंशं सूक्तम्» तृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | यक्ष्मनाशनं मन्त्रोक्ताश्च देवता: | प्रथमर्चोऽतिजगती  द्वितीयाया: ककुम्मती प्रस्तारपङ्क्ति: तृतीयायाश्च सत: पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


अग्नेरि॑वास्य दह॑त एति शुष्मिण॑ उतेव॑ मत्तो विलपन्नपा॑यति ।
अन्यमस्मदि॑च्छतु कं चि॑दव्रतस्तपु॑र्वधाय नमो॑ अस्तु तक्मने॑ ॥१॥
नमो॑ रुद्राय नमो॑ अस्तु तक्मने नमो राज्ञे वरु॑णाय त्विषी॑मते ।
नमो॑ दिवे नम॑: पृथिव्यै नम ओष॑धीभ्य: ॥२॥
अयं यो अ॑भिशोचयिष्णुर्विश्वा॑ रूपाणि हरि॑ता कृणोषि॑ ।
तस्मै॑ तेऽरुणाय॑ बभ्रवे नम॑: कृणोमि वन्या॑य तक्मने॑ ॥३॥
 
 

एकविंशं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: । चन्द्रमा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


इमा यास्तिस्र: पृ॑थिवीस्तासां॑ ह भूमि॑रुत्तमा ।
तासामधि॑ त्वचो अहं भे॑षजं समु॑ जग्रभम् ॥१॥
श्रेष्ठ॑मसि भेषजानां वसि॑ष्ठं वीरु॑धानाम् ।
सोमो भग॑ इव यामे॑षु देवेषु वरु॑णो यथा॑ ॥२॥
रेव॑तीरना॑धृष: सिषासव॑: सिषासथ ।
उत स्थ के॑शदृंह॑णीरथो॑ ह केशवर्ध॑नी: ॥३॥
 
 

द्वाविंशं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: । आदित्यरश्मिर्मरुतो वा देवता: | प्रथमातृतीययोरृचोस्त्रिष्टुप्  द्वितीयायाश्च चतुष्पदा भुरिग्जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


कृष्णं नियानं हर॑य: सुपर्णा अपो वसा॑ना दिवमुत्प॑तन्ति ।
त आव॑वृत्रन्त्सद॑नादृतस्यादिद्घृतेन॑ पृथिवीं व्यूद्गदु: ॥१॥
पय॑स्वती: कृणुथाप ओष॑धी: शिवा यदेज॑था मरुतो रुक्मवक्षस: ।
ऊर्जं॑ च तत्र॑ सुमतिं च॑ पिन्वत यत्रा॑ नरो मरुत: सिञ्चथा मधु॑ ॥२॥
उदप्रुतो॑ मरुतस्ताँ इ॑यर्त वृष्टिर्या विश्वा॑ निवत॑स्पृणाति॑ ।
एजा॑ति ग्लहा॑ कन्येद्गव तुन्नैरुं॑ तुन्दाना पत्ये॑व जाया ॥३॥
 
 
 
त्रयोविंशं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: । आपो देवता: |  प्रथमर्चोऽनुष्टुप्  द्वितीयायास्त्रिपदा गायत्री  तृतीयायाश्च परोष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


सस्रुषीस्तदपसो दिवा नक्तं॑ च सस्रुषी॑: ।
वरे॑ण्यक्रतुरहमपो देवीरुप॑ ह्वये ॥१॥
ओता आप॑: कर्मण्याद्ग मुञ्चन्त्वित: प्रणी॑तये ।
सद्य: कृ॑ण्वन्त्वेत॑वे ॥२॥
देवस्य॑ सवितु: सवे कर्म॑ कृण्वन्तु मानु॑षा: ।
शं नो॑ भवन्त्वप ओष॑धी: शिवा: ॥३॥
 
 
 
चतुर्विंशं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: । आपो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


हिमव॑त: प्र स्र॑वन्ति सिन्धौ॑ समह संगम: ।
आपो॑ ह मह्यं तद्देवीर्दद॑न्हृद्द्योतभेषजम् ॥१॥
यन्मे॑ अक्ष्योरा॑दिद्योत पार्ष्ण्यो: प्रप॑दोश्च यत् ।
आपस्तत्सर्वं निष्क॑रन्भिषजां सुभि॑षक्तमा: ॥२॥
सिन्धु॑पत्नी: सिन्धु॑राज्ञी: सर्वा या नद्य१ स्थन॑ ।
दत्त नस्तस्य॑ भेषजं तेना॑ वो भुनजामहै ॥३॥
 
 
 
पञ्चविंशं सूक्तम्» तृचस्यास्य सूक्तस्य शुन:शेप ऋषि: | मन्याविनाशनं देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 
पञ्च॑ च या: प॑ञ्चाशच्च॑ संयन्ति मन्या॑ अभि ।
इतस्ता: सर्वा॑ नश्यन्तु वाका अ॑पचिता॑मिव ॥१॥
सप्त च या: स॑प्ततिश्च॑ संयन्ति ग्रैव्या॑ अभि ।
इतस्ता: सर्वा॑ नश्यन्तु वाका अ॑पचिता॑मिव ॥२॥
नव॑ च या न॑वतिश्च॑ संयन्ति स्कन्ध्या॑ अभि ।
इतस्ता: सर्वा॑ नश्यन्तु वाका अ॑पचिता॑मिव ॥३॥
 
 
 

षड्विंशं सूक्तम्» तृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | पाप्मा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

अव॑ मा पाप्मन्सृज वशी सन्मृ॑दयासि न: ।
आ मा॑ भद्रस्य॑ लोके पा॑प्मन्धेह्यवि॑ह्रुतम् ॥१॥
यो न॑: पाप्मन्न जहा॑सि तमु॑ त्वा जहिमो वयम् ।
पथामनु॑ व्यावर्त॑नेऽन्यं पाप्मानु॑ पद्यताम् ॥२॥
अन्यत्रास्मन्न्युद्गच्यतु सहस्राक्षो अम॑र्त्य: ।
यं द्वेषा॑म तमृ॑च्छतु यमु॑ द्विष्मस्तमिज्ज॑हि ॥३॥
 
 

सप्तविंशं सूक्तम्» तृचस्यास्य सूक्तस्य भृगुरृषि: । यमो निरृतिर्वा देवता: | प्रथमातृतीययोरृचोर्जगती  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


देवा॑: कपोत॑ इषितो यदिच्छन्दूतो निरृ॑त्या इदमा॑जगाम॑ ।
तस्मा॑ अर्चाम कृणवा॑म निष्कृ॑तिं शं नो॑ अस्तु द्विपदे शं चतु॑ष्पदे ॥१॥
शिव: कपोत॑ इषितो नो॑ अस्त्वनागा दे॑वा: शकुनो गृहं न॑: ।
अग्निर्हि विप्रो॑ जुषतां॑ हविर्न: परि॑ हेति: पक्षिणी॑ नो वृणक्तु ॥२॥
हेति: पक्षिणी न द॑भात्यस्मानाष्ट्री पदं कृ॑णुते अग्निधाने॑ ।
शिवो गोभ्य॑ उत पुरु॑षेभ्यो नो अस्तु मा नो॑ देवा इह हिं॑सीत्कपोत॑: ॥३॥
 
 
 
अष्टाविंशं सूक्तम्» तृचस्यास्य सूक्तस्य भृगुरृषि: । यमो निरृतिर्वा देवता: | प्रथमर्चस्त्रिष्टुप्  द्वितीयाया अनुष्टुप्  तृतीयायाश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
 

 

ऋचा कपोतं॑ नुदत प्रणोदमिषं मद॑न्त: परि गां न॑याम: ।
संलोभय॑न्तो दुरिता पदानि॑ हित्वा न ऊर्जं प्र प॑दात्पथि॑ष्ठ: ॥१॥
परीमे३ऽग्निम॑र्षत परीमे गाम॑नेषत ।
देवेष्व॑क्रत श्रव: क इमाँ आ द॑धर्षति ॥२॥
य: प्र॑थम: प्रवत॑माससाद॑ बहुभ्य: पन्था॑मनुपस्पशान: ।
यो३ऽस्येशे॑ द्विपदो यश्चतु॑ष्पदस्तस्मै॑ यमाय नमो॑ अस्तु मृत्यवे॑ ॥३॥
 
 
 
 
एकोनत्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्य भृगुरृषि: । यमो निरृतिर्वा देवता: | प्रथमाद्वितीययोरृचोर्विराड्गायत्री तृतीयायाश्च त्र्यवसाना सप्तपदा विराडष्टिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
 

 

अमून्हेति: प॑तत्रिणी न्येद्गतु यदुलू॑को वद॑ति मोघमेतत् ।
यद्वा॑ कपोत॑: पदमग्नौ कृणोति॑ ॥१॥
यौ ते॑ दूतौ नि॑रृत इदमेतोऽप्र॑हितौ प्रहि॑तौ वा गृहं न॑: ।
कपोतोलूकाभ्यामप॑दं तद॑स्तु ॥२॥
अवैरहत्यायेदमा प॑पत्यात्सुवीरता॑या इदमा स॑सद्यात् ।
परा॑ङेव परा॑ वद परा॑चीमनु॑ संवत॑म् ।
यथा॑ यमस्य॑ त्वा गृहेऽरसं प्र॑तिचाक॑शानाभूकं॑ प्रतिचाक॑शान् ॥३॥
 
 
 
त्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्योपरिबभ्रव ऋषि: | शमी देवता: |  प्रथमर्चो जगती  द्वितीयायास्त्रिष्टुप्  तृतीयायाश्च चतुष्पदा शङ्कुमत्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

देवा इमं मधु॑ना संयु॑तं यवं सर॑स्वत्यामधि॑ मणाव॑चर्कृषु: ।
इन्द्र॑ आसीत्सीर॑पति: शतक्र॑तु: कीनाशा॑ आसन्मरुत॑: सुदान॑व: ॥१॥
यस्ते मदो॑ऽवकेशो वि॑केशो येना॑भिहस्यं पुरु॑षं कृणोषि॑ ।
आरात्त्वदन्या वना॑नि वृक्षि त्वं श॑मि शतव॑ल्शा वि रो॑ह ॥२॥
बृह॑त्पलाशे सुभ॑गे वर्ष॑वृद्ध ऋता॑वरि ।
मातेव॑ पुत्रेभ्यो॑ मृड केशे॑भ्य: शमि ॥३॥
 
 
 
एकत्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्योपरिबभ्रव ऋषि: | गौर्देवता: | गायत्री छन्द:॥ (www.hindumantavya.blogspot.in)


 
आयं गौ: पृश्नि॑रक्रमीदस॑दन्मातरं॑ पुर: ।
पितरं॑ च प्रयन्त्स्वद्ग: ॥१॥
अन्तश्च॑रति रोचना अस्य प्राणाद॑पानत: ।
व्यद्गख्यन्महिष: स्वद्ग: ॥२॥
त्रिंशद्धामा वि रा॑जति वाक्प॑तङ्गो अ॑शिश्रियत् ।
प्रति वस्तोरहर्द्युभि॑: ॥३॥
 
 
 
द्वात्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्य  प्रथमाद्वितीययोरृचोश्चातन: तृतीयायाश्चाथर्वा ऋषि: |  प्रथमाया अग्नि:  द्वितीयाया रुद्र: तृतीयायाश्च मित्रावरुणौ देवता: |   प्रथमातृतीययोस्त्रिष्टुप् द्वितीयायाश्च प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


अन्तर्दावे जु॑हुत स्वे३तद्या॑तुधानक्षय॑णं घृतेन॑ ।
आराद्रक्षां॑सि प्रति॑ दह त्वम॑ग्ने न नो॑ गृहाणामुप॑ तीतपासि ॥१॥
रुद्रो वो॑ ग्रीवा अश॑रैत्पिशाचा: पृष्टीर्वोऽपि॑ शृणातु यातुधाना: ।
वीरुद्वो॑ विश्वतो॑वीर्या यमेन सम॑जीगमत् ॥२॥
अभ॑यं मित्रावरुणाविहास्तु॑ नोऽर्चिषात्त्रिणो॑ नुदतं प्रतीच॑: ।
मा ज्ञातारं मा प्र॑तिष्ठां वि॑दन्त मिथो वि॑घ्नाना उप॑ यन्तु मृत्युम् ॥३॥
 
 

त्रयस्त्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्य जाटिकायन ऋषि: | इन्द्रो देवता: |   प्रथमातृतीययोरृचोर्गायत्री  द्वितीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यस्येदमा रजो युज॑स्तुजे जना नवं स्वद्ग: ।
इन्द्र॑स्य रन्त्यं॑ बृहत् ॥१॥
नाधृ॑ष आ द॑धृषते धृषाणो धृ॑षित: शव॑: ।
पुरा यथा॑ व्यथि: श्रव इन्द्र॑स्य नाधृ॑षे शव॑: ॥२॥
स नो॑ ददातु तां रयिमुरुं पिशङ्ग॑संदृशम् ।
इन्द्र: पति॑स्तुविष्ट॑मो जनेष्वा ॥३॥
 
 
 
चतुस्त्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य चातन ऋषि: | अग्निर्देवता: | गायत्री छन्द:॥ (www.hindumantavya.blogspot.in)

 

प्राग्नये वाच॑मीरय वृषभाय॑ क्षितीनाम् ।
स न॑: पर्षदति द्विष॑: ॥१॥
यो रक्षां॑सि निजूर्व॑त्यग्निस्तिग्मेन॑ शोचिषा॑ ।
स न॑: पर्षदति द्विष॑: ॥२॥
य: पर॑स्या: परावत॑स्तिरो धन्वा॑तिरोच॑ते ।
स न॑: पर्षदति द्विष॑: ॥३॥
यो विश्वाभि विपश्य॑ति भुव॑ना सं च पश्य॑ति ।
स न॑: पर्षदति द्विष॑: ॥४॥
यो अस्य पारे रज॑स: शुक्रो अग्निरजा॑यत ।
स न॑: पर्षदति द्विष॑: ॥५॥
 
 

पञ्चत्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्य कौशिक ऋषि: | वैश्वानरो देवता: | गायत्री छन्द:॥ (www.hindumantavya.blogspot.in)

 
 
वैश्वानरो न॑ ऊतय आ प्र या॑तु परावत॑: ।
अग्निर्न॑: सुष्टुतीरुप॑ ॥१॥
वैश्वानरो न आग॑मदिमं यज्ञं सजूरुप॑ ।
अग्निरुक्थेष्वंह॑सु ॥२॥
वैश्वानरोऽङ्गि॑रसां स्तोम॑मुक्थं च॑ चाकॢपत् ।
ऐषु॑ द्युम्नं स्वद्गर्यमत् ॥३॥
 
 
षट्त्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्देवता: | गायत्री छन्द:॥ (www.hindumantavya.blogspot.in)


ऋतावा॑नं वैश्वानरमृतस्य ज्योति॑षस्पति॑म् ।
अज॑स्रं घर्ममी॑महे ॥१॥
स विश्वा प्रति॑ चाकॢप ऋतूंरुत्सृ॑जते वशी ।
यज्ञस्य वय॑ उत्तिरन् ॥२॥
अग्नि: परे॑षु धाम॑सु कामो॑ भूतस्य भव्य॑स्य ।
सम्रादेको वि रा॑जति ॥३॥
 
 
 
सप्तविंशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


उप प्रागा॑त्सहस्राक्षो युक्त्वा शपथो रथ॑म् ।
शप्तार॑मन्विच्छन्मम वृक॑ इवावि॑मतो गृहम् ॥१॥
परि॑ णो वृङ्ग्धि शपथ ह्रदमग्निरि॑वा दह॑न् ।
शप्तारमत्र॑ नो जहि दिवो वृक्षमि॑वाशनि॑: ॥२॥
यो न: शपादश॑पत: शप॑तो यश्च॑ न: शपा॑त् ।
शुने पेष्ट्र॑मिवाव॑क्षामं तं प्रत्य॑स्यामि मृत्यवे॑ ॥३॥
 
 

अष्टात्रिंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | बृहस्पतिस्त्विषिर्वा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


सिंहे व्याघ्र उत या पृदा॑कौ त्विषि॑रग्नौ ब्रा॑ह्मणे सूर्ये या ।
इन्द्रं या देवी सुभगा॑ जजान सा न ऐतु वर्च॑सा संविदाना ॥१॥
या हस्तिनि॑ द्वीपिनि या हिर॑ण्ये त्विषि॑रप्सु गोषु या पुरु॑षेषु ।
इन्द्रं या देवी सुभगा॑ जजान सा न ऐतु वर्च॑सा संविदाना ॥२॥
रथे॑ अक्षेष्वृ॑षभस्य वाजे वाते॑ पर्जन्ये वरु॑णस्य शुष्मे॑ ।
इन्द्रं या देवी सुभगा॑ जजान सा न ऐतु वर्च॑सा संविदाना ॥३॥
राजन्येद्ग दुन्दुभावाय॑तायामश्व॑स्य वाजे पुरु॑षस्य मायौ ।
इन्द्रं या देवी सुभगा॑ जजान सा न ऐतु वर्च॑सा संविदाना ॥४॥
 
 
 
एकोनचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | बृहस्पतिर्देवता: |  प्रथमर्चो जगती  द्वितीयायास्त्रिष्टुप्  तृतीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यशो॑ हविर्व॑र्धतामिन्द्र॑जूतं सहस्र॑वीर्यं सुभृ॑तं सह॑स्कृतम् ।
प्रसर्स्रा॑णमनु॑ दीर्घाय चक्ष॑से हविष्म॑न्तं मा वर्धय ज्येष्ठता॑तये ॥१॥
अच्छा॑ न इन्द्रं॑ यशसं यशो॑र्यिशस्विनं॑ नमसाना वि॑धेम ।
स नो॑ रास्व राष्ट्रमिन्द्र॑जूतं तस्य॑ ते रातौ यशस॑: स्याम ॥२॥
यशा इन्द्रो॑ यशा अग्निर्यशा: सोमो॑ अजायत ।
यशा विश्व॑स्य भूतस्याहम॑स्मि यशस्त॑म: ॥३॥
 
 
 
चत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमाद्वितीययोरृचोर्मन्त्रोक्ता:  तृतीयायाश्चेन्द्रो देवता: |  प्रथमाद्वितीययोर्जगती तृतीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

अभ॑यं द्यावापृथिवी इहास्तु नोऽभ॑यं सोम॑: सविता न॑: कृणोतु ।
अभ॑यं नोऽस्तूर्व१न्तरि॑क्षं सप्तऋषीणां च॑ हविषाभ॑यं नो अस्तु ॥१॥
अस्मै ग्रामा॑य प्रदिशश्चत॑स्र ऊर्जं॑ सुभूतं स्वस्ति स॑विता न॑: कृणोतु ।
अशत्र्विन्द्रो अभ॑यं न: कृणोत्वन्यत्र राज्ञा॑मभि या॑तु मन्यु: ॥२॥
अनमित्रं नो॑ अधराद॑नमित्रं न॑ उत्तरात् ।
इन्द्रा॑नमित्रं न॑: पश्चाद॑नमित्रं पुरस्कृ॑धि ॥३॥
 
 
 
एकचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ताश्चन्द्रमा वा देवता: | प्रथमर्चो भुरिगनुष्टुप्  द्वितीयाया अनुष्टुप्  तृतीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

मन॑से चेत॑से धिय आकू॑तय उत चित्त॑ये ।
मत्यै श्रुताय चक्ष॑से विधेम॑ हविषा॑ वयम् ॥१॥
अपानाय॑ व्यानाय॑ प्राणाय भूरि॑धायसे ।
सर॑स्वत्या उरुव्यचे॑ विधेम॑ हविषा॑ वयम् ॥२॥
मा नो॑ हासिषुरृष॑यो दैव्या ये त॑नूपा ये न॑स्तन्वद्गस्तनूजा: ।
अम॑र्त्या मर्त्यां॑ अभि न॑: सचध्वमायु॑र्धत्त प्रतरं जीवसे॑ न: ॥३॥
 
 
 
द्विचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | मन्युर्देवता: |  प्रथमाद्वितीययोरृचोर्भुरिगनुष्टुप्  तृतीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

अव ज्यामि॑व धन्व॑नो मन्युं त॑नोमि ते हृद: ।
यथा संम॑नसौ भूत्वा सखा॑याविव सचा॑वहै ॥१॥
सखा॑याविव सचावहा अव॑ मन्युं त॑नोमि ते ।
अधस्ते अश्म॑नो मन्युमुपा॑स्यामसि यो गुरु: ॥२॥
अभि ति॑ष्ठामि ते मन्युं पार्ष्ण्या प्रप॑देन च ।
यथा॑वशो न वादि॑षो मम॑ चित्तमुपाय॑सि ॥३॥
 
 
 
त्रिचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | मन्युशमनं देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


अयं दर्भो विम॑न्युक: स्वाय चार॑णाय च ।
मन्योर्विम॑न्युकस्यायं म॑न्युशम॑न उच्यते ॥१॥
अयं यो भूरि॑मूल: समुद्रम॑वतिष्ठ॑ति ।
दर्भ: पृ॑थिव्या उत्थि॑तो मन्युशम॑न उच्यते ॥२॥
वि ते॑ हनव्यांद्ग शरणिं वि ते मुख्यां॑ नयामसि ।
यथा॑वशो न वादि॑षो मम॑ चित्तमुपाय॑सि ॥३॥
 
 
 

चतुश्चत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य विश्वामित्र ऋषि: | मन्त्रोक्ता वनस्पतिर्वा देवता: |  प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयायाश्च त्रिपदा महाबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अस्थाद्द्यौरस्था॑त्पृथिव्यस्थाद्विश्व॑मिदं जग॑त् ।
अस्थु॑र्वृक्षा ऊर्ध्वस्व॑प्नास्तिष्ठाद्रोगो॑ अयं तव॑ ॥१॥
शतं या भे॑षजानि॑ ते सहस्रं संग॑तानि च ।
श्रेष्ठ॑मास्रावभेषजं वसि॑ष्ठं रोगनाश॑नम् ॥२॥
रुद्रस्य मूत्र॑मस्यमृत॑स्य नाभि॑: ।
विषाणका नाम वा अ॑सि पितॄणां मूलादुत्थि॑ता वातीकृतनाश॑नी ॥३॥
 
 
 
पञ्चचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्याङ्गिरस: प्रचेता यमश्च ऋषय: । दु:स्वप्ननाशनं देवता: |  प्रथमर्च: पथ्यापङ्क्ति:  द्वितीयाया भुरिक्त्रिष्टुप् तृतीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

परोऽपे॑हि मनस्पाप किमश॑स्तानि शंससि ।
परे॑हि न त्वा॑ कामये वृक्षां वना॑नि सं च॑र गृहेषु गोषु॑ मे मन॑: ॥१॥
अवशसा॑ नि:शसा यत्प॑राशसो॑पारिम जाग्र॑तो यत्स्वपन्त॑: ।
अग्निर्विश्वान्यप॑ दुष्कृतान्यजु॑ष्टान्यारे अस्मद्द॑धातु ॥२॥
यदि॑न्द्र ब्रह्मणस्पतेऽपि मृषा चरा॑मसि ।
प्रचे॑ता न आङ्गिरसो दु॑रितात्पात्वंह॑स: ॥३॥
 
 

षट्चत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्याङ्गिरस: प्रचेता यमश्च ऋषय: । दु:स्वप्ननाशनं स्वप्नो वा देवता: |  प्रथमर्च: ककुम्मती विष्टारपङ्क्ति:  द्वितीयायास्त्र्यवसाना पञ्चपदा शक्वरीगर्भा जगती  तृतीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
 

 

यो न जीवोऽसि न मृतो देवाना॑ममृतगर्भोद्गऽसि स्वप्न ।
वरुणानी ते॑ माता यम: पितार॑रुर्नामा॑सि ॥१॥
विद्म ते॑ स्वप्न जनित्रं॑ देवजामीनां पुत्रोद्गऽसि यमस्य कर॑ण: ।
अन्त॑कोऽसि मृत्युर॑सि ।
तं त्वा॑ स्वप्न तथा सं वि॑द्म स न॑: स्वप्न दुष्वप्न्या॑त्पाहि ॥२॥
यथा॑ कलां यथा॑ शफं यथर्णं संनय॑न्ति ।
एवा दुष्वप्न्यं सर्वं॑ द्विषते सं न॑यामसि ॥३॥
 
 

सप्तचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्याङ्गिरस: प्रचेता यमश्च ऋषय: ।  प्रथमर्चोऽग्नि: द्वितीयाया विश्वे देवा:  तृतीयायाश्च सौधन्वना देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

अग्नि: प्रा॑त:सवने पा॑त्वस्मान्वै॑श्वानरो वि॑श्वकृद्विश्वशं॑भू: ।
स न॑: पावको द्रवि॑णे दधात्वायु॑ष्मन्त: सहभ॑क्षा: स्याम ॥१॥
विश्वे॑ देवा मरुत इन्द्रो॑ अस्मानस्मिन्द्वितीये सव॑ने न ज॑ह्यु: ।
आयु॑ष्मन्त: प्रियमे॑षां वद॑न्तो वयं देवानां॑ सुमतौ स्या॑म ॥२॥
इदं तृतीयं सव॑नं कवीनामृतेन ये च॑मसमैर॑यन्त ।
ते सौ॑धन्वना: स्वद्गरानशाना: स्विद्गष्टिं नो अभि वस्यो॑ नयन्तु ॥३॥
 
 

अष्टचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्याङ्गिरस: प्रचेता यमश्च ऋषय: । मन्त्रोक्ता देवता: | उष्णिक् छन्द:॥ (www.hindumantavya.blogspot.in)

 

श्येनोद्गऽसि गायत्रच्छ॑न्दा अनु त्वा र॑भे ।
स्वस्ति मा सं व॑हास्य यज्ञस्योदृचि स्वाहा॑ ॥१॥
ऋभुर॑सि जग॑च्छन्दा अनु अनु त्वा र॑भे ।
स्वस्ति मा सं व॑हास्य यज्ञस्योदृचि स्वाहा॑ ॥२॥
वृषा॑सि त्रिष्टुप्छ॑न्दा अनु त्वा र॑भे ।
स्वस्ति मा सं व॑हास्य यज्ञस्योदृचि स्वाहा॑ ॥३॥
 
 
 
एकोनपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य गार्ग्य ऋषि: | अग्निर्देवता: |  प्रथमर्चोऽनुष्टुप्  द्वितीयाया जगती  तृतीयायाश्च विराड्जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

नहि ते॑ अग्ने तन्वद्ग: क्रूरमानंश मर्त्य॑: ।
कपिर्ब॑भस्ति तेज॑नं स्वं जरायु गौरि॑व ॥१॥
मेष इ॑व वै सं च वि चोर्वद्गच्यसे यदु॑त्तरद्रावुप॑रश्च खाद॑त: ।
शीर्ष्णा शिरोऽप्ससाप्सो॑ अर्दय॑न्नंशून्ब॑भस्ति हरि॑तेभिरासभि॑: ॥२॥
सुपर्णा वाच॑मक्रतोप द्यव्या॑खरे कृष्णा॑ इषिरा अ॑नर्तिषु: ।
नि यन्नियन्तिउप॑रस्य निष्कृ॑तिं पुरू रेतो॑ दधिरे सूर्यश्रित॑: ॥३॥
 
 

पञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | अश्विनौ देवते । प्रथमर्चो विराड्जगती  द्वितीयातृतीययोश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
 

 

हतं तर्दं स॑मङ्कमाखुमश्वि॑ना छिन्तं शिरो अपि॑ पृष्टी: शृ॑णीतम् ।
यवान्नेददानपि॑ नह्यतं मुखमथाभ॑यं कृणुतं धान्याद्गय ॥१॥
तर्द है पत॑ङ्ग है जभ्य हा उप॑क्वस ।
ब्रह्मेवासं॑स्थितं हविरन॑दन्त इमान्यवानहिं॑सन्तो अपोदि॑त ॥२॥
तर्दा॑पते वघा॑पते तृष्ट॑जम्भा आ शृ॑णोत मे ।
य आ॑रण्या व्यद्गद्वरा ये के च स्थ व्यद्गद्वरास्तान्त्सर्वा॑ञ्जम्भयामसि ॥३॥
 
 
 

एकपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: ।  प्रथमाद्वितीययोराप: तृतीयायाश्च वरुणो देवता: | प्रथमर्चो गायत्री  द्वितीयायास्त्रिष्टुप् तृतीयायाश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

वायो: पूत: पवित्रे॑ण प्रत्यङ् सोमो अति॑ द्रुत: ।
इन्द्र॑स्य युज्य: सखा॑ ॥१॥
आपो॑ अस्मान्मातर॑: सूदयन्तु घृतेन॑ नो घृतप्वद्ग: पुनन्तु ।
विश्वं हि रिप्रं प्रवह॑न्ति देवीरुदिदा॑भ्य: शुचिरा पूत ए॑मि ॥२॥
यत्किं चेदं व॑रुण दैव्ये जने॑ऽभिद्रोहं म॑नुष्या३श्चर॑न्ति ।
अचि॑त्त्या चेत्तव धर्मा॑ युयोपिम मा नस्तस्मादेन॑सो देव रीरिष: ॥३॥
 
 
 
द्विपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य भागलिरृषि: । मन्त्रोक्ता देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

उत्सूर्यो॑ दिव ए॑ति पुरो रक्षां॑सि निजूर्व॑न् ।
आदित्य: पर्व॑तेभ्यो विश्वदृ॑ष्टो अदृष्टहा ॥१॥
नि गावो॑ गोष्ठे अ॑सदन्नि मृगासो॑ अविक्षत ।
न्यू३र्मयो॑ नदीनां न्य१दृष्टा॑ अलिप्सत ॥२॥
आयुर्ददं॑विपश्चितं॑ श्रुतां कण्व॑स्य वीरुध॑म् ।
आभा॑रिषं विश्वभे॑षजीमस्यादृष्टान्नि श॑मयत् ॥३॥
 
 
 
त्रिपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य बृहच्छुक्र ऋषि: | मन्त्रोक्ता देवता: | प्रथमर्चो जगती  द्वितीयातृतीययोश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

द्यौश्च॑ म इदं पृ॑थिवी च प्रचे॑तसौ शुक्रो बृहन्दक्षि॑णया पिपर्तु ।
अनु॑ स्वधा चि॑कितां सोमो॑ अग्निर्वायुर्न॑: पातु सविता भग॑श्च ॥१॥
पुन॑: प्राण: पुन॑रात्मा न ऐतु पुनश्चक्षु: पुनरसु॑र्न ऐतु॑ ।
वैश्वानरो नो अद॑ब्धस्तनूपा अन्तस्ति॑ष्ठाति दुरितानि विश्वा॑ ॥२॥
सं वर्च॑सा पय॑सा सं तनूभिरग॑न्महि मन॑सा सं शिवेन॑ ।
त्वष्टा॑ नो अत्र वरी॑य: कृणोत्वनु॑ नो मार्ष्टु तन्वो३ यद्विरि॑ष्टम् ॥३॥
 
 
 

चतुष्पञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | अग्नीषोमौ देवते । अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

इदं तद्युज उत्त॑रमिन्द्रं॑ शुम्भाम्यष्ट॑ये ।
अस्य क्षत्रं श्रियं॑ महीं वृष्टिरि॑व वर्धया तृण॑म् ॥१॥
अस्मै क्षत्रम॑ग्नीषोमावस्मै धा॑रयतं रयिम् ।
इमं राष्ट्रस्या॑भीवर्गे कृ॑णुतं युज उत्त॑रम् ॥२॥
सब॑न्धुश्चास॑बन्धुश्च यो अस्माँ अ॑भिदास॑ति ।
सर्वं तं र॑न्धयासि मे यज॑मानाय सुन्वते ॥३॥
 
 
 
पञ्चपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: |  प्रथमर्चो विश्वे देवा: द्वितीयातृतीययोश्च रुद्रो देवता: |   प्रथमातृतीययोर्जगती द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

ये पन्था॑नो बहवो॑ देवयाना॑ अन्तरा द्यावा॑पृथिवी संचर॑न्ति ।
तेषामज्या॑निं यतमो वहा॑ति तस्मै॑ मा देवा: परि॑ दत्तेह सर्वे॑ ॥१॥
ग्रीष्मो हे॑मन्त: शिशि॑रो वसन्त: शरद्वर्षा: स्विते नो॑ दधात ।
आ नो गोषु भजता प्रजायां॑ निवात इद्व॑: शरणे स्या॑म ॥२॥
इदावत्सराय॑ परिवत्सराय॑ संवत्सराय॑ कृणुता बृहन्नम॑: ।
तेषां॑ वयं सु॑मतौ यज्ञिया॑नामपि॑ भद्रे सौ॑मनसे स्या॑म ॥३॥
 
 

षट्पञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: ।  प्रथमर्चो विश्वे देवा:  द्वितीयातृतीययोश्च रुद्रो देवता: |  प्रथमाया उष्णिग्गर्भा पथ्यापङ्क्ति:  द्वितीयाया अनुष्टुप्  तृतीयायाश्च निचृदनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

मा नो॑ देवा अहि॑र्वधीत्सतो॑कान्त्सहपु॑रुषान् ।
संय॑तं न वि ष्प॑रद्व्यात्तं न सं य॑मन्नमो॑ देवजनेभ्य॑: ।
नमो॑ऽस्त्वसिताय नमस्तिर॑श्चिराजये ।
स्वजाय॑ बभ्रवे नमो नमो॑ देवजनेभ्य॑: ॥२॥
सं ते॑ हन्मि दता दत: समु॑ ते हन्वा हनू॑ ।
सं ते॑ जिह्वया॑ जिह्वां सम्वास्नाह॑ आस्यद्गम् ॥३॥
 
 
 
सप्तपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: । रुद्रो देवता  तृतीयाया रुद्रो मन्त्रोक्ता वा ।  प्रथमाद्वितीययोरृचोरनुष्टुप् तृतीयायाश्च पथ्याबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

इदमिद्वा उ॑ भेषजमिदं रुद्रस्य॑ भेषजम् ।
येनेषुमेक॑तेजनां शतश॑ल्यामपब्रव॑त् ॥१॥
जालाषेणाभि षि॑ञ्चत जालाषेणोप॑ सिञ्चत ।
जालाषमुग्रं भे॑षजं तेन॑ नो मृड जीवसे॑ ॥२॥
शं च॑ नो मय॑श्च नो मा च॑ न: किं चनाम॑मत् ।
क्षमा रपो विश्वं॑ नो अस्तु भेषजं सर्वं॑ नो अस्तु भेषजम् ॥३॥
 
 
 

अष्टपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | बृहस्पतिर्मन्त्रोक्ता वा देवता: | प्रथमर्चो जगती  द्वितीयाया: प्रस्तारपङ्क्ति:  तृतीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यशसं मेन्द्रो॑ मघवा॑न्कृणोतु यशसं द्यावा॑पृथिवी उभे इमे ।
यशसं॑ मा देव: स॑विता कृ॑णोतु प्रियो दातुर्दक्षि॑णाया इह स्या॑म् ॥१॥
यथेन्द्रो द्यावा॑पृथिव्योर्यश॑स्वान्यथाप ओष॑धीषु यश॑स्वती: ।
एवा विश्वे॑षु देवेषु॑ वयं सर्वे॑षु यशस॑: स्याम ॥२॥
यशा इन्द्रो॑ यशा अग्निर्यशा: सोमो॑ अजायत ।
यशा विश्व॑स्य भूतस्याहम॑स्मि यशस्त॑म: ॥३॥
 
 

एकोनषष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | रुद्रो मन्त्रोक्ता वा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

अनडुद्भ्यस्त्वं प्र॑थमं धेनुभ्यस्त्वम॑रुन्धति ।
अधे॑नवे वय॑से शर्म॑ यच्छ चतु॑ष्पदे ॥१॥
शर्म॑ यच्छत्वोष॑धि: सह देवीर॑रुन्धती ।
करत्पय॑स्वन्तं गोष्ठम॑यक्ष्माँ उत पूरु॑षान् ॥२॥
विश्वरू॑पां सुभगा॑मच्छाव॑दामि जीवलाम् ।
सा नो॑ रुद्रस्यास्तां हेतिं दूरं न॑यतु गोभ्य॑: ॥३॥
 
 
 
षष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | अर्यमा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

अयमा या॑त्यर्यमा पुरस्ताद्विषि॑तस्तुप: ।
अस्या इच्छन्नग्रुवै पति॑मुत जायामजान॑ये ॥१॥
अश्र॑मदियम॑र्यमन्नन्यासां सम॑नं यती ।
अङ्गो न्वद्गर्यमन्नस्या अन्या: सम॑नमाय॑ति ॥२॥
धाता दा॑धार पृथिवीं धाता द्यामुत सूर्य॑म् ।
धातास्या अग्रुवै पतिं दधा॑तु प्रतिकाम्यद्गम् ॥३॥
 
 
 
एकषष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | रुद्रो देवता: |  प्रथमर्चस्त्रिष्टुप् द्वितीयातृतीययोश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

मह्यमापो मधु॑मदेर॑यन्तां मह्यं सूरो॑ अभरज्ज्योति॑षे कम् ।
मह्यं॑ देवा उत विश्वे॑ तपोजा मह्यं॑ देव: स॑विता व्यचो॑ धात् ॥१॥
अहं वि॑वेच पृथिवीमुत द्यामहमृतूंर॑जनयं सप्त साकम् ।
अहं सत्यमनृ॑तं यद्वदा॑म्यहं दैवीं परि वाचं विश॑श्च ॥२॥
अहं ज॑जान पृथिवीमुत द्यामहमृतूंर॑जनयं सप्त सिन्धू॑न् ।
अहं सत्वमनृ॑तं यद्वदा॑मि यो अ॑ग्नीषोमावजु॑षे सखा॑या ॥३॥
 
 
 

द्विषष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | रुद्रो मन्त्रोक्ता वा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

वैश्वानरो रश्मिभि॑र्न: पुनातु वात॑: प्राणेने॑षिरो नभो॑भि: ।
द्यावा॑पृथिवी पय॑सा पय॑स्वती ऋताव॑री यज्ञिये॑ न: पुनीताम् ॥१॥
वैश्वानरीं सूनृतामा र॑भध्वं यस्या आशा॑स्तन्वोद्ग वीतपृ॑ष्ठा: ।
तया॑ गृणन्त॑: सधमादे॑षु वयं स्या॑म पत॑यो रयीणाम् ॥२॥
वैश्वानरीं वर्च॑स आ र॑भध्वं शुद्धा भव॑न्त: शुच॑य: पावका: ।
इहेड॑या सधमादं मद॑न्तो ज्योक्प॑श्येम सूर्य॑मुच्चर॑न्तम् ॥३॥
 
 
 
 
त्रिषष्टितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य द्रुह्वण ऋषि: |  प्रथमादितृचस्य निरृतिर्यमो मृत्युश्च  चतुर्थ्या ऋचश्चाग्निर्देवता: |  प्रथमाया अतिजगती द्वितीयातृतीययोर्जगतीगर्भा जगती  चतुर्थ्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यत्ते॑ देवी निरृ॑तिराबबन्ध दाम॑ ग्रीवास्व॑विमोक्यं यत् ।
तत्ते वि ष्याम्यायु॑षे वर्च॑से बला॑यादोमदमन्न॑मद्धि प्रसू॑त: ॥१॥
नमो॑ऽस्तु ते निरृते तिग्मतेजोऽयस्मयान्वि चृ॑ता बन्धपाशान् ।
यमो मह्यं पुनरित्त्वां द॑दाति तस्मै॑ यमाय नमो॑ अस्तु मृत्यवे॑ ॥२॥
अयस्मये॑ द्रुपदे बे॑धिषे इहाभिहि॑तो मृत्युभिर्ये सहस्र॑म् ।
यमेन त्वं पितृभि॑: संविदान उ॑त्तमं नाकमधि॑ रोहयेमम् ॥३॥
संसमिद्यु॑वसे वृषन्नग्ने विश्वा॑न्यर्य आ ।
इडस्पदे समि॑ध्यसे स नो वसून्या भ॑र ॥४॥
 
 
 

चतु:षष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | विश्वे देवा मनश्च देवता: | प्रथमातृतीययोरृचोरनुष्टुप्  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
सं जा॑नीध्वं सं पृ॑च्यध्वं सं वो मनां॑सि जानताम् ।
देवा भागं यथा पूर्वे॑ संजानाना उपास॑ते ॥१॥
समानो मन्त्र: समि॑ति: समानी स॑मानं व्रतं सह चित्तमे॑षाम् ।
समानेन॑ वो हविषा॑ जुहोमि समानं चेतो॑ अभिसंवि॑शध्वम् ॥२॥
समानी व आकू॑ति: समाना हृद॑यानि व: ।
समानम॑स्तु वो मनो यथा॑ व: सुसहास॑ति ॥३॥
 
 
 

पञ्चषष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्र इ न्द्र: पराशरो वा देवता: | प्रथमर्च: पथ्यापङ्क्ति:  द्वितीयातृतीययोश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

अव॑ मन्युरवायताव॑ बाहू म॑नोयुजा॑ ।
परा॑शर त्वं तेषां परा॑ञ्चं शुष्म॑मर्दयाधा॑ नो रयिमा कृ॑धि ॥१॥
निर्ह॑स्तेभ्यो नैर्हस्तं यं दे॑वा: शरुमस्य॑थ ।
वृश्चामि शत्रू॑णां बाहूननेन॑ हविषाऽहम् ॥२॥
इन्द्र॑श्चकार प्रथमं नै॑र्हस्तमसु॑रेभ्य: ।
जय॑न्तु सत्वा॑नो मम॑ स्थिरेणेन्द्रे॑ण मेदिना॑ ॥३॥
 
 
 

षट्षष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्र इन्द्रो वा देवता: |  प्रथमर्चस्त्रिष्टुप्  द्वितीयातृतीययोश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

निर्ह॑स्त: शत्रु॑रभिदास॑न्नस्तु ये सेना॑भिर्युध॑मायन्त्यस्मान् ।
सम॑र्पयेन्द्र महता वधेन द्रात्वे॑षामघहारो विवि॑द्ध: ॥१॥
आतन्वाना आयच्छन्तोऽस्य॑न्तो ये च धाव॑थ ।
निर्ह॑स्ता: शत्रव: स्थनेन्द्रो॑ वोऽद्य परा॑शरीत् ॥२॥
निर्ह॑स्ता: सन्तु शत्रवोऽङ्गै॑षां म्लापयामसि ।
अथै॑षामिन्द्र वेदां॑सि शतशो वि भ॑जामहै ॥३॥
 
 
 
सप्तषष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्र इन्द्रो वा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

परि वर्त्मा॑नि सर्वत इन्द्र॑: पूषा च॑ सस्रतु: ।
मुह्य॑न्त्वद्यामू: सेना॑ अमित्रा॑णां परस्तराम् ॥१॥
मूढा अमित्रा॑श्चरताशीर्षाण॑ इवाह॑य: ।
तेषां॑ वो अग्निमू॑ढानामिन्द्रो॑ हन्तु वरं॑वरम् ॥२॥
ऐषु॑ नह्य वृषाजिनं॑ हरिणस्या भियं॑ कृधि ।
परा॑ङमित्र एष॑त्वर्वाची गौरुपे॑षतु ॥३॥
 
 
 
 
अष्टषष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | प्रथमर्चश्चतुष्पदा पुरोविराडतिशाक्वरगर्भा जगती  द्वितीयाया अनुष्टुप् तृतीयायाश्चातिजगतीगर्भा त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

आयम॑गन्त्सविता क्षुरेणोष्णेन॑ वाय उदकेनेहि॑ ।
आदित्या रुद्रा वस॑व उन्दन्तु सचे॑तस: सोम॑स्य राज्ञो॑ वपत प्रचे॑तस: ॥१॥
अदि॑ति: श्मश्रु॑ वपत्वाप॑ उन्दन्तु वर्च॑सा ।
चिकि॑त्सतु प्रजाप॑तिर्दीर्घायुत्वाय चक्ष॑से ॥२॥
येनाव॑पत्सविता क्षुरेण सोम॑स्य राज्ञो वरु॑णस्य विद्वान् ।
तेन॑ ब्रह्माणो वपतेदमस्य गोमानश्व॑वानयम॑स्तु प्रजावा॑न् ॥३॥
 
 

एकोनसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | बृहस्पतिरश्विनौ च देवते । अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

गिराव॑रगरा॑टेषु हिर॑ण्ये गोषु यद्यश॑: ।
सुरा॑यां सिच्यमा॑नायां कीलाले मधु तन्मयि॑ ॥१॥
अश्वि॑ना सारघेण॑ मा मधु॑नाङ्क्तं शुभस्पती ।
यथा भर्ग॑स्वतीं वाच॑मावदा॑नि जनाँ अनु॑ ॥२॥
मयि वर्चो अथो यशोऽथो॑ यज्ञस्य यत्पय॑: ।
तन्मयि॑ प्रजाप॑तिर्दिवि द्यामि॑व दृंहतु ॥३॥
 
 
 
सप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्य काङ्कायन ऋषि: | अघ्न्या देवता: | जगती छन्द:॥ (www.hindumantavya.blogspot.in)

 

यथा॑ मांसं यथा सुरा यथाक्षा अ॑धिदेव॑ने ।
यथा॑ पुंसो वृ॑षण्यत स्त्रियां नि॑हन्यते मन॑: ।
एवा ते॑ अघ्न्ये मनोऽधि॑ वत्से नि ह॑न्यताम् ॥१॥
यथा॑ हस्ती ह॑स्तिन्या: पदेन॑ पदमु॑द्युजे ।
यथा॑ पुंसो वृ॑षण्यत स्त्रियां नि॑हन्यते मन॑: ।
एवा ते॑ अघ्न्ये मनोऽधि॑ वत्से नि ह॑न्यताम् ॥२॥
यथा॑ प्रधिर्यथो॑पधिर्यथा नभ्यं॑ प्रधावधि॑ ।
यथा॑ पुंसो वृ॑षण्यत स्त्रियां नि॑हन्यते मन॑: ।
एवा ते॑ अघ्न्ये मनोऽधि॑ वत्से नि ह॑न्यताम् ॥३॥
 
 

एकसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: |  प्रथमाद्वितीययोरृचोरग्नि: तृतीयायाश्च विश्वे देवा देवता: |  प्रथमाद्वितीययोर्जगती तृतीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यदन्नमद्मि॑ बहुधा विरू॑पं हिर॑ण्यमश्व॑मुत गामजामवि॑म् ।
यदेव किं च॑ प्रतिजग्रहाहमग्निष्टद्धोता सुहु॑तं कृनोतु ॥१॥
यन्मा॑ हुतमहु॑तमाजगाम॑ दत्तं पितृभिरनु॑मतं मनुष्यैद्ग: ।
यस्मा॑न्मे मन उदि॑व रार॑जीत्यग्निष्टद्धोता सुहु॑तं कृणोतु ॥२॥
यदन्नमद्म्यनृ॑तेन देवा दास्यन्नदा॑स्यन्नुत सं॑गृणामि॑ ।
वैश्वानरस्य॑ महतो म॑हिम्ना शिवं मह्यं मधु॑मदस्त्वन्न॑म् ॥३॥
 
 

द्विसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | शेपोऽर्को देवता: |  प्रथमर्चो जगती  द्वितीयाया अनुष्टुप्  तृतीयायाश्च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यथा॑सित: प्रथय॑ते वशाँ नु वपूं॑षि कृण्वन्नसु॑रस्य मायया॑ ।
एवा ते शेप: सह॑सायमर्कोऽङ्गेनाङ्गं संस॑मकं कृणोतु ॥१॥
यथा पस॑स्तायादरं वाते॑न स्थूलभं कृतम् ।
यावत्पर॑स्वत: पसस्ताव॑त्ते वर्धतां पस॑: ॥२॥
यावदङ्गीनं पार॑स्वतं हास्ति॑नं गार्द॑भं च यत् ।
यावदश्व॑स्य वाजिनस्ताव॑त्ते वर्धतां पस॑: ॥३॥
 
 
 
त्रिसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | प्रथमातृतीययोरृचोर्भुरिक्त्रिष्टुप्  द्वितीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
 

 

एह या॑तु वरु॑ण: सोमो॑ अग्निर्बृहस्पतिर्वसु॑भिरेह या॑तु ।
अस्य श्रिय॑मुपसंया॑त सर्व॑ उग्रस्य॑ चेत्तु: संम॑नस: सजाता: ॥१॥
यो व: शुष्मो हृद॑येष्वन्तराकू॑तिर्या वो मन॑सि प्रवि॑ष्टा ।
तान्त्सी॑वयामि हविषा॑ घृतेन मयि॑ सजाता रमति॑र्वो अस्तु ॥२॥
इहैव स्त माप॑ याताध्यस्मत्पूषा परस्तादप॑थं व: कृणोतु ।
वास्तोष्पतिरनु॑ वो जोहवीतु मयि॑ सजाता रमति॑र्वो अस्तु ॥३॥
 
 
 

चतु:सप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमाद्वितीययोरृचोर्मन्त्रोक्ता:  तृतीयायाश्च त्रिणामा देवता: | प्रथमाद्वितीययोरनुष्टुप्  तृतीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

सं व॑: पृच्यन्तां तन्व१ सं मनां॑सि समु॑ व्रता ।
सं वोऽयं ब्रह्म॑णस्पतिर्भग: सं वो॑ अजीगमत् ॥१॥
संज्ञप॑नं वो मनसोऽथो॑ संज्ञप॑नं हृद: ।
अथो भग॑स्य यच्छ्रान्तं तेन संज्ञ॑पयामि व: ॥२॥
यथा॑दित्या वसु॑भि: संबभूवुर्मरुद्भि॑रुग्रा अहृ॑णीयमाना: ।
एवा त्रि॑णामन्नहृ॑णीयमान इमाञ्जनान्त्संम॑नसस्कृधीह ॥३॥
 
 
 
पञ्चसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्य कबन्ध ऋषि: | इन्द्रो देवता: | प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयायाश्च षट्पदा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

निरमुं नु॑द ओक॑स: सपत्नो य: पृ॑तन्यति॑ ।
नैर्बाध्येद्गन हविषेन्द्र॑ एनं परा॑शरीत् ॥१॥
परमां तं प॑रावतमिन्द्रो॑ नुदतु वृत्रहा ।
यतो न पुनराय॑ति शश्वतीभ्य: समा॑भ्य: ॥२॥
एतु॑ तिस्र: प॑रावत एतु पञ्च जनाँ अति॑ ।
एतु॑ तिस्रोऽति॑ रोचना यतो न पुनराय॑ति शश्वतीभ्य: समा॑भ्यो यावत्सूर्यो अस॑द्दिवि ॥३॥
 
 

षट्सप्ततितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य कबन्ध ऋषि: | सान्तपनाग्निर्देवता: |  प्रथमाद्वितीययोरृचोश्चतुर्थ्याश्चानुष्टुप्  तृतीयायाश्च ककुम्मत्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

य ए॑नं परिषीद॑न्ति समादध॑ति चक्ष॑से ।
संप्रेद्धो॑ अग्निर्जिह्वाभिरुदे॑तु हृद॑यादधि॑ ॥१॥
अग्ने: सां॑तपनस्याहमायु॑षे पदमा र॑भे ।
अद्धातिर्यस्य पश्य॑ति धूममुद्यन्त॑मास्यत: ॥२॥
यो अ॑स्य समिधं वेद॑ क्षत्रिये॑ण समाहि॑ताम् ।
नाभि॑ह्वारे पदं नि द॑धाति स मृत्यवे॑ ॥३॥
नैनं॑ घ्नन्ति पर्यायिणो न सन्नाँ अव॑ गच्छति ।
अग्नेर्य: क्षत्रियो॑ विद्वान्नाम॑ गृह्णात्यायु॑षे ॥४॥
 
 
 
सप्तसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्य कबन्ध ऋषि: | जातवेदा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 
 
अस्थाद्द्यौरस्था॑त्पृथिव्यस्थाद्विश्व॑मिदं जग॑त् ।
आस्थाने पर्व॑ता अस्थु स्थाम्न्यश्वाँ॑ अतिष्ठिपम् ॥१॥
य उदान॑ट् पराय॑णं य उदानण्न्याय॑नम् ।
आवर्त॑नं निवर्त॑नं यो गोपा अपि तं हु॑वे ॥२॥
जात॑वेदो नि व॑र्तय शतं ते॑ सन्त्वावृत॑: ।
सहस्रं॑ त उपावृतस्तभि॑र्न: पुनरा कृ॑धि ॥३॥
 
 
 
अष्टसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि:  प्रथमाद्वितीययोरृचोश्चन्द्रमा: तृतीयायाश्च त्वष्टा देवते । अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)
 


तेन॑ भूतेन॑ हविषायमा प्या॑यतां पुन॑: ।
जायां याम॑स्मा आवा॑क्षुस्तां रसे॑नाभि व॑र्धताम् ॥१॥
अभि व॑र्धतां पय॑साभि राष्ट्रेण॑ वर्धताम् ।
रय्या सहस्र॑वर्चसेमौ स्तामनु॑पक्षितौ ॥२॥
त्वष्टा॑ जायाम॑जनयत्त्वष्टा॑स्यै त्वां पति॑म् ।
त्वष्टा॑ सहस्रमायुं॑षि दीर्घमायु॑: कृणोतु वाम् ॥३॥
 
 
 
एकोनाशीतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | संस्फानो देवता: |  प्रथमाद्वितीययोरृचोर्गायत्री  तृतीयायाश्च त्रिपदा प्राजापत्या जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

अयं नो नभ॑सस्पति॑: संस्फानो॑ अभि र॑क्षतु ।
अस॑मातिं गृहेषु॑ न: ॥१॥
त्वं नो॑ नभसस्पत ऊर्जं॑ गृहेसु॑ धारय ।
आ पुष्टमेत्वा वसु॑ ॥२॥
देव॑ संस्फान सहस्रापोषस्ये॑शिषे ।
तस्य॑ नो रास्व तस्य॑ नो धेहि तस्य॑ ते भक्तिवांस॑: स्याम ॥३॥
 
 
 
अशीतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा देवता: |  प्रथमर्चो भुरिगनुष्टुप्  द्वितीयाया अनुष्टुप्  तृतीयायाश्च प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
अन्तरि॑क्षेण पतति विश्वा॑ भूतावचाक॑शत् ।
शुनो॑ दिव्यस्य यन्महस्तेना॑ ते हविषा॑ विधेम ॥१॥
ये त्रय॑: कालकाञ्जा दिवि देवा इ॑व श्रिता: ।
तान्सर्वा॑नह्व ऊतयेऽस्मा अ॑रिष्टता॑तये ॥२॥
अप्सु ते जन्म॑ दिवि ते॑ सधस्थं॑ समुद्रे अन्तर्म॑हिमा ते॑ पृथिव्याम् ।
शुनो॑ दिव्यस्य यन्महस्तेना॑ ते हविषा॑ विधेम ॥३॥
 
 
 

एकाशीतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता आदित्यो वा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यन्तासि यच्छ॑से हस्तावप रक्षां॑सि सेधसि ।
प्रजां धनं॑ च गृह्णान: प॑रिहस्तो अ॑भूदयम् ॥१॥
परि॑हस्त वि धा॑रय योनिं गर्भा॑य धात॑वे ।
मर्या॑दे पुत्रमा धे॑हि तं त्वमा ग॑मयागमे ॥२॥
यं प॑रिहस्तमबि॑भरदि॑ति: पुत्रकाम्या ।
त्वष्टा तम॑स्या आ ब॑ध्नाद्यथा॑ पुत्रं जनादिति॑ ॥३॥
 
 
 
द्व्यशीतितमं सूक्तम्» तृचस्यास्य सूक्तस्य भग ऋषि: | इन्द्रो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


आगच्छ॑त आग॑तस्य नाम॑ गृह्णाम्यायत: ।
इन्द्र॑स्य वृत्रघ्नो व॑न्वे वासवस्य॑ शतक्र॑तो: ॥१॥
येन॑ सूर्यां सा॑वित्रीमश्विनोहतु॑: पथा ।
तेन माम॑ब्रवीद्भगो॑ जायामा व॑हतादिति॑ ॥२॥
यस्ते॑ऽङ्कुशो व॑सुदानो॑ बृहन्नि॑न्द्र हिरण्यय॑: ।
तेना॑ जनीयते जायां मह्यं॑ धेहि शचीपते ॥३॥
 
 
 
त्र्यशीतितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याङ्गिरा ऋषि: | मन्त्रोक्ता देवता: |  प्रथमादितृचस्यानुष्टुप्  चतुर्थ्या ऋचश्चैकावसाना द्विपदा निचृदार्च्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अप॑चित: प्र प॑तत सुपर्णो व॑सतेरि॑व ।
सूर्य॑: कृणोतु॑ भेषजं चन्द्रमा वोऽपो॑च्छतु ॥१॥
एन्येका श्येन्येका॑ कृष्णैका रोहि॑णी द्वे ।
सर्वा॑सामग्रभं नामावी॑रघ्नीरपे॑तन ॥२॥
असूति॑का रामायण्यद्गपचित्प्र प॑तिष्यति ।
ग्लौरित: प्र प॑तिष्यति स ग॑लुन्तो न॑शिष्यति ॥३॥
वीहि स्वामाहु॑तिं जुषानो मन॑सा स्वाहा मन॑सा यदिदं जुहोमि॑ ॥४॥
 
 
 
चतुरशीतितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याङ्गिरा ऋषि: | निरृतिर्देवता: | प्रथमर्चो भुरिग्जगती  द्वितीयायास्त्रिपदार्षी बृहती तृतीयाया जगती  चतुर्थ्याश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यस्या॑स्त आसनि॑ घोरे जुहोम्येषां बद्धाना॑मवसर्ज॑नाय कम् ।
भूमिरिति॑ त्वाभिप्रम॑न्वते जना निरृ॑तिरिति॑ त्वाहं परि॑ वेद सर्वत॑: ॥१॥
भूते॑ हविष्म॑ती भवैष ते॑ भागो यो अस्मासु॑ ।
मुञ्चेमानमूनेन॑स: स्वाहा॑ ॥२॥
एवो ष्व१स्मन्नि॑रृतेऽनेहा त्वम॑यस्मयान्वि चृ॑ता बन्धपाशान् ।
यमो मह्यं पुनरित्त्वां द॑दाति तस्मै॑ यमाय नमो॑ अस्तु मृत्यवे॑ ॥३॥
अयस्मये॑ द्रुपदे बे॑धिष इहाभिहि॑तो मृत्युभिर्ये सहस्र॑म् ।
यमेन त्वं पितृभि॑: संविदान उ॑त्तमं नाकमधि॑ रोहयेमम् ॥४॥
 
 
 

पञ्चाशीतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | वनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

वरणो वा॑रयाता अयं देवो वनस्पति॑: ।
यक्ष्मो यो अस्मिन्नावि॑ष्टस्तमु॑ देवा अ॑वीवरन् ॥१॥
इन्द्र॑स्य वच॑सा वयं मित्रस्य वरु॑णस्य च ।
देवानां सर्वे॑षां वाचा यक्ष्मं॑ ते वारयामहे ॥२॥
यथा॑ वृत्र इमा आप॑स्तस्तम्भ॑ विश्वधा॑ यती: ।
एवा ते॑ अग्निना यक्ष्मं॑ वैश्वानरेण॑ वारये ॥३॥
 
 
 
 
षडशीतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | एकवृषो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

वृषेन्द्र॑स्य वृषा॑ दिवो वृषा॑ पृथिव्या अयम् ।
वृषा विश्व॑स्य भूतस्य त्वमे॑कवृषो भ॑व ॥१॥
समुद्र ई॑शे स्रवता॑मग्नि: पृ॑थिव्या वशी ।
चन्द्रमा नक्ष॑त्राणामीशे त्वमे॑कवृषो भ॑व ॥२॥
सम्राडस्यसु॑राणां ककुन्म॑नुष्याद्गणाम् ।
देवाना॑मर्धभाग॑सि त्वमे॑कवृषो भ॑व ॥३॥
 
 
 
सप्ताशीतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | ध्रुवो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

आ त्वा॑हार्षमन्तर॑भूर्ध्रुवस्तिष्ठावि॑चाचलत् ।
विश॑स्त्वा सर्वा॑ वाञ्छन्तु मा त्वद्राष्ट्रमधि॑ भ्रशत् ॥१॥
इहैवैधि माप॑ च्योष्ठा: पर्व॑त इवावि॑चाचलत् ।
इन्द्रेहैव ध्रुवस्ति॑ष्ठेह राष्ट्रमु॑ धारय ॥२॥
इन्द्र॑ एतम॑दीधरद्ध्रुवं ध्रुवेण॑ हविषा॑ ।
तस्मै सोमो अधि॑ ब्रवदयं च ब्रह्म॑णस्पति॑: ॥३॥
 
 
 
अष्टाशीतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | ध्रुवो देवता: | प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

ध्रुवा द्यौर्ध्रुवा पृ॑थिवी ध्रुवं विश्व॑मिदं जग॑त् ।
ध्रुवास: पर्व॑ता इमे ध्रुवो राजा॑ विशामयम् ॥१॥
ध्रुवं ते राजा वरु॑णो ध्रुवं देवो बृहस्पति॑: ।
ध्रुवं त इन्द्र॑श्चाग्निश्च॑ राष्ट्रं धा॑रयतां ध्रुवम् ॥२॥
ध्रुवोऽच्यु॑त: प्र मृ॑णीहि शत्रू॑ञ्छत्रूयतोऽध॑रान्पादयस्व ।
सर्वा दिश: संम॑नस: सध्रीची॑र्ध्रुवाय॑ ते समि॑ति: कल्पतामिह ॥३॥
 
 
 

एकोननवतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 
 
इदं यत्प्रेण्य: शिरो॑ दत्तं सोमे॑न वृष्ण्य॑म् ।
तत: परि प्रजा॑तेन हार्दिं॑ ते शोचयामसि ॥१॥
शोचया॑मसि ते हार्दिं॑ शोचया॑मसि ते मन॑: ।
वातं॑ धूम इ॑व सध्र्य१ङ् मामेवान्वे॑तु ते मन॑: ॥२॥
मह्यं॑ त्वा मित्रावरु॑णौ मह्यं॑ देवी सर॑स्वती ।
मह्यं॑ त्वा मध्यं भूम्या॑ उभावन्तौ सम॑स्यताम् ॥३॥
 
 

नवतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | रुद्रो देवता: | प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयायाश्चार्षी भुरिगुष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यां ते॑ रुद्र इषुमास्यदङ्गे॑भ्यो हृद॑याय च ।
इदं तामद्य त्वद्वयं विषू॑चीं वि वृ॑हामसि ॥१॥
यास्ते॑ शतं धमनयोऽङ्गान्यनु विष्ठि॑ता: ।
तासां॑ ते सर्वा॑सां वयं निर्विषाणि॑ ह्वयामसि ॥२॥
नम॑स्ते रुद्रास्य॑ते नम: प्रति॑हितायै ।
नमो॑ विसृज्यमा॑नायै नमो निप॑तितायै ॥३॥
 
 

एकनवतितमं सूक्तम्» तृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: |  प्रथमाद्वितीययोरृचोर्यक्ष्मनाशनम्  तृतीयायाश्च आपो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 
 
इमं यव॑मष्टायोगै: ष॑द्योगेभि॑रचर्कृषु: ।
तेना॑ ते तन्वो३ रपो॑ऽपाचीनमप॑ व्यये ॥१॥
न्य१ग्वातो॑ वाति न्यद्गक्तपति सूर्य॑: ।
नीचीन॑मघ्न्या दु॑हे न्यद्गग्भवतु ते रप॑: ॥२॥
आप इद्वा उ॑ भेषजीरापो॑ अमीवचात॑नी: ।
आपो विश्व॑स्य भेषजीस्तास्ते॑ कृण्वन्तु भेषजम् ॥३॥
 
 
 
द्विनवतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | वाजी देवता: |  प्रथमर्चो जगती  द्वितीयातृतीययोश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

वात॑रंहा भव वाजिन्युजमा॑न इन्द्र॑स्य याहि प्रसवे मनो॑जवा: ।
युञ्जन्तु॑ त्वा मरुतो॑ विश्ववे॑दस आ ते त्वष्टा॑ पत्सु जवं द॑धातु ॥१॥
जवस्ते॑ अर्वन्निहि॑तो गुहा य: श्येने वात॑ उत योऽच॑रत्परी॑त्त: ।
तेन त्वं वा॑जिन्बल॑वान्बले॑नाजिं ज॑य सम॑ने परयिष्णु: ॥२॥
तनूष्टे॑ वाजिन्तन्वं१ नय॑न्ती वाममस्मभ्यं धाव॑तु शर्म तुभ्य॑म् ।
अह्रु॑तो महो धरुणा॑य देवो दिवीद्गव ज्योति: स्वमा मि॑मीयात् ॥३॥
 
 
 
त्रिनवतितमं सूक्तम्» तृचस्यास्य सूक्तस्य शन्तातिरृषि: ।  प्रथमाद्वितीययोरृचो रुद्र: तृतीयायाश्च विश्वे देवा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)
 


 
यमो मृत्युर॑घमारो नि॑रृथो बभ्रु: शर्वोऽस्ता नील॑शिखण्ड: ।
देवजना: सेन॑योत्तस्थिवांसस्ते अस्माकं परि॑ वृञ्जन्तु वीरान् ॥१॥
मन॑सा होमैर्हर॑सा घृतेन॑ शर्वायास्त्र॑ उत राज्ञे॑ भवाय॑ ।
नमस्येद्गभ्यो नम॑ एभ्य: कृणोम्यन्यत्रास्मदघवि॑षा नयन्तु ॥२॥
त्राय॑ध्वं नो अघवि॑षाभ्यो वधाद्विश्वे॑ देवा मरुतो विश्ववेदस: ।
अग्नीषोमा वरु॑ण: पूतद॑क्षा वातापर्जन्ययो॑: सुमतौ स्या॑म ॥३॥
 
 
 
चतुर्नवतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | सरस्वती देवता: | प्रथमातृतीययोरृचोरनुष्टुप्  द्वितीयायाश्च विराड्जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

सं वो मनां॑सि सं व्रता समाकू॑तीर्नमामसि ।
अमी ये विव्र॑ता स्थन तान्व: सं न॑मयामसि ॥१॥
अहं गृ॑भ्णामि मन॑सा मनां॑सि मम॑ चित्तमनु॑ चित्तेभिरेत॑ ।
मम वशे॑षु हृद॑यानि व: कृणोमि मम॑ यातमनु॑वर्त्मान एत॑ ॥२॥
ओते॑ मे द्यावा॑पृथिवी ओता॑ देवी सर॑स्वती ।
ओतौ॑ म इन्द्र॑श्चाग्निश्च र्ध्यास्मेदं स॑रस्वति ॥३॥
 
 
 
पञ्चनवतितमं सूक्तम्» तृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | वनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 
 
अश्वत्थो दे॑वसद॑नस्तृतीय॑स्यामितो दिवि ।
तत्रामृत॑स्य चक्ष॑णं देवा: कुष्ठ॑मवन्वत ॥१॥
हिरण्ययी नौर॑चरद्धिर॑ण्यबन्धना दिवि ।
तत्रामृत॑स्य पुष्पं॑ देवा: कुष्ठ॑मवन्वत ॥२॥
गर्भो॑ अस्योष॑धीनां गर्भो॑ हिमव॑तामुत ।
गर्भो विश्व॑स्य भूतस्येमं मे॑ अगदं कृ॑धि ॥३॥
 
 
 
षण्णवतितमं सूक्तम्» तृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: |  प्रथमाद्वितीययोरृचोर्वनस्पति:  तृतीयायाश्च सोमो देवते ।  प्रथमाद्वितीययोरनुष्टुप् तृतीयायाश्च त्रिपदा विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


या ओष॑धय: सोम॑राज्ञीर्बह्वी: शतवि॑चक्षणा: ।
बृहस्पति॑प्रसूतास्ता नो॑ मुञ्चन्त्वंह॑स: ॥१॥
मुञ्चन्तु॑ मा शपथ्या३दथो॑ वरुण्याद्गदुत ।
अथो॑ यमस्य पड्वी॑शाद्विश्व॑स्माद्देवकिल्बिषात् ॥२॥
यच्चक्षु॑षा मन॑सा यच्च॑ वाचोपा॑रिम जाग्र॑तो यत्स्वपन्त॑: ।
सोमस्तानि॑ स्वधया॑ न: पुनातु ॥३॥
 
 
 
सप्तनवतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: |   प्रथमातृतीययोरृचोर्देवा: द्वितीयायाश्च मित्रावरुणौ देवता: |  प्रथमायास्त्रिष्टुप् द्वितीयाया जगती  तृतीयायाश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अभिभूर्यज्ञो अ॑भिभूरग्निर॑भिभू: सोमो॑ अभिभूरिन्द्र॑: ।
अभ्य१हं विश्वा: पृत॑ना यथासा॑न्येवा वि॑धेमाग्निहो॑त्रा इदं हवि: ॥१॥
स्वधास्तु॑ मित्रावरुणा विपश्चिता प्रजाव॑त्क्षत्रं मधु॑नेह पि॑न्वतम् ।
बाधे॑थां दूरं निरृ॑तिं पराचै: कृतं चिदेन: प्र मु॑मुक्तमस्मत् ॥२॥
इमं वीरमनु॑ हर्षध्वमुग्रमिन्द्रं॑ सखायो अनु सं र॑भध्वम् ।
ग्रामजितं॑ गोजितं वज्र॑बाहुं जय॑न्तमज्म॑ प्रमृणन्तमोज॑सा ॥३॥
 
 
 

अष्टनवतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | इन्द्रो देवता: |  प्रथमातृतीययोरृचोस्त्रिष्टुप्  द्वितीयायाश्च बृहतीगर्भास्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


इन्द्रो॑ जयाति न परा॑ जयाता अधिराजो राज॑सु राजयातै ।
चर्कृत्य ईड्यो वन्द्य॑श्चोपसद्यो॑ नमस्योद्ग भवेह ॥१॥
त्वमि॑न्द्राधिराज: श्र॑वस्युस्त्वं भू॑रभिभू॑तिर्जना॑नाम् ।
त्वं दैवीर्विश॑ इमा वि राजायु॑ष्मत्क्षत्रमजरं॑ ते अस्तु ॥२॥
प्राच्या॑ दिशस्त्वमि॑न्द्रासि राजोतोदी॑च्या दिशो वृ॑त्रहन्छत्रुहोद्गऽसि ।
यत्र यन्ति॑ स्रोत्यास्तज्जितं ते॑ दक्षिणतो वृ॑षभ ए॑षि हव्य॑: ॥३॥
 
 
 

नवनवतितमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमाद्वितीययोरृचोरिन्द्र:  तृतीयायाश्चेन्द्र: सोम: सविता च देवता: |  प्रथमाद्वितीययोरनुष्टुप्  तृतीयायाश्च भुरिग्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अभि त्वे॑न्द्र वरि॑मत: पुरा त्वां॑हूरणाद्धु॑वे ।
ह्वया॑म्युग्रं चेत्तारं॑ पुरुणा॑मानमेकजम् ॥१॥
यो अद्य सेन्यो॑ वधो जिघां॑सन्न उदीर॑ते ।
इन्द्र॑स्य तत्र॑ बाहू स॑मन्तं परि॑ दद्म: ॥२॥
परि॑ दद्म इन्द्र॑स्य बाहू स॑मन्तं त्रातुस्त्राय॑तां न: ।
देव॑ सवित: सोम॑ राजन्सुमन॑सं मा कृणु स्वस्तये॑ ॥३॥
 
 
 
शततमं सूक्तम्» तृचस्यास्य सूक्तस्य गरुत्मानृषि: । वनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


देवा अ॑दु: सूर्यो॑ अदाद्यौर॑दात्पृथिव्यद्गदात् ।
तिस्र: सर॑स्वतिरदु: सचि॑त्ता विषदूष॑णम् ॥१॥
यद्वो॑ देवा उ॑पजीका आसि॑ञ्चन्धन्व॑न्युदकम् ।
तेन॑ देवप्र॑सूतेनेदं दू॑षयता विषम् ॥२॥
असु॑राणां दुहितासि सा देवाना॑मसि स्वसा॑ ।
दिवस्पृ॑थिव्या: संभू॑ता सा च॑कर्थारसं विषम् ॥३॥
 
 
 

एकोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | ब्रह्मणस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


आ वृ॑षायस्व श्वसिहि वर्ध॑स्व प्रथय॑स्व च ।
यथाङ्गं व॑र्धतां शेपस्तेन॑ योषितमिज्ज॑हि ॥१॥
येन॑ कृषं वाजय॑न्ति येन॑ हिन्वन्त्यातु॑रम् ।
तेनास्य ब्र॑ह्मणस्पते धनु॑रिवा ता॑नया पस॑: ॥२॥
आहं त॑नोमि ते पसो अधि ज्यामि॑व धन्व॑नि ।
क्रमस्वर्श॑ इव रोहितमन॑वग्लायता सदा॑ ॥३॥
 
 

द्व्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य जमदग्निरृषि: । अश्विनौ देवते । अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यथायं वाहो अ॑श्विना समैति सं च वर्त॑ते ।
एवा मामभि ते मन॑: समैतु सं च॑ वर्तताम् ॥१॥
आहं खि॑दामि ते मनो॑ राजाश्व: पृष्ट्यामि॑व ।
रेष्मच्छि॑न्नं यथा तृणं मयि॑ ते वेष्टतां मन॑: ॥२॥
आञ्ज॑नस्य मदुघ॑स्य कुष्ठ॑स्य नल॑दस्य च ।
तुरो भग॑स्य हस्ता॑भ्यामनुरोध॑नमुद्भ॑रे ॥३॥
 
 
 
त्र्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्योच्छोचन ऋषि: | मन्त्रोक्ता इन्द्राग्नी वा देवते । अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


संदानं॑ वो बृहस्पति॑: संदानं॑ सविता क॑रत् ।
संदानं॑ मित्रो अ॑र्यमा संदानं भगो॑ अश्विना॑ ॥१॥
सं प॑रमान्त्सम॑वमानथो सं द्या॑मि मध्यमान् ।
इन्द्रस्तान्पर्य॑हार्दाम्ना तान॑ग्ने सं द्या त्वम् ॥२॥
अमी ये युध॑मायन्ति॑ केतून्कृत्वानी॑कश: ।
इन्द्रस्तान्पर्य॑हार्दाम्ना तान॑ग्ने सं द्या त्वम् ॥३॥
 
 

चतुरुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य प्रशोचन ऋषि: | मन्त्रोक्ता इन्द्राग्नी वा देवते । अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


आदाने॑न संदाने॑नामित्राना द्या॑मसि ।
अपाना ये चै॑षां प्राणा असुनासून्त्सम॑च्छिदन् ॥१॥
इदमादान॑मकरं तपसेन्द्रे॑ण संशि॑तम् ।
अमित्रा येऽत्र॑ न: सन्ति तान॑ग्न आ द्या त्वम् ॥२॥
ऐना॑न्द्यतामिन्द्राग्नी सोमो राजा॑ च मेदिनौ॑ ।
इन्द्रो॑ मरुत्वा॑नादान॑ममित्रे॑भ्य: कृणोतु न: ॥३॥
 
 
 
पञ्चोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्योन्मोचन ऋषि: | कासा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यथा मनो॑ मनस्केतै: प॑रापत॑त्याशुमत् ।
एवा त्वं कासे प्र प॑त मनसोऽनु॑ प्रवाय्यद्गम् ॥१॥
यथा बाण: सुसं॑शित: परापत॑त्याशुमत् ।
एवा त्वं कासे प्र प॑त पृथिव्या अनु॑ संवत॑म् ॥२॥
यथा सूर्य॑स्य रश्मय॑: परापत॑न्त्याशुमत् ।
एवा त्वं कासे प्र प॑त समुद्रस्यानु॑ विक्षरम् ॥३॥
 
 
 
षडुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य प्रमोचन ऋषि: | दूर्वाशाला देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


आय॑ने ते पराय॑णे दूर्वा॑ रोहन्तु पुष्पिणी॑: ।
उत्सो॑ वा तत्र जाय॑तां ह्रदो वा॑ पुण्डरी॑कवान् ॥१॥
अपामिदं न्यय॑नं समुद्रस्य॑ निवेश॑नम् ।
मध्ये॑ ह्रदस्य॑ नो गृहा: प॑राचीना मुखा॑ कृधि ॥२॥
हिमस्य॑ त्वा जरायु॑णा शाले परि॑ व्ययामसि ।
शीतह्र॑दा हि नो भुवोऽग्निष्कृ॑णोतु भेषजम् ॥३॥
 
 
 
सप्तोत्तरशततमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य शन्तातिरृषि: । विश्वजिद्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


विश्व॑जित्त्रायमाणायै॑ मा परि॑ देहि ।
त्राय॑माणे द्विपाच्च सर्वं॑ नो रक्ष चतु॑ष्पाड्यच्च॑ न: स्वम् ॥१॥
त्राय॑माणे विश्वजिते॑ मा परि॑ देहि ।
विश्व॑जिद्द्विपाच्च सर्वं॑ नो रक्ष चतु॑ष्पाद्यच्च॑ न: स्वम् ॥२॥
विश्व॑जित्कल्याण्यैद्ग मा परि॑ देहि ।
कल्या॑णि द्विपाच्च सर्वं॑ नो रक्ष चतु॑ष्पाद्यच्च॑ न: स्वम् ॥३॥
कल्या॑णि सर्वविदे॑ मा परि॑ देहि ।
सर्व॑विद्द्विपाच्च सर्वं॑ नो रक्ष चतु॑ष्पाद्यच्च॑ न: स्वम् ॥४॥
 
 

अष्टोत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य शौनक ऋषि: |   प्रथमादितृचस्य पञ्चम्या ऋचश्च मेधा  चतुर्थ्याश्चाग्निर्देवते ।  ४ प्रथमाचतुर्थीपञ्चमीनामनुष्टुप्  द्वितीयाया उरोबृहती  तृतीयायाश्च पथ्याबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


त्वं नो॑ मेधे प्रथमा गोभिरश्वे॑भिरा ग॑हि ।
त्वं सूर्य॑स्य रश्मिभिस्त्वं नो॑ असि यज्ञिया॑ ॥१॥
मेधामहं प्र॑थमां ब्रह्म॑ण्वतीं ब्रह्म॑जूतामृषि॑ष्टुताम् ।
प्रपी॑तां ब्रह्मचारिभि॑र्देवानामव॑से हुवे ॥२॥
यां मेधामृभवो॑ विदुर्यां मेधामसु॑रा विदु: ।
ऋष॑यो भद्रां मेधां यां विदुस्तां मय्या वे॑शयामसि ॥३॥
यामृष॑यो भूतकृतो॑ मेधां मे॑धाविनो॑ विदु: ।
तया मामद्य मेधयाग्ने॑ मेधाविनं॑ कृणु ॥४॥
मेधां सायं मेधां प्रातर्मेधां मध्यन्दि॑नं परि॑ ।
मेधां सूर्य॑स्य रश्मिभिर्वचसा वे॑शयामहे ॥५॥
 
 
 
नवोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | पिप्पली भेषजमायुर्वा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


पिप्पली क्षि॑प्तभेषज्यू३ताति॑विद्धभेषजी ।
तां देवा: सम॑कल्पयन्नियं जीवि॑तवा अल॑म् ॥१॥
पिप्पल्य सम॑वदन्तायतीर्जन॑नादधि॑ ।
यं जीवमश्नवा॑महै न स रि॑ष्याति पूरु॑ष: ॥२॥
असु॑रास्त्वा न्यद्गखनन्देवास्त्वोद॑वपन्पुन॑: ।
वातीकृ॑तस्य भेषजीमथो॑ क्षिप्तस्य॑ भेषजीम् ॥३॥
 
 
दशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्देवता: |  प्रथमर्च: पङ्क्ति: द्वितीयातृतीययोश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्रत्नो हि कमीड्यो॑ अध्वरेषु॑ सनाच्च होता नव्य॑श्च सत्सि ।
स्वां चा॑ग्ने तन्वंद्ग पिप्राय॑स्वास्मभ्यं॑ च सौभ॑गमा य॑जस्व ॥१॥
ज्येष्ठघ्न्यां जातो विचृतो॑र्यमस्य॑ मूलबर्ह॑णात्परि॑ पाह्येनम् ।
अत्ये॑नं नेषद्दुरितानि विश्वा॑ दीर्घायुत्वाय॑ शतशा॑रदाय ॥२॥
व्याघ्रेऽह्न्य॑जनिष्ट वीरो न॑क्षत्रजा जाय॑मान: सुवीर॑: ।
स मा व॑धीत्पितरं वर्ध॑मानो मा मातरं प्र मि॑नीज्जनि॑त्रीम् ॥३॥
 
 

एकादशोत्तरशततमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्देवता: | प्रथमर्च: परानुष्टुप्त्रिष्टुप्  द्वितीयादितृचस्य चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


इमं मे॑ अग्ने पुरु॑षं मुमुग्ध्ययं यो बद्ध: सुय॑तो लाल॑पीति ।
अतोऽधि॑ ते कृणवद्भागधेयं॑ यदानु॑न्मदितोऽस॑ति ॥१॥
अग्निष्टे नि श॑मयतु यदि॑ ते मन उद्यु॑तम् ।
कृणोमि॑ विद्वान्भे॑षजं यथानु॑न्मदितोऽस॑सि ॥२॥
देवैनसादुन्म॑दितमुन्म॑त्तं रक्ष॑सस्परि॑ ।
कृणोमि॑ विद्वान्भे॑षजं यदानु॑न्मदितोऽस॑ति ॥३॥
पुन॑स्त्वा दुरप्सरस: पुनरिन्द्र: पुनर्भग॑: ।
पुन॑स्त्वा दुर्विश्वे॑ देवा यथानु॑न्मदितोऽस॑सि ॥४॥
 
 

द्वादशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


मा ज्येष्ठं व॑धीदयम॑ग्न एषां मू॑लबर्ह॑णात्परि॑ पाह्येनम् ।
स ग्राह्या: पाशान्वि चृ॑त प्रजानन्तुभ्यं॑ देवा अनु॑ जानन्तु विश्वे॑ ॥१॥
उन्मु॑ञ्च पाशांस्त्वम॑ग्न एषां त्रय॑स्त्रिभिरुत्सि॑ता येभिरास॑न् ।
स ग्राह्या: पाशान्वि चृ॑त प्रजानन्पि॑तापुत्रौ मातरं॑ मुञ्च सर्वा॑न् ॥२॥
येभि: पाशै: परि॑वित्तो विबद्धोऽङ्गे॑अङ्ग आर्पि॑त उत्सि॑तश्च ।
वि ते॑ मुच्यन्तां विमुचो हि सन्ति॑ भ्रूणघ्नि पू॑षन्दुरितानि॑ मृक्ष्व ॥३॥
 
 

त्रयोदशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | पूषा देवता: | प्रथमाद्वितीययोरृचोस्त्रिष्टुप्  तृतीयायाश्च पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


त्रिते देवा अ॑मृजतैतदेन॑स्त्रित ए॑नन्मनुष्येद्गषु ममृजे ।
ततो यदि॑ त्वा ग्राहि॑रानशे तां ते॑ देवा ब्रह्म॑णा नाशयन्तु ॥१॥
मरी॑चीर्धूमान्प्र विशानु॑ पाप्मन्नुदारान्ग॑च्छोत वा॑ नीहारान् ।
नदीनां फेनाँ अनु तान्वि न॑श्य भ्रूणघ्नि पू॑षन्दुरितानि॑ मृक्ष्व ॥२॥
द्वादशधा निहि॑तं त्रितस्याप॑मृष्टं मनुष्यैनसानि॑ ।
ततो यदि॑ त्वा ग्राहि॑रानशे तां ते॑ देवा ब्रह्म॑णा नाशयन्तु ॥३॥
 
 

चतुर्दशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | विश्वे देवा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यद्दे॑वा देवहेड॑नं देवा॑सश्चकृम वयम् ।
आदि॑त्यास्तस्मा॑न्नो यूयमृतस्यर्तेन॑ मुञ्चत ॥१॥
ऋतस्यर्तेना॑दित्या यज॑त्रा मुञ्चतेह न॑: ।
यज्ञं यद्य॑ज्ञवाहस: शिक्ष॑न्तो नोप॑शेकिम ॥२॥
मेद॑स्वता यज॑माना: स्रुचाज्या॑नि जुह्व॑त: ।
अकामा वि॑श्वे वो देवा: शिक्ष॑न्तो नोप॑ शेकिम ॥३॥
 
 

पञ्चदशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | विश्वे देवा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


यद्विद्वांसो यदवि॑द्वांस एनां॑सि चकृमा वयम् ।
यूयं नस्तस्मा॑न्मुञ्चत विश्वे॑ देवा: सजोषसह् ॥१॥
यदि जाग्रद्यदि स्वपन्नेन॑ एनस्योऽक॑रम् ।
भूतं मा तस्माद्भव्यं॑ च द्रुपदादि॑व मुञ्चताम् ॥२॥
द्रुपदादि॑व मुमुचान: स्विन्न: स्नात्वा मला॑दिव ।
पूतं पवित्रे॑णेवाज्यं विश्वे॑ शुम्भन्तु मैन॑स: ॥३॥
 
 
 
षोडशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य जाटिकायन ऋषि: | विवस्वान्देवता: | प्रथमातृतीययोरृचोर्जगती  द्वितीयायाश्च त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 
 
यद्यामं चक्रुर्निखन॑न्तो अग्रे कार्षी॑वणा अन्नविदो न विद्यया॑ ।
वैवस्वते राज॑नि तज्जु॑होम्यथ॑ यज्ञियं मधु॑मदस्तु नोऽन्न॑म् ॥१॥
वैवस्वत: कृ॑णवद्भागधेयं मधु॑भागो मधु॑ना सं सृ॑जाति ।
मातुर्यदेन॑ इषितं न आगन्यद्वा॑ पिताऽप॑राद्धो जिहीदे ॥२॥
यदीदं मातुर्यदि॑ पितुर्न: परि भ्रातु॑: पुत्राच्चेत॑स एन आग॑न् ।
याव॑न्तो अस्मान्पितर: सच॑न्ते तेषां सर्वे॑षां शिवो अ॑स्तु मन्यु: ॥३॥
 
 
सप्तदशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य कौशिक ऋषि: | अग्निर्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

अपमित्यमप्र॑तीत्तं यदस्मि॑ यमस्य येन॑ बलिना चरा॑मि ।
इदं तद॑ग्ने अनृणो भ॑वामि त्वं पाशा॑न्विचृतं॑ वेत्थ सर्वा॑न् ॥१॥
इहैव सन्त: प्रति॑ दद्म एनज्जीवा जीवेभ्यो नि ह॑राम एनत् ।
अपमित्य॑ धान्यं१ यज्जघसाहमिदं तद॑ग्ने अनृणो भ॑वामि ॥२॥
अनृणा अस्मिन्न॑नृणा: पर॑स्मिन्तृतीये॑ लोके अ॑नृणा: स्या॑म ।
ये दे॑वयाना॑: पितृयाणा॑श्च लोका: सर्वा॑न्पथो अ॑नृणा आ क्षि॑येम ॥३॥
 
 
 
अष्टादशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य कौशिक ऋषि: | अग्निर्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 
 
यद्धस्ता॑भ्यां चकृम किल्बि॑षाण्यक्षाणां॑ गत्नुमु॑पलिप्स॑माना: ।
उग्रंपश्ये उ॑ग्रजितौ तदद्याप्सरसावनु॑ दत्तामृणं न॑: ॥१॥
उग्रं॑पश्ये राष्ट्र॑भृत्किल्बि॑षाणि यदक्षवृ॑त्तमनु॑ दत्तं न एतत् ।
ऋणान्नो नर्णमेर्त्स॑मानो यमस्य॑ लोके अधि॑रज्जुराय॑त् ॥२॥
यस्मा॑ ऋणं यस्य॑ जायामुपैमि यं याच॑मानो अभ्यैमि॑ देवा: ।
ते वाचं॑ वादिषुर्मोत्त॑रां मद्देव॑पत्नी अप्स॑रसावधी॑तम् ॥३॥
 
 
एकोनविंशत्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य कौशिक ऋषि: | अग्निर्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


 
यददी॑व्यन्नृणमहं कृणोम्यदा॑स्यन्नग्ने उत सं॑गृणामि॑ ।
वैश्वानरो नो॑ अधिपा वसि॑ष्ठ उदिन्न॑याति सुकृतस्य॑ लोकम् ॥१॥
वैश्वानराय प्रति॑ वेदयामि यद्यृणं सं॑गरो देवता॑सु ।
स एतान्पाशा॑न्विचृतं॑ वेद सर्वानथ॑ पक्वेन॑ सह सं भ॑वेम ॥२॥
वैश्वानर: प॑विता मा॑ पुनातु यत्सं॑गरम॑भिधावा॑म्याशाम् ।
अना॑जानन्मन॑सा याच॑मानो यत्तत्रैनो अप तत्सु॑वामि ॥३॥
 
 
विंशत्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य कौशिक ऋषि: | मन्त्रोक्ता देवता: | प्रथमर्चो जगती  द्वितीयाया: पङ्क्ति:  तृतीयायाश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


 
यदन्तरि॑क्षं पृथिवीमुत द्यां यन्मातरं॑ पितरं॑ वा जिहिंसिम ।
अयं तस्माद्गार्ह॑पत्यो नो अग्निरुदिन्न॑याति सुकृतस्य॑ लोकम् ॥१॥
भूमि॑र्मातादि॑तिर्नो जनित्रं भ्रातान्तरि॑क्षमभिश॑स्त्या न: ।
द्यौर्न॑: पिता पित्र्याच्छं भ॑वाति जामिमृत्वा माव॑ पत्सि लोकात् ॥२॥
यत्रा॑ सुहार्द॑: सुकृतो मद॑न्ति विहाय रोगं॑ तन्व१ स्वाया॑: ।
अश्लो॑णा अङ्गैरह्रु॑ता: स्वर्गे तत्र॑ पश्येम पितरौ॑ च पुत्रान् ॥३॥
 
 
 
एकविंशत्युत्तरशततमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य कौशिक ऋषि: | मन्त्रोक्ता देवता: | प्रथमाद्वितीययोरृचोस्त्रिष्टुप्  तृतीयाचतुर्थ्योश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


 
विषाणा पाशान्वि ष्याध्यस्मद्य उ॑त्तमा अ॑धमा वा॑रुणा ये ।
दुष्वप्न्यं॑ दुरितं नि ष्वास्मदथ॑ गच्छेम सुकृतस्य॑ लोकम् ॥१॥
यद्दारु॑णि बध्यसे यच्च रज्ज्वां यद्भूम्यां॑ बध्यसे यच्च॑ वाचा ।
अयं तस्माद्गार्ह॑पत्यो नो अग्निरुदिन्न॑याति सुकृतस्य॑ लोकम् ॥२॥
उद॑गातां भग॑वती विचृतौ नाम तार॑के ।
प्रेहामृत॑स्य यच्छतां प्रैतु॑ बद्धकमोच॑नम् ॥३॥
वि जि॑हीष्व लोकं कृ॑णु बन्धान्मु॑ञ्चासि बद्ध॑कम् ।
योन्या॑ इव प्रच्यु॑तो गर्भ॑: पथ: सर्वाँ अनु॑ क्षिय ॥४॥
 
 
 

द्वाविंशत्युत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य भृगुरृषि: । विश्वकर्मा देवता: | प्रथमादितृचस्य त्रिष्टुप्  चतुर्थीपञ्चम्योरृचोश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


 
एतं भागं परि॑ ददामि विद्वान्विश्व॑कर्मन्प्रथमजा ऋतस्य॑ ।
अस्माभि॑र्दत्तं जरस॑: परस्तादच्छि॑न्नं तन्तुमनु सं त॑रेम ॥१॥
ततं तन्तुमन्वेके॑ तरन्ति येषां॑ दत्तं पित्र्यमाय॑नेन ।
अबन्ध्वेके दद॑त: प्रयच्छ॑न्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥२॥
अन्वार॑भेथामनुसंर॑भेथामेतं लोकं श्रद्दधा॑ना: सचन्ते ।
यद्वां॑ पक्वं परि॑विष्टमग्नौ तस्य गुप्त॑ये दंपती सं श्र॑येथाम् ॥३॥
यज्ञं यन्तं मन॑सा बृहन्त॑मन्वारो॑हामि तप॑सा सयो॑नि: ।
उप॑हूता अग्ने जरस॑: परस्ता॑त्तृतीये नाके॑ सधमादं॑ मदेम ॥४॥
शुद्धा: पूता योषितो॑ यज्ञिया॑ इमा ब्रह्मणां हस्ते॑षु प्रपृथक्सा॑दयामि ।
यत्का॑म इदम॑भिषिञ्चामि॑ वोऽहमिन्द्रो॑ मरुत्वान्त्स द॑दातु तन्मे॑ ॥५॥
 
 
 
त्रयोविंशत्युत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य भृगुरृषि: । विश्वे देवा देवता: | प्रथमाद्वितीयापञ्चमीनामृचां त्रिष्टुप्  तृतीयाया द्विपदा साम्न्यनुष्टुप् चतुर्थ्याश्चैकावसाना द्विपदा प्राजापत्या भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


 
एतं स॑धस्था: परि॑ वो ददामि यं शे॑वधिमावहा॑ज्जातवे॑द: ।
अन्वागन्ता यज॑मान: स्वस्ति तं स्म॑ जानीत परमे व्योद्गमन् ॥१॥
जानीत स्मै॑नं परमे व्योद्गमन्देवा: सध॑स्था विद लोकमत्र॑ ।
अन्वागन्ता यज॑मान: स्वस्तीद्गष्टापूर्तं स्म॑ कृणुताविर॑स्मै ॥२॥
देवा: पित॑र: पित॑रो देवा॑: ।
यो अस्मि सो अ॑स्मि ॥३॥
स प॑चामि स द॑दामि स य॑जे स दत्तान्मा यू॑षम् ॥४॥
नाके॑ राजन्प्रति॑ तिष्ठ तत्रैतत्प्रति॑ तिष्ठतु ।
विद्धि पूर्तस्य॑ नो राजन्त्स दे॑व सुमना॑ भव ॥५॥
 
 

चतुर्विंशत्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता दिव्या आपो वा देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

दिवो नु मां बृ॑हतो अन्तरि॑क्षादपां स्तोको अभ्यद्गपप्तद्रसे॑न ।
समि॑न्द्रियेण पय॑साहम॑ग्ने छन्दो॑भिर्यज्ञै: सुकृतां॑ कृतेन॑ ॥१॥
यदि॑ वृक्षादभ्यप॑प्तत्फलं तद्यद्यन्तरि॑क्षात्स उ॑ वायुरेव ।
यत्रास्पृ॑क्षत्तन्वो३ यच्च वास॑स आपो॑ नुदन्तु निरृ॑तिं पराचै: ॥२॥
अभ्यञ्ज॑नं सुरभि सा समृ॑द्धिर्हिर॑ण्यं वर्चस्तदु॑ पूत्रिम॑मेव ।
सर्वा॑ पवित्रा वितताध्यस्मत्तन्मा ता॑रीन्निरृ॑तिर्मो अरा॑ति: ॥३॥
 
 

पञ्चविंशत्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | वनस्पतिर्देवता: | प्रथमातृतीययोरृचोस्त्रिष्टुप्  द्वितीयायाश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

वन॑स्पते वीड्वद्गङ्गो हि भूया अस्मत्स॑खा प्रतर॑ण: सुवीर॑: ।
गोभि: संन॑द्धो असि वीडय॑स्वास्थाता ते॑ जयतु जेत्वा॑नि ॥१॥
दिवस्पृ॑थिव्या: पर्योज उद्भृ॑तं वनस्पति॑भ्य: पर्याभृ॑तं सह॑: ।
अपामोज्मानं परि गोभिरावृ॑तमिन्द्र॑स्य वज्रं॑ हविषा रथं॑ यज ॥२॥
इन्द्रस्यौजो॑ मरुतामनी॑कं मित्रस्य गर्भो वरु॑णस्य नाभि॑: ।
स इमां नो॑ हव्यदा॑तिं जुषाणो देव॑ रथ प्रति॑ हव्या गृ॑भाय ॥३॥
 
 
 
षड्विंशत्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | वानस्पत्यदुन्दुभिर्देवता: |  प्रथमाद्वितीययोरृचोर्भुरिक्त्रिष्टुप्  तृतीयायाश्च पुरोबृहतीविराड्गर्भा त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 

उप॑ श्वासय पृथिवीमुत द्यां पु॑रुत्रा ते॑ वन्वतां विष्ठि॑तं जग॑त् ।
स दु॑न्दुभे सजूरिन्द्रे॑ण देवैर्दूराद्दवी॑यो अप॑ सेध शत्रू॑न् ॥१॥
आ क्र॑न्दय बलमोजो॑ न आ धा॑ अभि ष्ठ॑न दुरिता बाध॑मान: ।
अप॑ सेध दुन्दुभे दुच्छुना॑मित इन्द्र॑स्य मुष्टिर॑सि वीडय॑स्व ॥२॥
प्रामूं ज॑याभी३मे ज॑यन्तु केतुमद्दु॑न्दुभिर्वा॑वदीतु ।
समश्व॑पर्णा: पतन्तु नो नरोऽस्माक॑मिन्द्र रथिनो॑ जयन्तु ॥३॥
 
 

सप्तविंशत्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | वनस्पतिर्यक्ष्मनाशनं वा देवता: |  प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयायाश्च त्र्यवसाना षट्पदा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

विद्रधस्य॑ बलास॑स्य लोहि॑तस्य वनस्पते ।
विसल्प॑कस्योषधे मोच्छि॑ष: पिशितं चन ॥१॥
यौ ते॑ बलास तिष्ठ॑त: कक्षे॑ मुष्कावप॑श्रितौ ।
वेदाहं तस्य॑ भेषजं चीपुद्रु॑रभिचक्ष॑णम् ॥२॥
यो अङ्ग्यो य: कर्ण्यो यो अक्ष्योर्विसल्प॑क: ।
वि वृ॑हामो विसल्प॑कं विद्रधं हृ॑दयामयम् ।
परा तमज्ञा॑तं यक्ष्म॑मधराञ्चं॑ सुवामसि ॥३॥
 
 
 
 
अष्टाविंशत्युत्तरशततमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | सोम: शकधूमश्च देवते । अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

शकधूमं नक्ष॑त्राणि यद्राजा॑नमकु॑र्वत ।
भद्राहम॑स्मै प्राय॑च्छन्निदं राष्ट्रमसादिति॑ ॥१॥
भद्राहं नो॑ मध्यंन्दि॑ने भद्राहं सायम॑स्तु न: ।
भद्राहं नो अह्नां॑ प्राता रात्री॑ भद्राहम॑स्तु न: ॥२॥
अहोरात्राभ्यां नक्ष॑त्रेभ्य: सुर्याचन्द्रमसा॑भ्याम् ।
भद्राहमस्मभ्यं॑ राजन्छक॑धूम त्वं कृ॑धि ॥३॥
यो नो॑ भद्राहम॑कर: सायं नक्तमथो दिवा॑ ।
तस्मै॑ ते नक्षत्रराज शक॑धूम सदा नम॑: ॥४॥
 
 

एकोनत्रिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | भगो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


भगे॑न मा शांशपेन॑ साकमिन्द्रे॑ण मेदिना॑ ।
कृणोमि॑ भगिनं माप॑ द्रान्त्वरा॑तय: ॥१॥
येन॑ वृक्षाँ अभ्यभ॑वो भगे॑न वर्च॑सा सह ।
तेन॑ मा भगिनं॑ कृण्वप॑ द्रान्त्वरा॑तय: ॥२॥
यो अन्धो य: पु॑न:सरो भगो॑ वृक्षेष्वाहि॑त: ।
तेन॑ मा भगिनं॑ कृण्वप॑ द्रान्त्वरा॑तय: ॥३॥
 
 
 
त्रिंशदुत्तरशततमं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | स्मरो देवता: | प्रथमर्चो विराट् पुरस्ताद्बृहती  द्वितीयादितृचस्य चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
रथजितां॑ राथजितेयीना॑मप्सरसा॑मयं स्मर: ।
देवा: प्र हि॑णुत स्मरमसौ मामनु॑ शोचतु ॥१॥
असौ मे॑ स्मरतादिति॑ प्रियो मे॑ स्मरतादिति॑ ।
देवा: प्र हि॑णुत स्मरमसौ मामनु॑ शोचतु ॥२॥
यथा मम स्मरा॑दसौ नामुष्याहं कदा चन ।
देवा: प्र हि॑णुत स्मरमसौ मामनु॑ शोचतु ॥३॥
उन्मा॑दयत मरुत उद॑न्तरिक्ष मादय ।
अग्न उन्मा॑दया त्वमसौ मामनु॑ शोचतु ॥४॥
 
 

एकत्रिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | स्मरो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

नि शी॑र्षतो नि प॑त्तत आध्यो३ नि ति॑रामि ते ।
देवा: प्र हि॑णुत स्मरमसौ मामनु॑ शोचतु ॥१॥
अनु॑मतेऽन्विदं म॑न्यस्वाकू॑ते समिदं नम॑: ।
देवा: प्र हि॑णुत स्मरमसौ मामनु॑ शोचतु ॥२॥
यद्धाव॑सि त्रियोजनं प॑ञ्चयोजनमाश्वि॑नम् ।
ततस्त्वं पुनराय॑सि पुत्राणां॑ नो अस: पिता ॥३॥
 
 
 
द्वात्रिंशदुत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | स्मरो देवता: |  प्रथमर्चस्त्रिपदानुष्टुप्   द्वितीयाचतुर्थ्योस्त्रिपदा विराट् महाबृहती  तृतीयाया भुरिगनुष्टुप् पञ्चम्याश्च त्रिपदा महाबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यं देवा: स्मरमसि॑ञ्चन्नप्स्व१न्त शोशु॑चानं सहाद्या ।
तं ते॑ तपामि वरु॑णस्य धर्म॑णा ॥१॥
यं विश्वे॑ देवा: स्मरमसि॑ञ्चन्नप्स्व१न्त शोशु॑चानं सहाद्या ।
तं ते॑ तपामि वरु॑णस्य धर्म॑णा ॥२॥
यमि॑न्द्राणी स्मरमसि॑ञ्चदप्स्व१न्त शोशु॑चानं सहाद्या ।
तं ते॑ तपामि वरु॑णस्य धर्म॑णा ॥३॥
यमि॑न्द्राग्नी स्मरमसि॑ञ्चतामप्स्व१न्त शोशु॑चानं सहाद्या ।
तं ते॑ तपामि वरु॑णस्य धर्म॑णा ॥४॥
यं मित्रावरु॑णौ स्मरमसि॑ञ्चतामप्स्व१न्त शोशु॑चानं सहाद्या ।
तं ते॑ तपामि वरु॑णस्य धर्म॑णा ॥५॥
 
 
 

त्रयस्त्रिंशदुत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्यागस्त्य ऋषि: | मेखला देवता: | प्रथमर्चो भुरिक्त्रिष्टुप्   द्वितीयापञ्चम्योरनुष्टुप् तृतीयायास्त्रिष्टुप्  चतुर्थ्याश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

य इमां देवो मेख॑लामाबबन्ध य: सं॑ननाह य उ॑ नो युयोज॑ ।
यस्य॑ देवस्य॑ प्रशिषा चरा॑म: स पारमि॑च्छात्स उ॑ नो वि मु॑ञ्चात् ॥१॥
आहु॑तास्यभिहु॑त ऋषी॑णामस्यायु॑धम् ।
पूर्वा॑ व्रतस्य॑ प्राश्नती वी॑रघ्नी भ॑व मेखले ॥२॥
मृत्योरहं ब्र॑ह्मचारी यदस्मि॑ निर्याच॑न्भूतात्पुरु॑षं यमाय॑ ।
तमहं ब्रह्म॑णा तप॑सा श्रमे॑णानयै॑नं मेख॑लया सिनामि ॥३॥
श्रद्धाया॑ दुहिता तपसोऽधि॑ जाता स्वसा ऋषी॑णां भूतकृतां॑ बभूव॑ ।
सा नो॑ मेखले मतिमा धे॑हि मेधामथो॑ नो धेहि तप॑ इन्द्रियं च॑ ॥४॥
यां त्वा पूर्वे॑ भूतकृत ऋष॑य: परिबेधिरे ।
सा त्वं परि॑ ष्वजस्व मां दी॑र्घायुत्वाय॑ मेखले ॥५॥
 
 
 
चतुस्त्रिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य शुक्र ऋषि: | वज्रो देवता: |  प्रथमर्च: परानुष्टुप् त्रिष्टुप्  द्वितीयाया भुरिक्त्रिपदा गायत्री  तृतीयायाश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अयं वज्र॑स्तर्पयतामृतस्यावा॑स्य राष्ट्रमप॑ हन्तु जीवितम् ।
शृणातु॑ ग्रीवा: प्र शृ॑णातूष्णिहा॑ वृत्रस्ये॑व शचीपति॑: ॥१॥
अध॑रोऽधर उत्त॑रेभ्यो गूढ: पृ॑थिव्या मोत्सृ॑पत् ।
वज्रेणाव॑हत: शयाम् ॥२॥
यो जिनाति तमन्वि॑च्छ यो जिनाति तमिज्ज॑हि ।
जिनतो व॑ज्र त्वं सीमन्त॑मन्वञ्चमनु॑ पातय ॥३॥
 
 
पञ्चत्रिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य शुक्र ऋषि: | वज्रो देवता: | अनुष्टंप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

यदश्नामि बलं॑ कुर्व इत्थं वज्रमा द॑दे ।
स्कन्धानमुष्य॑ शातय॑न्वृत्रस्ये॑व शचीपति॑: ॥१॥
यत्पिबा॑मि सं पि॑बामि समुद्र इ॑व संपिब: ।
प्राणानमुष्य॑ संपाय सं पि॑बामो अमुं वयम् ॥२॥
यद्गिरा॑मि सं गि॑रामि समुद्र इ॑व संगिर: ।
प्राणानमुष्य॑ संगीर्य सं गि॑रामो अमुं वयम् ॥३॥
 
 
 
षट्त्रिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य वीतहव्य ऋषि: | नितत्नीवनस्पतिर्देवता: |   प्रथमातृतीययोरृचोरनुष्टुप्  द्वितीयायाश्चैकावसाना द्विपदा साम्नी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

देवी देव्यामधि॑ जाता पृ॑थिव्याम॑स्योषधे ।
तां त्वा॑ नितत्नि केशे॑भ्यो दृंह॑णाय खनामसि ॥१॥
दृंह॑ प्रत्नाञ्जनयाजा॑ताञ्जातानु वर्षी॑यसस्कृधि ॥२॥
यस्ते केशो॑ऽवपद्य॑ते समू॑लो यश्च॑ वृश्चते॑ ।
इदं तं विश्वभे॑षज्याभि षि॑ञ्चामि वीरुधा॑ ॥३॥
 
 

सप्तत्रिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य वीतहव्य ऋषि: | नितत्नीवनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

यां जमद॑ग्निरख॑नद्दुहित्रे के॑शवर्ध॑नीम् ।
तां वीतह॑व्य आभ॑रदसि॑तस्य गृहेभ्य॑: ॥१॥
अभीशु॑ना मेया॑ आसन्व्यामेना॑नुमेया॑: ।
केशा॑ नडा इ॑व वर्धन्तां शीर्ष्णस्ते॑ असिता: परि॑ ॥२॥
दृंह मूलमाग्रं॑ यच्छ वि मध्यं॑ यामयौषधे ।
केशा॑ नडा इ॑व वर्धन्तां शीर्ष्णस्ते॑ असिता: परि॑ ॥३॥
 
 
 
अष्टात्रिंशदुत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | नितत्नीवनस्पतिर्देवता: |  प्रथमाद्वितीयाचतुर्थीपञ्चमीनामृचामनुष्टुप्  तृतीयायाश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

त्वं वीरुधां श्रेष्ठ॑तमाभिश्रुतास्यो॑षधे ।
इमं मे॑ अद्य पुरु॑षं क्लीबमो॑पशिनं॑ कृधि ॥१॥
क्लीबं कृ॑ध्योपशिनमथो॑ कुरीरिणं॑ कृधि ।
अथास्येन्द्रो ग्राव॑भ्यामुभे भि॑नत्त्वाण्ड्यौद्ग ॥२॥
क्लीब॑ क्लीबं त्वा॑करं वध्रे वध्रिं॑ त्वाकरमर॑सारसं त्वा॑करम् ।
कुरीर॑मस्य शीर्षणि कुम्बं॑ चाधिनिद॑ध्मसि ॥३॥
ये ते॑ नाद्यौद्ग देवकृ॑ते ययोस्तिष्ठ॑ति वृष्ण्य॑म् ।
ते ते॑ भिनद्मि शम्य॑यामुष्या अधि॑ मुष्कयो॑: ॥४॥
यथा॑ नडं कशिपु॑ने स्त्रियो॑ भिन्दन्त्यश्म॑ना ।
एवा भि॑नद्मि ते शेपोऽमुष्या अधि॑ मुष्कयो॑: ॥५॥
 
 
 
एकोनचत्वारिंशदुत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | वनस्पतिर्देवता: |  प्रथमर्चस्त्र्यवसाना षट्पदा विराड्जगती  द्वितीयादिचतसृणाञ्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

न्यस्तिका रु॑रोहिथ सुभगंकर॑णी मम॑ ।
शतं तव॑ प्रतानास्त्रय॑स्त्रिंशन्निताना:॥
तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥
शुष्य॑तु मयि॑ ते हृद॑यमथो॑ शुष्यत्वास्यद्गम् ।
अथो नि शु॑ष्य मां कामेनाथो शुष्का॑स्या चर ॥२॥
संवन॑नी समुष्पला बभ्रु कल्या॑णि सं नु॑द ।
अमूं च मां च सं नु॑द समानं हृद॑यं कृधि ॥३॥
यथो॑दकमप॑पुषोऽपशुष्य॑त्यास्यद्गम् ।
एवा नि शु॑ष्य मां कामेनाथो शुष्का॑स्या चर ॥४॥
यथा॑ नकुलो विच्छिद्य॑ संदधात्यहिं पुन॑: ।
एवा काम॑स्य विच्छि॑न्नं सं धे॑हि वीर्यावति ॥५॥
 
 

चत्वारिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | ब्रह्मणस्पतिर्दन्ता वा देवता: | प्रथमर्च उरोबृहती  द्वितीयाया उपरिष्टाज्ज्योतिष्मती त्रिष्टुप् तृतीयायाश्चास्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यौ व्याघ्रावव॑रूधौ जिघ॑त्सत: पितरं॑ मातरं॑ च ।
तौ दन्तौ॑ ब्रह्मणस्पते शिवौ कृ॑णु जातवेद: ॥१॥
व्रीहिम॑त्तं यव॑मत्तमथो माषमथो तिल॑म् ।
एष वां॑ भागो निहि॑तो रत्नधेया॑य दन्तौ मा हिं॑सिष्टं पितरं॑ मातरं॑ च ॥२॥
उप॑हूतौ सयुजौ॑ स्योनौ दन्तौ॑ सुमङ्गलौ॑ ।
अन्यत्र॑ वां घोरं तन्व१ परै॑तु दन्तौ मा हिं॑सिष्टं पितरं॑ मातरं॑ च ॥३॥
 
 
एकचत्वारिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य विश्वामित्र ऋषि: | अश्विनौ देवते । अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

वायुरे॑ना: समाक॑रत्त्वष्टा पोषा॑य ध्रियताम् ।
इन्द्र॑ आभ्यो अधि॑ ब्रवद्रुद्रो भूम्ने चि॑कित्सतु ॥१॥
लोहि॑तेन स्वधि॑तिना मिथुनं कर्ण॑यो: कृधि ।
अक॑र्तामश्विना लक्ष्म तद॑स्तु प्रजया॑ बहु ॥२॥
यथा॑ चक्रुर्दे॑वासुरा यथा॑ मनुष्याद्ग उत ।
एवा स॑हस्रपोषाय॑ कृणुतं लक्ष्मा॑श्विना ॥३॥
 
 
 

द्विचत्वारिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य विश्वामित्र ऋषि: | वायुर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)

 

उच्छ्र॑यस्व बहुर्भ॑व स्वेन मह॑सा यव ।
मृणीहि विश्वा पात्रा॑णि मा त्वा॑ दिव्याशनि॑र्वधीत् ॥१॥
आशृण्वन्तं यवं॑ देवं यत्र॑ त्वाच्छावदा॑मसि ।
तदुच्छ्र॑यस्व द्यौरि॑व समुद्र इ॑वैध्यक्षि॑त: ॥२॥
अक्षि॑तास्त उपसदोऽक्षि॑ता: सन्तु राशय॑: ।
पृणन्तो अक्षि॑ता: सन्त्वत्तार॑: सन्त्वक्षि॑ता: ॥३॥
 

॥ इति षष्ठं काण्डम ॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *