HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् १८ (Atharvved Kand 18)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥अथ अष्टादशं काण्डम्॥

 
प्रथमं सूक्तम्» एकषष्ठ्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमाद्येकोनचत्वारिंशदृचां सप्तचत्वारिंश्यादिचतसृणां त्रिपञ्चाश्यादिनवानाञ्च यमो मन्त्रोक्ताश्च  चत्वारिंश्या रुद्र:  एकचत्वारिंश्यादितृचस्य सरस्वती चतुश्चत्वारिंश्यादितृचस्यैकपञ्चाशीद्विपञ्चाश्योश्च पितरो देवता: | प्रथमादिसप्तानां नवम्यादिपञ्चानां षोडशीसप्तदश्योश्चतुर्विंश्यादित्रयोदशानामेकोनचत्वारिंश्यादिदशानामेकपञ्चाश्यादिपञ्चानामष्टपञ्चाशीषष्ट्योश्च त्रिष्टुप्  अष्टमीपञ्चदश्योरार्षी पङ्क्ति: चतुर्दश्येकोनपञ्चाशीपञ्चाशीनां भुरिक्त्रिष्टुप् अष्टादश्यादिषण्णां जगती सप्तत्रिंश्यष्टात्रिंश्यो: परोष्णिक् षट्पञ्चाशीसप्तपञ्चाश्येकषष्टीनामनुष्टुप्  एकोनषष्ट्याश्च पुरोबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
ओ चित्सखा॑यं सख्या व॑वृत्यां तिर: पुरू चि॑दर्णवं ज॑गन्वान् ।
पितुर्नपा॑तमा द॑धीत वेधा अधि क्षमि॑ प्रतरं दीध्या॑न: ॥१॥
न ते सखा॑ सख्यं व॑ष्ट्येतत्सल॑क्ष्मा यद्विषु॑रूपा भवा॑ति ।
महस्पुत्रासो असु॑रस्य वीरा दिवो धर्तार॑ उर्विया परि॑ ख्यन् ॥२॥
उशन्ति॑ घा ते अमृता॑स एतदेक॑स्य चित्त्यजसं मर्त्य॑स्य ।
नि ते मनो मन॑सि धाय्यस्मे जन्यु: पति॑स्तन्व१मा वि॑विश्या: ॥३॥
न यत्पुरा च॑कृमा कद्ध॑ नूनमृतं वद॑न्तो अनृ॑तं रपेम ।
गन्धर्वो अप्स्वप्या॑ च योषा सा नौ नाभि॑: परमं जामि तन्नौ॑ ॥४॥
गर्भे नु नौ॑ जनिता दंप॑ती कर्देवस्त्वष्टा॑ सविता विश्वरू॑प: ।
नकि॑रस्य प्र मि॑नन्ति व्रतानि वेद॑ नावस्य पृ॑थिवी उत द्यौ: ॥५॥
को अद्य यु॑ङ्क्ते धुरि गा ऋतस्य शिमी॑वतो भामिनो॑ दुर्हृणायून् ।
आसन्नि॑षून्हृत्स्वसो॑ मयोभून्य ए॑षां भृत्यामृणधत्स जी॑वात् ॥६॥
को अस्य वे॑द प्रथमस्याह्न: क ईं॑ ददर्श क इह प्र वो॑चत् ।
बृहन्मित्रस्य वरु॑णस्य धाम कदु॑ ब्रव आहनो वीच्या नॄन् ॥७॥
यमस्य॑ मा यम्यं१ काम आग॑न्त्समाने योनौ॑ सहशेय्या॑य ।
जायेव पत्ये॑ तन्वंद्ग रिरिच्यां वि चि॑द्वृहेव रथ्ये॑व चक्रा ॥८॥
न ति॑ष्ठन्ति न नि मि॑षन्त्येते देवानां स्पश॑ इह ये चर॑न्ति ।
अन्येन मदा॑हनो याहि तूयं तेन वि वृ॑ह रथ्ये॑व चक्रा ॥९॥
रात्री॑भिरस्मा अह॑भिर्दशस्येत्सूर्य॑स्य चक्षुर्मुहुरुन्मि॑मीयात् ।
दिवा पृ॑थिव्या मि॑थुना सब॑न्धू यमीर्यमस्य॑ विवृहादजा॑मि ॥१०॥
आ घा ता ग॑च्छानुत्त॑रा युगानि यत्र॑ जामय॑: कृणवन्नजा॑मि ।
उप॑ बर्बृहि वृषभाय॑ बाहुमन्यमि॑च्छस्व सुभगे पतिं मत् ॥११॥
किं भ्राता॑सद्यद॑नाथं भवा॑ति किमु स्वसा यन्निरृ॑तिर्निगच्छा॑त् ।
काम॑मूता बह्वे३तद्र॑पामि तन्वाद्ग मे तन्वं१ सं पि॑पृग्धि ॥१२॥
न ते॑ नाथं यम्यत्राहम॑स्मि न ते॑ तनूं तन्वा३ सं प॑पृच्याम् ।
अन्येन मत्प्रमुद॑: कल्पयस्व न ते भ्राता॑ सुभगे वष्ट्येतत् ॥१३॥
न वा उ॑ ते तनूं तन्वा३ सं पि॑पृच्यां पापमा॑हुर्य: स्वसा॑रं निगच्छा॑त् ।
असं॑यदेतन्मन॑सो हृदो मे भ्राता स्वसु: शय॑ने यच्छ॑यीय ॥१४॥
बतो ब॑तासि यम नैव ते मनो हृद॑यं चाविदामा ।
अन्या किल त्वां कक्ष्येद्गव युक्तं परि॑ ष्वजातै लिबु॑जेव वृक्षम् ॥१५॥
अन्य ऊ षु य॑म्यन्य उ त्वां परि॑ ष्वजातै लिबु॑जेव वृक्षम् ।
तस्य॑ वा त्वं मन॑ इच्छा स वा तवाधा॑ कृणुष्व संविदं सुभ॑द्राम् ॥१६॥
त्रीणि च्छन्दां॑सि कवयो वि ये॑तिरे पुरुरूपं॑ दर्शतं विश्वच॑क्षणम् ।
आपो वाता ओष॑धयस्तान्येक॑स्मिन्भुव॑न आर्पि॑तानि ॥१७॥
वृषा वृष्णे॑ दुदुहे दोह॑सा दिव: पयां॑सि यह्वो अदि॑तेरदा॑भ्य: ।
विश्वं स वे॑द वरु॑णो यथा॑ धिया स यज्ञियो॑ यजति यज्ञियाँ॑ ऋतून् ॥१८॥
रप॑द्गन्धर्वीरप्या॑ च योष॑णा नदस्य॑ नादे परि॑ पातु नो मन॑: ।
इष्टस्य मध्ये अदि॑तिर्नि धा॑तु नो भ्राता॑ नो ज्येष्ठ: प्र॑थमो वि वो॑चति ॥१९॥
सो चिन्नु भद्रा क्षुमती यश॑स्वत्युषा उ॑वास मन॑वे स्वद्गर्वती ।
यदी॑मुशन्त॑मुशतामनु क्रतु॑मग्निं होता॑रं विदथा॑य जीज॑नन् ॥२०॥
अध त्यं द्रप्सं विभ्वंद्ग विचक्षणं विराभ॑रदिषिर: श्येनो अ॑ध्वरे ।
यदी विशो॑ वृणते॑ दस्ममार्या॑ अग्निं होता॑रमध धीर॑जायत ॥२१॥
सदा॑सि रण्वो यव॑सेव पुष्य॑ते होत्रा॑भिरग्ने मनु॑ष: स्वध्वर: ।
विप्र॑स्य वा यच्छ॑शमान उक्थ्यो३ वाजं॑ ससवाँ उ॑पयासि भूरि॑भि: ॥२२॥
उदी॑रय पितरा॑ जार आ भगमिय॑क्षति हर्यतो हृत्त इ॑ष्यति ।
विव॑क्ति वह्नि॑: स्वपस्यते॑ मखस्त॑विष्यते असु॑रो वेप॑ते मती ॥२३॥
यस्ते॑ अग्ने सुमतिं मर्तो अख्यत्सह॑स: सूनो अति स प्र शृ॑ण्वे ।
इषं दधा॑नो वह॑मानो अश्वैरा स द्युमाँ अम॑वान्भूषति द्यून् ॥२४॥
श्रुधी नो॑ अग्ने सद॑ने सधस्थे॑ युक्ष्वा रथ॑ममृत॑स्य द्रवित्नुम् ।
आ नो॑ वह रोद॑सी देवपु॑त्रे माकि॑र्देवानामप॑ भूरिह स्या॑: ॥२५॥
यद॑ग्न एषा समि॑तिर्भवा॑ति देवी देवेषु॑ यजता य॑जत्र ।
रत्ना॑ च यद्विभजा॑सि स्वधावो भागं नो अत्र वसु॑मन्तं वीतात् ॥२६॥
अन्वग्निरुषसामग्र॑मख्यदन्वहा॑नि प्रथमो जातवे॑दा: ।
अनु सूर्य॑ उषसो अनु॑ रश्मीननु द्यावा॑पृथिवी आ वि॑वेश ॥२७॥
प्रत्यग्निरुषसामग्र॑मख्यत्प्रत्यहा॑नि प्रथमो जातवे॑दा: ।
प्रति सूर्य॑स्य पुरुधा च॑ रश्मीन्प्रति द्यावा॑पृथिवी आ त॑तान ॥२८॥
द्यावा॑ ह क्षामा॑ प्रथमे ऋतेना॑भिश्रावे भ॑वत: सत्यवाचा॑ ।
देवो यन्मर्ता॑न्यजथा॑य कृण्वन्त्सीदद्धोता॑ प्रत्यङ् स्वमसुं यन् ॥२९॥
देवो देवान्प॑रिभूरृतेन वहा॑ नो हव्यं प्र॑थमश्चि॑कित्वान् ।
धूमके॑तु: समिधा भाऋ॑जीको मन्द्रो होता नित्यो॑ वाचा यजी॑यान् ॥३०॥
अर्चा॑मि वां वर्धायापो॑ घृतस्नू द्यावा॑भूमी शृणुतं रो॑दसी मे ।
अहा यद्देवा असु॑नीतिमायन्मध्वा॑ नो अत्र॑ पितरा॑ शिशीताम् ॥३१॥
स्वावृ॑ग्देवस्यामृतं यदी गोरतो॑ जातासो॑ धारयन्त उर्वी ।
विश्वे॑ देवा अनु तत्ते यजु॑र्गुर्दुहे यदेनी॑ दिव्यं घृतं वा: ॥३२॥
किं स्वि॑न्नो राजा॑ जगृहे कदस्याति॑ व्रतं च॑कृमा को वि वे॑द ।
मित्रश्चिद्धि ष्मा॑ जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति॑ ॥३३॥
दुर्मन्त्वत्रामृत॑स्य नाम सल॑क्ष्मा यद्विषु॑रूपा भवा॑ति ।
यमस्य यो मनव॑ते सुमन्त्वग्ने तमृ॑ष्व पाह्यप्र॑युच्छन् ॥३४॥
यस्मि॑न्देवा विदथे॑ मादय॑न्ते विवस्व॑त: सद॑ने धारय॑न्ते ।
सूर्ये ज्योतिरद॑धुर्मास्य१क्तू॒॑न्परि॑ द्योतनिं च॑रतो अज॑स्रा ॥३५॥
यस्मि॑न्देवा मन्म॑नि संचर॑न्त्यपीच्ये३ न वयम॑स्य विद्म ।
मित्रो नो अत्रादि॑तिरना॑गान्त्सविता देवो वरु॑णाय वोचत् ॥३६॥
सखा॑य आ शि॑षामहे ब्रह्मेन्द्रा॑य वज्रिणे॑ ।
स्तुष ऊ षु नृत॑माय धृष्णवे॑ ॥३७॥
शव॑सा ह्यसि॑ श्रुतो वृ॑त्रहत्ये॑न वृत्रहा ।
मघैर्मघोनो अति॑ शूर दाशसि ॥३८॥
स्तेगो न क्सामत्ये॑षि पृथिवीं मही नो वाता॑ इह वा॑न्तु भूमौ॑ ।
मित्रो नो अत्र वरु॑णो युजमा॑नो अग्निर्वने न व्यसृ॑ष्ट शोक॑म् ॥३९॥
स्तुहि श्रुतं ग॑र्तसदं जना॑नां राजा॑नं भीममु॑पहत्नुमुग्रम् ।
मृडा ज॑रित्रे रु॑द्र स्तवा॑नो अन्यमस्मत्ते नि व॑पन्तु सेन्य॑म् ॥४०॥
सर॑स्वतीं देवयन्तो॑ हवन्ते सर॑स्वतीमध्वरे तायमा॑ने ।
सर॑स्वतीं सुकृतो॑ हवन्ते सर॑स्वती दाशुषे वार्यं॑ दात् ॥४१॥
सर॑स्वतीं पितरो॑ हवन्ते दक्षिणा यज्ञम॑भिनक्ष॑माणा: ।
आसद्यास्मिन्बर्हिषि॑ मादयध्वमनमीवा इष आ धे॑ह्यस्मे ॥४२॥
सर॑स्वति या सरथं॑ ययाथोक्थै: स्वधाभि॑र्देवि पितृभिर्मद॑न्ती ।
सहस्रार्घमिडो अत्र॑ भागं रायस्पोषं यज॑मानाय धेहि ॥४३॥
उदी॑रथामव॑र उत्परा॑स उन्म॑ध्यमा: पितर॑: सोम्यास॑: ।
असुं य ईयुर॑वृका ऋ॑तज्ञास्ते नो॑ऽवन्तु पितरो हवे॑षु ॥४४॥
आहं पितॄन्त्सु॑विदत्राँ॑ अवित्सि नपा॑तं च विक्रम॑णं च विष्णो॑: ।
बर्हिषदो ये स्वधया॑ सुतस्य भज॑न्त पित्वस्त इहाग॑मिष्ठा: ॥४५॥
इदं पितृभ्यो नमो॑ अस्त्वद्य ये पूर्वा॑सो ये अप॑रास ईयु: ।
ये पार्थि॑वे रजस्या निष॑त्ता ये वा॑ नूनं सु॑वृजना॑सु दिक्षु ॥४६॥
मात॑ली कव्यैर्यमो अङ्गि॑रोभिर्बृहस्पतिरृक्व॑भिर्वावृधान: ।
यांश्च॑ देवा वा॑वृधुर्ये च॑ देवांस्ते नो॑ऽवन्तु पितरो हवे॑षु ॥४७॥
स्वादुष्किलायं मधु॑माँ उतायं तीव्र: किलायं रस॑वाँ उतायम् ।
उतो न्व१स्य प॑पिवांसमिन्द्रं न कश्चन स॑हत आहवेषु॑ ॥४८॥
परेयिवांसं॑ प्रवतो॑ महीरिति॑ बहुभ्य: पन्था॑मनुपस्पशानम् ।
वैवस्वतं संगम॑नं जना॑नां यमं राजा॑नं हविषा॑ सपर्यत ॥४९॥
यमो नो॑ गातुं प्र॑थमो वि॑वेद नैषा गव्यू॑तिरप॑भर्तवा उ॑ ।
यत्रा॑ न: पूर्वे॑ पितर: परे॑ता एना ज॑ज्ञाना: पथ्या३ अनु स्वा: ॥५०॥
बर्हि॑षद: पितर ऊत्य१र्वागिमा वो॑ हव्या च॑कृमा जुषध्व॑म् ।
त आ गताव॑सा शंत॑मेनाधा॑ न: शं योर॑रपो द॑धात ॥५१॥
आच्या जानु॑ दक्षिणतो निषद्येदं नो॑ हविरभि गृ॑णन्तु विश्वे॑ ।
मा हिं॑सिष्ट पितर: केन॑ चिन्नो यद्व आग॑: पुरुषता करा॑म ॥५२॥
त्वष्टा॑ दुहित्रे व॑हतुं कृ॑णोति तेनेदं विश्वं भुव॑नं समे॑ति ।
यमस्य॑ माता प॑र्युह्यमा॑ना महो जाया विव॑स्वतो ननाश ॥५३॥
प्रेहि प्रेहि॑ पथिभि॑: पूर्याणैर्येना॑ ते पूर्वे॑ पितर: परे॑ता: ।
उभा राजा॑नौ स्वधया मद॑न्तौ यमं प॑श्यासि वरु॑णं च देवम् ॥५४॥
अपे॑त वीद्गत वि च॑ सर्पतातोऽस्मा एतं पितरो॑ लोकम॑क्रन् ।
अहो॑भिरद्भिरक्तुभिर्व्यद्गक्तं यमो द॑दात्यवसान॑मस्मै ॥५५॥
उशन्त॑स्त्वेधीमह्युशन्त: समि॑धीमहि ।
उशन्नु॑शत आ व॑ह पितॄन्हविषे अत्त॑वे ॥५६॥
द्युमन्त॑स्त्वेधीमहि द्युमन्त: समि॑धीमहि ।
द्युमान्द्यु॑मत आ व॑ह पितॄन्हविषे अत्त॑वे ॥५७॥
अङ्गि॑रसो न: पितरो नव॑ग्वा अथ॑र्वाणो भृग॑व: सोम्यास॑: ।
तेषां॑ वयं सु॑मतौ यज्ञिया॑नामपि॑ भद्रे सौ॑मनसे स्या॑म ॥५८॥
अङ्गि॑रोभिर्यज्ञियैरा ग॑हीह यम॑ वैरूपैरिह मा॑दयस्व ।
विव॑स्वन्तं हुवे य: पिता तेऽस्मिन्बर्हिष्या निषद्य॑ ॥५९॥
इमं य॑म प्रस्तरमा हि रोहाङ्गि॑रोभि: पितृभि॑: संविदान: ।
आ त्वा मन्त्रा॑: कविशस्ता व॑हन्त्वेना रा॑जन्हविषो॑ मादयस्व ॥६०॥
इत एत उदारु॑हन्दिवस्पृष्ठान्वारु॑हन् ।
प्र भूर्जयो यथा पथा द्यामङ्गि॑रसो ययु: ॥६१॥
 
 
 
द्वितीयं सूक्तम्» षष्ट्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमादितृचस्य षष्ठ्यादित्रयोविंशत्यृचां त्रिंश्यादिचतसृणां पञ्चत्रिंश्यादिषड्विंशतेश्च यमो मन्त्रोक्ताश्च   चतुर्थीचतुस्त्रिंश्योरग्नि:  पञ्चम्या जातवेदा:  एकोनत्रिंश्याश्च पितरो देवता: | प्रथमादितृचस्य षष्ठ्याश्चतुर्दश्यादिपञ्चानां विंशीद्वाविंशीत्रयोविंशीपञ्चविंशीत्रिंशीचतुस्त्रिंशीषट्त्रिंशीषट्चत्वारिंश्यष्टचत्वारिंशीनां पञ्चाश्यादितृचस्य षट्पञ्चाश्याश्चानुष्टुप्  चतुर्थीसप्तमीनवमीत्रयोदशीनां जगती पञ्चमीषड्विंश्येकोनपञ्चाशीसप्तपञ्चाशीनां भुरिक्त्रिष्टुप् अष्टम्या दशम्यादितृचस्यैकविंश्या: सप्तविंश्यादितृचस्यैकत्रिंश्यादितृचस्य पञ्चत्रिंशीसप्तचत्वारिंश्योस्त्रिपञ्चाश्यादितृचस्याष्टपञ्चाश्यादितृचस्य च त्रिष्टुप्  एकोनविंश्यास्त्रिपदार्षी गायत्री  चतुर्विंश्यास्त्रिपदा समविषमार्षी गायत्री  सप्तत्रिंश्या विराड्जगती अष्टात्रिंश्येकोनचत्वारिंश्येकचत्वारिंशीनामार्षी गायत्री  चत्वारिंश्या द्विचत्वारिंश्यादितृचस्य च भुरिगार्षी गायत्री  पञ्चचत्वारिंश्याश्च ककुम्मत्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यमाय सोम॑: पवते यमाय॑ क्रियते हवि: ।
यमं ह॑ यज्ञो ग॑च्छत्यग्निदू॑तो अरं॑कृत: ॥१॥
यमाय मधु॑मत्तमं जुहोता प्र च॑ तिष्ठत ।
इदं नम ऋषि॑भ्य: पूर्वजेभ्य: पूर्वे॑भ्य: पथिकृद्भ्य॑: ॥२॥
यमाय॑ घृतवत्पयो राज्ञे॑ हविर्जु॑होतन ।
स नो॑ जीवेष्वा य॑मेद्दीर्घमायु: प्र जीवसे॑ ॥३॥
मैन॑मग्ने वि द॑हो माभि शू॑शुचो मास्य त्वचं॑ चिक्षिपो मा शरी॑रम् ।
शृतं यदा कर॑सि जातवेदोऽथे॑मेनं प्र हि॑णुतात्पितॄँरुप॑ ॥४॥
यदा शृतं कृणवो॑ जातवेदोऽथेममे॑नं परि॑ दत्तात्पितृभ्य॑: ।
यदो गच्छात्यसु॑नीतिमेतामथ॑ देवानां॑ वशनीर्भ॑वाति ॥५॥
त्रिक॑द्रुकेभि: पवते षडुर्वीरेकमिद्बृहत् ।
त्रिष्टुब्गा॑यत्री छन्दां॑सि सर्वा ता यम आर्पि॑ता ॥६॥
सूर्यं चक्षु॑षा गच्छ वात॑मात्मना दिवं॑ च गच्छ॑ पृथिवीं च धर्म॑भि: ।
अपो वा॑ गच्छ यदि तत्र॑ ते हितमोष॑धीषु प्रति॑ तिष्ठा शरी॑रै: ॥७॥
अजो भागस्तप॑सस्तं त॑पस्व तं ते॑ शोचिस्त॑पतु तं ते॑ अर्चि: ।
यास्ते॑ शिवास्तन्वोद्ग जातवेदस्ताभि॑र्वहैनं सुकृता॑मु लोकम् ॥८॥
यास्ते॑ शोचयो रंह॑यो जातवेदो याभि॑रापृणासि दिव॑मन्तरि॑क्षम् ।
अजं यन्तमनु ता: समृ॑ण्वतामथेत॑राभि: शिवत॑माभि: शृतं कृ॑धि ॥९॥
अव॑ सृज पुन॑रग्ने पितृभ्यो यस्त आहु॑तश्चर॑ति स्वधावा॑न् ।
आयुर्वसा॑न उप॑ यातु शेष: सं ग॑च्छतां तन्वाद्ग सुवर्चा॑: ॥१०॥
अति॑ द्रव श्वानौ॑ सारमेयौ च॑तुरक्षौ शबलौ॑ साधुना॑ पथा ।
अधा॑ पितॄन्त्सु॑विदत्राँ अपी॑हि यमेन ये स॑धमादं मद॑न्ति ॥११॥
यौ ते श्वानौ॑ यम रक्षितारौ॑ चतुरक्षौ प॑थिषदी॑ नृचक्ष॑सा ।
ताभ्यां॑ राजन्परि॑ धेह्येनं स्वस्त्यद्गस्मा अनमीवं च॑ धेहि ॥१२॥
उरूणसाव॑सुतृपा॑वुदुम्बलौ यमस्य॑ दूतौ च॑रतो जनाँ अनु॑ ।
तावस्मभ्यं॑ दृशये सूर्या॑य पुन॑र्दातामसु॑मद्येह भद्रम् ॥१३॥
सोम एके॑भ्य: पवते घृतमेक उपा॑सते ।
येभ्यो मधु॑ प्रधाव॑ति तांश्चि॑देवापि॑ गच्छतात् ॥१४॥
ये चित्पूर्व॑ ऋतसा॑ता ऋतजा॑ता ऋतावृध॑: ।
ऋषीन्तप॑स्वतो यम तपोजाँ अपि॑ गच्छतात् ॥१५॥
तप॑सा ये अ॑नाधृष्यास्तप॑सा ये स्वद्गर्ययु: ।
तपो ये च॑क्रिरे महस्तांश्चि॑देवापि॑ गच्छतात् ॥१६॥
ये युध्य॑न्ते प्रधने॑षु शूरा॑सो ये त॑नूत्यज॑: ।
ये वा॑ सहस्र॑दक्षिणास्तां श्चि॑देवापि॑ गच्छतात् ॥१७॥
सहस्र॑णीथा: कवयो ये गो॑पायन्ति सूर्य॑म् ।
ऋषीन्तप॑स्वतो यम तपोजाँ अपि॑ गच्छतात् ॥१८॥
स्योनास्मै॑ भव पृथिव्यनृक्षरा निवेश॑नी ।
यच्छा॑स्मै शर्म॑ सप्रथा॑: ॥१९॥
असंबाधे पृ॑थिव्या उरौ लोके नि धी॑यस्व ।
स्वधा याश्च॑कृषे जीवन्तास्ते॑ सन्तु मधुश्चुत॑: ॥२०॥
ह्वया॑मि ते मन॑सा मन॑ इहेमान्गृहाँ उप जुजुषाण एहि॑ ।
सं ग॑च्छस्व पितृभि: सं यमेन॑ स्योनास्त्वा वाता उप॑ वान्तु शग्मा: ॥२१॥
उत्त्वा॑ वहन्तु मरुत॑ उदवाहा उ॑दप्रुत॑: ।
अजेन॑ कृण्वन्त॑: शीतं वर्षेणो॑क्षन्तु बालिति॑ ॥२२॥
उद॑ह्वमायुरायु॑षे क्रत्वे दक्षा॑य जीवसे॑ ।
स्वान्ग॑च्छतु ते मनो अधा॑ पितॄँरुप॑ द्रव ॥२३॥
मा ते मनो मासोर्माङ्गा॑नां मा रस॑स्य ते ।
मा ते॑ हास्त तन्व१ किं चनेह ॥२४॥
मा त्वा॑ वृक्ष: सं बा॑धिष्ट मा देवी पृ॑थिवी मही ।
लोकं पितृषु॑ वित्त्वैध॑स्व यमरा॑जसु ॥२५॥
यत्ते अङ्गमति॑हितं पराचैर॑पान: प्राणो य उ॑ वा ते परे॑त: ।
तत्ते॑ संगत्य॑ पितर: सनी॑डा घासाद्घासं पुनरा वे॑शयन्तु ॥२६॥
अपेमं जीवा अ॑रुधन्गृहेभ्यस्तं निर्व॑हत परि ग्रामा॑दित: ।
मृत्युर्यमस्या॑सीद्दूत: प्रचे॑ता असू॑न्पितृभ्यो॑ गमयां च॑कार ॥२७॥
ये दस्य॑व: पितृषु प्रवि॑ष्टा ज्ञातिमुखा अ॑हुतादश्चर॑न्ति ।
परापुरो॑ निपुरो ये भर॑न्त्यग्निष्टानस्मात्प्र ध॑माति यज्ञात् ॥२८॥
सं वि॑शन्त्विह पितर: स्वा न॑: स्योनं कृण्वन्त॑: प्रतिरन्त आयु॑: ।
तेभ्य॑: शकेम हविषा नक्ष॑माणा ज्योग्जीव॑न्त: शरद॑: पुरूची: ॥२९॥
यां ते॑ धेनुं नि॑पृणामि यमु॑ क्षीर ओ॑दनम् ।
तेना जन॑स्यासो भर्ता योऽत्रासदजी॑वन: ॥३०॥
अश्वा॑वतीं प्र त॑र या सुशेवार्क्षाकं॑ वा प्रतरं नवी॑य: ।
यस्त्वा॑ जघान वध्य: सो अ॑स्तु मा सो अन्यद्वि॑दत भागधेय॑म् ॥३१॥
यम: परोऽव॑रो विव॑स्वान्तत: परं नाति॑ पश्यामि किं चन ।
यमे अ॑ध्वरो अधि॑ मे निवि॑ष्टो भुवो॑ विवस्वा॑नन्वात॑तान ॥३२॥
अपा॑गूहन्नमृतां मर्त्ये॑भ्य: कृत्वा सव॑र्णामदधुर्विव॑स्वते ।
उताश्विना॑वभरद्यत्तदासीदज॑हादु द्वा मि॑थुना स॑रण्यू: ॥३३॥
ये निखा॑ता ये परो॑प्ता ये दग्धा ये चोद्धि॑ता: ।
सर्वांस्तान॑ग्न आ व॑ह पितॄन्हविषे अत्त॑वे ॥३४॥
ये अ॑ग्निदग्धा ये अन॑ग्निदग्धा मध्ये॑ दिव: स्वधया॑ मादय॑न्ते ।
त्वं तान्वे॑त्थ यदि ते जा॑तवेद: स्वधया॑ यज्ञं स्वधि॑तिं जुषन्ताम् ॥३५॥
शं त॑प माति॑ तपो अग्ने मा तन्वं१ तप॑: ।
वने॑षु शुष्मो॑ अस्तु ते पृथिव्याम॑स्तु यद्धर॑: ॥३६॥
ददा॑म्यस्मा अवसान॑मेतद्य एष आगन्मम चेदभू॑दिह ।
यमश्चि॑कित्वान्प्रत्येतदा॑ह ममैष राय उप॑ तिष्ठतामिह ॥३७॥
इमां मात्रां॑ मिमीमहे यथाप॑रं न मासा॑तै ।
शते शरत्सु नो पुरा ॥३८॥
प्रेमां मात्रां॑ मिमीमहे यथाप॑रं न मासा॑तै ।
शते शरत्सु नो पुरा ॥३९॥
अपेमां मात्रां॑ मिमीमहे यथाप॑रं न मासा॑तै ।
शते शरत्सु नो पुरा ॥४०॥
वी३मां मात्रां॑ मिमीमहे यथाप॑रं न मासा॑तै ।
शते शरत्सु नो पुरा ॥४१॥
निरिमां मात्रां॑ मिमीमहे यथाप॑रं न मासा॑तै ।
शते शरत्सु नो पुरा ॥४२॥
उदिमां मात्रां॑ मिमीमहे यथाप॑रं न मासा॑तै ।
शते शरत्सु नो पुरा ॥४३॥
समिमां मात्रां॑ मिमीमहे यथाप॑रं न मासा॑तै ।
शते शरत्सु नो पुरा ॥४४॥
अमा॑सि मात्रां स्वद्गरगामायु॑ष्मान्भूयासम् ।
यथाप॑रं न मासा॑तै शते शरत्सु नो पुरा ॥४५॥
प्राणो अ॑पानो व्यान आयुश्चक्षु॑र्दृशये सूर्या॑य ।
अप॑रिपरेण पथा यमरा॑ज्ञ: पितॄन्ग॑च्छ ॥४६॥
ये अग्र॑व: शशमाना: प॑रेयुर्हित्वा द्वेषांस्यन॑पत्यवन्त: ।
ते द्यामुदित्या॑विदन्त लोकं नाक॑स्य पृष्ठे अधि दीध्या॑ना: ॥४७॥
उदन्वती द्यौर॑वमा पीलुमतीति॑ मध्यमा ।
तृतीया॑ ह प्रद्यौरिति यस्यां॑ पितर आस॑ते ॥४८॥
ये न॑: पितु: पितरो ये पि॑तामहा य आ॑विविशुरुर्व१न्तरि॑क्षम् ।
य आ॑क्षियन्ति॑ पृथिवीमुत द्यां तेभ्य॑: पितृभ्यो नम॑सा विधेम ॥४९॥
इदमिद्वा उ नाप॑रं दिवि प॑श्यसि सूर्य॑म् ।
माता पुत्रं यथा॑ सिचाभ्येद्गनं भूम ऊर्णुहि ॥५०॥
इदमिद्वा उ नाप॑रं जरस्यन्यदितोऽप॑रम् ।
जाया पति॑मिव वास॑साभ्येद्गनं भूम ऊर्णुहि ॥५१॥
अभि त्वो॑र्णोमि पृथिव्या मातुर्वस्त्रे॑ण भद्रया॑ ।
जीवेषु॑ भद्रं तन्मयि॑ स्वधा पितृषु सा त्वयि॑ ॥५२॥
अग्नी॑षोमा पथि॑कृता स्योनं देवेभ्यो रत्नं॑ दधथुर्वि लोकम् ।
उप प्रेष्य॑न्तं पूषणं यो वहा॑त्यञ्जोयानै॑: पथिभिस्तत्र॑ गच्छतम् ॥५३॥
पूषा त्वेतश्च्या॑वयतु प्र विद्वानन॑ष्टपशुर्भुव॑नस्य गोपा: ।
स त्वैतेभ्य: परि॑ ददत्पितृभ्योऽग्निर्देवेभ्य॑: सुविदत्रिये॑भ्य: ॥५४॥
आयु॑र्विश्वायु: परि॑ पातु त्वा पूषा त्वा॑ पातु प्रप॑थे पुरस्ता॑त् ।
यत्रास॑ते सुकृतो यत्र त ईयुस्तत्र॑ त्वा देव: स॑विता द॑धातु ॥५५॥
इमौ यु॑नज्मि ते वह्नी असु॑नीताय वोढ॑वे ।
ताभ्यां॑ यमस्य साद॑नं समि॑तीश्चाव॑ गच्छतात् ॥५६॥
एतत्त्वा वास॑: प्रथमं न्वागन्नपैतदू॑ह यदिहाबि॑भ: पुरा ।
इष्टापूर्तम॑नुसंक्रा॑म विद्वान्यत्र॑ ते दत्तं ब॑हुधा विब॑न्धुषु ॥५७॥
अग्नेर्वर्म परि गोभि॑र्व्ययस्व सं प्रोर्णु॑ष्व मेद॑सा पीव॑सा च ।
नेत्त्वा॑ धृष्णुर्हर॑सा जर्हृ॑षाणो दधृग्वि॑धक्षन्प॑रीङ्खया॑तै ॥५८॥
दण्डं हस्ता॑दाददा॑नो गतासो॑: सह श्रोत्रे॑ण वर्च॑सा बले॑न ।
अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो॑ अभिमा॑तीर्जयेम ॥५९॥
धनुर्हस्ता॑दाददा॑नो मृतस्य॑ सह क्षत्रेण वर्च॑सा बले॑न ।
समागृ॑भाय वसु भूरि॑ पुष्टमर्वाङ् त्वमेह्युप॑ जीवलोकम् ॥६०॥
 
 

तृतीयं सूक्तम्» त्रिसप्तत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमादिचतुरृचां सप्तम्यादिसप्तत्रिंशत: पञ्चचत्वारिंश्या: सप्तचत्वारिंश्यादितृचस्यैकपञ्चाश्यादितृचस्य पञ्चपञ्चाश्या: सप्तपञ्चाश्यादिसप्तदशानाञ्च यमो मन्त्रोक्ताश्च  पञ्चमीषष्ठ्योरग्नि:  चतुश्चत्वारिंशीषट्चत्वारिंश्योर्मन्त्रोक्ता:  पञ्चाश्या भूमि:  चतुष्पञ्चाश्या इन्दु:  षट्पञ्चाश्याश्च आपो देवता: |  प्रथमादितृचस्य सप्तमीनवमीदशमीनां द्वादश्यादिषण्णामेकोनविंश्यादिचतसृणां चतुर्विंश्यष्टात्रिंश्योश्चत्वारिंश्यादिचतसृणां पञ्चचत्वारिंश्यष्टचत्वारिंश्येकपञ्चाशीत्रिपञ्चाशीपञ्चपञ्चाशीसप्तपञ्चाश्येकोनषष्टीनामेक-षष्ट्यादितृचस्य पञ्चषष्टीषट्षष्टीत्रिसप्ततितमानाञ्च त्रिष्टुप्  चतुर्थ्यष्टम्येकादशीत्रयोविंशीनां सत:पङ्क्ति:  पञ्चम्यास्त्रिपदा निचृद्गायत्री षष्ठीषट्पञ्चाश्यष्टषष्टीसप्ततितमाद्वासप्ततितमानाञ्चानुष्टुप् पञ्चविंशीसप्तविंशीचतुश्चत्वारिंशीषट्चत्वारिंशीनां जगती षड्विंश्यष्टाविंश्योर्भुरिग्जगती  एकोनत्रिंश्या विराड्जगती  त्रिंश्या: पञ्चपदातिजगती  एकत्रिंश्या विराट् शक्वरी  द्वात्रिंश्यादिचतसृणां सप्तचत्वारिंश्येकोनपञ्चाशीद्विपञ्चाशीनां  अष्टादश्याश्च भुरिक्त्रिष्टुप्  षट्त्रिंश्या एकावसानासुर्यनुष्टुप्  सप्तत्रिंश्या एकावसानासुरी गायत्री  एकोनचत्वारिंश्या: परात्रिष्टुप् पङ्क्ति: पञ्चाश्या: प्रस्तारपङ्क्ति:  चतुष्पञ्चाश्या: पुरोऽनुष्टुप्त्रिष्टुप् अष्टपञ्चाश्या विराट्त्रिष्टुप्  षष्ट्यास्त्र्यवसाना षट्पदा जगती चतु:षष्ट्या भुरिक्पथ्यापङ्क्तिर्भुरिगार्षी पङ्क्तिर्वा  सप्तषष्ट्या: पथ्याबृहती एकोनसप्ततितमैकसप्ततितमयोश्चोपरिष्टाद्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 

इयं नारी॑ पतिलोकं वृ॑णाना नि प॑द्यत उप॑ त्वा मर्त्य प्रेत॑म् ।
धर्मं॑ पुराणम॑नुपालय॑न्ती तस्यै॑ प्रजां द्रवि॑णं चेह धे॑हि ॥१॥
उदी॑र्ष्व नार्यभि जी॑वलोकं गतासु॑मेतमुप॑ शेष एहि॑ ।
हस्तग्राभस्य॑ दधिषोस्तवेदं पत्यु॑र्जनित्वमभि सं ब॑भूथ ॥२॥
अप॑श्यं युवतिं नीयमा॑नां जीवां मृतेभ्य॑: परिणीयमा॑नाम् ।
अन्धेन यत्तम॑सा प्रावृतासी॑त्प्राक्तो अपा॑चीमनयं तदे॑नाम् ॥३॥
प्रजानत्यद्गघ्न्ये जीवलोकं देवानां पन्था॑मनुसंचर॑न्ती ।
अयं ते गोप॑तिस्तं जु॑षस्व स्वर्गं लोकमधि॑ रोहयैनम् ॥४॥
उप द्यामुप॑ वेतसमव॑त्तरो नदीना॑म् ।
अग्ने पित्तमपाम॑सि ॥५॥
यं त्वम॑ग्ने समद॑हस्तमु निर्वा॑पया पुन॑: ।
क्याम्बूरत्र॑ रोहतु शाण्डदूर्वा व्यद्गल्कशा ॥६॥
इदं त एकं॑ पर ऊ॑ त एकं॑ तृतीये॑न ज्योति॑षा सं वि॑शस्व ।
संवेश॑ने तन्वा३ चारु॑रेधि प्रियो देवानां॑ परमे सधस्थे॑ ॥७॥
उत्ति॑ष्ठ प्रेहि प्र द्रवौक॑: कृणुष्व सलिले सधस्थे॑ ।
तत्र त्वं पितृभि॑: संविदान: सं सोमे॑न मद॑स्व सं स्वधाभि॑: ॥८॥
प्र च्य॑वस्व तन्वं सं भ॑रस्व मा ते गात्रा वि हा॑यि मो शरी॑रम् ।
मनो निवि॑ष्टमनुसंवि॑शस्व यत्र भूमे॑र्जुषसे तत्र॑ गच्छ ॥९॥
वर्च॑सा मां पितर॑: सोम्यासो अञ्ज॑न्तु देवा मधु॑ना घृतेन॑ ।
चक्षु॑षे मा प्रतरं तारय॑न्तो जरसे॑ मा जरद॑ष्टिं वर्धन्तु ॥१०॥
वर्च॑सा मां सम॑नक्त्वग्निर्मेधां मे विष्णुर्न्यद्गनक्त्वासन् ।
रयिं मे विश्वे नि य॑च्छन्तु देवा: स्योना माप: पव॑नै: पुनन्तु ॥११॥
मित्रावरु॑णा परि माम॑धातामादित्या मा स्वर॑वो वर्धयन्तु ।
वर्चो॑ म इन्द्रो न्यद्गनक्तु हस्त॑योर्जरद॑ष्टिं मा सविता कृ॑णोतु ॥१२॥
यो ममार॑ प्रथमो मर्त्या॑नां य: प्रेयाय॑ प्रथमो लोकमेतम् ।
वैवस्वतं संगम॑नं जना॑नां यमं राजा॑नं हविषा॑ सपर्यत ॥१३॥
परा॑ यात पितर आ च॑ यातायं वो॑ यज्ञो मधु॑ना सम॑क्त: ।
दत्तो अस्मभ्यं द्रवि॑णेह भद्रं रयिं च॑ न: सर्व॑वीरं दधात ॥१४॥
कण्व॑: कक्षीवा॑न्पुरुमीढो अगस्त्य॑: श्यावाश्व: सोभ॑र्यर्चनाना॑: ।
विश्वामि॑त्रोऽयं जमद॑ग्निरत्रिरव॑न्तु न: कश्यपो॑ वामदे॑व: ॥१५॥
विश्वा॑मित्र जम॑दग्ने वसि॑ष्ठ भर॑द्वाज गोत॑म वाम॑देव ।
शर्दिर्नो अत्रि॑रग्रभीन्नमो॑भि: सुसं॑शास: पित॑रो मृडता॑ न: ॥१६॥
कस्ये मृजाना अति॑ यन्ति रिप्रमायुर्दधा॑ना: प्रतरं नवी॑य: ।
आप्याय॑माना: प्रजया धनेनाध॑ स्याम सुरभयो॑ गृहेषु॑ ॥१७॥
अञ्जते व्यद्गञ्जते सम॑ञ्जते क्रतुं॑ रिहन्ति मधु॑नाभ्यद्गञ्जते ।
सिन्धो॑रुच्छ्वासे पतय॑न्तमुक्षणं॑ हिरण्यपावा: पशुमा॑सु गृह्णते ॥१८॥
यद्वो॑ मुद्रं पि॑तर: सोम्यं च तेनो॑ सचध्वं स्वय॑शसो हि भूत ।
ते अ॑र्वाण: कवय आ शृ॑णोत सुविदत्रा विदथे॑ हूयमा॑ना: ॥१९॥
ये अत्र॑यो अङ्गि॑रसो नव॑ग्वा इष्टाव॑न्तो रातिषाचो दधा॑ना: ।
दक्षि॑णावन्त: सुकृतो य उ स्थासद्यास्मिन्बर्हिषि॑ मादयध्वम् ॥२०॥
अधा यथा॑ न: पितर: परा॑स: प्रत्नासो॑ अग्न ऋतमा॑शशाना: ।
शुचीद॑यन्दीध्य॑त उक्थशस: क्षामा॑ भिन्दन्तो॑ अरुणीरप॑ व्रन् ॥२१॥
सुकर्मा॑ण: सुरुचो॑ देवयन्तो अयो न देवा जनि॑मा धम॑न्त: ।
शुचन्तो॑ अग्निं वा॑वृधन्त इन्द्र॑मुर्वीं गव्यां॑ परिषदं॑ नो अक्रन् ॥२२॥
आ यूथेव॑ क्षुमति॑ पश्वो अ॑ख्यद्देवानां जनिमान्त्युग्र: ।
मर्ता॑सश्चिदुर्वशी॑रकृप्रन्वृधे चि॑दर्य उप॑रस्यायो: ॥२३॥
अक॑र्म ते स्वप॑सो अभूम ऋतम॑वस्रन्नुषसो॑ विभाती: ।
विश्वं तद्भद्रं यदव॑न्ति देवा बृहद्व॑देम विदथे॑ सुवीरा॑: ॥२४॥
इन्द्रो॑ मा मरुत्वान्प्राच्या॑ दिश: पा॑तु बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२५॥
धाता मा निरृ॑त्या दक्षि॑णाया दिश: पा॑तु बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२६॥
अदि॑तिर्मादित्यै: प्रतीच्या॑ दिश: पा॑तु बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२७॥
सोमो॑ मा विश्वै॑र्देवैरुदी॑च्या दिश: पा॑तु बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२८॥
धर्ता ह॑ त्वा धरुणो॑ धारयाता ऊर्ध्वं भानुं स॑विता द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२९॥
प्राच्यां॑ त्वा दिशि पुरा संवृत॑: स्वधायामा द॑धामि बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥३०॥
दक्षिणायां त्वा दिशि पुरा संवृत॑: स्वधायामा द॑धामि बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥३१॥
प्रतीच्यां त्वा दिशि पुरा संवृत॑: स्वधायामा द॑धामि बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥३२॥
उदीच्यां त्वा दिशि पुरा संवृत॑: स्वधायामा द॑धामि बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥३३॥
ध्रुवायां त्वा दिशि पुरा संवृत॑: स्वधायामा द॑धामि बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥३४॥
ऊर्ध्वायां त्वा दिशि पुरा संवृत॑: स्वधायामा द॑धामि बाहुच्युता॑ पृथिवी द्यामि॑वोपरि॑ ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥३५॥
धर्तासि॑ धरुणो॑ऽसि वंस॑गोऽसि ॥३६॥
उदपूर॑सि मधुपूर॑सि वातपूर॑सि ॥३७॥
इतश्च॑ मामुत॑श्चावतां यमे इ॑व यत॑माने यदैतम् ।
प्र वां॑ भरन्मानु॑षा देवयन्तो आ सी॑दतां स्वमु॑ लोकं विदा॑ने ॥३८॥
स्वास॑स्थे भवतमिन्द॑वे नो युजे वां ब्रह्म॑ पूर्व्यं नमो॑भि: ।
वि श्लोक॑ एति पथ्येद्गव सूरि: शृण्वन्तु विश्वे॑ अमृता॑स एतत् ॥३९॥
त्रीणि॑ पदानि॑ रुपो अन्व॑रोहच्चतु॑ष्पदीमन्वै॑तद्व्रतेन॑ ।
अक्षरे॑ण प्रति॑ मिमीते अर्कमृतस्य नाभा॑वभि सं पु॑नाति ॥४०॥
देवेभ्य: कम॑वृणीत मृत्युं प्रजायै किममृतं नावृ॑णीत ।
बृहस्पति॑र्यज्ञम॑तनुत ऋषि॑: प्रियां यमस्तन्व१मा रि॑रेच ॥४१॥
त्वम॑ग्न ईडितो जा॑तवेदोऽवा॑ड्ढव्यानि॑ सुरभीणि॑ कृत्वा ।
प्रादा॑: पितृभ्य॑: स्वधया ते अ॑क्षन्नद्धि त्वं दे॑व प्रय॑ता हवींषि॑ ॥४२॥
आसी॑नासो अरुणीना॑मुपस्थे॑ रयिं ध॑त्त दाशुषे मर्त्या॑य ।
पुत्रेभ्य॑: पितरस्तस्य वस्व: प्र य॑च्छत त इहोर्जं॑ दधात ॥४३॥
अग्नि॑ष्वात्ता: पितर एह ग॑च्छत सद॑:सद: सदत सुप्रणीतय: ।
अत्तो हवींषि प्रय॑तानि बर्हिषि॑ रयिं च॑ न: सर्व॑वीरं दधात ॥४४॥
उप॑हूता न: पितर॑: सोम्यासो॑ बर्हिष्येद्गषु निधिषु॑ प्रियेषु॑ ।
त आ ग॑मन्तु त इह श्रु॑वन्त्वधि॑ ब्रुवन्तु तेद्गऽवन्त्वस्मान् ॥४५॥
ये न॑: पितु: पितरो ये पि॑तामहा अ॑नूजहिरे सो॑मपीथं वसि॑ष्ठा: ।
तेभि॑र्यम: सं॑रराणो हवींष्युशन्नुशद्भि॑: प्रतिकामम॑त्तु ॥४६॥
ये ता॑तृषुर्दे॑वत्रा जेह॑माना होत्राविद: स्तोम॑तष्टासो अर्कै: ।
आग्ने॑ याहि सहस्रं॑ देववन्दै: सत्यै: कविभिरृषि॑भिर्घर्मसद्भि॑: ॥४७॥
ये सत्यासो॑ हविरदो॑ हविष्पा इन्द्रे॑ण देवै: सरथं॑ तुरेण॑ ।
आग्ने॑ याहि सुविदत्रे॑भिरर्वाङ्परै: पूर्वैरृषि॑भिर्घर्मसद्भि॑: ॥४८॥
उप॑ सर्प मातरं भूमि॑मेतामु॑रुव्यच॑सं पृथिवीं सुशेवा॑म् ।
ऊर्ण॑म्रदा: पृथिवी दक्षि॑णावत एषा त्वा॑ पातु प्रप॑थे पुरस्ता॑त् ॥४९॥
उच्छ्व॑ञ्चस्व पृथिवि मा नि बा॑धथा: सूपायनास्मै॑ भव सूपसर्पणा ।
माता पुत्रं यथा॑ सिचाभ्येद्गनं भूम ऊर्णुहि ॥५०॥
उच्छ्वञ्च॑माना पृथिवी सु ति॑ष्ठतु सहस्रं मित उप हि श्रय॑न्ताम् ।
ते गृहासो॑ घृतश्चुत॑: स्योना विश्वाहा॑स्मै शरणा: सन्त्वत्र॑ ॥५१॥
उत्ते॑ स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रि॑षम् ।
एतां स्थूणां॑ पितरो॑ धारयन्ति ते तत्र॑ यम: साद॑ना ते कृणोतु ॥५२॥
इमम॑ग्ने चमसं मा वि जि॑ह्वर: प्रियो देवाना॑मुत सोम्याना॑म् ।
अयं यश्च॑मसो दे॑वपानस्तस्मि॑न्देवा अमृता॑ मादयन्ताम् ॥५३॥
अथ॑र्वा पूर्णं च॑मसं यमिन्द्रायाबि॑भर्वाजिनी॑वते ।
तस्मि॑न्कृणोति सुकृतस्य॑ भक्षं तस्मिनिन्दु॑: पवते विश्वदानी॑म् ॥५४॥
यत्ते॑ कृष्ण: श॑कुन आ॑तुतोद॑ पिपील: सर्प उत वा श्वाप॑द: ।
अग्निष्टद्विश्वाद॑गदं कृ॑णोतु सोम॑श्च यो ब्रा॑ह्मणाँ आ॑विवेश॑ ॥५५॥
पय॑स्वतीरोष॑धय: पय॑स्वन्मामकं पय॑: ।
अपां पय॑सो यत्पयस्तेन॑ मा सह शु॑म्भतु ॥५६॥
इमा नारी॑रविधवा: सुपत्नीराञ्ज॑नेन सर्पिषा सं स्पृ॑शन्ताम् ।
अनश्रवो॑ अनमीवा: सुरत्ना आ रो॑हन्तु जन॑यो योनिमग्रे॑ ॥५७॥
सं ग॑च्छस्व पितृभि: सं यमेने॑ष्टापूर्तेन॑ परमे व्योद्गमन् ।
हित्वावद्यं पुनरस्तमेहि सं ग॑च्छतां तन्वाद्गसुवर्चा॑: ॥५८॥
ये न॑: पितु: पितरो ये पि॑तामहा य आ॑विविशुरुर्व१न्तरि॑क्षम् ।
तेभ्य॑: स्वरादसु॑नीतिर्नो अद्य य॑थावशं तन्वद्ग: कल्पयाति ॥५९॥
शं ते॑ नीहारो भ॑वतु शं ते॑ प्रुष्वाव॑ शीयताम् ।
शीति॑के शीति॑कावति ह्लादि॑के ह्लादि॑कावति ।
मण्डूक्य१प्सु शं भु॑व इमं स्व१ग्निं श॑मय ॥६०॥
विवस्वा॑न्नो अभ॑यं कृणोतु य: सुत्रामा॑ जीरदा॑नु: सुदानु॑: ।
इहेमे वीरा बहवो॑ भवन्तु गोमदश्व॑वन्मय्य॑स्तु पुष्टम् ॥६१॥
विवस्वा॑न्नो अमृतत्वे द॑धातु परै॑तु मृत्युरमृतं॑ न ऐतु॑ ।
इमान्र॑क्षतु पुरु॑षाना ज॑रिम्णो मो ष्वेद्गषामस॑वो यमं गु॑: ॥६२॥
यो दध्रे अन्तरि॑क्षे न मह्ना पि॑तॄणां कवि: प्रम॑तिर्मतीनाम् ।
तम॑र्चत विश्वमि॑त्रा हविर्भि: स नो॑ यम: प्र॑तरं जीवसे॑ धात् ॥६३॥
आ रो॑हत दिव॑मुत्तमामृष॑यो मा बि॑भीतन ।
सोम॑पा: सोम॑पायिन इदं व॑: क्रियते हविरग॑न्म ज्वोति॑रुत्तमम् ॥६४॥
प्र केतुना॑ बृहता भा॑त्यग्निरा रोद॑सी वृषभो रो॑रवीति ।
दिवश्चिदन्ता॑दुपमामुदा॑नडपामुपस्थे॑ महिषो व॑वर्ध ॥६५॥
नाके॑ सुपर्णमुप यत्पत॑न्तं हृदा वेन॑न्तो अभ्यच॑क्षत त्वा ।
हिर॑ण्यपक्षं वरु॑णस्य दूतं यमस्य योनौ॑ शकुनं भु॑रण्युम् ॥६६॥
इन्द्र क्रतुं॑ न आ भ॑र पिता पुत्रेभ्यो यथा॑ ।
शिक्षा॑ णो अस्मिन्पु॑रुहूत याम॑नि जीवा ज्योति॑रशीमहि ॥६७॥
अपूपापि॑हितान्कुम्भान्यांस्ते॑ देवा अधा॑रयन् ।
ते ते॑ सन्तु स्वधाव॑न्तो मधु॑मन्तो घृतश्चुत॑: ॥६८॥
यास्ते॑ धाना अ॑नुकिरामि॑ तिलमि॑श्रा: स्वधाव॑ती: ।
तास्ते॑ सन्तु विभ्वी: प्रभ्वीस्तास्ते॑ यमो राजानु॑ मन्यताम् ॥६९॥
पुन॑र्देहि वनस्पते य एष निहि॑तस्त्वयि॑ ।
यथा॑ यमस्य साद॑न आसा॑तौ विदथा वद॑न् ॥७०॥
आ र॑भस्व जातवेदस्तेज॑स्वद्धरो॑ अस्तु ते ।
शरी॑रमस्य सं दहाथै॑नं देहि सुकृता॑मु लोके ॥७१॥
ये ते पूर्वे परा॑गता अप॑रे पितर॑श्च ये ।
तेभ्यो॑ घृतस्य॑ कुल्यैद्गतु शतधा॑रा व्युन्दती ॥७२॥
एतदा रो॑ह वय॑ उन्मृजान: स्वा इह बृहदु॑ दीदयन्ते ।
अभि प्रेहि॑ मध्यतो माप॑ हास्था: पितॄणां लोकं प्र॑थमो यो अत्र॑ ॥७३॥
 
 

चतुर्थं सूक्तम्» एकोननवत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमाद्यशीत्यृचां यमो मन्त्रोक्ताश्च एकाशीतितमादिसप्तानां पितर:  अष्टाशीतितमाया अग्नि:  एकोननवतितमायाश्च चन्द्रमा देवता: | प्रथमाचतुर्थीसप्तमीचतुर्दशीषट्त्रिंशीषष्टीनां भुरिक्त्रिष्टुप्  द्वितीयापञ्चम्येकादश्येकोनत्रिंशीपञ्चाश्येकपञ्चाश्यष्टपञ्चाशीनां जगती  तृतीयाया: पञ्चपदा भुरिगतिजगती  षष्ठ्या: पञ्चपदा शक्वरी  अष्टम्या: पञ्चपदातिशक्वरी  नवम्या: पञ्चपदा भुरिक्शक्वरी  दशमीपञ्चदश्यष्टाविंशीत्रिंशीचतुस्त्रिंशीपञ्चत्रिंशीसप्तत्रिंशीचत्वारिंशीनां चतुश्चत्वारिंश्यादिपञ्चानां द्विपञ्चाशीचतुष्पञ्चाशीचतु:षष्टीपञ्चषष्ट्येकोनसप्ततितमासप्ततितमानाञ्च त्रिष्टुप्  द्वादश्या महाबृहती  त्रयोदश्यास्त्र्यवसाना पञ्चपदा शक्वरी षोडश्यादिनवानां त्रिपदा भुरिङ्महाबृहती पञ्चविंश्येकत्रिंशीद्वात्रिंश्यष्टात्रिंश्येकचत्वारिंशीद्विचत्वारिंशीपञ्चपञ्चाशीसप्तपञ्चाश्येकोनषष्ट्येकषष्टीनामनुष्टुप्  षड्विंशीत्रिचत्वारिंश्योर्विराडुपरिष्टाद्बृहती  सप्तविंश्या याजुषी गायत्री  त्रयस्त्रिंश्या उपरिष्टाद्बृहती  एकोनचत्वारिंश्या: पुरोविराास्तारपङ्क्ति:  एकोनपञ्चाश्या अनुष्टुब्गर्भा त्रिष्टुप्  त्रिपञ्चाश्या: पुरोविराट् सत:पङ्क्ति:  षट्पञ्चाश्या: ककुम्मत्यनुष्टुप्  द्विषष्ट्या भुरिगास्तारपङ्क्ति:  त्रिषष्ट्या: स्वराडास्तारपङ्क्ति:  षट्षष्ट्यास्त्रिपदा स्वराड्गायत्री  सप्तषष्ट्या द्विपदार्च्यनुष्टुप् अष्टषष्ट्येकसप्ततितमयोरासुर्यनुष्टुप्  द्विसप्ततितमादितृचस्यैकोनाशीतितमायाश्चासुरी पङ्क्ति:  पञ्चसप्ततितमाया आसुरी गायत्री  षट्सप्ततितमाया आसुर्युष्णिक्  सप्तसप्ततितमाया दैवी जगती  अष्टसप्ततितमाया आसुरी त्रिष्टुप्  अशीतितमाया आसुरी जगती  एकाशीतितमाया: प्राजापत्यानुष्टुप्  द्व्यशीतितमाया: साम्नी बृहती ३ त्र्यशीतितमाचतुरशीतितमयो: साम्नी त्रिष्टुप्  पञ्चाशीतितमाया आसुरी बृहती  षडशीतितमायाश्चतुष्पदा ककुम्मत्युष्णिक् सप्तषष्ट्यष्टषष्ट्यावेकसप्ततितमादिषोडश चैकावसाना:  सप्ताशीतितमायाश्चतुष्पदा शङ्कुमत्युष्णिक् अष्टाशीतितमायास्त्र्यवसाना पथ्यापङ्क्ति: एकोननवतितमायाश्च पञ्चपदा पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
आ रो॑हत जनि॑त्रीं जातवे॑दस: पितृयाणै: सं व आ रो॑हयामि ।
अवा॑ड्ढव्येषितो ह॑व्यवाह॑ ईजानं युक्ता: सुकृतां॑ धत्त लोके ॥१॥
देवा यज्ञमृतव॑: कल्पयन्ति हवि: पु॑रोडाशं॑ स्रुचो य॑ज्ञायुधानि॑ ।
तेभि॑र्याहि पथिभि॑र्देवयानैर्यैरी॑जाना: स्वर्गं यन्ति॑ लोकम् ॥२॥
ऋतस्य पन्थामनु॑ पश्य साध्वङ्गि॑रस: सुकृतो येन यन्ति॑ ।
तेभि॑र्याहि पथिभि॑: स्वर्गं यत्रा॑दित्या मधु॑ भक्षय॑न्ति तृतीये नाके अधि वि श्र॑यस्व ॥३॥
त्रय॑: सुपर्णा उप॑रस्य मायू नाक॑स्य पृष्ठे अधि॑ विष्टपि॑ श्रिता: ।
स्वर्गा लोका अमृते॑न विष्ठा इषमूर्जं यज॑मानाय दुह्राम् ॥४॥
जुहूर्दा॑धार द्यामु॑पभृदन्तरि॑क्षं ध्रुवा दा॑धार पृथिवीं प्र॑तिष्ठाम् ।
प्रतीमां लोका घृतपृ॑ष्ठा: स्वर्गा: कामं॑कामं यज॑मानाय दुह्राम् ॥५॥
ध्रुव आ रो॑ह पृथिवीं विश्वभो॑जसमन्तरि॑क्षमुपभृदा क्र॑मस्व ।
जुहु द्यां ग॑च्छ यज॑मानेन साकं स्रुवेण॑ वत्सेन दिश: प्रपी॑ना: सर्वा॑ धुक्ष्वाहृ॑णीयमान: ॥६॥
तीर्थैस्त॑रन्ति प्रवतो॑ महीरिति॑ यज्ञकृत॑: सुकृतो येन यन्ति॑ ।
अत्रा॑दधुर्यज॑मानाय लोकं दिशो॑ भूतानि यदक॑ल्पयन्त ॥७॥
अङ्गि॑रसामय॑नं पूर्वो॑ अग्निरा॑दित्यानामय॑नं गार्ह॑पत्यो दक्षि॑णानामय॑नं दक्षिणाग्नि: ।
महिमान॑मग्नेर्विहि॑तस्य ब्रह्म॑णा सम॑ङ्ग: सर्व उप॑ याहि शग्म: ॥८॥
पूर्वो॑ अग्निष्ट्वा॑ तपतु शं पुरस्ताच्छं पश्चात्त॑पतु गार्ह॑पत्य: ।
दक्षिणाग्निष्टे॑ तपतु शर्म वर्मो॑त्तरतो म॑ध्यतो अन्तरि॑क्षाद्दिशोदि॑शो अग्ने परि॑ पाहि घोरात् ॥९॥
यूयम॑ग्ने शंत॑माभिस्तनूभि॑रीजानमभि लोकं स्वर्गम् ।
अश्वा॑ भूत्वा पृ॑ष्टिवाहो॑ वहाथ यत्र॑ देवै: स॑धमादं मद॑न्ति ॥१०॥
शम॑ग्ने पश्चात्त॑प शं पुरस्ताच्छमु॑त्तराच्छम॑धरात्त॑पैनम् ।
एक॑स्त्रेधा विहि॑तो जातवेद: सम्यगे॑नं धेहि सुकृता॑मु लोके ॥११॥
शमग्नय: समि॑द्धा आ र॑भन्तां प्राजापत्यं मेध्यं॑ जातवे॑दस: ।
शृतं कृण्वन्त॑ इह माव॑ चिक्षिपन् ॥१२॥
यज्ञ ए॑ति वित॑त: कल्प॑मान ईजानमभि लोकं स्वर्गम् ।
तमग्नय: सर्व॑हुतं जुषन्तां प्राजापत्यं मेध्यं॑ जातवे॑दस: ॥१३॥
ईजानश्चितमारु॑क्षदग्निं नाक॑स्य पृष्ठाद्दिव॑मुत्पतिष्यन् ।
तस्मै प्र भा॑ति नभ॑सो ज्योति॑षीमान्त्स्वर्ग: पन्था॑: सुकृते॑ देवयान॑: ॥१४॥
अग्निर्होता॑ध्वर्युष्टे बृहस्पतिरिन्द्रो॑ ब्रह्मा द॑क्षिणतस्ते॑ अस्तु ।
हुतोऽयं संस्थि॑तो यज्ञ ए॑ति यत्र पूर्वमय॑नं हुताना॑म् ॥१५॥
अपूपवा॑न्क्षीरवां॑श्चरुरेह सी॑दतु ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥१६॥
अपूपवान्दधि॑वांश्चरुरेह सी॑दतु ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥१७॥
अपूपवा॑न्द्रप्सवां॑श्चरुरेह सी॑दतु ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥१८॥
अपूपवा॑न्घृतवां॑श्चरुरेह सी॑दतु ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥१९॥
अपूपवा॑न्मांसवां॑श्चरुरेह सी॑दतु ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२०॥
अपूपवानन्न॑वांश्चरुरेह सी॑दतु ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२१॥
अपूपवान्मधु॑मांश्चरुरेह सी॑दतु ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२२॥
अपूपवान्रस॑वांश्चरुरेह सी॑दतु ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२३॥
अपूपवानप॑वांश्चरुरेह सी॑दतु ।
लोककृत॑: पथिकृतो॑ यजामहे ये देवानां॑ हुतभा॑गा इह स्थ ॥२४॥
अपूपापि॑हितान्कुम्भान्यांस्ते॑ देवा अधा॑रयन् ।
ते ते॑ सन्तु स्वधाव॑न्तो मधु॑मन्तो घृतश्चुत॑: ॥२५॥
यास्ते॑ धाना अ॑नुकिरामि॑ तिलमि॑श्रा: स्वधाव॑ती: ।
तास्ते॑ सन्तूद्भ्वी: प्रभ्वीस्तास्ते॑ यमो राजानु॑ मन्यताम् ॥२६॥
अक्षि॑तिं भूय॑सीम् ॥२७॥
द्रप्सश्च॑स्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्व॑: ।
समानं योनिमनु॑ संचर॑न्तं द्रप्सं जु॑होम्यनु॑ सप्त होत्रा॑: ॥२८॥
शतधा॑रं वायुमर्कं स्वर्विदं॑ नृचक्ष॑सस्ते अभि च॑क्षते रयिम् ।
ये पृणन्ति प्र च यच्छ॑न्ति सर्वदा ते दु॑ह्रते दक्षि॑णां सप्तमा॑तरम् ॥२९॥
कोशं॑ दुहन्ति कलशं चतु॑र्बिलमिडां॑ धेनुं मधु॑मतीं स्वस्तये॑ ।
ऊर्जं मद॑न्तीमदि॑तिं जनेष्वग्ने मा हिं॑सी: परमे व्योद्गमन् ॥३०॥
एतत्ते॑ देव: स॑विता वासो॑ ददाति भर्त॑वे ।
तत्त्वं यमस्य राज्ये वसा॑नस्तार्प्यंद्ग चर ॥३१॥
धाना धेनुर॑भवद्वत्सो अ॑स्यास्तिलोद्गऽभवत् ।
तां वै यमस्य राज्ये अक्षि॑तामुप॑ जीवति ॥३२॥
एतास्ते॑ असौ धेनव॑: कामदुघा॑ भवन्तु ।
एनी: श्येनी: सरू॑पा विरू॑पास्तिलव॑त्सा उप॑ तिष्ठन्तु त्वात्र॑ ॥३३॥
एनी॑र्धाना हरि॑णी: श्येनी॑रस्य कृष्णा धाना रोहि॑णीर्धेनव॑स्ते ।
तिलव॑त्सा ऊर्ज॑मस्मै दुहा॑ना विश्वाहा॑ सन्त्वनपस्फुर॑न्ती: ॥३४॥
वैश्वानरे हविरिदं जु॑होमि साहस्रं शतधा॑रमुत्स॑म् ।
स बि॑भर्ति पितरं॑ पितामहान्प्र॑पितामहान्बि॑भर्ति पिन्व॑मान: ॥३५॥
सहस्र॑धारं शतधा॑रमुत्समक्षि॑तं व्यच्यमा॑नं सलिलस्य॑ पृष्ठे ।
ऊर्जं दुहा॑नमनपस्फुर॑न्तमुपा॑सते पितर॑: स्वधाभि॑: ॥३६॥
इदं कसा॑म्बु चय॑नेन चितं तत्स॑जाता अव॑ पश्यतेत॑ ।
मर्त्योऽयम॑मृतत्वमे॑ति तस्मै॑ गृहान्कृ॑णुत यावत्सब॑न्धु ॥३७॥
इहैवैधि॑ धनसनि॑रिहचि॑त्त इहक्र॑तु: ।
इहैधि॑ वीर्यद्गवत्तरो वयोधा अप॑राहत: ॥३८॥
पुत्रं पौत्र॑मभितर्पय॑न्तीरापो मधु॑मतीरिमा: ।
स्वधां पितृभ्यो॑ अमृतं दुहा॑ना आपो॑ देवीरुभयां॑स्तर्पयन्तु ॥३९॥
आपो॑ अग्निं प्र हि॑णुत पितॄँरुपेमं यज्ञं पितरो॑ मे जुषन्ताम् ।
आसी॑नामूर्जमुप ये सच॑न्ते ते नो॑ रयिं सर्व॑वीरं नि य॑च्छान् ॥४०॥
समि॑न्धते अम॑र्त्यं हव्यवाहं॑ घृतप्रिय॑म् ।
स वे॑द निहि॑तान्निधीन्पितॄन्प॑रावतो॑ गतान् ॥४१॥
यं ते॑ मन्थं यमो॑दनं यन्मांसं नि॑पृणामि॑ ते ।
ते ते॑ सन्तु स्वधाव॑न्तो मधु॑मन्तो घृतश्चुत॑: ॥४२॥
यास्ते॑ धाना अ॑नुकिरामि॑ तिलमि॑श्रा: स्वधाव॑ती: ।
तास्ते॑ सन्तूद्भ्वी: प्रभ्वीस्तास्ते॑ यमो राजानु॑ मन्यताम् ॥४३॥
इदं पूर्वमप॑रं नियानं येना॑ ते पूर्वे॑ पितर: परे॑ता: ।
पुरोगवा ये अ॑भिसाचो॑ अस्य ते त्वा॑ वहन्ति सुकृता॑मु लोकम् ॥४४॥
सर॑स्वतीं देवयन्तो॑ हवन्ते सर॑स्वतीमध्वरे तायमा॑ने ।
सर॑स्वतीं सुकृतो॑ हवन्ते सर॑स्वती दाशुषे वार्यं॑ दात् ॥४५॥
सर॑स्वतीं पितरो॑ हवन्ते दक्षिणा यज्ञम॑भिनक्ष॑माणा: ।
आसद्यास्मिन्बर्हिषि॑ मादयध्वमनमीवा इष आ धे॑ह्यस्मे ॥४६॥
सर॑स्वति या सरथं॑ ययाथोक्थै: स्वधाभि॑र्देवि पितृभिर्मद॑न्ती ।
सहस्रार्घमिडो अत्र॑ भागं रायस्पोषं यज॑मानाय धेहि ॥४७॥
पृथिवीं त्वा॑ पृथिव्यामा वे॑शयामि देवो नो॑ धाता प्र ति॑रात्यायु॑: ।
परा॑परैता वसुविद्वो॑ अस्त्वधा॑ मृता: पितृषु सं भ॑वन्तु ॥४८॥
आ प्र च्य॑वेथामप तन्मृ॑जेथां यद्वा॑मभिभा अत्रोचु: ।
अस्मादेत॑मघ्न्यौ तद्वशी॑यो दातु: पितृष्विहभो॑जनौ मम॑ ॥४९॥
एयम॑गन्दक्षि॑णा भद्रतो नो॑ अनेन॑ दत्ता सुदुघा॑ वयोधा: ।
यौव॑ने जीवानु॑पपृञ्च॑ती जरा पितृभ्य॑ उपसंप॑राणयादिमान् ॥५०॥
इदं पितृभ्य: प्र भ॑रामि बर्हिर्जीवं देवेभ्य उत्त॑रं स्तृणामि ।
तदा रो॑ह पुरुष मेध्यो भवन्प्रति॑ त्वा जानन्तु पितर: परे॑तम् ॥५१॥
एदं बर्हिर॑सदो मेध्यो॑ऽभू: प्रति॑ त्वा जानन्तु पितर: परे॑तम् ।
यथापरु तन्वं१ सं भ॑रस्व गात्रा॑णि ते ब्रह्म॑णा कल्पयामि ॥५२॥
पर्णो राजा॑पिधानं॑ चरूणामूर्जो बलं सह ओजो॑ न आग॑न् ।
आयु॑र्जीवेभ्यो विद॑धद्दीर्घायुत्वाय॑ शतशा॑रदाय ॥५३॥
ऊर्जो भागो य इमं जजानाश्मान्ना॑नामाधि॑पत्यं जगाम॑ ।
तम॑र्चत विश्वमि॑त्रा हविर्भि: स नो॑ यम: प्र॑तरं जीवसे॑ धात् ॥५४॥
यथा॑ यमाय॑ हर्म्यमव॑पन्पञ्च॑ मानवा: ।
एवा व॑पामि हर्म्यं यथा॑ मे भूरयोऽस॑त ॥५५॥
इदं हिर॑ण्यं बिभृहि यत्ते॑ पिताबि॑भ: पुरा ।
स्वर्गं यत: पितुर्हस्तं निर्मृ॑ड्ढि दक्षि॑णम् ॥५६॥
ये च॑ जीवा ये च॑ मृता ये जाता ये च॑ यज्ञिया॑: ।
तेभ्यो॑ घृतस्य॑ कुल्यैद्गतु मधु॑धारा व्युन्दती ॥५७॥
वृषा॑ मतीनां प॑वते विचक्षण: सूरो अह्नां॑ प्रतरी॑तोषसां॑ दिव: ।
प्राण: सिन्धू॑नां कलशाँ॑ अचिक्रददिन्द्र॑स्य हार्दि॑माविशन्म॑नीषया॑ ॥५८॥
त्वेषस्ते॑ धूम ऊ॑र्णोतु दिवि षंच्छुक्र आत॑त: ।
सूरो न हि द्युता त्वं कृपा पा॑वक रोच॑से ॥५९॥
प्र वा एतीन्दुरिन्द्र॑स्य निष्कृ॑तिं सखा सख्युर्न प्र मि॑नाति संगिर: ।
मर्य॑ इव योषा: सम॑र्षसे सोम॑: कलशे॑ शतया॑मना पथा ॥६०॥
अक्षन्नमी॑मदन्त ह्यव॑ प्रियाँ अ॑धूषत ।
अस्तो॑षत स्वभा॑नवो विप्रा यवि॑ष्ठा ईमहे ॥६१॥
आ या॑त पितर: सोम्यासो॑ गम्भीरै: पथिभि॑: पितृयाणै॑: ।
आयु॑रस्मभ्यं दध॑त: प्रजां च॑ रायश्च पोषै॑रभि न॑: सचध्वम् ॥६२॥
परा॑ यात पितर: सोम्यासो॑ गम्भीरै: पथिभि॑: पूर्याणै॑: ।
अधा॑ मासि पुनरा या॑त नो गृहान्हविरत्तुं॑ सुप्रजस॑: सुवीरा॑: ॥६३॥
यद्वो॑ अग्निरज॑हादेकमङ्गं॑ पितृलोकं गमयं॑ जातवे॑दा: ।
तद्व॑ एतत्पुनरा प्या॑ययामि साङ्गा: स्वर्गे पितरो॑ मादयध्वम् ॥६४॥
अभू॑द्दूत: प्रहि॑तो जातवे॑दा: सायं न्यह्न॑ उपवन्द्यो नृभि॑: ।
प्रादा॑: पितृभ्य॑: स्वधया ते अ॑क्षन्नद्धि त्वं दे॑व प्रय॑ता हवींषि॑ ॥६५॥
असौ हा इह ते मन: ककु॑त्सलमिव जामय॑: ।
अभ्येद्गनं भूम ऊर्णुहि ॥६६॥
शुम्भ॑न्तां लोका: पि॑तृषद॑ना: पितृषद॑ने त्वा लोक आ सा॑दयामि ॥६७॥
ये३ अस्माकं॑ पितरस्तेषां॑ बर्हिर॑सि ॥६८॥
उदु॑त्तमं व॑रुण पाश॑मस्मदवा॑धमं वि मध्यमं श्र॑थाय ।
अधा॑ वयमा॑दित्य व्रते तवाना॑गसो अदि॑तये स्याम ॥६९॥
प्रास्मत्पाशा॑न्वरुण मुञ्च सर्वान्यै: स॑मामे बध्यते यैर्व्यामे ।
अधा॑ जीवेम शरदं॑ शतानि त्वया॑ राजन्गुपिता रक्ष॑माणा: ॥७०॥
अग्नये॑ कव्यवाह॑नाय स्वधा नम॑: ॥७१॥
सोमा॑य पितृम॑ते स्वधा नम॑: ॥७२॥
पितृभ्य: सोम॑वद्भ्य: स्वधा नम॑: ॥७३॥
यमाय॑ पितृम॑ते स्वधा नम॑: ॥७४॥
एतत्ते॑ प्रततामह स्वधा ये च त्वामनु॑ ॥७५॥
एतत्ते॑ ततामह स्वधा ये च त्वामनु॑ ॥७६॥
एतत्ते॑ तत स्वधा ॥७७॥
स्वधा पितृभ्य॑: पृथिविषद्भ्य॑: ॥७८॥
स्वधा पितृभ्यो॑ अन्तरिक्षसद्भ्य॑: ॥७९॥
स्वधा पितृभ्यो॑ दिविषद्भ्य॑: ॥८०॥
नमो॑ व: पितर ऊर्जे नमो॑ व: पितरो रसा॑य ॥८१॥
नमो॑ व: पितरो भामा॑य नमो॑ व: पितरो मन्यवे॑ ॥८२॥
नमो॑ व: पितरो यद्घोरं तस्मै नमो॑ व: पितरो यत्क्रूरं तस्मै॑ ॥८३॥
नमो॑ व: पितरो यच्छिवं तस्मै नमो॑ व: पितरो यत्स्योनं तस्मै॑ ॥८४॥
नमो॑ व: पितर: स्वधा व॑: पितर: ॥८५॥
येऽत्र॑ पितर॑: पितरो येऽत्र॑ यूयं स्थ युष्माँस्तेऽनु॑ यूयं तेषां श्रेष्ठा॑ भूयास्थ ॥८६॥
य इह पितरो॑ जीवा इह वयं स्म॑: ।
अस्माँस्तेऽनु॑ वयं तेषां श्रेष्ठा॑ भूयास्म ॥८७॥
आ त्वा॑ग्न इधीमहि द्युमन्तं॑ देवाजर॑म् ।
यद्घ सा ते पनी॑यसी समिद्दीदय॑ति द्यवि॑ ।
इषं॑ स्तोतृभ्य आ भ॑र ॥८८॥
चन्द्रमा॑ अप्स्व१न्तरा सु॑पर्णो धा॑वते दिवि ।
न वो॑ हिरण्यनेमय: पदं वि॑न्दन्ति विद्युतो वित्तं मे॑ अस्य रो॑दसी ॥८९॥
 

॥इति अष्टादशं काण्डम्॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *