अथर्ववेद
अथर्ववेद संहिता- काण्डम् १२ (Atharvved Kand 12)
अथर्ववेद संहिता
॥अथ द्वादशं काण्डम्॥
प्रथमं सूक्तम्» त्रिषष्ट्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | भूमिर्देवता: | प्रथमातृतीयासप्तदश्येकोनत्रिंश्येकत्रिंशीपञ्चपञ्चाशीषष्टीनामृचां त्रिष्टुप् द्वितीयाया भुरिक्त्रिष्टुप् चतुर्थ्यादितृचस्य दशम्यष्टात्रिंश्योश्च त्र्यवसाना षट्पदा जगती सप्तम्या: प्रस्तारपङ्क्ति: अष्टम्येकादश्योस्त्र्यवसाना षट्पदा विराडष्टि: नवम्या: परानुष्टुप्त्रिष्टुप् द्वादशीत्रयोदशीसप्तत्रिंशीनां त्र्यवसाना पञ्चपदा शक्वरी चतुर्दश्या महाबृहती पञ्चदश्या: पञ्चपदा शक्वरी षोडश्येकविंश्योरेकावसाना साम्नी त्रिष्टुप् अष्टादश्यास्त्र्यवसाना षट्पदा त्रिष्टुबनुष्टुब्गर्भातिशक्वरी एकोनविंश्या उरोबृहती विंश्या विराडुरोबृहती द्वाविंश्यास्त्र्यवसाना षट्पदा विराडतिजगती त्रयोविंश्या: पञ्चपदा विराडतिजगती चतुर्विंश्या: पञ्चपदानुष्टुब्गर्भा जगती पञ्चविंश्यास्त्र्यवसाना सप्तपदोष्णिगनुष्टुब्गर्भा शक्वरी षड्विंश्यादितृचस्य त्रयस्त्रिंशीपञ्चत्रिंश्येकोनचत्वारिंशीचत्वारिंशीपञ्चाशीचतुष्पञ्चाशीषट्पञ्चाश्येकोनषष्टीत्रिषष्टीनाञ्चानुष्टुप् त्रिंश्या विराड्गायत्री द्वात्रिंश्या: पुरस्ताज्ज्योतिस्त्रिष्टुप् चतुस्त्रिंश्यास्त्र्यवसाना षट्पदा त्रिष्टुब्बृहतीगर्भातिजगती षट्त्रिंश्या विपरीतपादलक्ष्मा पङ्क्ति: एकचत्वारिंश्यास्त्र्यवसाना षट्पदा ककुम्मती शक्वरी द्विचत्वारिंश्या: स्वराडनुष्टुप् त्रिचत्वारिंश्या विराडास्तारपङ्क्ति: चतुश्चत्वारिंशीपञ्चचत्वारिंश्येकोनपञ्चाशीनां जगती षट्चत्वारिंश्या: षट्पदानुष्टुब्गर्भा पराशक्वरी सप्तचत्वारिंश्या: षट्पदोष्णिगनुष्टुब्गर्भा परातिशक्वरी अष्टचत्वारिंश्या: पुरोऽनुष्टुप्त्रिष्टुप् एक्पञ्चाश्यास्त्र्यवसाना षट्पदानुष्टुब्गर्भा ककुम्मती शक्वरी द्विपञ्चाश्या: पञ्चपदानुष्टुब्गर्भा परातिजगती त्रिपञ्चाश्या: पुरोबार्हतानुष्टुप् सप्तपञ्चाश्या: पुरोऽतिजागता जगती अष्टपञ्चाश्या: पुरस्ताद्बृहती एकषष्ट्या: पुरोबार्हता त्रिष्टुप् द्विषष्ट्याश्च पराविराट्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म॑ यज्ञ: पृ॑थिवीं धा॑रयन्ति ।
सा नो॑ भूतस्य भव्य॑स्य पत्न्युरुं लोकं पृ॑थिवी न॑: कृणोतु ॥१॥
असंबाधं म॑ध्यतो मा॑नवानां यस्या॑ उद्वत॑: प्रवत॑: समं बहु ।
नाना॑वीर्या ओष॑धीर्या बिभ॑र्ति पृथिवी न॑: प्रथतां राध्य॑तां न: ॥२॥
नाना॑वीर्या ओष॑धीर्या बिभ॑र्ति पृथिवी न॑: प्रथतां राध्य॑तां न: ॥२॥
यस्यां॑ समुद्र उत सिन्धुरापो यस्यामन्नं॑ कृष्टय॑: संबभूवु: ।
यस्या॑मिदं जिन्व॑ति प्राणदेजत्सा नो भूमि॑: पूर्वपेये॑ दधातु ॥३॥
यस्या॑मिदं जिन्व॑ति प्राणदेजत्सा नो भूमि॑: पूर्वपेये॑ दधातु ॥३॥
यस्याश्चत॑स्र: प्रदिश॑: पृथिव्या यस्यामन्नं॑ कृष्टय॑: संबभूवु: ।
या बिभ॑र्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने॑ दधातु ॥४॥
या बिभ॑र्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने॑ दधातु ॥४॥
यस्यां पूर्वे॑ पूर्वजना वि॑चक्रिरे यस्यां॑ देवा असु॑रानभ्यव॑र्तयन् ।
गवामश्वा॑नां वय॑सश्च विष्ठा भगं वर्च॑: पृथिवी नो॑ दधातु ॥५॥
गवामश्वा॑नां वय॑सश्च विष्ठा भगं वर्च॑: पृथिवी नो॑ दधातु ॥५॥
विश्वंभरा व॑सुधानी॑ प्रतिष्ठा हिर॑ण्यवक्षा जग॑तो निवेश॑नी ।
वैश्वानरं बिभ्र॑ती भूमि॑रग्निमिन्द्र॑ऋषभा द्रवि॑णे नो दधातु ॥६॥
वैश्वानरं बिभ्र॑ती भूमि॑रग्निमिन्द्र॑ऋषभा द्रवि॑णे नो दधातु ॥६॥
यां रक्ष॑न्त्यस्वप्ना वि॑श्वदानीं॑ देवा भूमिं॑ पृथिवीमप्र॑मादम् ।
सा नो मधु॑ प्रियं दु॑हामथो॑ उक्षतु वर्च॑सा ॥७॥
सा नो मधु॑ प्रियं दु॑हामथो॑ उक्षतु वर्च॑सा ॥७॥
यार्णवेऽधि॑ सलिलमग्र आसीद्यां मायाभि॑रन्वच॑रन्मनीषिण॑: ।
यस्या हृद॑यं परमे व्योद्गमन्त्सत्येनावृ॑तममृतं॑ पृथिव्या: ।
सा नो भूमिस्त्विषिं बलं॑ राष्ट्रे द॑धातूत्तमे ॥८॥
यस्या हृद॑यं परमे व्योद्गमन्त्सत्येनावृ॑तममृतं॑ पृथिव्या: ।
सा नो भूमिस्त्विषिं बलं॑ राष्ट्रे द॑धातूत्तमे ॥८॥
यस्यामाप॑: परिचरा: स॑मानीर॑होरात्रे अप्र॑मादं क्षर॑न्ति ।
सा नो भूमिर्भूरि॑धारा पयो॑ दुहामथो॑ उक्षतु वर्च॑सा ॥९॥
सा नो भूमिर्भूरि॑धारा पयो॑ दुहामथो॑ उक्षतु वर्च॑सा ॥९॥
यामश्विनावमि॑मातां विष्णुर्यस्यां॑ विचक्रमे ।
इन्द्रो यां चक्र आत्मने॑ऽनमित्रां शचीपति॑: ।
सा नो भूमिर्वि सृ॑जतां माता पुत्राय॑ मे पय॑: ॥१०॥
इन्द्रो यां चक्र आत्मने॑ऽनमित्रां शचीपति॑: ।
सा नो भूमिर्वि सृ॑जतां माता पुत्राय॑ मे पय॑: ॥१०॥
गिरय॑स्ते पर्व॑ता हिमवन्तोऽर॑ण्यं ते पृथिवि स्योनम॑स्तु ।
बभ्रुं कृष्णां रोहि॑णीं विश्वरू॑पां ध्रुवां भूमिं॑ पृथिवीमिन्द्र॑गुप्ताम् ।
अजीतोऽह॑तो अक्षतोऽध्य॑ष्ठां पृथिवीमहम् ॥११॥
बभ्रुं कृष्णां रोहि॑णीं विश्वरू॑पां ध्रुवां भूमिं॑ पृथिवीमिन्द्र॑गुप्ताम् ।
अजीतोऽह॑तो अक्षतोऽध्य॑ष्ठां पृथिवीमहम् ॥११॥
यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्ज॑स्तन्वद्ग: संबभूवु: ।
तासु॑ नो धेह्यभि न॑: पवस्व माता भूमि॑: पुत्रो अहं पृ॑थिव्या: ।
पर्जन्य॑: पिता स उ॑ न: पिपर्तु ॥१२॥
तासु॑ नो धेह्यभि न॑: पवस्व माता भूमि॑: पुत्रो अहं पृ॑थिव्या: ।
पर्जन्य॑: पिता स उ॑ न: पिपर्तु ॥१२॥
यस्यां वेदिं॑ परिगृह्णन्ति भूम्यां यस्यां॑ यज्ञं तन्वते॑ विश्वक॑र्माण: ।
यस्यां॑ मीयन्ते स्वर॑व: पृथिव्यामूर्ध्वा: शुक्रा आहु॑त्या: पुरस्ता॑त् ।
सा नो भूमि॑र्वर्धयद्वर्धमाना ॥१३॥
यस्यां॑ मीयन्ते स्वर॑व: पृथिव्यामूर्ध्वा: शुक्रा आहु॑त्या: पुरस्ता॑त् ।
सा नो भूमि॑र्वर्धयद्वर्धमाना ॥१३॥
यो नो द्वेष॑त्पृथिवि य: पृ॑तन्याद्योऽभिदासान्मन॑सा यो वधेन॑ ।
तं नो॑ भूमे रन्धय पूर्वकृत्वरि ॥१४॥
तं नो॑ भूमे रन्धय पूर्वकृत्वरि ॥१४॥
त्वज्जातास्त्वयि॑ चरन्ति मर्त्यास्त्वं बि॑भर्षि द्विपदस्त्वं चतु॑ष्पद: ।
तवेमे पृ॑थिवि पञ्च॑ मानवा येभ्यो ज्योति॑रमृतं मर्त्ये॑भ्य उद्यन्त्सूर्यो॑ रश्मिभि॑रातनोति॑ ॥१५॥
तवेमे पृ॑थिवि पञ्च॑ मानवा येभ्यो ज्योति॑रमृतं मर्त्ये॑भ्य उद्यन्त्सूर्यो॑ रश्मिभि॑रातनोति॑ ॥१५॥
ता न॑: प्रजा: सं दु॑ह्रतां समग्रा वाचो मधु॑ पृथिवि धेहि मह्य॑म् ॥१६॥
विश्वस्वंद्ग मातरमोष॑धीनां ध्रुवां भूमिं॑ पृथिवीं धर्म॑णा धृताम् ।
शिवां स्योनामनु॑ चरेम विश्वहा॑ ॥१७॥
शिवां स्योनामनु॑ चरेम विश्वहा॑ ॥१७॥
महत्सधस्थं॑ महती ब॑भूविथ महान्वेग॑ एजथु॑र्वेपथु॑ष्टे ।
महांस्त्वेन्द्रो॑ रक्षत्यप्र॑मादम् ।
सा नो॑ भूमे प्र रो॑चय हिर॑ण्यस्येव संदृशि मा नो॑ द्विक्षत कश्चन ॥१८॥
महांस्त्वेन्द्रो॑ रक्षत्यप्र॑मादम् ।
सा नो॑ भूमे प्र रो॑चय हिर॑ण्यस्येव संदृशि मा नो॑ द्विक्षत कश्चन ॥१८॥
अग्निर्भूम्यामोष॑धीष्वग्निमापो॑ बिभ्रत्यग्निरश्म॑सु ।
अग्निरन्त: पुरु॑षेषु गोष्वश्वे॑ष्वग्नय॑: ॥१९॥
अग्निर्दिव आ त॑पत्यग्नेर्देवस्योर्व१न्तरि॑क्षम् ।
अग्निं मर्ता॑स इन्धते हव्यवाहं॑ घृतप्रिय॑म् ॥२०॥
अग्निरन्त: पुरु॑षेषु गोष्वश्वे॑ष्वग्नय॑: ॥१९॥
अग्निर्दिव आ त॑पत्यग्नेर्देवस्योर्व१न्तरि॑क्षम् ।
अग्निं मर्ता॑स इन्धते हव्यवाहं॑ घृतप्रिय॑म् ॥२०॥
अग्निवा॑सा: पृथिव्यद्गसितज्ञूस्त्विषी॑मन्तं संशि॑तं मा कृणोतु ॥२१॥
भूम्यां॑ देवेभ्यो॑ ददति यज्ञं हव्यमरं॑कृतम् ।
भूम्यां॑ मनुष्याद्ग जीवन्ति स्वधयान्ने॑न मर्त्या॑: ।
सा नो भूमि॑: प्राणमायु॑र्दधातु जरद॑ष्टिं मा पृथिवी कृ॑णोतु ॥२२॥
भूम्यां॑ मनुष्याद्ग जीवन्ति स्वधयान्ने॑न मर्त्या॑: ।
सा नो भूमि॑: प्राणमायु॑र्दधातु जरद॑ष्टिं मा पृथिवी कृ॑णोतु ॥२२॥
यस्ते॑ गन्ध: पृ॑थिवि संबभूव यं बिभ्रत्योष॑धयो यमाप॑: ।
यं ग॑न्धर्वा अ॑प्सरस॑श्च भेजिरे तेन॑ मा सुरभिं कृ॑णु मा नो॑ द्विक्षत कश्चन ॥२३॥
यं ग॑न्धर्वा अ॑प्सरस॑श्च भेजिरे तेन॑ मा सुरभिं कृ॑णु मा नो॑ द्विक्षत कश्चन ॥२३॥
यस्ते॑ गन्ध: पुष्क॑रमाविवेश यं सं॑जभ्रु: सूर्याया॑ विवाहे ।
अम॑र्त्या: पृथिवि गन्धमग्रे तेन॑ मा सुरभिं कृ॑णु मा नो॑ द्विक्षत कश्चन ॥२४॥
अम॑र्त्या: पृथिवि गन्धमग्रे तेन॑ मा सुरभिं कृ॑णु मा नो॑ द्विक्षत कश्चन ॥२४॥
यस्ते॑ गन्ध: पुरु॑षेषु स्त्रीषु पुंसु भगो रुचि॑: ।
यो अश्वे॑षु वीरेषु यो मृगेषूत हस्तिषु॑ ।
कन्याद्गयां वर्चो यद्भू॑मे तेनास्माँ अपि सं सृ॑ज मा नो॑ द्विक्षत कश्चन ॥२५॥
यो अश्वे॑षु वीरेषु यो मृगेषूत हस्तिषु॑ ।
कन्याद्गयां वर्चो यद्भू॑मे तेनास्माँ अपि सं सृ॑ज मा नो॑ द्विक्षत कश्चन ॥२५॥
शिला भूमिरश्मा॑ पांसु: सा भूमि: संधृ॑ता धृता ।
तस्यै हिर॑ण्यवक्षसे पृथिव्या अ॑करं नम॑: ॥२६॥
तस्यै हिर॑ण्यवक्षसे पृथिव्या अ॑करं नम॑: ॥२६॥
यस्यां॑ वृक्षा वा॑नस्पत्या ध्रुवास्तिष्ठ॑न्ति विश्वहा॑ ।
पृथिवीं विश्वधा॑यसं धृतामच्छाव॑दामसि ॥२७॥
पृथिवीं विश्वधा॑यसं धृतामच्छाव॑दामसि ॥२७॥
उदीरा॑णा उतासी॑नास्तिष्ठ॑न्त: प्रक्राम॑न्त: ।
पद्भ्यां द॑क्षिणसव्याभ्यां मा व्य॑थिष्महि भूम्या॑म् ॥२८॥
पद्भ्यां द॑क्षिणसव्याभ्यां मा व्य॑थिष्महि भूम्या॑म् ॥२८॥
विमृग्व॑रीं पृथिवीमा व॑दामि क्षमां भूमिं ब्रह्म॑णा वावृधानाम् ।
ऊर्जं॑ पुष्टं बिभ्र॑तीमन्नभागं घृतं त्वाभि नि षी॑देम भूमे ॥२९॥
ऊर्जं॑ पुष्टं बिभ्र॑तीमन्नभागं घृतं त्वाभि नि षी॑देम भूमे ॥२९॥
शुद्धा न आप॑स्तन्वेद्ग क्षरन्तु यो न: सेदुरप्रि॑ये तं नि द॑ध्म: ।
पवित्रे॑ण पृथिवि मोत्पु॑नामि ॥३०॥
पवित्रे॑ण पृथिवि मोत्पु॑नामि ॥३०॥
यास्ते प्राची॑: प्रदिशो या उदी॑चीर्यास्ते॑ भूमे अधराद्याश्च॑ पश्चात् ।
स्योनास्ता मह्यं चर॑ते भवन्तु मा नि प॑प्तं भुव॑ने शिश्रियाण: ॥३१॥
स्योनास्ता मह्यं चर॑ते भवन्तु मा नि प॑प्तं भुव॑ने शिश्रियाण: ॥३१॥
मा न॑: पश्चान्मा पुरस्ता॑न्नुदिष्ठा मोत्तराद॑धरादुत ।
स्वस्ति भू॑मे नो भव मा वि॑दन्परिपन्थिनो वरी॑यो यावया वधम् ॥३२॥
स्वस्ति भू॑मे नो भव मा वि॑दन्परिपन्थिनो वरी॑यो यावया वधम् ॥३२॥
याव॑त्तेऽभि विपश्या॑मि भूमे सूर्ये॑ण मेदिना॑ ।
ताव॑न्मे चक्षुर्मा मेष्टोत्त॑रामुत्तरां समा॑म् ॥३३॥
ताव॑न्मे चक्षुर्मा मेष्टोत्त॑रामुत्तरां समा॑म् ॥३३॥
यच्छया॑न: पर्याव॑र्ते दक्षि॑णं सव्यमभि भू॑मे पार्श्वम्
उत्तानास्त्वा॑ प्रतीचीं यत्पृष्टीभि॑रधिशेम॑हे ।
मा हिं॑सीस्तत्र॑ नो भूमे सर्व॑स्य प्रतिशीवरि ॥३४॥
उत्तानास्त्वा॑ प्रतीचीं यत्पृष्टीभि॑रधिशेम॑हे ।
मा हिं॑सीस्तत्र॑ नो भूमे सर्व॑स्य प्रतिशीवरि ॥३४॥
यत्ते॑ भूमे विखना॑मि क्षिप्रं तदपि॑ रोहतु ।
मा ते मर्म॑ विमृग्वरि मा ते हृद॑यमर्पिपम् ॥३५॥
मा ते मर्म॑ विमृग्वरि मा ते हृद॑यमर्पिपम् ॥३५॥
ग्रीष्मस्ते॑ भूमे वर्षाणि॑ शरद्धे॑मन्त: शिशि॑रो वसन्त: ।
ऋतव॑स्ते विहि॑ता हायनीर॑होरात्रे पृ॑थिवि नो दुहाताम् ॥३६॥
ऋतव॑स्ते विहि॑ता हायनीर॑होरात्रे पृ॑थिवि नो दुहाताम् ॥३६॥
याप॑ सर्पं विजमा॑ना विमृग्व॑री यस्यामास॑न्नग्नयो ये अप्स्व१न्त ।
परा दस्यून्दद॑ती देवपीयूनिन्द्रं॑ वृणाना पृ॑थिवी न वृत्रम् ।
शक्राय॑ दध्रे वृषभाय वृष्णे॑ ॥३७॥
परा दस्यून्दद॑ती देवपीयूनिन्द्रं॑ वृणाना पृ॑थिवी न वृत्रम् ।
शक्राय॑ दध्रे वृषभाय वृष्णे॑ ॥३७॥
यस्यां॑ सदोहविर्धाने यूपो यस्यां॑ निमीयते॑ ।
ब्रह्माणो यस्यामर्च॑न्त्यृग्भि: साम्ना॑ यजुर्विद॑: ।
युज्यन्ते यस्या॑मृत्विज: सोममिन्द्रा॑य पात॑वे ॥३८॥
ब्रह्माणो यस्यामर्च॑न्त्यृग्भि: साम्ना॑ यजुर्विद॑: ।
युज्यन्ते यस्या॑मृत्विज: सोममिन्द्रा॑य पात॑वे ॥३८॥
यस्यां पूर्वे॑ भूतकृत ऋष॑यो गा उ॑दानृचु: ।
सप्त सत्रेण॑ वेधसो॑ यज्ञेन तप॑सा सह ॥३९॥
सप्त सत्रेण॑ वेधसो॑ यज्ञेन तप॑सा सह ॥३९॥
सा नो भूभिरा दि॑शतु यद्धनं॑ कामया॑महे ।
भगो॑ अनुप्रयु॑ङ्क्तामिन्द्र॑ एतु पुरोगव: ॥४०॥
भगो॑ अनुप्रयु॑ङ्क्तामिन्द्र॑ एतु पुरोगव: ॥४०॥
यस्यां गाय॑न्ति नृत्य॑न्ति भूम्यां मर्त्या व्यैद्गलबा: ।
युध्यन्ते यस्या॑माक्रन्दो यस्यां वद॑ति दुन्दुभि: ।
सा नो भूमि: प्र णु॑दतां सपत्ना॑नसपत्नं मा॑ पृथिवी कृ॑णोतु ॥४१॥
युध्यन्ते यस्या॑माक्रन्दो यस्यां वद॑ति दुन्दुभि: ।
सा नो भूमि: प्र णु॑दतां सपत्ना॑नसपत्नं मा॑ पृथिवी कृ॑णोतु ॥४१॥
यस्यामन्नं॑ व्रीहियवौ यस्या॑ इमा: पञ्च॑ कृष्टय॑: ।
भूम्यै॑ पर्जन्य॑पत्न्यै नमो॑ऽस्तु वर्षमे॑दसे ॥४२॥
भूम्यै॑ पर्जन्य॑पत्न्यै नमो॑ऽस्तु वर्षमे॑दसे ॥४२॥
यस्या: पुरो॑ देवकृ॑ता: क्षेत्रे यस्या॑ विकुर्वते॑ ।
प्रजाप॑ति: पृथिवीं विश्वग॑र्भामाशा॑माशां रण्यां॑ न: कृणोतु ॥४३॥
प्रजाप॑ति: पृथिवीं विश्वग॑र्भामाशा॑माशां रण्यां॑ न: कृणोतु ॥४३॥
निधिं बिभ्र॑ती बहुधा गुहा वसु॑ मणिं हिर॑ण्यं पृथिवी द॑दातु मे ।
वसू॑नि नो वसुदा रास॑माना देवी द॑धातु सुमनस्यमा॑ना ॥४४॥
वसू॑नि नो वसुदा रास॑माना देवी द॑धातु सुमनस्यमा॑ना ॥४४॥
जनं बिभ्र॑ती बहुधा विवा॑चसं नाना॑धर्माणं पृथिवी य॑थौकसम् ।
सहस्रं धारा द्रवि॑णस्य मे दुहां ध्रुवेव॑ धेनुरन॑पस्फुरन्ती ॥४५॥
सहस्रं धारा द्रवि॑णस्य मे दुहां ध्रुवेव॑ धेनुरन॑पस्फुरन्ती ॥४५॥
यस्ते॑ सर्पो वृश्चि॑कस्तृष्टदं॑श्मा हेमन्तज॑ब्धो भृमलो गुहा शये॑ ।
क्रिमिर्जिन्व॑त्पृथिवि यद्यदेज॑ति प्रावृषि तन्न: सर्पन्मोप॑ सृपद्यच्छिवं तेन॑ नो मृड ॥४६॥
क्रिमिर्जिन्व॑त्पृथिवि यद्यदेज॑ति प्रावृषि तन्न: सर्पन्मोप॑ सृपद्यच्छिवं तेन॑ नो मृड ॥४६॥
ये ते पन्था॑नो बहवो॑ जनाय॑ना रथ॑स्य वर्त्मान॑सश्च यात॑वे ।
यै: संचर॑न्त्युभये॑ भद्रपापास्तं पन्था॑नं जयेमानमित्रम॑तस्करं यच्छिवं तेन॑ नो मृड ॥४७॥
यै: संचर॑न्त्युभये॑ भद्रपापास्तं पन्था॑नं जयेमानमित्रम॑तस्करं यच्छिवं तेन॑ नो मृड ॥४७॥
मल्वं बिभ्र॑ती गुरुभृद्भ॑द्रपापस्य॑ निधनं॑ तितिक्षु: ।
वराहेण॑ पृथिवी सं॑विदाना सू॑कराय वि जि॑हीते मृगाय॑ ॥४८॥
वराहेण॑ पृथिवी सं॑विदाना सू॑कराय वि जि॑हीते मृगाय॑ ॥४८॥
ये त आ॑रण्या: पशवो॑ मृगा वने॑ हिता: सिंहा व्याघ्रा: पु॑रुषादश्चर॑न्ति ।
उलं वृकं॑ पृथिवि दुच्छुना॑मित ऋक्षीकां रक्षो अप॑ बाधयास्मत् ॥४९॥
उलं वृकं॑ पृथिवि दुच्छुना॑मित ऋक्षीकां रक्षो अप॑ बाधयास्मत् ॥४९॥
ये ग॑न्धर्वा अ॑प्सरसो ये चाराया॑: किमीदिन॑: ।
पिशाचान्त्सर्वा रक्षां॑सि तानस्मद्भू॑मे यावय ॥५०॥
पिशाचान्त्सर्वा रक्षां॑सि तानस्मद्भू॑मे यावय ॥५०॥
यां द्विपाद॑: पक्षिण॑: संपत॑न्ति हंसा: सु॑पर्णा: श॑कुना वयां॑सि ।
यस्यां वातो॑ मातरिश्वेय॑ते रजां॑सि कृण्वंश्च्यावयं॑श्च वृक्षान् ।
वात॑स्य प्रवामु॑पवामनु॑ वात्यर्चि: ॥५१॥
यस्यां वातो॑ मातरिश्वेय॑ते रजां॑सि कृण्वंश्च्यावयं॑श्च वृक्षान् ।
वात॑स्य प्रवामु॑पवामनु॑ वात्यर्चि: ॥५१॥
यस्यां॑ कृष्णम॑रुणं च संहि॑ते अहोरात्रे विहि॑ते भूम्यामधि॑ ।
वर्षेण भूमि॑: पृथिवी वृतावृ॑ता सा नो॑ दधातु भद्रया॑ प्रिये धाम॑निधामनि ॥५२॥
वर्षेण भूमि॑: पृथिवी वृतावृ॑ता सा नो॑ दधातु भद्रया॑ प्रिये धाम॑निधामनि ॥५२॥
द्यौश्च॑ म इदं पृ॑थिवी चान्तरि॑क्षं च मे व्यच॑: ।
अग्नि: सूर्य आपो॑ मेधां विश्वे॑ देवाश्च सं द॑दु: ॥५३॥
अग्नि: सूर्य आपो॑ मेधां विश्वे॑ देवाश्च सं द॑दु: ॥५३॥
अहम॑स्मि सह॑मान उत्त॑रो नाम भूम्या॑म् ।
अभीषाड॑स्मि विश्वाषाडाशा॑माशां विषासहि: ॥५४॥
अभीषाड॑स्मि विश्वाषाडाशा॑माशां विषासहि: ॥५४॥
अदो यद्दे॑वि प्रथ॑माना पुरस्ता॑द्देवैरुक्ता व्यस॑र्पो महित्वम् ।
आ त्वा॑ सुभूतम॑विशत्तदानीमक॑ल्पयथा: प्रदिशश्चत॑स्र: ॥५५॥
आ त्वा॑ सुभूतम॑विशत्तदानीमक॑ल्पयथा: प्रदिशश्चत॑स्र: ॥५५॥
ये ग्रामा यदर॑ण्यं या: सभा अधि भूम्या॑म् ।
ये सं॑ग्रामा: समित॑यस्तेषु चारु॑ वदेम ते ॥५६॥
ये सं॑ग्रामा: समित॑यस्तेषु चारु॑ वदेम ते ॥५६॥
अश्व॑ इव रजो॑ दुधुवे वि ताञ्जनान्य आक्षि॑यन्पृथिवीं यादजा॑यत ।
मन्द्राग्रेत्व॑री भुव॑नस्य गोपा वनस्पती॑नां गृभिरोष॑धीनाम् ॥५७॥
मन्द्राग्रेत्व॑री भुव॑नस्य गोपा वनस्पती॑नां गृभिरोष॑धीनाम् ॥५७॥
यद्वदा॑मि मधु॑मत्तद्व॑दामि यदीक्षे तद्व॑नन्ति मा ।
त्विषी॑मानस्मि जूतिमानवान्यान्ह॑न्मि दोध॑त: ॥५८॥
त्विषी॑मानस्मि जूतिमानवान्यान्ह॑न्मि दोध॑त: ॥५८॥
शन्तिवा सु॑रभि: स्योना कीलालो॑ध्नी पय॑स्वती ।
भूमिरधि॑ ब्रवीतु मे पृथिवी पय॑सा सह ॥५९॥
भूमिरधि॑ ब्रवीतु मे पृथिवी पय॑सा सह ॥५९॥
यामन्वैच्छ॑द्धविषा॑ विश्वक॑र्मान्तर॑र्णवे रज॑सि प्रवि॑ष्टाम् ।
भुजिष्यं१ पात्रं निहि॑तं गुहा यदाविर्भोगे॑ अभवन्मातृमद्भ्य॑: ॥६०॥
भुजिष्यं१ पात्रं निहि॑तं गुहा यदाविर्भोगे॑ अभवन्मातृमद्भ्य॑: ॥६०॥
त्वम॑स्यावप॑नी जना॑नामदि॑ति: कामदुघा॑ पप्रथाना ।
यत्त॑ ऊनं तत्त आ पू॑रयाति प्रजाप॑ति: प्रथमजा ऋतस्य॑ ॥६१॥
यत्त॑ ऊनं तत्त आ पू॑रयाति प्रजाप॑ति: प्रथमजा ऋतस्य॑ ॥६१॥
उपस्थास्ते॑ अनमीवा अ॑यक्ष्मा अस्मभ्यं॑ सन्तु पृथिवि प्रसू॑ता: ।
दीर्घं न आयु॑: प्रतिबुध्य॑माना वयं तुभ्यं॑ बलिहृत॑: स्याम ॥६२॥
भूमे॑ मातर्नि धे॑हि मा भद्रया सुप्र॑तिष्ठितम् ।
संविदाना दिवा क॑वे श्रियां मा॑ धेहि भूत्या॑म् ॥६३॥
दीर्घं न आयु॑: प्रतिबुध्य॑माना वयं तुभ्यं॑ बलिहृत॑: स्याम ॥६२॥
भूमे॑ मातर्नि धे॑हि मा भद्रया सुप्र॑तिष्ठितम् ।
संविदाना दिवा क॑वे श्रियां मा॑ धेहि भूत्या॑म् ॥६३॥
द्वितीयं सूक्तम्» पञ्चपञ्चाशदृचस्यास्य सूक्तस्य भृगुरृषि: । प्रथमादिविंशत्यृचां चतुस्त्रिंश्यादिद्वाविंशतेश्चाग्निर्मन्त्रोक्ता वा एकविंश्यादित्रयोदशानाञ्च मृत्युर्देवता: | प्रथमाचतुर्थीदशम्येकादशीनामेकविंश्यादित्रयोदशानां त्रिपञ्चाश्याश्च त्रिष्टुप् द्वितीयापञ्चम्योर्द्वादश्यादिचतसृणां सप्तदश्येकोनविंशीविंशीनां चतुस्त्रिंश्यादितृचस्याष्टात्रिंश्येकोनचत्वारिंश्येकचत्वारिंशीनां त्रिचत्वारिंश्येकपञ्चाशीचतुष्पञ्चाशीनाञ्चानुष्टुप् तृतीयाया आस्तारपङ्क्ति:
षष्ठ्या भुरिगार्षी पङ्क्ति: सप्तमीपञ्चचत्वारिंश्योर्जगती अष्टम्यष्टचत्वारिंश्येकोनपञ्चाशीनां भुरिक्त्रिष्टुप् नवम्या अनुष्टुब्गर्भा विपरीतपादलक्ष्मा पङ्क्ति: षोडश्या:ककुम्मती पराबृहत्यनुष्टुप् अष्टादश्या निचृदनुष्टुप् सप्तत्रिंश्या: पुरस्ताद्बृहती चत्वारिंश्या: पुरस्तात्ककुम्मत्यनुष्टुप् द्विचत्वारिंश्यास्त्रिपदैकावसाना भुरिगार्ची गायत्री चतुश्चत्वारिंश्या एकावसाना द्विपदार्ची बृहती षट्चत्वारिंश्या एकावसाना द्विपदा साम्नी त्रिष्टुप् सप्तचत्वारिंश्या पञ्चपदा बार्हतवैराजगर्भा जगती पञ्चाश्या उपरिष्टाद्विराड्बृहती द्विपञ्चाश्या: पुरस्ताद्विराड्बृहती पञ्चपञ्चाश्याश्च बृहतीगर्भा त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

नडमा रो॑ह न ते अत्र॑ लोक इदं सीसं॑ भागधेयं॑ त एहि॑ ।
यो गोषु यक्ष्म: पुरु॑षेषु यक्ष्मस्तेन त्वं साकम॑धराङ्परे॑हि ॥१॥
अघशंसदु:शंसाभ्यां॑ करेणा॑नुकरेण॑ च ।
यक्ष्मं॑ च सर्वं तेनेतो मृत्युं च निर॑जामसि ॥२॥
यक्ष्मं॑ च सर्वं तेनेतो मृत्युं च निर॑जामसि ॥२॥
निरितो मृत्युं निरृ॑तिं निररा॑तिमजामसि ।
यो नो द्वेष्टि तम॑द्ध्यग्ने अक्रव्याद्यमु॑ द्विष्मस्तमु॑ ते प्र सु॑वामसि ॥३॥
यो नो द्वेष्टि तम॑द्ध्यग्ने अक्रव्याद्यमु॑ द्विष्मस्तमु॑ ते प्र सु॑वामसि ॥३॥
यद्यग्नि: क्रव्याद्यदि॑ वा व्याघ्र इमं गोष्ठं प्र॑विवेशान्यो॑का: ।
तं माषा॑ज्यं कृत्वा प्र हि॑णोमि दूरं स ग॑च्छत्वप्सुषदोऽप्यग्नीन् ॥४॥
तं माषा॑ज्यं कृत्वा प्र हि॑णोमि दूरं स ग॑च्छत्वप्सुषदोऽप्यग्नीन् ॥४॥
यत्त्वा॑ क्रुद्धा: प्र॑चक्रुर्मन्युना पुरु॑षे मृते ।
सुकल्प॑मग्ने तत्त्वया पुनस्त्वोद्दी॑पयामसि ॥५॥
सुकल्प॑मग्ने तत्त्वया पुनस्त्वोद्दी॑पयामसि ॥५॥
पुन॑स्त्वादित्या रुद्रा वस॑व: पुन॑र्ब्रह्मा वसु॑नीतिरग्ने ।
पुन॑स्त्वा ब्रह्म॑णस्पतिराधा॑द्दीर्घायुत्वाय॑ शतशा॑रदाय ॥६॥
पुन॑स्त्वा ब्रह्म॑णस्पतिराधा॑द्दीर्घायुत्वाय॑ शतशा॑रदाय ॥६॥
यो अग्नि: क्रव्यात्प्र॑विवेश॑ नो गृहमिमं पश्यन्नित॑रं जातवे॑दसम् ।
तं ह॑रामि पितृयज्ञाय॑ दूरं स घर्ममि॑न्धां परमे सधस्थे॑ ॥७॥
तं ह॑रामि पितृयज्ञाय॑ दूरं स घर्ममि॑न्धां परमे सधस्थे॑ ॥७॥
क्रव्याद॑मग्निं प्र हि॑णोमि दूरं यमरा॑ज्ञो गच्छतु रिप्रवाह: ।
इहायमित॑रो जातवे॑दा देवो देवेभ्यो॑ हव्यं व॑हतु प्रजानन् ॥८॥
इहायमित॑रो जातवे॑दा देवो देवेभ्यो॑ हव्यं व॑हतु प्रजानन् ॥८॥
क्रव्याद॑मग्निमि॑षितो ह॑रामि जना॑न्दृंहन्तं वज्रे॑ण मृत्युम् ।
नि तं शा॑स्मि गार्ह॑पत्येन विद्वान्पि॑तॄणां लोकेऽपि॑ भागो अ॑स्तु ॥९॥
नि तं शा॑स्मि गार्ह॑पत्येन विद्वान्पि॑तॄणां लोकेऽपि॑ भागो अ॑स्तु ॥९॥
क्रव्याद॑मग्नि श॑शमानमुक्थ्यं१ प्र हि॑णोमि पथिभि॑: पितृयाणै॑: ।
मा दे॑वयानै: पुनरा गा अत्रैवैधि॑ पितृषु॑ जागृहि त्वम् ॥१०॥
मा दे॑वयानै: पुनरा गा अत्रैवैधि॑ पितृषु॑ जागृहि त्वम् ॥१०॥
समि॑न्धते संक॑सुकं स्वस्तये॑ शुद्धा भव॑न्त: शुच॑य: पावका: ।
जहा॑ति रिप्रमत्येन॑ एति समि॑द्धो अग्नि: सुपुना॑ पुनाति ॥११॥
जहा॑ति रिप्रमत्येन॑ एति समि॑द्धो अग्नि: सुपुना॑ पुनाति ॥११॥
देवो अग्नि: संक॑सुको दिवस्पृष्ठान्यारु॑हत् ।
मुच्यमा॑नो निरेणसोऽमो॑गस्माँ अश॑स्त्या: ॥१२॥
मुच्यमा॑नो निरेणसोऽमो॑गस्माँ अश॑स्त्या: ॥१२॥
अस्मिन्वयं संक॑सुके अग्नौ रिप्राणि॑ मृज्महे ।
अभू॑म यज्ञिया॑: शुद्धा: प्र ण आयूं॑षि तारिषत् ॥१३॥
संक॑सुको विक॑सुको निरृथो यश्च॑ निस्वर: ।
ते ते यक्ष्मं सवे॑दसो दूराद्दूरम॑नीनशन् ॥१४॥
अभू॑म यज्ञिया॑: शुद्धा: प्र ण आयूं॑षि तारिषत् ॥१३॥
संक॑सुको विक॑सुको निरृथो यश्च॑ निस्वर: ।
ते ते यक्ष्मं सवे॑दसो दूराद्दूरम॑नीनशन् ॥१४॥
यो नो अश्वे॑षु वीरेषु यो नो गोष्व॑जाविषु॑ ।
क्रव्यादं निर्णु॑दामसि यो अग्निर्ज॑नयोप॑न: ॥१५॥
क्रव्यादं निर्णु॑दामसि यो अग्निर्ज॑नयोप॑न: ॥१५॥
अन्ये॑भ्यस्त्वा पुरु॑षेभ्यो गोभ्यो अश्वे॑भ्यस्त्वा ।
नि: क्रव्यादं॑ नुदामसि यो अग्निर्जी॑वितयोप॑न: ॥१६॥
नि: क्रव्यादं॑ नुदामसि यो अग्निर्जी॑वितयोप॑न: ॥१६॥
यस्मि॑न्देवा अमृ॑जत यस्मि॑न्मनुष्याद्ग उत ।
तस्मि॑न्घृतस्तावो॑ मृष्ट्वा त्वम॑ग्ने दिवं॑ रुह ॥१७॥
तस्मि॑न्घृतस्तावो॑ मृष्ट्वा त्वम॑ग्ने दिवं॑ रुह ॥१७॥
समि॑द्धो अग्न आहुत स नो माभ्यप॑क्रमी: ।
अत्रैव दी॑दिहि द्यवि ज्योक्च सूर्यं॑ दृशे ॥१८॥
अत्रैव दी॑दिहि द्यवि ज्योक्च सूर्यं॑ दृशे ॥१८॥
सीसे॑ मृड्ढ्वं नदे मृ॑ड्ढ्वमग्नौ संक॑सुके च यत् ।
अथो अव्यां॑ रामायां॑ शीर्षक्तिमु॑पबर्ह॑णे ॥१९॥
अथो अव्यां॑ रामायां॑ शीर्षक्तिमु॑पबर्ह॑णे ॥१९॥
सीसे मलं॑ सादयित्वा शी॑र्षक्तिमु॑पबर्ह॑णे ।
अव्यामसि॑क्न्यां मृष्ट्वा शुद्धा भ॑वत यज्ञिया॑: ॥२०॥
अव्यामसि॑क्न्यां मृष्ट्वा शुद्धा भ॑वत यज्ञिया॑: ॥२०॥
परं॑ मृत्यो अनु परे॑हि पन्थां यस्त॑ एष इत॑रो देवयाना॑त् ।
चक्षु॑ष्मते शृण्वते ते॑ ब्रवीमीहेमे वीरा बहवो॑ भवन्तु ॥२१॥
चक्षु॑ष्मते शृण्वते ते॑ ब्रवीमीहेमे वीरा बहवो॑ भवन्तु ॥२१॥
इमे जीवा वि मृतैराव॑वृत्रन्नभू॑द्भद्रा देवहू॑तिर्नो अद्य ।
प्राञ्चो॑ अगाम नृतये हसा॑य सुवीरा॑सो विदथमा व॑देम ॥२२॥
प्राञ्चो॑ अगाम नृतये हसा॑य सुवीरा॑सो विदथमा व॑देम ॥२२॥
इमं जीवेभ्य॑: परिधिं द॑धामि मैषां नु गादप॑रो अर्थ॑मेतम् ।
शतं जीव॑न्त: शरद॑: पुरूचीस्तिरो मृत्युं द॑धतां पर्व॑तेन ॥२३॥
शतं जीव॑न्त: शरद॑: पुरूचीस्तिरो मृत्युं द॑धतां पर्व॑तेन ॥२३॥
आ रो॑हतायु॑र्जरसं॑ वृणाना अ॑नुपूर्वं यत॑माना यति स्थ ।
तान्वस्त्वष्टा॑ सुजनि॑मा सजोषा: सर्वमायु॑र्नयतु जीव॑नाय ॥२४॥
तान्वस्त्वष्टा॑ सुजनि॑मा सजोषा: सर्वमायु॑र्नयतु जीव॑नाय ॥२४॥
यथाहा॑न्यनुपूर्वं भव॑न्ति यथर्तव॑ ऋतुभिर्यन्ति॑ साकम् ।
यथा न पूर्वमप॑रो जहा॑त्येवा धा॑तरायूं॑षि कल्पयैषाम् ॥२५॥
यथा न पूर्वमप॑रो जहा॑त्येवा धा॑तरायूं॑षि कल्पयैषाम् ॥२५॥
अश्म॑न्वती रीयते सं र॑भध्वं वीरय॑ध्वं प्र त॑रता सखाय: ।
अत्रा॑ जहीत ये असन्दुरेवा॑ अनमीवानुत्त॑रेमाभि वाजा॑न् ॥२६॥
अत्रा॑ जहीत ये असन्दुरेवा॑ अनमीवानुत्त॑रेमाभि वाजा॑न् ॥२६॥
उत्ति॑ष्ठता प्र त॑रता सखायोऽश्म॑न्वती नदी स्य॑न्दत इयम् ।
अत्रा॑ जहीत ये असन्नशि॑वा: शिवान्त्स्योनानुत्त॑रेमाभि वाजा॑न् ॥२७॥
अत्रा॑ जहीत ये असन्नशि॑वा: शिवान्त्स्योनानुत्त॑रेमाभि वाजा॑न् ॥२७॥
वैश्वदेवीं वर्च॑सा आ र॑भध्वं शुद्धा भव॑न्त: शुच॑य: पावका: ।
अतिक्राम॑न्तो दुरिता पदानि॑ शतं हिमा: सर्व॑वीरा मदेम ॥२८॥
अतिक्राम॑न्तो दुरिता पदानि॑ शतं हिमा: सर्व॑वीरा मदेम ॥२८॥
उदीचीनै॑: पथिभि॑र्वायुमद्भि॑रतिक्रामन्तोऽव॑रान्परे॑भि: ।
त्रि: सप्त कृत्व ऋष॑य: परे॑ता मृत्युं प्रत्यौ॑हन्पदयोप॑नेन ॥२९॥
त्रि: सप्त कृत्व ऋष॑य: परे॑ता मृत्युं प्रत्यौ॑हन्पदयोप॑नेन ॥२९॥
मृत्यो: पदं योपय॑न्त एत द्राघी॑य आयु॑: प्रतरं दधा॑ना: ।
आसी॑ना मृत्युं नु॑दता सधस्थेऽथ॑ जीवासो॑ विदथमा व॑देम ॥३०॥
आसी॑ना मृत्युं नु॑दता सधस्थेऽथ॑ जीवासो॑ विदथमा व॑देम ॥३०॥
इमा नारी॑रविधवा: सुपत्नीराञ्ज॑नेन सर्पिषा सं स्पृ॑शन्ताम् ।
अनश्रवो॑ अनमीवा: सुरत्ना आ रो॑हन्तु जन॑यो योनिमग्रे॑ ॥३१॥
अनश्रवो॑ अनमीवा: सुरत्ना आ रो॑हन्तु जन॑यो योनिमग्रे॑ ॥३१॥
व्याक॑रोमि हविषाहमेतौ तौ ब्रह्म॑णा व्य१हं क॑ल्पयामि ।
स्वधां पितृभ्यो॑ अजरां॑ कृणोमि॑ दीर्घेणायु॑षा समिमान्त्सृ॑जामि ॥३२॥
यो नो॑ अग्नि: पि॑तरो हृत्स्व१न्तरा॑विवेशामृतो मर्त्ये॑षु ।
मय्यहं तं परि॑ गृह्णामि देवं मा सो अस्मान्द्वि॑क्षत मा वयं तम् ॥३३॥
स्वधां पितृभ्यो॑ अजरां॑ कृणोमि॑ दीर्घेणायु॑षा समिमान्त्सृ॑जामि ॥३२॥
यो नो॑ अग्नि: पि॑तरो हृत्स्व१न्तरा॑विवेशामृतो मर्त्ये॑षु ।
मय्यहं तं परि॑ गृह्णामि देवं मा सो अस्मान्द्वि॑क्षत मा वयं तम् ॥३३॥
अपावृत्य गार्ह॑पत्यात्क्रव्यादा प्रेत॑ दक्षिणा ।
प्रियं पितृभ्य॑ आत्मने॑ ब्रह्मभ्य॑: कृणुता प्रियम् ॥३४॥
प्रियं पितृभ्य॑ आत्मने॑ ब्रह्मभ्य॑: कृणुता प्रियम् ॥३४॥
द्विभागधनमादाय प्र क्षि॑णात्यव॑र्त्या ।
अग्नि: पुत्रस्य॑ ज्येष्ठस्य य: क्रव्यादनि॑राहितह् ॥३५॥
अग्नि: पुत्रस्य॑ ज्येष्ठस्य य: क्रव्यादनि॑राहितह् ॥३५॥
यत्कृषते यद्व॑नुते यच्च॑ वस्नेन॑ विन्दते॑ ।
सर्वं मर्त्य॑स्य तन्नास्ति॑ क्रव्याच्चेदनि॑राहित: ॥३६॥
सर्वं मर्त्य॑स्य तन्नास्ति॑ क्रव्याच्चेदनि॑राहित: ॥३६॥
अयज्ञियो हतव॑र्चा भवति नैने॑न हविरत्त॑वे ।
छिनत्ति॑ कृष्या गोर्धनाद्यं क्रव्याद॑नुवर्त॑ते ॥३७॥
छिनत्ति॑ कृष्या गोर्धनाद्यं क्रव्याद॑नुवर्त॑ते ॥३७॥
मुहुर्गृध्यै: प्र व॑दत्यार्तिं मर्त्यो नीत्य॑ ।
क्रव्याद्यानग्निर॑न्तिकाद॑नुविद्वान्विताव॑ति ॥३८॥
क्रव्याद्यानग्निर॑न्तिकाद॑नुविद्वान्विताव॑ति ॥३८॥
ग्राह्या॑ गृहा: सं सृ॑ज्यन्ते स्त्रिया यन्म्रियते पति॑: ।
ब्रह्मैव विद्वानेष्यो३ य: क्रव्यादं॑ निरादध॑त् ॥३९॥
ब्रह्मैव विद्वानेष्यो३ य: क्रव्यादं॑ निरादध॑त् ॥३९॥
यद्रिप्रं शम॑लं चकृम यच्च॑ दुष्कृतम् ।
आपो॑ मा तस्मा॑च्छुम्भन्त्वग्ने: संक॑सुकाच्च यत् ॥४०॥
आपो॑ मा तस्मा॑च्छुम्भन्त्वग्ने: संक॑सुकाच्च यत् ॥४०॥
ता अ॑धरादुदी॑चीराव॑वृत्रन्प्रजानती: पथिभि॑र्देवयानै॑: ।
पर्व॑तस्य वृषभस्याधि॑ पृष्ठे नवा॑श्चरन्ति सरित॑: पुराणी: ॥४१॥
पर्व॑तस्य वृषभस्याधि॑ पृष्ठे नवा॑श्चरन्ति सरित॑: पुराणी: ॥४१॥
अग्ने॑ अक्रव्यान्नि: क्रव्यादं॑ नुदा दे॑वयज॑नं वह ॥४२॥
इमं क्रव्यादा वि॑वेशायं क्रव्यादमन्व॑गात् ।
व्याग्रौ कृत्वा ना॑नानं तं ह॑रामि शिवापरम् ॥४३॥
इमं क्रव्यादा वि॑वेशायं क्रव्यादमन्व॑गात् ।
व्याग्रौ कृत्वा ना॑नानं तं ह॑रामि शिवापरम् ॥४३॥
अन्तर्धिर्देवानां॑ परिधिर्म॑नुष्याद्गणामग्निर्गार्ह॑पत्य उभया॑नन्तरा श्रित: ॥४४॥
जीवानामायु: प्र ति॑र त्वम॑ग्ने पितॄणां लोकमपि॑ गच्छन्तु ये मृता: ।
सुगार्हपत्यो वितपन्नरा॑तिमुषामु॑षां श्रेय॑सीं धेह्यस्मै ॥४५॥
सुगार्हपत्यो वितपन्नरा॑तिमुषामु॑षां श्रेय॑सीं धेह्यस्मै ॥४५॥
सर्वा॑नग्ने सह॑मान: सपत्नानैषामूर्जं॑ रयिमस्मासु॑ धेहि ॥४६॥
इममिन्द्रं वह्निं पप्रि॑मन्वार॑भध्वं स वो निर्व॑क्षद्दुरिताद॑वद्यात् ।
तेनाप॑ हत शरु॑मापत॑न्तं तेन॑ रुद्रस्य परि॑ पातास्ताम् ॥४७॥
तेनाप॑ हत शरु॑मापत॑न्तं तेन॑ रुद्रस्य परि॑ पातास्ताम् ॥४७॥
अनड्वाहं॑ प्लवमन्वार॑भध्वं स वो निर्व॑क्षद्दुरिताद॑वद्यात् ।
आ रो॑हत सवितुर्नाव॑मेतां षड्भिरुर्वीभिरम॑तिं तरेम ॥४८॥
आ रो॑हत सवितुर्नाव॑मेतां षड्भिरुर्वीभिरम॑तिं तरेम ॥४८॥
अहोरात्रे अन्वे॑षि बिभ्र॑त्क्षेम्यस्तिष्ठ॑न्प्रतर॑ण: सुवीर॑: ।
अना॑तुरान्त्सुमन॑सस्तल्प बिभ्रज्ज्योगेव न: पुरु॑षगन्धिरेधि ॥४९॥
अना॑तुरान्त्सुमन॑सस्तल्प बिभ्रज्ज्योगेव न: पुरु॑षगन्धिरेधि ॥४९॥
ते देवेभ्य आ वृ॑श्चन्ते पापं जी॑वन्ति सर्वदा ।
क्रव्याद्यानग्निर॑न्तिकादश्व॑ इवानुवप॑ते नडम् ॥५०॥
क्रव्याद्यानग्निर॑न्तिकादश्व॑ इवानुवप॑ते नडम् ॥५०॥
येद्गऽश्रद्धा ध॑नकाम्या क्रव्यादा॑ समास॑ते ।
ते वा अन्येषां॑ कुम्भीं पर्याद॑धति सर्वदा ॥५१॥
ते वा अन्येषां॑ कुम्भीं पर्याद॑धति सर्वदा ॥५१॥
प्रेव॑ पिपतिषति मन॑सा मुहुरा व॑र्तते पुन॑: ।
क्रव्याद्यानग्निर॑न्तिकाद॑नुविद्वान्विताव॑ति ॥५२॥
क्रव्याद्यानग्निर॑न्तिकाद॑नुविद्वान्विताव॑ति ॥५२॥
अवि॑: कृष्णा भा॑गधेयं॑ पशूनां सीसं॑ क्रव्यादपि॑ चन्द्रं त॑ आहु: ।
माषा॑: पिष्टा भा॑गधेयं॑ ते हव्यम॑रण्यान्या गह्व॑रं सचस्व ॥५३॥
माषा॑: पिष्टा भा॑गधेयं॑ ते हव्यम॑रण्यान्या गह्व॑रं सचस्व ॥५३॥
इषीकां जर॑तीमिष्ट्वा तिल्पिञ्जं दण्ड॑नं नडम् ।
तमिन्द्र॑ इध्मं कृत्वा यमस्याग्निं निराद॑धौ ॥५४॥
तमिन्द्र॑ इध्मं कृत्वा यमस्याग्निं निराद॑धौ ॥५४॥
प्रत्यञ्च॑मर्कं प्र॑त्यर्पयित्वा प्र॑विद्वान्पन्थां वि ह्याद्गविवेश॑ ।
परामीषामसू॑न्दिदेश॑ दीर्घेणायु॑षा समिमान्त्सृ॑जामि ॥५५॥
परामीषामसू॑न्दिदेश॑ दीर्घेणायु॑षा समिमान्त्सृ॑जामि ॥५५॥
तृतीयं सूक्तम्» षष्ट्यृचस्यास्य सूक्तस्य यम ऋषि: | स्वर्गौदनाग्नयो देवता: | प्रथमर्चो द्विचत्वारिंशीत्रिचत्वारिंशीसप्तचत्वारिंशीनाञ्च भुरिक्त्रिष्टुप् द्वितीयादितृचद्वयस्य नवम्यादितृचस्य चतुर्दश्यादितृचस्याष्टादश्यादितृचस्य त्रयोविंश्या: पञ्चविंश्यादिनवानां पञ्चत्रिंश्यादिचतसृणां चत्वारिंश्येकचत्वारिंशीपञ्चचत्वारिंशीषट्चत्वारिंशीनामष्टचत्वारिंश्यादिसप्तानाञ्च त्रिष्टुप् अष्टमीद्वादश्येकविंशीद्वाविंशीचतुर्विंशीनां त्रिष्टुप्
एकोनचत्वारिंश्या अनुष्टुब्गर्भा त्रिष्टुप् चतुश्चत्वारिंश्या: पराबृहती त्रिष्टुप् पञ्चपञ्चाश्यादिषण्णाञ्च त्र्यवसाना सप्तपदा शङ्कुमत्यतिजागतशाक्वरातिशाक्वरधार्त्यगर्भातिधृतिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
पुमा॑न्पुंसोऽधि॑ तिष्ठ चर्मे॑हि तत्र॑ ह्वयस्व यतमा प्रिया ते॑ ।
याव॑न्तावग्रे॑ प्रथमं स॑मेयथुस्तद्वां वयो॑ यमराज्ये॑ समानम् ॥१॥
ताव॑द्वां चक्षुस्तति॑ वीर्याद्गणि तावत्तेज॑स्ततिधा वाजि॑नानि ।
अग्नि: शरी॑रं सचते यदैधोऽधा॑ पक्वान्मि॑थुना सं भ॑वाथ: ॥२॥
अग्नि: शरी॑रं सचते यदैधोऽधा॑ पक्वान्मि॑थुना सं भ॑वाथ: ॥२॥
सम॑स्मिँल्लोके समु॑ देवयाने सं स्मा॑ समेतं॑ यमराज्ये॑षु ।
पूतौ पवित्रैरुप तद्ध्व॑येथां यद्यद्रेतो अधि॑ वां संबभूव॑ ॥३॥
आप॑स्पुत्रासो अभि सं वि॑शध्वमिमं जीवं जी॑वधन्या: समेत्य॑ ।
तासां॑ भजध्वममृतं यमाहुर्यमो॑दनं पच॑ति वां जनि॑त्री ॥४॥
पूतौ पवित्रैरुप तद्ध्व॑येथां यद्यद्रेतो अधि॑ वां संबभूव॑ ॥३॥
आप॑स्पुत्रासो अभि सं वि॑शध्वमिमं जीवं जी॑वधन्या: समेत्य॑ ।
तासां॑ भजध्वममृतं यमाहुर्यमो॑दनं पच॑ति वां जनि॑त्री ॥४॥
यं वां॑ पिता पच॑ति यं च॑ माता रिप्रान्निर्मु॑क्त्यै शम॑लाच्च वाच: ।
स ओ॑दन: शतधा॑र: स्वर्ग उभे व्याद्गप नभ॑सी महित्वा ॥५॥
स ओ॑दन: शतधा॑र: स्वर्ग उभे व्याद्गप नभ॑सी महित्वा ॥५॥
उभे नभ॑सी उभयां॑श्च लोकान्ये यज्व॑नामभिजि॑ता: स्वर्गा: ।
तेषां ज्योति॑ष्मान्मधु॑मान्यो अग्रे तस्मि॑न्पुत्रैर्जरसि सं श्र॑येथाम् ॥६॥
तेषां ज्योति॑ष्मान्मधु॑मान्यो अग्रे तस्मि॑न्पुत्रैर्जरसि सं श्र॑येथाम् ॥६॥
प्राचीं॑प्राचीं प्रदिशमा र॑भेथामेतं लोकं श्रद्दधा॑ना: सचन्ते ।
यद्वां॑ पक्वं परि॑विष्टमग्नौ तस्य गुप्त॑ये दम्पती सं श्र॑येथाम् ॥७॥
यद्वां॑ पक्वं परि॑विष्टमग्नौ तस्य गुप्त॑ये दम्पती सं श्र॑येथाम् ॥७॥
दक्षि॑णां दिश॑मभि नक्ष॑माणौ पर्याव॑र्तेथामभि पात्र॑मेतत् ।
तस्मि॑न्वां यम: पितृभि॑: संविदान: पक्वाय शर्म॑ बहुलं नि य॑च्छात् ॥८॥
तस्मि॑न्वां यम: पितृभि॑: संविदान: पक्वाय शर्म॑ बहुलं नि य॑च्छात् ॥८॥
प्रतीची॑ दिशामियमिद्वरं यस्यां सोमो॑ अधिपा मृ॑डिता च॑ ।
तस्यां॑ श्रयेथां सुकृत॑: सचेथामधा॑ पक्वान्मि॑थुना सं भ॑वाथ: ॥९॥
तस्यां॑ श्रयेथां सुकृत॑: सचेथामधा॑ पक्वान्मि॑थुना सं भ॑वाथ: ॥९॥
उत्त॑रं राष्ट्रं प्रजयो॑त्तराव॑द्दिशामुदी॑ची कृणवन्नो अग्र॑म् ।
पाङ्क्तं छन्द: पुरु॑षो बभूव विश्वै॑र्विश्वाङ्गै: सह सं भ॑वेम ॥१०॥
पाङ्क्तं छन्द: पुरु॑षो बभूव विश्वै॑र्विश्वाङ्गै: सह सं भ॑वेम ॥१०॥
ध्रुवेयं विराण्नमो॑ अस्त्वस्यै शिवा पुत्रेभ्य॑ उत मह्य॑मस्तु ।
सा नो॑ देव्यदिते विश्ववार इर्य॑ इव गोपा अभि र॑क्ष पक्वम् ॥११॥
सा नो॑ देव्यदिते विश्ववार इर्य॑ इव गोपा अभि र॑क्ष पक्वम् ॥११॥
पितेव॑ पुत्रानभि सं स्व॑जस्व न: शिवा नो वाता॑ इह वा॑न्तु भूमौ॑ ।
यमो॑दनं पच॑तो देवते॑ इह तन्नस्तप॑ उत सत्यं च॑ वेत्तु ॥१२॥
यमो॑दनं पच॑तो देवते॑ इह तन्नस्तप॑ उत सत्यं च॑ वेत्तु ॥१२॥
यद्य॑त्कृष्ण: श॑कुन एह गत्वा त्सरन्विष॑क्तं बिल॑ आससाद॑ ।
यद्वा॑ दास्या३र्द्रह॑स्ता समङ्क्त उलूख॑लं मुस॑लं शुम्भताप: ॥१३॥
यद्वा॑ दास्या३र्द्रह॑स्ता समङ्क्त उलूख॑लं मुस॑लं शुम्भताप: ॥१३॥
अयं ग्रावा॑ पृथुबु॑ध्नो वयोधा: पूत: पवित्रैरप॑ हन्तु रक्ष॑: ।
आ रो॑ह चर्म महि शर्म॑ यच्छ मा दंप॑ती पौत्र॑मघं नि गा॑ताम् ॥१४॥
आ रो॑ह चर्म महि शर्म॑ यच्छ मा दंप॑ती पौत्र॑मघं नि गा॑ताम् ॥१४॥
वनस्पति॑: सह देवैर्न आगन्रक्ष॑: पिशाचाँ अ॑पबाध॑मान: ।
स उच्छ्र॑यातै प्र व॑दाति वाचं तेन॑ लोकाँ अभि सर्वा॑ञ्जयेम ॥१५॥
स उच्छ्र॑यातै प्र व॑दाति वाचं तेन॑ लोकाँ अभि सर्वा॑ञ्जयेम ॥१५॥
सप्त मेधा॑न्पशव: पर्य॑गृह्णन्य ए॑षां ज्योति॑ष्माँ उत यश्चकर्श॑ ।
त्रय॑स्त्रिंशद्देवतास्तान्त्स॑चन्ते स न॑: स्वर्गमभि ने॑ष लोकम् ॥१६॥
त्रय॑स्त्रिंशद्देवतास्तान्त्स॑चन्ते स न॑: स्वर्गमभि ने॑ष लोकम् ॥१६॥
स्वर्गं लोकमभि नो॑ नयासि सं जायया॑ सह पुत्रै: स्या॑म ।
गृह्णामि हस्तमनु मैत्वत्र मा न॑स्तारीन्निरृ॑तिर्मो अरा॑ति: ॥१७॥
गृह्णामि हस्तमनु मैत्वत्र मा न॑स्तारीन्निरृ॑तिर्मो अरा॑ति: ॥१७॥
ग्राहिं॑ पाप्मानमति ताँ अ॑याम तमो व्यद्गस्य प्र व॑दासि वल्गु ।
वानस्पत्य उद्य॑तो मा जि॑हिंसीर्मा त॑ण्डुलं वि श॑रीर्देवयन्त॑म् ॥१८॥
वानस्पत्य उद्य॑तो मा जि॑हिंसीर्मा त॑ण्डुलं वि श॑रीर्देवयन्त॑म् ॥१८॥
विश्वव्य॑चा घृतपृ॑ष्ठो भविष्यन्त्सयो॑निर्लोकमुप॑ याह्येतम् ।
वर्षवृ॑द्धमुप॑ यच्छ शूर्पं तुषं॑ पलावानप तद्वि॑नक्तु ॥१९॥
वर्षवृ॑द्धमुप॑ यच्छ शूर्पं तुषं॑ पलावानप तद्वि॑नक्तु ॥१९॥
त्रयो॑ लोका: संमि॑ता ब्राह्म॑णेन द्यौरेवासौ पृ॑थिव्य१न्तरि॑क्षम् ।
अंशून्गृ॑भीत्वान्वार॑भेथामा प्या॑यन्तां पुनरा य॑न्तु शूर्प॑म् ॥२०॥
अंशून्गृ॑भीत्वान्वार॑भेथामा प्या॑यन्तां पुनरा य॑न्तु शूर्प॑म् ॥२०॥
पृथ॑ग्रूपाणि॑ बहुधा प॑शूनामेक॑रूपो भवसि सं समृ॑द्ध्या ।
एतां त्वचं लोहि॑नीं तां नु॑दस्व ग्रावा॑ शुम्भाति मलग इ॑व वस्त्रा॑ ॥२१॥
एतां त्वचं लोहि॑नीं तां नु॑दस्व ग्रावा॑ शुम्भाति मलग इ॑व वस्त्रा॑ ॥२१॥
पृथिवीं त्वा॑ पृथिव्यामा वे॑शयामि तनू: स॑मानी विकृ॑ता त एषा ।
यद्य॑द्द्युत्तं लि॑खितमर्प॑णेन तेन मा सु॑स्रोर्ब्रह्मणापि तद्व॑पामि ॥२२॥
यद्य॑द्द्युत्तं लि॑खितमर्प॑णेन तेन मा सु॑स्रोर्ब्रह्मणापि तद्व॑पामि ॥२२॥
जनि॑त्रीव प्रति॑ हर्यासि सूनुं सं त्वा॑ दधामि पृथिवीं पृ॑थिव्या ।
उखा कुम्भी वेद्यां मा व्य॑थिष्ठा यज्ञायुधैराज्येनाति॑षक्ता ॥२३॥
उखा कुम्भी वेद्यां मा व्य॑थिष्ठा यज्ञायुधैराज्येनाति॑षक्ता ॥२३॥
अग्नि: पच॑न्रक्षतु त्वा पुरस्तादिन्द्रो॑ रक्षतु दक्षिणतो मरुत्वा॑न् ।
वरु॑णस्त्वा दृंहाद्धरुणे॑ प्रतीच्या॑ उत्तरात्त्वा सोम: सं द॑दातै ॥२४॥
वरु॑णस्त्वा दृंहाद्धरुणे॑ प्रतीच्या॑ उत्तरात्त्वा सोम: सं द॑दातै ॥२४॥
पूता: पवित्रै॑: पवन्ते अभ्राद्दिवं॑ च यन्ति॑ पृथिवीं च॑ लोकान् ।
ता जी॑वला जीवध॑न्या: प्रतिष्ठा: पात्र आसि॑क्ता: पर्यग्निरि॑न्धाम् ॥२५॥
ता जी॑वला जीवध॑न्या: प्रतिष्ठा: पात्र आसि॑क्ता: पर्यग्निरि॑न्धाम् ॥२५॥
आ य॑न्ति दिव: पृ॑थिवीं स॑चन्ते भूम्या॑: सचन्ते अध्यन्तरि॑क्षम् ।
शुद्धा: सतीस्ता उ शुम्भ॑न्त एव ता न॑: स्वर्गमभि लोकं न॑यन्तु ॥२६॥
शुद्धा: सतीस्ता उ शुम्भ॑न्त एव ता न॑: स्वर्गमभि लोकं न॑यन्तु ॥२६॥
उतेव॑ प्रभ्वीरुत संमि॑तास उत शुक्रा: शुच॑यश्चामृता॑स: ।
ता ओ॑दनं दंप॑तिभ्यां प्रशि॑ष्टा आप: शिक्ष॑न्ती: पचता सुनाथा: ॥२७॥
ता ओ॑दनं दंप॑तिभ्यां प्रशि॑ष्टा आप: शिक्ष॑न्ती: पचता सुनाथा: ॥२७॥
संख्या॑ता स्तोका: पृ॑थिवीं स॑चन्ते प्राणापानै: संमि॑ता ओष॑धीभि: ।
असं॑ख्याता ओप्यमा॑ना: सुवर्णा: सर्वं व्याद्गपु: शुच॑य: शुचित्वम् ॥२८॥
असं॑ख्याता ओप्यमा॑ना: सुवर्णा: सर्वं व्याद्गपु: शुच॑य: शुचित्वम् ॥२८॥
उद्यो॑धन्त्यभि व॑ल्गन्ति तप्ता: फेन॑मस्यन्ति बहुलांश्च॑ बिन्दून् ।
योषे॑व दृष्ट्वा पतिमृत्वि॑यायैतैस्त॑ण्डुलैर्भ॑वता समा॑प: ॥२९॥
योषे॑व दृष्ट्वा पतिमृत्वि॑यायैतैस्त॑ण्डुलैर्भ॑वता समा॑प: ॥२९॥
उत्था॑पय सीद॑तो बुध्न ए॑नानद्भिरात्मान॑मभि सं स्पृ॑शन्ताम् ।
अमा॑सि पात्रै॑रुदकं यदेतन्मितास्त॑ण्डुला: प्रदिशो यदीमा: ॥३०॥
अमा॑सि पात्रै॑रुदकं यदेतन्मितास्त॑ण्डुला: प्रदिशो यदीमा: ॥३०॥
प्र य॑च्छ पर्शुं॑ त्वरया ह॑रौसमहिं॑सन्त ओष॑धीर्दान्तु पर्व॑न् ।
यासां सोम: परि॑ राज्यंद्ग बभूवाम॑न्युता नो वीरुधो॑ भवन्तु ॥३१॥
यासां सोम: परि॑ राज्यंद्ग बभूवाम॑न्युता नो वीरुधो॑ भवन्तु ॥३१॥
नवं॑ बर्हिरो॑दनाय॑ स्तृणीत प्रियं हृदश्चक्षु॑षो वल्ग्वद्गस्तु ।
तस्मि॑न्देवा: सह दैवीर्वि॑शन्त्विमं प्राश्न॑न्त्वृतुभि॑र्निषद्य॑ ॥३२॥
तस्मि॑न्देवा: सह दैवीर्वि॑शन्त्विमं प्राश्न॑न्त्वृतुभि॑र्निषद्य॑ ॥३२॥
वन॑स्पते स्तीर्णमा सी॑द बर्हिर॑ग्निष्टोभै: संमि॑तो देवता॑भि: ।
त्वष्ट्रे॑व रूपं सुकृ॑तं स्वधि॑त्यैना एहा: परि पात्रे॑ ददृश्राम् ॥३३॥
त्वष्ट्रे॑व रूपं सुकृ॑तं स्वधि॑त्यैना एहा: परि पात्रे॑ ददृश्राम् ॥३३॥
षष्ट्यां शरत्सु॑ निधिपा अभीद्गच्छात्स्वद्ग: पक्वेनाभ्यद्गश्नवातै ।
उपै॑नं जीवान्पितर॑श्च पुत्रा एतं स्वर्गं ग॑मयान्त॑मग्ने: ॥३४॥
उपै॑नं जीवान्पितर॑श्च पुत्रा एतं स्वर्गं ग॑मयान्त॑मग्ने: ॥३४॥
धर्ता ध्रि॑यस्व धरुणे॑ पृथिव्या अच्यु॑तं त्वा देवता॑श्च्यावयन्तु ।
तं त्वा दंप॑ती जीव॑न्तौ जीवपु॑त्रावुद्वा॑सयात: पर्य॑ग्निधाना॑त् ॥३५॥
तं त्वा दंप॑ती जीव॑न्तौ जीवपु॑त्रावुद्वा॑सयात: पर्य॑ग्निधाना॑त् ॥३५॥
सर्वा॑न्त्समागा॑ अभिजित्य॑ लोकान्याव॑न्त: कामा: सम॑तीतृपस्तान् ।
वि गा॑हेथामायव॑नं च दर्विरेक॑स्मिन्पात्रे अध्युद्ध॑रैनम् ॥३६॥
वि गा॑हेथामायव॑नं च दर्विरेक॑स्मिन्पात्रे अध्युद्ध॑रैनम् ॥३६॥
उप॑ स्तृणीहि प्रथय॑ पुरस्ता॑द्घृतेन पात्र॑मभि घा॑रयैतत् ।
वाश्रेवोस्रा तरु॑णं स्तनस्युमिमं दे॑वासो अभिहिङ्कृ॑णोत ॥३७॥
वाश्रेवोस्रा तरु॑णं स्तनस्युमिमं दे॑वासो अभिहिङ्कृ॑णोत ॥३७॥
उपा॑स्तरीरक॑रो लोकमेतमुरु: प्र॑थतामस॑म: स्वर्ग: ।
तस्मि॑ञ्छ्रयातै महिष: सु॑पर्णो देवा ए॑नं देवता॑भ्य: प्र य॑च्छान् ॥३८॥
तस्मि॑ञ्छ्रयातै महिष: सु॑पर्णो देवा ए॑नं देवता॑भ्य: प्र य॑च्छान् ॥३८॥
यद्य॑ज्जाया पच॑ति त्वत्पर:प॑र: पति॑र्वा जाये त्वत्तिर: ।
सं तत्सृ॑जेथां सह वां तद॑स्तु संपादय॑न्तौ सह लोकमेक॑म् ॥३९॥
सं तत्सृ॑जेथां सह वां तद॑स्तु संपादय॑न्तौ सह लोकमेक॑म् ॥३९॥
याव॑न्तो अस्या: पृ॑थिवीं सच॑न्ते अस्मत्पुत्रा: परि ये सं॑बभूवु: ।
सर्वांस्ताँ उप पात्रे॑ ह्वयेथां नाभिं॑ जानाना: शिश॑व: समाया॑न् ॥४०॥
सर्वांस्ताँ उप पात्रे॑ ह्वयेथां नाभिं॑ जानाना: शिश॑व: समाया॑न् ॥४०॥
वसोर्या धारा मधु॑ना प्रपी॑ना घृतेन॑ मिश्रा अमृत॑स्य नाभ॑य: ।
सर्वास्ता अव॑ रुन्धे स्वर्ग: षष्ट्यां शरत्सु॑ निधिपा अभीद्गच्छात् ॥४१॥
निधिं नि॑धिपा अभ्येद्गनमिच्छादनी॑श्वरा अभित॑: सन्तु ये३ऽन्ये ।
अस्माभि॑र्दत्तो निहि॑त: स्वर्गस्त्रिभि: काण्डैस्त्रीन्त्स्वर्गान॑रुक्षत् ॥४२॥

अग्नी रक्ष॑स्तपतु यद्विदे॑वं क्रव्यात्पि॑शाच इह मा प्र पा॑स्त ।
नुदाम॑ एनमप॑ रुध्मो अस्मदा॑दित्या ए॑नमङ्गि॑रस: सचन्ताम् ॥४३॥
नुदाम॑ एनमप॑ रुध्मो अस्मदा॑दित्या ए॑नमङ्गि॑रस: सचन्ताम् ॥४३॥
आदित्येभ्यो अङ्गि॑रोभ्यो मध्विदं घृतेन॑ मिश्रं प्रति॑ वेदयामि ।
शुद्धह॑स्तौ ब्राह्मणस्यानि॑हत्यैतं स्वर्गं सु॑कृतावपी॑तम् ॥४४॥
शुद्धह॑स्तौ ब्राह्मणस्यानि॑हत्यैतं स्वर्गं सु॑कृतावपी॑तम् ॥४४॥
इदं प्राप॑मुत्तमं काण्ड॑मस्य यस्मा॑ल्लोकात्प॑रमेष्ठी समाप॑ ।
आ सि॑ञ्च सर्पिर्घृतवत्सम॑ङ्ग्ध्येष भागो अङ्गि॑रसो नो अत्र॑ ॥४५॥
आ सि॑ञ्च सर्पिर्घृतवत्सम॑ङ्ग्ध्येष भागो अङ्गि॑रसो नो अत्र॑ ॥४५॥
सत्याय॑ च तप॑से देवता॑भ्यो निधिं शे॑वधिं परि॑ दद्म एतम् ।
मा नो॑ द्यूतेऽव॑ गान्मा समि॑त्यां मा स्मान्यस्मा उत्सृ॑जता पुरा मत् ॥४६॥
मा नो॑ द्यूतेऽव॑ गान्मा समि॑त्यां मा स्मान्यस्मा उत्सृ॑जता पुरा मत् ॥४६॥
अहं प॑चाम्यहं द॑दामि ममेदु कर्म॑न्करुणेऽधि॑ जाया ।
कौमा॑रो लोको अ॑जनिष्ट पुत्रो३ऽन्वार॑भेथां वय॑ उत्तराव॑त् ॥४७॥
कौमा॑रो लोको अ॑जनिष्ट पुत्रो३ऽन्वार॑भेथां वय॑ उत्तराव॑त् ॥४७॥
न किल्बि॑षमत्र नाधारो अस्ति न यन्मित्रै: समम॑मान एति॑ ।
अनू॑नं पात्रं निहि॑तं न एतत्पक्तारं॑ पक्व: पुनरा वि॑शाति ॥४८॥
अनू॑नं पात्रं निहि॑तं न एतत्पक्तारं॑ पक्व: पुनरा वि॑शाति ॥४८॥
प्रियं प्रियाणां॑ कृणवाम तमस्ते य॑न्तु यतमे द्विषन्ति॑ ।
धेनुर॑नड्वान्वयो॑वय आयदेव पौरु॑षेयमप॑ मृत्युं नु॑दन्तु ॥४९॥
धेनुर॑नड्वान्वयो॑वय आयदेव पौरु॑षेयमप॑ मृत्युं नु॑दन्तु ॥४९॥
समग्नयो॑ विदुरन्यो अन्यं य ओष॑धी: सच॑ते यश्च सिन्धू॑न् ।
याव॑न्तो देवा दिव्या३तप॑न्ति हिर॑ण्यं ज्योति: पच॑तो बभूव ॥५०॥
याव॑न्तो देवा दिव्या३तप॑न्ति हिर॑ण्यं ज्योति: पच॑तो बभूव ॥५०॥
एषा त्वचां पुरु॑षे सं ब॑भूवान॑ग्ना: सर्वे॑ पशवो ये अन्ये ।
क्षत्रेणात्मानं परि॑ धापयाथोऽमोतं वासो मुख॑मोदनस्य॑ ॥५१॥
क्षत्रेणात्मानं परि॑ धापयाथोऽमोतं वासो मुख॑मोदनस्य॑ ॥५१॥
यदक्षेषु वदा यत्समि॑त्यां यद्वा वदा अनृ॑तं वित्तकाम्या ।
समानं तन्तु॑मभि संवसा॑नौ तस्मिन्त्सर्वं शम॑लं सादयाथ: ॥५२॥
समानं तन्तु॑मभि संवसा॑नौ तस्मिन्त्सर्वं शम॑लं सादयाथ: ॥५२॥
वर्षं व॑नुष्वापि॑ गच्छ देवांस्त्वचो धूमं पर्युत्पा॑तयासि ।
विश्वव्य॑चा घृतपृ॑ष्ठो भविष्यन्त्सयो॑निर्लोकमुप॑ याह्येतम् ॥५३॥
विश्वव्य॑चा घृतपृ॑ष्ठो भविष्यन्त्सयो॑निर्लोकमुप॑ याह्येतम् ॥५३॥
तन्वंद्ग स्वर्गो ब॑हुधा वि च॑क्रे यथा॑ विद आत्मन्नन्यव॑र्णाम् ।
अपा॑जैत्कृष्णां रुश॑तीं पुनानो या लोहि॑नी तां ते॑ अग्नौ जु॑होमि ॥५४॥
अपा॑जैत्कृष्णां रुश॑तीं पुनानो या लोहि॑नी तां ते॑ अग्नौ जु॑होमि ॥५४॥
प्राच्यै॑ त्वा दिशे३ऽग्नयेऽधि॑पतयेऽसिताय॑ रक्षित्र आ॑दित्यायेषु॑मते ।
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५५॥
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५५॥
दक्षि॑णायै त्वा दिश इन्द्रायाधि॑पतये तिर॑श्चिराजये रक्षित्रे यमायेषु॑मते ।
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५६॥
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५६॥
प्रतीच्यै॑ त्वा दिशे वरु॑णायाधि॑पतये पृदा॑कवे रक्षित्रेऽन्नायेषु॑मते ।
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५७॥
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५७॥
उदी॑च्यै त्वा दिशे सोमायाधि॑पतये स्वजाय॑ रक्षित्रेऽशन्या इषु॑मत्यै ।
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५८॥
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५८॥
ध्रुवायै॑ त्वा दिशे विष्णवेऽधि॑पतये कल्माष॑ग्रीवाय रक्षित्र ओष॑धीभ्य इषु॑मतीभ्य: ।
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५९॥
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम ॥५९॥
ऊर्ध्वायै॑ त्वा दिशे बृहस्पतयेऽधि॑पतये श्वित्राय॑ रक्षित्रे वर्षायेषु॑मते ।
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम
एतं परि॑ दद्मस्तं नो॑ गोपायतास्माकमैतो॑: ।
दिष्टं नो अत्र॑ जरसे नि ने॑षज्जरा मृत्यवे परि॑ णो ददात्वथ॑ पक्वेन॑ सह सं भ॑वेम
चतुर्थं सूक्तम्» त्रिपञ्चाशदृचस्यास्य सूक्तस्य कश्यप ऋषि: | वशा देवता: | प्रथमादिषदृचामष्टम्यादिद्वादशानामेकविंश्याद्येकादशानां त्रयस्त्रिंश्यादिनवानां त्रिचत्वारिंश्याद्येकादशानाञ्चानुष्टुप् सप्तम्या भुरिगनुष्टुप् विंश्या विराडनुष्टुप् द्वात्रिंश्या उष्णिग्बृहतीगर्भानुष्टुप् द्विचत्वारिंश्याश्च बृहतीगर्भानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
ददामीत्येव ब्रू॑यादनु॑ चैनामभु॑त्सत ।
वशां ब्रह्मभ्यो याच॑द्भ्यस्तत्प्रजावदप॑त्यवत् ॥१॥
प्रजया स वि क्री॑णीते पशुभिश्चोप॑ दस्यति ।
य आ॑र्षेयेभ्यो याच॑द्भ्यो देवानां गां न दित्स॑ति ॥२॥
य आ॑र्षेयेभ्यो याच॑द्भ्यो देवानां गां न दित्स॑ति ॥२॥
कूटया॑स्य सं शी॑र्यन्ते श्लोणया॑ कातम॑र्दति ।
बण्डया॑ दह्यन्ते गृहा: काणया॑ दीयते स्वम् ॥३॥
विलोहितो अ॑धिष्ठाना॑च्छक्नो वि॑न्दति गोप॑तिम् ।
तथा॑ वशाया: संवि॑द्यं दुरदभ्ना ह्यु१च्यसे॑ ॥४॥
बण्डया॑ दह्यन्ते गृहा: काणया॑ दीयते स्वम् ॥३॥
विलोहितो अ॑धिष्ठाना॑च्छक्नो वि॑न्दति गोप॑तिम् ।
तथा॑ वशाया: संवि॑द्यं दुरदभ्ना ह्यु१च्यसे॑ ॥४॥
पदोर॑स्या अधिष्ठाना॑द्विक्लिन्दुर्नाम॑ विन्दति ।
अनामनात्सं शी॑र्यन्ते या मुखे॑नोपजिघ्र॑ति ॥५॥
अनामनात्सं शी॑र्यन्ते या मुखे॑नोपजिघ्र॑ति ॥५॥
यो अ॑स्या: कर्णा॑वास्कुनोत्या स देवेषु॑ वृश्चते ।
लक्ष्म॑ कुर्व इति मन्य॑ते कनी॑य: कृणुते स्वम् ॥६॥
लक्ष्म॑ कुर्व इति मन्य॑ते कनी॑य: कृणुते स्वम् ॥६॥
यद॑स्या: कस्मै॑ चिद्भोगा॑य बालान्कश्चि॑त्प्रकृन्तति॑ ।
तत॑: किशोरा म्रि॑यन्ते वत्सांश्च घातु॑को वृक॑: ॥७॥
तत॑: किशोरा म्रि॑यन्ते वत्सांश्च घातु॑को वृक॑: ॥७॥
यद॑स्या गोप॑तौ सत्या लोम ध्वाङ्क्षो अजी॑हिडत् ।
तत॑: कुमारा म्रि॑यन्ते यक्ष्मो॑ विन्दत्यनामनात् ॥८॥
तत॑: कुमारा म्रि॑यन्ते यक्ष्मो॑ विन्दत्यनामनात् ॥८॥
यद॑स्या: पल्पू॑लनं शकृ॑द्दासी समस्य॑ति ।
ततोऽप॑रूपं जायते तस्मादव्ये॑ष्यदेन॑स: ॥९॥
ततोऽप॑रूपं जायते तस्मादव्ये॑ष्यदेन॑स: ॥९॥
जाय॑मानाभि जा॑यते देवान्त्सब्रा॑ह्मणान्वशा ।
तस्मा॑द्ब्रह्मभ्यो देयैषा तदा॑हु: स्वस्य गोप॑नम् ॥१०॥
तस्मा॑द्ब्रह्मभ्यो देयैषा तदा॑हु: स्वस्य गोप॑नम् ॥१०॥
य ए॑नां वनिमायन्ति तेषां॑ देवकृ॑ता वशा ।
ब्रह्मज्येयं तद॑ब्रुवन्य ए॑नां निप्रियायते॑ ॥११॥
ब्रह्मज्येयं तद॑ब्रुवन्य ए॑नां निप्रियायते॑ ॥११॥
य आ॑र्षेयेभ्यो याच॑द्भ्यो देवानां गां न दित्स॑ति ।
आ स देवेषु॑ वृश्चते ब्राह्मणानां॑ च मन्यवे॑ ॥१२॥
आ स देवेषु॑ वृश्चते ब्राह्मणानां॑ च मन्यवे॑ ॥१२॥
यो अ॑स्य स्याद्व॑शाभोगो अन्यामि॑च्छेत तर्हि स: ।
हिंस्ते अद॑त्ता पुरु॑षं याचितां च न दित्स॑ति ॥१३॥
हिंस्ते अद॑त्ता पुरु॑षं याचितां च न दित्स॑ति ॥१३॥
यथा॑ शेवधिर्निहि॑तो ब्राह्मणानां तथा॑ वशा ।
तामेतदच्छाय॑न्ति यस्मिन्कस्मिं॑श्च जाय॑ते ॥१४॥
तामेतदच्छाय॑न्ति यस्मिन्कस्मिं॑श्च जाय॑ते ॥१४॥
स्वमेतदच्छाय॑न्ति यद्वशां ब्रा॑ह्मणा अभि ।
यथै॑नानन्यस्मि॑ञ्जिनीयादेवास्या॑ निरोध॑नम् ॥१५॥
यथै॑नानन्यस्मि॑ञ्जिनीयादेवास्या॑ निरोध॑नम् ॥१५॥
चरे॑देवा त्रै॑हायणादवि॑ज्ञातगदा सती ।
वशां च॑ विद्यान्ना॑रद ब्राह्मणास्तर्ह्येष्याद्ग: ॥१६॥
वशां च॑ विद्यान्ना॑रद ब्राह्मणास्तर्ह्येष्याद्ग: ॥१६॥
य ए॑नामव॑शामाह॑ देवानां निहि॑तं निधिम् ।
उभौ तस्मै॑ भवाशर्वौ प॑रिक्रम्येषु॑मस्यतह् ॥१७॥
उभौ तस्मै॑ भवाशर्वौ प॑रिक्रम्येषु॑मस्यतह् ॥१७॥
यो अ॑स्या ऊधो न वेदाथो॑ अस्या स्तना॑नुत ।
उभये॑नैवास्मै॑ दुहे दातुं चेदश॑कद्वशाम् ॥१८॥
उभये॑नैवास्मै॑ दुहे दातुं चेदश॑कद्वशाम् ॥१८॥
दुरदभ्नैनमा श॑ये याचितां च न दित्स॑ति ।
नास्मै कामा: समृ॑ध्यन्ते यामद॑त्त्वा चिकी॑र्षति ॥१९॥
नास्मै कामा: समृ॑ध्यन्ते यामद॑त्त्वा चिकी॑र्षति ॥१९॥
देवा वशाम॑याचन्मुखं॑ कृत्वा ब्राह्म॑णम् ।
तेषां सर्वे॑षामद॑दद्धेडं न्येद्गति मानु॑ष: ॥२०॥
तेषां सर्वे॑षामद॑दद्धेडं न्येद्गति मानु॑ष: ॥२०॥
हेडं॑ पशूनां न्येद्गति ब्राह्मणेभ्यो॑ऽददद्वशाम् ।
देवानां निहि॑तं भागं मर्त्यश्चेन्नि॑प्रियायते॑ ॥२१॥
देवानां निहि॑तं भागं मर्त्यश्चेन्नि॑प्रियायते॑ ॥२१॥
यदन्ये शतं याचे॑युर्ब्राह्मणा गोप॑तिं वशाम् ।
अथै॑नां देवा अ॑ब्रुवन्नेवं ह॑ विदुषो॑ वशा ॥२२॥
य एवं विदुषेऽदत्त्वाथान्येभ्यो दद॑द्वशाम् ।
दुर्गा तस्मा॑ अधिष्ठाने॑ पृथिवी सहदे॑वता ॥२३॥
अथै॑नां देवा अ॑ब्रुवन्नेवं ह॑ विदुषो॑ वशा ॥२२॥
य एवं विदुषेऽदत्त्वाथान्येभ्यो दद॑द्वशाम् ।
दुर्गा तस्मा॑ अधिष्ठाने॑ पृथिवी सहदे॑वता ॥२३॥
देवा वशाम॑याचन्यस्मिन्नग्रे अजा॑यत ।
तामेतां वि॑द्यान्नार॑द: सह देवैरुदा॑जत ॥२४॥
तामेतां वि॑द्यान्नार॑द: सह देवैरुदा॑जत ॥२४॥
अनपत्यमल्प॑पशुं वशा कृ॑णोति पूरु॑षम् ।
ब्राह्मणैश्च॑ याचितामथै॑नां निप्रियायते॑ ॥२५॥
ब्राह्मणैश्च॑ याचितामथै॑नां निप्रियायते॑ ॥२५॥
अग्नीषोमा॑भ्यां कामा॑य मित्राय वरु॑णाय च ।
तेभ्यो॑ याचन्ति ब्राह्मणास्तेष्वा वृ॑श्चतेऽद॑दत् ॥२६॥
तेभ्यो॑ याचन्ति ब्राह्मणास्तेष्वा वृ॑श्चतेऽद॑दत् ॥२६॥
याव॑दस्या गोप॑तिर्नोप॑शृणुयादृच॑: स्वयम् ।
चरे॑दस्य तावद्गोषु नास्य॑ श्रुत्वा गृहे व॑सेत् ॥२७॥
चरे॑दस्य तावद्गोषु नास्य॑ श्रुत्वा गृहे व॑सेत् ॥२७॥
यो अ॑स्या ऋच॑ उपश्रुत्याथ गोष्वची॑चरत् ।
आयु॑श्च तस्य भूतिं॑ च देवा वृ॑श्चन्ति हीडिता: ॥२८॥
आयु॑श्च तस्य भूतिं॑ च देवा वृ॑श्चन्ति हीडिता: ॥२८॥
वशा चर॑न्ती बहुधा देवानां निहि॑तो निधि: ।
आविष्कृ॑णुष्व रूपाणि॑ यदा स्थाम जिघां॑सति ॥२९॥
आविष्कृ॑णुष्व रूपाणि॑ यदा स्थाम जिघां॑सति ॥२९॥
आविरात्मानं॑ कृणुते यदा स्थाम जिघां॑सति ।
अथो॑ ह ब्रह्मभ्यो॑ वशा याच्ञ्याय॑ कृणुते मन॑: ॥३०॥
अथो॑ ह ब्रह्मभ्यो॑ वशा याच्ञ्याय॑ कृणुते मन॑: ॥३०॥
मन॑सा सं क॑ल्पयति तद्देवाँ अपि॑ गच्छति ।
ततो॑ ह ब्रह्माणो॑ वशामु॑पप्रय॑न्ति याचि॑तुम् ॥३१॥
ततो॑ ह ब्रह्माणो॑ वशामु॑पप्रय॑न्ति याचि॑तुम् ॥३१॥
स्वधाकारेण॑ पितृभ्यो॑ यज्ञेन॑ देवता॑भ्य: ।
दाने॑न राजन्योद्ग वशाया॑ मातुर्हेडं न ग॑च्छति ॥३२॥
दाने॑न राजन्योद्ग वशाया॑ मातुर्हेडं न ग॑च्छति ॥३२॥
वशा माता रा॑जन्यद्गस्य तथा संभू॑तमग्रश: ।
तस्या॑ आहुरन॑र्पणं यद्ब्रह्मभ्य॑: प्रदीयते॑ ॥३३॥
तस्या॑ आहुरन॑र्पणं यद्ब्रह्मभ्य॑: प्रदीयते॑ ॥३३॥
यथाज्यं प्रगृ॑हीतमालुम्पेत्स्रुचो अग्नये॑ ।
एवा ह॑ ब्रह्मभ्यो॑ वशामग्नय आ वृ॑श्चतेऽद॑दत् ॥३४॥
एवा ह॑ ब्रह्मभ्यो॑ वशामग्नय आ वृ॑श्चतेऽद॑दत् ॥३४॥
पुरोडाश॑वत्सा सुदुघा॑ लोके॑ऽस्मा उप॑ तिष्ठति ।
सास्मै सर्वान्कामा॑न्वशा प्र॑ददुषे॑ दुहे ॥३५॥
सास्मै सर्वान्कामा॑न्वशा प्र॑ददुषे॑ दुहे ॥३५॥
सर्वान्कामा॑न्यमराज्ये॑ वशा प्र॑ददुषे॑ दुहे ।
अथा॑हुर्नार॑कं लोकं नि॑रुन्धानस्य॑ याचिताम् ॥३६॥
अथा॑हुर्नार॑कं लोकं नि॑रुन्धानस्य॑ याचिताम् ॥३६॥
प्रवीयमा॑ना चरति क्रुद्धा गोप॑तये वशा ।
वेहतं॑ मा मन्य॑मानो मृत्यो: पाशे॑षु बध्यताम् ॥३७॥
वेहतं॑ मा मन्य॑मानो मृत्यो: पाशे॑षु बध्यताम् ॥३७॥
यो वेहतं मन्य॑मानोऽमा च पच॑ते वशाम् ।
अप्य॑स्य पुत्रान्पौत्रां॑श्च याचय॑ते बृहस्पति॑: ॥३८॥
अप्य॑स्य पुत्रान्पौत्रां॑श्च याचय॑ते बृहस्पति॑: ॥३८॥
महदेषाव॑ तपति चर॑न्ती गोषु गौरपि॑ ।
अथो॑ ह गोप॑तये वशाद॑दुषे विषं दु॑हे ॥३९॥
अथो॑ ह गोप॑तये वशाद॑दुषे विषं दु॑हे ॥३९॥
प्रियं प॑शूनां भ॑वति यद्ब्रह्मभ्य॑: प्रदीयते॑ ।
अथो॑ वशायास्तत्प्रियं यद्दे॑वत्रा हवि: स्यात् ॥४०॥
अथो॑ वशायास्तत्प्रियं यद्दे॑वत्रा हवि: स्यात् ॥४०॥
या वशा उदक॑ल्पयन्देवा यज्ञादुदेत्य॑ ।
तासां॑ विलिप्त्यं भीमामुदाकु॑रुत नारद: ॥४१॥
तां देवा अ॑मीमांसन्त वशेया३मवशेति॑ ।
ताम॑ब्रवीन्नारद एषा वशानां॑ वशतमेति॑ ॥४२॥
तासां॑ विलिप्त्यं भीमामुदाकु॑रुत नारद: ॥४१॥
तां देवा अ॑मीमांसन्त वशेया३मवशेति॑ ।
ताम॑ब्रवीन्नारद एषा वशानां॑ वशतमेति॑ ॥४२॥
कति नु वशा ना॑रद यास्त्वं वेत्थ॑ मनुष्यजा: ।
तास्त्वा॑ पृच्छामि विद्वांसं कस्या नाश्नी॑यादब्रा॑ह्मण: ॥४३॥
तास्त्वा॑ पृच्छामि विद्वांसं कस्या नाश्नी॑यादब्रा॑ह्मण: ॥४३॥
विलिप्त्या बृ॑हस्पते या च॑ सूतव॑शा वशा ।
तस्या नाश्नी॑यादब्रा॑ह्मणो य आशंसे॑त भूत्या॑म् ॥४४॥
तस्या नाश्नी॑यादब्रा॑ह्मणो य आशंसे॑त भूत्या॑म् ॥४४॥
नम॑स्ते अस्तु नारदानुष्ठु विदुषे॑ वशा ।
कतमासां॑ भीमत॑मा यामद॑त्त्वा पराभवे॑त् ॥४५॥
कतमासां॑ भीमत॑मा यामद॑त्त्वा पराभवे॑त् ॥४५॥
विलिप्ती या बृ॑हस्पतेऽथो॑ सूतव॑शा वशा ।
तस्या नाश्नी॑यादब्रा॑ह्मणो य आशंसे॑त भूत्या॑म् ॥४६॥
तस्या नाश्नी॑यादब्रा॑ह्मणो य आशंसे॑त भूत्या॑म् ॥४६॥
त्रीणि वै व॑शाजातानि॑ विलिप्ती सूतव॑शा वशा ।
ता: प्र य॑च्छेद्ब्रह्मभ्य: सोद्गऽनाव्रस्क: प्रजाप॑तौ ॥४७॥
ता: प्र य॑च्छेद्ब्रह्मभ्य: सोद्गऽनाव्रस्क: प्रजाप॑तौ ॥४७॥
एतद्वो॑ ब्राह्मणा हविरिति॑ मन्वीत याचित: ।
वशां चेदे॑नं याचे॑युर्या भीमाद॑दुषो गृहे ॥४८॥
वशां चेदे॑नं याचे॑युर्या भीमाद॑दुषो गृहे ॥४८॥
देवा वशां पर्य॑वदन्न नो॑ऽदादिति॑ हीडिता: ।
एताभि॑रृग्भिर्भेदं तस्माद्वै स परा॑भवत् ॥४९॥
एताभि॑रृग्भिर्भेदं तस्माद्वै स परा॑भवत् ॥४९॥
उतैनां॑ भेदो नाद॑दाद्वशामिन्द्रे॑ण याचित: ।
तस्मात्तं देवा आगसोऽवृ॑श्चन्नहमुत्तरे ॥५०॥
तस्मात्तं देवा आगसोऽवृ॑श्चन्नहमुत्तरे ॥५०॥
ये वशाया अदा॑नाय वद॑न्ति परिरापिण॑: ।
इन्द्र॑स्य मन्यवे॑ जाल्मा आ वृ॑श्चन्ते अचि॑त्त्या ॥५१॥
इन्द्र॑स्य मन्यवे॑ जाल्मा आ वृ॑श्चन्ते अचि॑त्त्या ॥५१॥
ये गोप॑तिं पराणीयाथाहुर्मा द॑दा इति॑ ।
रुद्रस्यास्तां ते हेतीं परि॑ यन्त्यचि॑त्त्या ॥५२॥
रुद्रस्यास्तां ते हेतीं परि॑ यन्त्यचि॑त्त्या ॥५२॥
यदि॑ हुतं यद्यहु॑ताममा च पच॑ते वशाम् ।
देवान्त्सब्रा॑ह्मणानृत्वा जिह्मो लोकान्निरृ॑च्छति ॥५३॥
देवान्त्सब्रा॑ह्मणानृत्वा जिह्मो लोकान्निरृ॑च्छति ॥५३॥
पञ्चमं सूक्तम्» । प्रथम: पर्याय:» श्रमेण तपसा इत्यारभ्य सूर्य एनम् इत्यन्तानां सप्तपर्यायाणामथर्वाचार्य ऋषि: | ब्रह्मगवी देवता ॥ षडृचस्यास्य पर्यायस्य प्रथमर्च: प्राजापत्यानुष्टुप् द्वितीयाया भुरिक्साम्न्यनुष्टुप् तृतीयायाश्चतुष्पदा स्वराडुष्णिक् चतुर्थ्या आसुर्यनुष्टुप् पञ्चम्या: साम्नी पङ्क्ति: षष्ठ्याश्च साम्न्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)
श्रमे॑ण तप॑सा सृष्टा ब्रह्म॑णा वित्तर्ते श्रिता ॥१॥
सत्येनावृ॑ता श्रिया प्रावृ॑ता यश॑सा परी॑वृता ॥२॥
स्वधया परि॑हिता श्रद्धया पर्यू॑ढा दीक्षया॑ गुप्ता यज्ञे प्रति॑ष्ठिता लोको निधन॑म् ॥३॥
ब्रह्म॑ पदवायं ब्रा॑ह्मणोऽधि॑पति: ॥४॥
तामाददा॑नस्य ब्रह्मगवीं जि॑नतो ब्रा॑ह्मणं क्षत्रिय॑स्य ॥५॥
अप॑ क्रामति सूनृता॑ वीर्यं१ पुण्या॑ लक्ष्मी: ॥६॥
द्वितीय: पर्याय:» पञ्चर्चस्यास्य पर्यायस्य प्रथमर्च: साम्नी त्रिष्टुप् द्वितीयाया भुरिगार्च्यनुष्टुप् तृतीयाया आर्च्यनुष्टुप् चतुर्थ्या उष्णिक् एताश्चतस्र एकपदा: पञ्चम्याश्चार्ची निचृत्पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
ओज॑श्च तेज॑श्च सह॑श्च बलं॑ च वाक्चे॑न्द्रियं च श्रीश्च धर्म॑श्च ॥१॥
ब्रह्म॑ च क्षत्रं च॑ राष्ट्रं च विश॑श्च त्विषि॑श्च यश॑श्च वर्च॑श्च द्रवि॑णं च ॥२॥
आयु॑श्च रूपं च नाम॑ च कीर्तिश्च॑ प्राणश्चा॑पानश्च चक्षु॑श्च श्रोत्रं॑ च ॥३॥
पय॑श्च रसश्चान्नं॑ चान्नाद्यं॑ चर्तं च॑ सत्यं चेष्टं च॑ पूर्तं च॑ प्रजा च॑ पशव॑श्च ॥४॥
तानि सर्वाण्यप॑ क्रामन्ति ब्रह्मगवीमाददा॑नस्य जिनतो ब्रा॑ह्मणं क्षत्रिय॑स्य ॥५॥
तृतीय: पर्याय:» षोडशर्चस्यास्य पर्यायस्य प्रथमर्चो विराड्विषमा गायत्री द्वितीयाया आसुर्यनुष्टुप् १ तृतीयापञ्चदश्यो: साम्न्युष्णिक् चतुर्थ्या गायत्री पञ्चमीषष्ठ्यष्टमीनवमीनां प्राजापत्यानुष्टुप् सप्तम्या याजुषी जगती दशमीचतुर्दश्यो: साम्न्यनुष्टुप् एकादश्या: साम्नी बृहती द्वादश्या याजुषी त्रिष्टुप् त्रयोदश्या आसुरी गायत्री षोडश्याश्चार्च्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)
सैषा भीमा ब्र॑ह्मगव्य१घवि॑षा साक्षात्कृत्या कूल्ब॑जमावृ॑ता ॥१॥
सर्वा॑ण्यस्यां घोराणि सर्वे॑ च मृत्यव॑: ॥२॥
सर्वा॑ण्यस्यां क्रूराणि सर्वे॑ पुरुषवधा: ॥३॥
सा ब्र॑ह्मज्यं दे॑वपीयुं ब्र॑ह्मगव्याद्गदीयमा॑ना मृत्यो: पद्वी॑ष आ द्य॑ति ॥४॥
मेनि: शतव॑धा हि सा ब्र॑ह्मज्यस्य क्षितिर्हि सा ॥५॥
तस्माद्वै ब्रा॑ह्मणानां गौर्दु॑राधर्षा॑ विजानता ॥६॥
वज्रो धाव॑न्ती वैश्वानर उद्वी॑ता ॥७॥
हेति: शफानु॑त्खिदन्ती॑ महादेवो३ऽपेक्ष॑माणा ॥८॥
क्षुरप॑विरीक्ष॑माणा वाश्य॑मानाभि स्फू॑र्जति ॥९॥
मृत्युर्हि॑ङ्कृण्वत्यु१ग्रो देव: पुच्छं॑ पर्यस्य॑न्ती ॥१०॥
सर्वज्यानि: कर्णौ॑ वरीवर्जय॑न्ती राजयक्ष्मो मेह॑न्ती ॥११॥
मेनिर्दुह्यमा॑ना शीर्षक्तिर्दुग्धा ॥१२॥
सेदिरु॑पतिष्ठ॑न्ती मिथोयोध: परा॑मृष्टा ॥१३॥
शरव्या३ मुखे॑ऽपिनह्यमा॑न ऋति॑र्हन्यमा॑ना ॥१४॥
अघवि॑षा निपत॑न्ती तमो निप॑तिता ॥१५॥
अनुगच्छ॑न्ती प्राणानुप॑ दासयति ब्रह्मगवी ब्र॑ह्मज्यस्य॑ ॥१६॥
चतुर्थ: पर्याय:» एकादशर्चस्यास्य पर्यायस्य प्रथमर्च आसुरी गायत्री द्वितीयादशम्योरासुर्यनुष्टुप् तृतीयाया: साम्न्यनुष्टुप् चतुर्थ्या याजुषी त्रिष्टुप् पञ्चम्या: साम्नी गायत्री षष्ठीसप्तम्यो: साम्नी बृहती अष्टम्या भुरिक्साम्न्यनुष्टुप् नवम्या: साम्न्युष्णिक् एकादश्याश्च प्रतिष्ठा गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
वैरं॑ विकृत्यमा॑ना पौत्रा॑द्यं विभाज्यमा॑ना ॥१॥
देवहेतिर्ह्रियमा॑णा व्यृद्गद्धिर्हृता ॥२॥
पाप्माधि॑धीयमा॑ना पारु॑ष्यमवधीयमा॑ना ॥३॥
विषं प्रयस्य॑न्ती तक्मा प्रय॑स्ता ॥४॥
अघं पच्यमा॑ना दुष्वप्न्यं॑ पक्वा ॥५॥
मूलबर्ह॑णी पर्याक्रियमा॑णा क्षिति॑: पर्याकृ॑ता ॥६॥
असं॑ज्ञा गन्धेन शुगु॑द्ध्रियमा॑णाशीविष उद्धृ॑ता ॥७॥
अभू॑तिरुपह्रियमा॑णा परा॑भूतिरुप॑हृता ॥८॥
शर्व: क्रुद्ध: पिश्यमा॑ना शिमि॑दा पिशिता ॥९॥
अव॑र्तिरश्यमा॑ना निरृ॑तिरशिता ॥१०॥
अशिता लोकाच्छि॑नत्ति ब्रह्मगवी ब्र॑ह्मज्यमस्माच्चामुष्मा॑च्च ॥११॥
पञ्चम: पर्याय:» अष्टर्चस्यास्य पर्यायस्य प्रथमर्च: साम्नी पङ्क्ति: द्वितीयाया याजुष्यनुष्टुप् तृतीयाष्टम्योर्भुरिक्साम्न्यनुष्टुप् चतुर्थ्या आसुरी बृहती पञ्चम्या: साम्नी बृहती षष्ठ्या: पिपीलिकमध्यानुष्टुप् सप्तम्याश्चार्ची बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)
तस्या॑ आहन॑नं कृत्या मेनिराशस॑नं वलग ऊब॑ध्यम् ॥१॥
अस्वगता परि॑ह्णुता ॥२॥
अग्नि: क्रव्याद्भूत्वा ब्र॑ह्मगवी ब्र॑ह्मज्यं प्रविश्या॑त्ति ॥३॥
सर्वास्याङ्गा पर्वा मूला॑नि वृश्चति ॥४॥
छिनत्त्य॑स्य पितृबन्धु परा॑ भावयति मातृबन्धु ॥५॥
विवाहां ज्ञातीन्त्सर्वानपि॑ क्षापयति ब्रह्मगवी ब्र॑ह्मज्यस्य॑ क्षत्रियेणापु॑नर्दीयमाना ॥६॥
अवास्तुमे॑नमस्व॑गमप्र॑जसं करोत्यपरापरणो भ॑वति क्षीयते॑ ॥७॥
य एवं विदुषो॑ ब्राह्मणस्य॑ क्षत्रियो गामा॑दत्ते ॥८॥
षष्ठ: पर्याय:» पञ्चदशर्चस्यास्य पर्यायस्य प्रथमातृतीययोरृचो: पञ्चम्यादितृचस्यैकादश्यादितृचस्य पञ्चदश्याश्च प्राजापत्यानुष्टुप् द्वितीयाया आर्ष्यनुष्टुप् चतुर्थ्या: साम्नी बृहती अष्टमीनवम्यो: प्राजापत्योष्णिक् दशम्या आसुरी गायत्री चतुर्दश्याश्च गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)
क्षिप्रं वै तस्याहन॑ने गृध्रा॑: कुर्वत ऐलबम् ॥१॥
क्षिप्रं वै तस्यादह॑नं परि॑ नृत्यन्ति केशिनी॑राघ्नाना: पाणिनोर॑सि कुर्वाणा: पापमै॑लबम् ॥२॥
क्षिप्रं वै तस्य वास्तु॑षु वृका॑: कुर्वत ऐलबम् ॥३॥
क्षिप्रं वै तस्य॑ पृच्छन्ति यत्तदासीदिदं नु ता३दिति॑ ॥४॥
छिन्ध्या च्छि॑न्धि प्र च्छिन्ध्यपि॑ क्षापय क्षापय॑ ॥५॥
आददा॑नमाङ्गिरसि ब्रह्मज्यमुप॑ दासय ॥६॥
वैश्वदेवी ह्यु१च्यसे॑ कृत्या कूल्ब॑जमावृ॑ता ॥७॥
ओष॑न्ती समोष॑न्ती ब्रह्म॑णो वज्र॑: ॥८॥
क्षुरप॑विर्मृत्युर्भूत्वा वि धा॑व त्वम् ॥९॥
आ द॑त्से जिनतां वर्च॑ इष्टं पूर्तं चाशिष॑: ॥१०॥
आदाय॑ जीतं जीताय॑ लोके३ऽमुष्मिन्प्र य॑च्छसि ॥११॥
अघ्न्ये॑ पदवीर्भ॑व ब्राह्मणस्याभिश॑स्त्या ॥१२॥
मेनि: श॑रव्याद्ग भवाघादघवि॑षा भव ॥१३॥
अघ्न्ये प्र शिरो॑ जहि ब्रह्मज्यस्य॑ कृताग॑सो देवपीयोर॑राधस॑: ॥१४॥
त्वया प्रमू॑र्णं मृदितमग्निर्द॑हतु दुश्चित॑म् ॥१५॥
सप्तम: पर्याय:» द्वादशर्चस्यास्य पर्यायस्य प्रथमादितृचस्य पञ्चम्या ऋच: सप्तम्यादितृचस्य च प्राजापत्यानुष्टुप् चतुर्थ्या गायत्री षष्ठ्या: प्राजापत्या गायत्री दशम्या आसुरी पङ्क्ति: एकादश्या: प्राजापत्या त्रिष्टुप् द्वादश्याश्चासुर्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)
वृश्च प्र वृ॑श्च सं वृ॑श्च दह प्र द॑ह सं द॑ह ॥१॥
ब्रह्मज्यं दे॑व्यघ्न्य आ मूला॑दनुसंद॑ह ॥२॥
यथाया॑द्यमसादनात्पा॑पलोकान्प॑रावत॑: ॥३॥
एवा त्वं दे॑व्यघ्न्ये ब्रह्मज्यस्य॑ कृताग॑सो देवपीयोर॑राधस॑: ॥४॥
वज्रे॑ण शतप॑र्वणा तीक्ष्णेन॑ क्षुरभृ॑ष्टिना ॥५॥
प्र स्कन्धान्प्र शिरो॑ जहि ॥६॥
लोमा॑न्यस्य सं छि॑न्धि त्वच॑मस्य वि वे॑ष्टय ॥७॥
मांसान्य॑स्य शातयस्नावा॑न्यस्य सं वृ॑ह ॥८॥
अस्थी॑न्यस्य पीडय मज्जान॑मस्य निर्ज॑हि ॥९॥
सर्वास्याङ्गा पर्वा॑णि वि श्र॑थय ॥१०॥
अग्निरे॑नं क्रव्यात्पृ॑थिव्या नु॑दतामुदो॑षतु वायुरन्तरि॑क्षान्महतो व॑रिम्ण: ॥११॥
सूर्य॑ एनं दिव: प्र णु॑दतां न्योद्गषतु ॥१२॥
॥इति द्वादशं काण्डम्॥
अथर्ववेद के अन्य काण्ड यहाँ से पढें
0 comments