HinduMantavya
Loading...

बृहदारण्यकोपनिषत् (भाग १)

Google+ Whatsapp

॥ अथ बृहदारण्यकोपनिषत् ॥

 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
 

प्रथमोऽध्यायः

उषा वा अश्वस्य मेध्यस्य शिरः ।
सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य ।
द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि ।
ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि ।
उद्यन् पूर्वार्धो निम्लोचञ्जघनार्धः ।
यद्विजृम्भते तद्विद्योतते ।
यद्विधूनुते तत्स्तनयति ।
यन्मेहति तद्वर्षति ।
वागेवास्य वाक् ॥ १,१/१ ॥
अहर्वा अश्वं पुरस्तान्महिमान्वजायत ।
तस्य पूर्वे समुद्रे योनिः ।
रात्रिरेनं पश्चान्महिमान्वजायत ।
तस्यापरे समुद्रे योनिर् ।
एतौ वा अश्वं महिमानावभितः सम्बभूवतुः ।
हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान् ।
समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ १,१/२ ॥

नैवेह किं चनाग्र आसीत् ।
मृत्युनैवेदमावृतमासीदशनायया ।
अशनाया हि मृत्युः ।
तन्मनोऽकुरुतात्मन्वी स्यामिति ।
सोऽर्चन्नचरत् ।
तस्यार्चत आपोऽजायन्त ।
अर्चते वै मे कमभूदिति ।
तदेवार्क्यस्यार्कत्वम् ।
कं ह वा अस्मै भवति य एवमेतदर्क्यस्यार्कत्वं वेद ॥ १,२/१ ॥

आपो वा अर्कः ।
तद्यदपां शर आसीत्तत्समहन्यत ।
सा पृथिव्यभवत् ।
तस्यामश्राम्यत् ।
तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ १,२/२ ॥

स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् ।
स एष प्राणस्त्रेधाविहितः ।
तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ ।
अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ ।
दक्षिणा चोदीची च पार्श्वे ।
द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः ।
स एषोऽप्सु प्रतिष्ठितः ।
यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ १,२/३ ॥

सोऽकामयत  द्वितीयो म आत्मा जायेतेति ।
स मनसा वाचं मिथुनं समभवदशनाया मृत्युः ।
तद्यद्रेत आसीत्स संवत्सरोऽभवत् ।
न ह पुरा ततः संवत्सर आस ।
तमेतावन्तं कालमबिभर्यावान्त्संवत्सरः ।
तमेतावतः कालस्य परस्तादसृजत ।
तं जातमभिव्याददात् ।
स भाणकरोत् ।
सैव वागभवत् ॥ १,२/४ ॥

स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति ।
स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्च  ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् ।
स यद्यदेवासृजत तत्तदत्तुमध्रियत ।
सर्वं वा अत्तीति तददितेरदितित्वम् ।
सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ १,२/५ ॥

सोऽकामयत  भूयसा यज्ञेन भूयो यजेयेति ।
सोऽश्राम्यत् ।
स तपोऽतप्यत ।
तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् ।
प्राणा वै यशो वीर्यम् ।
तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत ।
तस्य शरीर एव मन आसीत् ॥ १,२/६ ॥

सोऽकामयत  मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ।
ततोऽश्वः समभवत् ।
यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् ।
एष ह वा अश्वमेधं वेद य एनमेवं वेद ।
तमनवरुध्यैवामन्यत ।
तं संवत्सरस्य परस्तादात्मन आलभत ।
पशून् देवताभ्यः प्रत्यौहत् ।
तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते ।
एष वा अश्वमेधो य एष तपति ।
तस्य संवत्सर आत्मा ।
अयमग्निरर्कः ।
तस्येमे लोका आत्मानः ।
तावेतावर्काश्वमेधौ ।
सो पुनरेकैव देवता भवति मृत्युरेव ।
अप पुनर्मृत्युं जयति ।
नैनं मृत्युराप्नोति ।
मृत्युरस्यात्मा भवति ।
सर्वमायुरेति ।
एतासां देवतानामेको भवति ॥ १,२/७ ॥

द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुराः ।
त एषु लोकेष्वस्पर्धन्त ।
ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ १,३/१ ॥

ते ह वाचमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो वागुदगायत् ।
यो वाचि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं वदति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं वदति ।
स एव स पाप्मा ॥ १,३/२ ॥

अथ ह प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः प्राण उदगायत् ।
यः प्राणे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं जिघ्रति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति ।
स एव स पाप्मा ॥ १,३/३ ॥

अथ ह चक्षुरूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यश्चक्षुरुदगायत् ।
यश्चक्षुषि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं पश्यति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति ।
स एव स पाप्मा ॥ १,३/४ ॥

अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः श्रोत्रमुदगायत् ।
यः श्रोत्रे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं शृणोति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं शृणोति ।
स एव स पाप्मा ॥ १,३/५ ॥

अथ ह मन ऊचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो मन उदगायत् ।
यो मनसि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं संकल्पयति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं संकल्पयति ।
स एव स पाप्मा ।
एवमु खल्वेता देवताः पाप्मभिरुपासृजन् ।
एवमेनाः पाप्मनाविध्यन् ॥ १,३/६ ॥

अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्य एष प्राण उदगायत् ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविव्यत्सन् ।
स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः ।
ततो देवा अभवन्, परासुरा ।
भवत्यात्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद ॥ १,३/७ ॥

ते होचुः  क्व नु सोऽभूद्यो न इत्थमसक्तेति ।
अयमास्येऽन्तरिति ।
सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ १,३/८ ॥

सा वा एषा देवता दूर्नाम ।
दूरं ह्यस्या मृत्युर् ।
दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ १,३/९ ॥

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयां चकार ।
तदासां पाप्मनो विन्यदधात् ।
तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १,३/१० ॥

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ १,३/११ ॥

सा वै वाचमेव प्रथमामत्यवहत् ।
सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ।
सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १,३/१२ ॥

अथ प्राणमत्यवहत् ।
स यदा मृत्युमत्यमुच्यत स वायुरभवत् ।
सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १,३/१३ ॥

अथ चक्षुरत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् ।
सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १,३/१४ ॥

अथ श्रोत्रमत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवन् ।
ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १,३/१५ ॥

अथ मनोऽत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् ।
सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति ।
एवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १,३/१६ ॥

अथात्मनेऽन्नाद्यमागायत् ।
यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यते ।
इह प्रतितिष्ठति ॥ १,३/१७ ॥

ते देवा अब्रुवन् ।
एतावद्वा इदं सर्वं यदन्नम् ।
तदात्मन आगासीः ।
अनु नोऽस्मिन्नन्न आभजस्वेति ।
ते वै माभिसंविशतेति ।
तथेति तं समन्तं परिण्यविशन्त ।
तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्ति ।
एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद ।
य उ हैवंविदं स्वेषु प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवति ।
अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ १,३/१८ ॥

सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ।
प्राणो वा अङ्गानां रसः ।
प्राणो हि वा अङ्गानां रसः ।
तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति ।
एष हि वा अङ्गानां रसः ॥ १,३/१९ ॥

एष उ एव बृहस्पतिः ।
वाग्वै बृहती ।
तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ १,३/२० ॥

एष उ एव ब्रह्मणस्पतिः ।
वाग्वै ब्रह्म ।
तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ १,३/२१ ॥

एष उ एव साम ।
वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।
यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव साम ।
अश्नुते साम्नः सायुज्यं सलोकताम् ।
य एवमेतत्साम वेद ॥ १,३/२२ ॥

एष उ वा उद्गीथः ।
प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धम् ।
वागेव गीथा ।
उच्च गीथा चेति ।
स उद्गीथः ॥ १,३/२३ ॥

तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच ।
अयं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।
वाचा च ह्येव स प्राणेन चोदगायदिति ॥ १,३/२४ ॥

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् ।
तस्य वै स्वर एव स्वम् ।
तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत ।
तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् ।
तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव ।
अथो यस्य स्वं भवति ।
भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ १,३/२५ ॥

तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् ।
तस्य वै स्वर एव सुवर्णम् ।
भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ १,३/२६ ॥

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति ।
तस्य वै वागेव प्रतिष्ठा ।
वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते ।
अन्न इत्यु हैक आहुः ॥ १,३/२७ ॥
अथातः पवमानानामेवाभ्यारोहः ।
स वै खलु प्रस्तोता साम प्रस्तौति ।
स यत्र प्रस्तुयात्तदेतानि जपेत् ।
असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति ।
स यदाहासतो मा सद्गमयेति ।
मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
तमसो मा ज्योतिर्गमयेति ।
मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं  गमयामृतं मा कुर्वित्येवैतदाह ।
मृत्योर्मामृतं गमयेति ।
नात्र तिरोहितमिवास्ति ।
अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् ।
तस्मादु तेषु वरं वृणीत ।
यं कामं कामयेत्तम् ।
स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति ।
तद्धैतल्लोकजिदेव ।
न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ १,३/२८ ॥

आत्मैवेदमग्र आसीत्पुरुषविधः ।
सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् ।
सोऽहमस्मीत्यग्रे व्याहरत् ।
ततोऽहंनामाभवत् ।
तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति ।
स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन औषत्तस्मात्पुरुषः ।
ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १,४/१ ॥

सोऽबिभेत्तस्मादेकाकी बिभेति ।
स हायमीक्षां चक्रे, यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति ।
तत एवास्य भयं वीयाय ।
कस्माद्ध्यभेष्यत् ।
द्वितीयाद्वै भयं भवति ॥ १,४/२ ॥

स वै नैव रेमे ।
तस्मादेकाकी न रमते ।
स द्वितीयमैच्छत् ।
स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ ।
स इममेवात्मानं  द्वेधापातयत् ।
ततः पतिश्च पत्नी चाभवताम् ।
तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः ।
तस्मादयमाकाशः स्त्रिया पूर्यत एव ।
तां समभवत् ।
ततो मनुष्या अजायन्त ॥ १,४/३ ॥

सो हेयमीक्षां चक्रे  कथं नु मात्मन एव जनयित्वा सम्भवति ।
हन्त तिरोऽसानीति ।
सा गौरभवद्वृषभ इतरः ।
तां समेवाभवत् ।
ततो गावोऽजायन्त ।
वडवेतराभवदश्ववृष इतरः ।
गर्दभीतरा गर्दभ इतरः ।
तां समेवाभवत् ।
तत एकशफमजायत ।
अजेतराभवद्बस्त इतरः ।
अविरितरा मेष इतरः ।
तां समेवाभवत् ।
ततोऽजावयो ऽजायन्त ।
एवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ १,४/४ ॥

सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ।
ततः सृष्टिरभवत् ।
सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ १,४/५ ॥

अथेत्यभ्यमन्थत् ।
स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत ।
तस्मादेतदुभयमलोमकमन्तरतः ।
अलोमका हि योनिरन्तरतः ।
तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिः ।
एष उ ह्येव सर्वे देवाः ।
अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत ।
तदु सोम ।
एतावद्वा इदं सर्वमन्नं चैवान्नादश्च ।
सोम एवान्नमग्निरन्नादः ।
सैषा ब्रह्मणोऽतिसृष्टिः ।
यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् ।
अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ १,४/६ ॥

तद्धेदं तर्ह्यव्याकृतमासीत् ।
तन्नामरूपाभ्यामेव व्याक्रियतासौ नामायमिदंरूप इति ।
तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियत असौ नामायमिदंरूप इति ।
स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये ।
तं न पश्यन्ति ।
अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति ।
वदन् वाक्पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनः ।
तान्यस्यैतानि कर्मनामान्येव ।
स योऽत एकैकमुपास्ते न स वेद ।
अकृत्स्नो ह्येषोऽत एकैकेन भवति ।
आत्मेत्येवोपासीत ।
अत्र ह्येते सर्व एकं भवन्ति ।
तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा ।
अनेन ह्येतत्सर्वं वेद ।
यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ १,४/७ ॥

तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा ।
स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् ।
आत्मानमेव प्रियमुपासीत ।
स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ १,४/८ ॥

तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते ।
किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ॥ १,४/९ ॥

ब्रह्म वा इदमग्र आसीत् ।
तदात्मानमेवावेत् ।
अहं ब्रह्मास्मीति ।
तस्मात्तत्सर्वमभवत् ।
तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् ।
तथर्षीनाम् ।
तथा मनुष्याणाम् ।
तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति ।
तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति ।
तस्य ह न देवाश्चनाभूत्या ईशते ।
आत्मा ह्येषां स भवति ।
अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद ।
यथा पशुरेवं स देवानाम् ।
यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान् भुनक्ति ।
एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु ।
तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १,४/१० ॥

ब्रह्म वा इदमग्र आसीदेकमेव ।
तदेकं सन्न व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति ।
तस्मात्क्षत्रात्परं नास्ति ।
तस्माद्ब्राह्मणः क्षत्रियं अधस्तादुपास्ते राजसूये ।
क्षत्र एव तद्यशो दधाति ।
सैषा क्षत्रस्य योनिर्यद्ब्रह्म ।
तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् ।
य उ एनं हिनस्ति स्वां स योनिमृच्छति ।
स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ १,४/११ ॥

स नैव व्यभवत् ।
स विशमसृजत ।
यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १,४/१२ ॥

स नैव व्यभवत् ।
स शौद्रं वर्णमसृजत पूषणम् ।
इयं वै पूषा ।
इयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ १,४/१३ ॥

स नैव व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत धर्मम् ।
तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः ।
तस्माद्धर्मात्परं नास्ति ।
अथो अबलीयान् बलीयांसमाशंसते धर्मेण ।
यथा राज्ञैवम् ।
यो वै स धर्मः सत्यं वै तत् ।
तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति ।
धर्मं वा वदन्तं सत्यं वदतीति ।
एतद्ध्येवैतदुभयं भवति ॥ १,४/१४ ॥

तदेतद्ब्रह्म क्षत्रं विट्शूद्रः ।
तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः ।
तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु ।
एताभ्यां हि रूपाभ्यां ब्रह्माभवत् ।
अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतम् ।
यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव ।
आत्मानमेव लोकमुपासीत ।
स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते ।
अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ १,४/१५ ॥

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः ।
स यज्जुहोति यद्यजते तेन देवानां लोकः ।
अथ यदनुब्रूते तेन ऋषीणाम् ।
अथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणाम् ।
अथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् ।
अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् ।
यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः ।
यथा ह वै स्वाय लोकायारिष्टिमिच्छेत् ।
एवं हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति ।
तद्वा एतद्विदितं मीमांसितम् ॥ १,४/१६ ॥

आत्मैवेदमग्र आसीदेक एव ।
सोऽकामयत जाया मे स्यादथ प्रजायेय ।
अथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
एतावान् वै कामः ।
नेच्छंश्चनातो भूयो विन्देत् ।
तस्मादप्येतर्ह्येकाकी कामयते  जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते ।
तस्यो कृत्स्नता ।
मन एवास्यात्मा ।
वाग्जाया ।
प्राणः प्रजा ।
चक्षुर्मानुषं वित्तम् ।
चक्षुषा हि तद्विन्दते ।
श्रोत्रं दैवम् ।
श्रोत्रेण हि तच्छृणोति ।
आत्मैवास्य कर्म ।
आत्मना हि कर्म करोति ।
स एष पाङ्क्तो यज्ञः ।
पाङ्क्तः पशुः ।
पाङ्क्तः पुरुषः ।
पाङ्क्तमिदं सर्वं यदिदं किञ्च ।
तदिदं सर्वमाप्नोति य एवं वेद ॥ १,४/१७ ॥

यत्सप्तान्नानि मेधया तपसाजनयत्पिता ।
एकमस्य साधारणं द्वे देवानभाजयत् ।
त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा ।
यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन ।
स देवानपिगच्छति स ऊऋजमुपजीवति ।
इति श्लोकाः ॥ १,५/१ ॥

यत्सप्तान्नानि मेधया तपसाजनयत्पितेति ।
मेधया हि तपसाजनयत्पितैकमस्य साधारणमिति ।
इदमेवास्य तत्साधारणमन्नं यदिदमद्यते ।
स य एतदुपास्ते न स पाप्मनो व्यावर्तते ।
मिश्रं ह्येतत् ।
द्वे देवानभाजयदिति ।
हुतं च प्रहुतं च ।
तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति ।
अथो आहुर्दर्शपूर्णमासाविति ।
तस्मान्नेष्टियाजुकः स्यात् ।
पशुभ्य एकं प्रायच्छदिति ।
तत्पयः ।
पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति ।
तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति ।
अथ वत्सं जातमाहुस्तृणादिति ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति ।
पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति ।
न तथा विद्यात् ।
यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् ।
सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं पुनः पुनर्जनयते ।
यो वैतामक्षितिं वेदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं धियाधिया जनयते कर्मभिः ।
यद्धैतन्न कुर्यात्क्षीयेत ह ।
सोऽन्नमत्ति प्रतीकेनेति ।
मुखं प्रतीकं मुखेनेत्येतत् ।
स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ १,५/२ ॥

त्रीण्यात्मनेऽकुरुतेति
मनो वाचं प्राणं तान्यात्मनेऽकुरुत ।
अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति ।
कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव ।
तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति ।
यः कश्च शब्दो वागेव सा ।
एषा ह्यन्तं आयत्तैषा हि न ।
प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एव ।
एतन्मयो वा अयमात्मा ।
वाङ्मयो मनोमयः प्राणमयः ॥ १,५/३ ॥

त्रयो लोका एत एव ।
वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ १,५/४ ॥
त्रयो वेदा एत एव ।
वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ १,५/५ ॥

देवा पितरो मनुष्या एत एव ।
वागेव देवा मनः पितरः, प्राणो मानुष्याः ॥ १,५/६ ॥

पिता माता प्रजैत एव ।
मन एव पिता वाङ्माता प्राणः प्रजा ॥ १,५/७ ॥

विज्ञातं विजिज्ञास्यमविज्ञातमेत एव ।
यत्किञ्च विज्ञातं वाचस्तद्रूपम् ।
वाग्घि विज्ञाता ।
वागेनं तद्भूत्वावति ॥ १,५/८ ॥

यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् ।
मनो हि विजिज्ञास्यम् ।
मन एनं तद्भूत्वावति ॥ १,५/९ ॥

यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् ।
प्राणो ह्यविज्ञातः ।
प्राण एनं तद्भूत्वावति ॥ १,५/१० ॥

तस्यै वाचः पृथिवी शरीरम् ।
ज्योतीरूपमयमग्निः ।
तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ १,५/११ ॥

अथैतस्य मनसो द्यौः शरीरम् ।
ज्योतीरूपमसावादित्यः ।
तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यः ।
तौ मिथुनं समैताम् ।
ततः प्राणोऽजायत ।
स इन्द्रः ।
स एषोऽसपत्नः ।
द्वितीयो वै सपत्नः ।
नास्य सपत्नो भवति य एवं वेद ॥ १,५/१२ ॥

अथैतस्य प्राणस्यापः शरीरम् ।
ज्योतीरूपमसौ चन्द्रः ।
तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः ।
त एते सर्व एव समाः सर्वेऽनन्ताः ।
स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयति ।
अथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ १,५/१३ ॥

स एष संवत्सरः प्रजापतिष्षोडशकलः ।
तस्य रात्रय एव पञ्चदश कला ।
ध्रुवैवास्य षोडशी कला ।
स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते ।
सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते ।
तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १,५/१४ ॥

यो वै स संवत्सरः प्रजापतिः षोडशकालोऽयमेव स योऽयमेवंवित्पुरुषः ।
तस्य वित्तमेव पञ्चदश कलाः ।
आत्मैवास्य षोडशी कला ।
स वित्तेनैवा च पूर्यतेऽप च क्षीयते ।
तदेतन्नभ्यं यदयमात्मा ।
प्रधिर्वित्तम् ।
तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ १,५/१५ ॥

अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा ।
कर्मणा पितृलोकः ।
विद्यया देवलोकः ।
देवलोको वै लोकानां श्रेष्ठः ।
तस्माद्विद्यां प्रशंसन्ति ॥ १,५/१६ ॥
अथातः सम्प्रत्तिः ।
यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह  त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति ।
यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ।
ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ।
ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता ।
एतावद्वा इदं सर्वम् ।
एतन्मा सर्वं सन्नयमितो भुनजदिति ।
तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः ।
तस्मादेनमनुशासति ।
स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति ।
स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम ।
स पुत्रेणैवास्मिल्लोके प्रतितिष्ठति ।
अथैनमेते देवाः प्राणा अमृता आविशन्ति ॥ १,५/१७ ॥

पृथिव्यै चैनमग्नेश्च दैवी वागाविशति ।
सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १,५/१८ ॥

दिवश्चैनमादित्याच्च दैवं मन आविशति ।
तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १,५/१९ ॥

अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति ।
स वै दैवः प्राणो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
स एष एवंवित्सर्वेषां भूतानामात्मा भवति ।
यथैषा देवतैवं सः ।
यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति ।
यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति ।
पुण्यमेवामुं गच्छति ।
न ह वै देवान् पापं गच्छति ॥ १,५/२० ॥

अथातो व्रतमीमांसा ।
प्रजापतिर्ह कर्माणि ससृजे ।
तानि सृष्टान्यन्योऽन्येनास्पर्धन्त ।
वदिष्याम्येवाहमिति वाग्दध्रे ।
द्रक्ष्याम्यहमिति चक्षुः ।
श्रोष्याम्यहमिति श्रोत्रम् ।
एवमन्यानि कर्माणि यथाकर्मम् ।
तानि मृत्युः श्रमो भूत्वोपयेमे ।
तान्याप्नोत् ।
तान्याप्त्वा मृत्युरवारुन्ध ।
तस्माच्छ्राम्यत्येव वाक् ।
श्राम्यति चक्षुः ।
श्राम्यति श्रोत्रम् ।
अथेममेव नाप्नोत्योऽयं मध्यमः प्राणः ।
तानि ज्ञातुं दध्रिरे ।
अयं वै नः श्रेष्ठो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
हन्तास्यैव सर्वे रूपं भवामेति ।
त एतस्यैव सर्वे रूपमभवन् ।
तस्मादेत एतेनाख्यायन्ते प्राणा इति ।
तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद ।
य उ हैवंविदा स्पर्धतेऽनुशुष्यति ।
अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ १,५/२१ ॥

अथाधिदेवतं
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ।
तप्स्याम्यहमित्यादित्यः ।
भास्याम्यहमिति चन्द्रमाः ।
एवमन्या देवता यथादेवतम् ।
स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः ।
म्लोचन्ति ह्यन्या देवता न वायुः ।
सैषानस्तमिता देवता यद्वायुः ॥ १,५/२२ ॥

अथैष श्लोको भवति
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति ।
प्राणाद्वा एष उदेति प्राणेऽस्तमेति ।
तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति ।
यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति ।
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च ।
नेन्मा पाप्मा मृत्युराप्नवदिति ।
यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ १,५/२३ ॥

त्रयं वा इदं नाम रूपं कर्म ।
तेषां नाम्नां वागित्येतदेषामुक्थम् ।
अतो हि सर्वाणि नामान्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वैर्नामभिः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि नामानि बिभर्ति ॥ १,६/१ ॥

अथ रूपाणां चक्षुरित्येतदेषामुक्थम् ।
अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वै रूपैः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि रूपाणि बिभर्ति ॥ १,६/२ ॥

अथ कर्मणामात्मेत्येतदेषामुक्थम् ।
अतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वैः कर्मभिः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि कर्माणि बिभर्ति ।
तदेतत्त्रयं सदेकमयमात्मा ।
आत्मो एकः सन्नेतत्त्रयम् ।
तदेतदमृतं सत्येन छन्नम् ।
प्राणो वा अमृतम् ।
नामरूपे सत्यम् ।
ताभ्यामयं प्राणश्छन्नः ॥ १,६/३ ॥
॥ इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥

 
 

द्वितीयोऽध्यायः

दृप्तबालाकिर्हानूचानो गार्ग्य आस ।
स होवाचाजातशत्रुं काश्यं  ब्रह्म ते ब्रवाणीति ।
स होवाचाजातशत्रुः  सहस्रमेतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति ॥ २,१/१ ॥
स होवाच गार्ग्यः  य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठाः ।
अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २,१/२ ॥

स होवाच गार्ग्यः  य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन्संवदिष्ठाः ।
बृहन् पाण्दरवासाः सोमो राजेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्तेऽहरहर्सुतः प्रसुतो भवति ।
नास्यान्नं क्षीयते ॥ २,१/३ ॥

स होवाच गार्ग्यः  य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन् संवदिष्ठाः ।
तेजस्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते तेजस्वी ह भवति ।
तेजस्विनी हास्य प्रजा भवति ॥ २,१/४ ॥

स होवाच गार्ग्यः  य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन् संवदिष्ठाः ।
पूर्णमप्रवर्तीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ २,१/५ ॥

स होवाच गार्ग्यः  य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन्संवदिष्ठाः ।
इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ २,१/६ ॥

स होवाच गार्ग्यः  य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन्संवदिष्ठाः ।
विषासहिरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते विषासहिर्ह भवति ।
विषासहिर्हास्य प्रजा भवति ॥ २,१/७ ॥
स होवाच गार्ग्यः  य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन्संवदिष्ठाः ।
प्रतिरूप इति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपम् ।
अथो प्रतिरुपोऽस्माज्जायते ॥ २,१/८ ॥

स होवाच गार्ग्यः  य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन् संवदिष्ठाः ।
रोचिष्णुरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते रोचिष्णुर्ह भवति ।
रोचिष्णुर्हास्य प्रजा भवति ।
अथो यैः संनिगच्छति ।
सर्वांस्तानतिरोचते ॥ २,१/९ ॥

स होवाच गार्ग्यः  य एवायं यन्तं पश्चाच्छब्बोऽनूदेत्येतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन् संवदिष्ठाः ।
असुरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति ।
नैनं पुरा कालात्प्राणो जहाति ॥ २,१/१० ॥

स होवाच गार्ग्यः  य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन् संवदिष्ठाः ।
द्वितीयोऽनपग इति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते द्वितीयवान् ह भवति ।
नास्माद्गणश्छिद्यते ॥ २,१/११ ॥

स होवाच गार्ग्यः  य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन्संवदिष्ठाः ।
मृत्युरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति ।
नैनं पुरा कालान्मृत्युरागच्छति ॥ २,१/१२ ॥

स होवाच गार्ग्यः  य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः  मा मैतस्मिन् संवदिष्ठाः ।
आत्मन्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्त आत्मन्वी ह भवति ।
आत्मन्विनी हास्य प्रजा भवति ।
स ह तूष्णीमास गार्ग्यः ॥ २,१/१३ ॥

स होवाचाजातशत्रुः  एतावन्नू३ इति ।
एतावद्धीति ।
नैतावता विदितं भवतीति ।
स होवाच गार्ग्यः  उप त्वायानीति ॥ २,१/१४ ॥

स होवाचाजातशत्रुः  प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति ।
व्येव त्वा ज्ञपयिष्यामीति ।
तं पाणावादायोत्तस्थौ ।
तौ ह पुरुषं सुप्तमाजग्मतुः ।
तमेतैर्नामभिरामन्त्रयां चक्रे बृहन् पाण्दरवासः सोम राजन्निति ।
स नोत्तस्थौ ।
तं पाणिनापेषं बोधयां चकार ।
स होत्तस्थौ ॥ २,१/१५ ॥

स होवाचाजातशत्रुः  यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति ।
तदु ह न मेने गार्ग्यः ॥ २,१/१६ ॥

स होवाचाजातशत्रुः  यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्नानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ।
तानि यदा गृह्णाति ।
अथ हैतत्पुरुषः स्वपिति नाम ।
तद्गृहीत एव प्राणो भवति ।
गृहीता वाग् ।
गृहीतं चक्षुर् ।
गृहीतं श्रोत्रम् ।
गृहीतं मनः ॥ २,१/१७ ॥

स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकाः ।
तदुतेव महाराजो भवत्युतेव महाब्राह्मणः ।
उतेवोच्चावचं निगच्छति ।
स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ २,१/१८ ॥

अथ यदा सुषुप्तो भवति ।
यदा न कस्य चन वेद ।
हिता नाम नाद्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ।
ताभिः प्रत्यवसृप्य पुरीतति शेते ।
स यथा कुमारो अद्द्/ वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीत ।
एवमेवैष एतच्छेते ॥ २,१/१९ ॥

स यथोर्णवाभिस्तन्तुनोच्चरेद्यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति ।
तस्योपनिषत्सत्यस्य सत्यमिति ।
प्राणा वै सत्यं तेषामेष सत्यम् ॥ २,१/२० ॥

यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि ।
अयं वाव शिशुर्योऽयं मध्यमः प्राणः ।
तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ २,२/१ ॥

तमेताः सप्ताक्षितय उपतिष्ठन्ते ।
तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः ।
अथ या अक्षन्नापस्ताभिः पर्जन्यः ।
या कनीनका तयादित्यः ।
यत्कृष्णं तेनाग्निर् ।
यच्छुक्लं तेनेन्द्रः ।
अधरयैनं वर्तन्या पृथिव्यन्वायत्ता ।
द्यौरुत्तरया ।
नास्यान्नं क्षीयते य एवं वेद ॥ २,२/२ ॥

तदेष श्लोको भवति
अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति ।
अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति ।
इदं तच्छरीर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः ।
तस्मिन् यशो निहितं विश्वरूपमिति ।
प्राणा वै यशो विश्वरूपम् ।
प्राणानेतदाह ।
तस्यासत ऋषयः सप्त तीर इति ।
प्राणा वा ऋषयः ।
प्राणाणेतदाह ।
वागष्टमी ब्रह्मणा संविदानेति ।
वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ २,२/३ ॥

इमावेव गोतमभरद्वाजौ ।
अयमेव गोतमोऽयं भरद्वाजः ।
इमावेव विश्वामित्रजमदग्नी ।
अयमेव विश्वामित्रोऽयं जमदग्निः ।
इमावेव वसिष्ठकश्यपौ ।
अयमेव वसिष्ठोऽयं कश्यपः ।
वागेवात्रिः ।
वाचा ह्यन्नमद्यते ।
अत्तिर्ह वै नामैतद्यदौत्रिरिति ।
सर्वस्यात्ता भवति ।
सर्वमस्यान्नं भवति य एवं वेद ॥ २,२/४ ॥

द्वे वाव ब्रह्मणो रूपे ।
मूर्तं चैवामूर्तं च ।
मर्त्यं चामृतं च ।
स्थितं च यच्च ।
सच्च त्यं च ॥ २,३/१ ॥

तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च ।
एतन्मर्त्यम् ।
एतत्स्थितम् ।
एतत्सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति ।
सतो ह्येष रसः ॥ २,३/२ ॥
अथामूर्तम् ।
वायुश्चान्तरिक्षश्च ।
एतदमृतम् ।
एतद्यत् ।
एतत्त्यम् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः ।
त्यस्य ह्येष रस ।
इत्यधिदैवतम् ॥ २,३/३ ॥

अथाध्यात्मम् ।
इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाशः ।
एतन्मर्त्यम् ।
एतत्स्थितम् ।
एतत्सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः ।
सतो ह्येष रसः ॥ २,३/४ ॥

अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः ।
एतदमृतम् ।
एतद्यत् ।
एतत्त्यत् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन् पुरुषः ।
त्यस्य ह्येष रसः ॥ २,३/५ ॥

तस्य हैतस्य पुरुषस्य रूपम् ।
यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् ।
सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद ।
अथात आदेशो नेति नेति ।
न ह्येतस्मादिति नेत्यन्यत्परमस्ति ।
अथ नामधेयं सत्यस्य सत्यमिति ।
प्राणा वै सत्यम् ।
तेषामेष सत्यम् ॥ २,३/६ ॥

मैत्रेयीति होवाच याज्ञवल्क्यः  उद्यास्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ २,४/१ ॥

सा होवाच मैत्रेयी  यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २,४/२ ॥

सा होवाच मैत्रेयी  येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ २,४/३ ॥

स होवाच याज्ञवल्क्यः  प्रिया बतारे नः सती प्रियं भाषसे ।
एह्यास्स्व ।
व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ २,४/४ ॥

स होवाच  न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ २,४/५ ॥

ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ २,४/६ ॥

स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ २,४/७ ॥

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ २,४/८ ॥

स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ २,४/९ ॥

स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येव वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि ।
अस्यैवैतानि निश्वसितानि ॥ २,४/१० ॥

स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥ २,४/११ ॥

स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् ।
यतोयतस्त्वाददीत लवणम् ।
एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ २,४/१२ ॥

सा होवाच मैत्रेयी  अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति ।
स होवाच  न वा अरेऽहं मोहं ब्रवीमि ।
अलं वा अर इदं विज्ञानाय ॥ २,४/१३ ॥

यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति ।
यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
विज्ञातारमरे केन विजानीयादिति ॥ २,४/१४ ॥

इयं पृथिवी सर्वेषां भूतानां मधु ।
अस्यै पृथिव्यै सर्वाणि भूतानि मधु ।
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यस्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/१ ॥

इमा आपः सर्वेषां भूतानां मधु ।
आसामपां सर्वाणि भूतानि मधु ।
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/२ ॥

अयमग्निः सर्वेषां भूतानां मधु ।
अस्याग्नेः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/३ ॥

अयं वायुः सर्वेषां भूतानां मधु ।
अस्य वायोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो यमेव स योऽयमात्मा ।
इदं अमृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/४ ॥

अयमादित्यः सर्वेषां भूतानां मधु ।
अस्यादित्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/५ ॥

इमा दिशः सर्वेषां भूतानां मधु ।
आसां दिशां सर्वाणि भूतानि मधु ।
यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/६ ॥

अयं चन्द्रः सर्वेषां भूतानां मध्व् ।
अस्य चन्द्रस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम् ।
इदं ब्रह्मेदं सर्वम् ॥ २,५/७ ॥

इयं विद्युत्सर्वेषां भूतानं मधु ।
अस्यै विद्युतः सर्वाणि भूतानि मधु ।
यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/८ ॥

अयं स्तनयित्नुः सर्वेषां भुतानां मधु ।
अस्य स्तनयित्नोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/९ ॥

अयमाकाशः सर्वेषां भूतानां मधु ।
अस्याकाशस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/१० ॥

अयं धर्मः सर्वेषां भूतानां मधु ।
अस्य धर्मस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/११ ॥

इदं सत्यं सर्वेषां भूतानां मधु ।
अस्य सत्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/१२ ॥

इदं मानुषं सर्वेषां भूतानां मधु ।
अस्य मानुषस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/१३ ॥

अयमात्मा सर्वेषां भूतानां मधु ।
अस्यात्मनः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५/१४ ॥॥

स वा अयमात्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा ।
तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः ।
एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ २,५/१५ ॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ २,५/१६ ॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
स वां मधु प्र वोचदृतायन् त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वामिति ॥ २,५/१७ ॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः ।
पुरः स पक्षी भुत्वा पुरः पुरुष आविशदिति ।
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः ।
नैनेन किं चनानावृतम् ।
नैनेन किं चनासंवृतम् ॥ २,५/१८ ॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति ।
अयं वै हरयोऽयं वै दश च सहस्रणि बहूनि चानन्तानि च ।
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् ।
अयमात्मा ब्रह्म सर्वानुभूः ।
इत्यनुशासनम् ॥ २,५/१९ ॥

अथ वंशः
पौतिमाष्यो गौपवनात् ।
गौपवनः पशुतिमाष्यात् ।
पशुतिमाष्यो गौपवनात् ।
गौपवनः कौशिकात् ।
कौशिकः कौण्डिन्यात् ।
कौण्डिन्यः शाण्डिल्यात् ।
शाण्डिल्यः कौशिकाच्च गौतमाच्च ।
गौतमः ॥ २,६/१ ॥

आग्निवेश्यात् ।
आग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च ।
आनभिम्लात आनभिम्लातात् ।
आनभिम्लात आनभिम्लातात् ।
आनभिम्लातो गौतमात् ।
गौतमः सैतवप्राचीनयोग्याभ्याम् ।
सैतवप्राचीनयोग्यौ पाराशर्यात् ।
पाराशर्यो भारद्वाजात् ।
भारद्वाजो भारद्वाजाच्च गौतमाच्च ।
गौतमो भारद्वाजात् ।
भारद्वाजः पाराशर्यात् ।
पाराशर्यो वैजवापायनात् ।
वैजवापायनः कौशिकायनेः ।
कौशिकायनिः ॥ २,६/२ ॥

घृतकौशिकात् ।
घृतकौशिकः प्राशर्यायणात् ।
पारशर्यायणः पाराशर्यात् ।
पाराशर्यो जातूकर्ण्यात् ।
जातूकर्ण्य आसुरायणाच्च यास्काच्च ।
आसुरायणस्त्रैवणेः ।
त्रैवणिरौपजन्धनेः ।
औपजन्धनिरासुरेः ।
आसुरिर्भारद्वाजात् ।
भारद्वाज आत्रेयात् ।
आत्रेयो माण्टेः ।
माण्टिर्गौतमात् ।
गौतमो वात्स्यात् ।
वात्स्यः शाण्डिल्यात् ।
शाण्डिल्यः कैशोर्यात्काप्यात् ।
कैशोर्यः काप्यः कुमारहारितात् ।
कुमारहारितो गालवात् ।
गालवो विदर्भीकौण्डिन्यात् ।
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् ।
वत्सनपाद्बाभ्रवः पथः सौभरात् ।
पन्थाः सौभरोऽयास्यादाङ्गिरसात् ।
अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात् ।
आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् ।
विश्वरूपस्त्वाष्ट्रोऽव्शिभ्याम् ।
अश्विनौ दधीच आथर्वणात् ।
दध्यङ्ङाथर्वणोऽथर्वणो दैवात् ।
अथर्वा दैवो मृत्योः प्राध्वंसनात् ।
मृत्युः प्राध्वंसनः प्रध्वंसनात् ।
प्रध्वंसन एकर्षेः ।
एकर्षिर्विप्रचित्तेः ।
विप्रचित्तिर्व्यष्टेर् ।
व्यष्टिः सनारोः ।
सनारुः सनातनात् ।
सनातनः सनगात् ।
सनगः परमेष्ठिनः ।
परमेष्ठी ब्रह्मणः ।
ब्रह्म स्वयंभु ।
ब्रह्मणे नमः ॥ २,६/३ ॥
॥ इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ॥
 
 
 

तृतीयोध्यायः

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ।
तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः ।
तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव  कः स्विदेषां ब्राह्मणानामनूचानतम इति ।
स ह गवां सहस्रमवरुरोध ।
दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ ३,१/१ ॥

तान् होवाच  ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति ।
ते ह ब्राह्मणा न दधृषुः ।
अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाच  एताः सौम्योदज सामश्रवा३ इति ।
ता होदाचकार ।
ते ह ब्राह्मणाश्चुक्रुधुः  कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति ।
अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव ।
स हैनं पप्रच्छ  त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति ।
स होवाच  नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति ।
तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ ३,१/२ ॥

याज्ञवल्क्येति होवाच  यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति ।
होत्रर्त्विजाग्निना वाचा ।
वाग्वै यज्ञस्य होता ।
तद्येयं वाक्सोऽयमग्निः स होता सा मुक्तिः सातिमुक्तिः ॥ ३,१/३ ॥

याज्ञवल्क्येति होवाच  यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इति ।
अध्वर्युणर्त्विजा चक्षुषादित्येन ।
चक्षुर्वै यज्ञस्याध्वर्युः ।
तद्यदिदं चक्षुः सोऽसावादित्यः ।
सोऽध्वर्युः सा मुक्तिः सातिमुक्तिः ॥ ३,१/४ ॥

याज्ञवल्क्येति होवाच  यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति ।
उद्गात्रर्त्विजा वयुना प्राणेन ।
प्राणो वै यज्ञस्योद्गाता ।
तद्योऽयं प्राणः स वायुः स उद्गाता ।
स मुक्तिः सातिमुक्तिः ॥ ३,१/५ ॥

याज्ञवल्क्येति होवाच  यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ।
ब्रह्मणर्त्विजा मनसा चन्द्रेण ।
मनो वै यज्ञस्य ब्रह्मा ।
तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा ।
अथ संपदः ॥ ३,१/६ ॥

याज्ञवल्क्येति होवाच  कतिभिरयमद्यर्ग्भिर्होतास्मिन् यज्ञे करिष्यतीति ।
तिसृभिरिति ।
कतमास्तास्तिस्र इति ।
पुरोनुवाक्या च याज्या च शस्यैव तृतीया ।
किं ताभिर्जयतीति ।
यत्किञ्चेदं प्राणभृदिति ॥ ३,१/७ ॥

याज्ञवल्क्येति होवाच  कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्होष्यतीति ।
तिस्र इति ।
कतमास्तास्तिस्र इति ।
या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते ।
किं ताभिर्जयतीति ।
या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति ।
दीप्यत इव हि देवलोको ।
या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयति ।
अतीव हि पितृलोकः ।
या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यि ।
अध इव हि मनुष्यलोकः ॥ ३,१/८ ॥

याज्ञवल्क्येति होवाच  कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीति ।
एकयेति ।
कतमा सैकेति ।
मन एवेति ।
अनन्तं वै मनोऽनन्ता विश्वे देवाः ।
अनन्तमेव स तेन लोकं जयति ॥ ३,१/९ ॥

याज्ञवल्क्येति होवाच  कत्ययमद्योद्गातास्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति ।
तिस्र इति ।
कतमास्तास्तिस्र इति ।
पुरोनुवाक्या च याज्या च शस्यैव तृतीया ।
कतमास्ताः ।
या अध्यात्ममिति ।
प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या ।
किं ताभिर्जयतीति ।
पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ।
ततो ह होताश्वल उपरराम ॥ ३,१/१० ॥

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ ।
याज्ञवल्क्येति होवाच  कति ग्रहाः कत्यतिग्रहा इति ।
अष्टौ ग्रहा अष्टावतिग्रहा इति ।
ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ ३,२/१ ॥

प्राणो वै ग्रहः ।
सोऽपानेनातिग्रहेण गृहीतः ।
प्राणेन हि गन्धाञ्जिघ्रति ॥ ३,२/२ ॥

वाग्वै ग्रहः ।
स नाम्नातिग्रहेण गृहीतः ।
वाचा हि नामान्यभिवदति ॥ ३,२/३ ॥

जिह्वा वै ग्रहः ।
स रसेनातिग्रहेण गृहीतः ।
जिह्वया हि रसान् विजानाति ॥ ३,२/४ ॥

चक्षुर्वै ग्रहः ।
स रूपेणातिग्रहेण गृहीतः ।
चक्षुषा हि रूपाणि पश्यति ॥ ३,२/५ ॥

श्रोत्रं वै ग्रहः ।
स शब्देनातिग्रहेण गृहीतः ।
श्रोत्रेण हि शब्दाञ्शृणोति ॥ ३,२/६ ॥

मनो वै ग्रहः ।
स कामेनातिग्रहेण गृहीतः ।
मनसा हि कामान् कामयते ॥ ३,२/७ ॥

हस्तौ वै ग्रहः ।
स कर्मणातिग्रहेण गृहीतः ।
हस्ताभ्यां हि कर्म करोति ॥ ३,२/८ ॥

त्वग्वै ग्रहः ।
स स्पर्शेनातिग्रहेण गृहीतः ।
त्वचा हि स्पर्शान् वेदयत ।
इत्यष्टौ ग्रहा अष्टावतिग्रहाः ॥ ३,२/९ ॥

याज्ञवल्क्येति होवाच  यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमिति ।
अग्निर्वै मृत्युः सोऽपामन्नम् ।
अप पुनर्मृत्युं जयति ॥ ३,२/१० ॥

याज्ञवल्क्येति होवाच  यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति ।
नेति होवाच याज्ञवल्क्यः ।
अत्रैव समवनीयन्ते ।
स उच्छ्वयति ।
आध्मायति ।
आध्मातो मृतः शेते ॥ ३,२/११ ॥
याज्ञवल्क्येति होवाच  यत्रायं पुरुषो म्रियते ।
किमेनं न जहातीति ।
नामेति ।
अनन्तं वै नामानन्ता विश्वे देवाः ।
अनन्तमेव स तेन लोकं जयति ॥ ३,२/१२ ॥

याज्ञवल्क्येति होवाच  यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीति ।
आहर सौम्य हस्तम्  आर्तभाग ।
आवामेवैतस्य वेदिष्यावो न नावेतत्सजन इति ।
तौ होत्क्रम्य मन्त्रयां चक्राते ।
तौ ह यदूचतुः कर्म हैव तदूचतुः ।
अथ ह यत्प्रशंसतुः कर्म हैव तत्प्रशशंसतुः ।
पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ।
ततो ह जारत्कारव आर्तभाग उपरराम ॥ ३,२/१३ ॥

अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ  याज्ञवल्क्येति होवाच  मद्रेषु चरकाः पर्यव्रजाम ।
ते पतञ्चलस्य काप्यस्य गृहानैम ।
तस्यासीद्दुहिता गन्धर्वगृहीता ।
तमपृच्छाम कोऽसीति ।
सोऽब्रवीत्सुधन्वाङ्गिरस इति ।
तं यदा लोकानामन्तानपृच्छाम ।
अथैनमब्रूम  क्व पारिक्षिता अभवन्निति ।
क्व पारिक्षिता अभवन् ।
स त्वा पृच्छामि याज्ञवल्क्य ।
क्व पारिक्षिता अभवन्निति ॥ ३,३/१ ॥

स होवाच  उवाच वै सः ।
अगच्छन् वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति ।
क्व न्वश्वमेधयाजिनो गच्छन्तीति ।
द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकः ।
तं समन्तं पृथिवी द्विस्तावत्पर्येति ।
तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति ।
तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्त्रं तावानन्तरेणाकाशः तानैन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् ।
तान् वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्निति ।
एवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिः ।
अप पुनर्मृत्युं जयति य एवं वेद ।
ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ ३,३/२ ॥

अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ ।
याज्ञवल्क्येति होवाच  यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ।
योऽपानेनापानिति स त आत्मा सर्वान्तरः ।
यो व्यानेन व्यनिति स त आत्मा सर्वान्तरः ।
य उदानेनोदनिति स त आत्मा सर्वान्तरः ।
एष त आत्मा सर्वान्तरः ॥ ३,४/१ ॥

स होवाचोषस्तश्चाक्रायणः  यथा वै ब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति ।
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरः ।
न दृष्टेर्द्रष्टारं पश्येः ।
न श्रुतेः श्रोतारं शृणुयाः ।
न मतेर्मन्तारं मन्वीथा ।
न विज्ञातेर्विज्ञातारं विजानीयाः ।
एष त आत्मा सर्वान्तरः ।
अतोऽन्यदार्तम् ।
ततो होषस्तश्चाक्रायण उपरराम ॥ ३,४/२ ॥

अथ हैनं कहोलः कौषीतकेयः पप्रच्छ  याज्ञवल्क्येति होवाच ।
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरः ।
योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति ।
एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति ।
या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा ।
उभे ह्येते एषणे एव भवतः ।
तस्माद्ब्रामणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् ।
बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः ।
अमौनं च मौनं च निर्विद्याथ ब्राह्मणः ।
स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव ।
अतोऽन्यदार्तम् ।
ततो ह कहोलः कौषीतकेय उपरराम ॥ ३,५/१ ॥

अथ हैनं गार्गी वाचक्नवी पप्रच्छ  याज्ञवल्क्येति होवाच ।
यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति ।
वायौ गार्गीति ।
कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति ।
अन्तरिक्षलोकेषु गार्गीति ।
कस्मिन्नु खल्वन्तरिक्षलोका ओतश्च प्रोतश्चेति ।
गन्धर्वलोकेषु गार्गीति ।
कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति ।
अदित्यलोकेषु गार्गीति ।
कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति ।
चन्द्रलोकेषु गार्गीति ।
कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति ।
नक्षत्रलोकेषु गार्गीति ।
कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति ।
देवलोकेषु गार्गीति ।
कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति ।
इन्द्रलोकेषु गार्गीति ।
कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति ।
प्रजापतिलोकेषु गार्गीति ।
कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ।
ब्रह्मलोकेषु गार्गीति ।
कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति ।
स होवाच  गार्गि मातिप्राक्षीः ।
मा ते मूर्धा व्यपप्तत् ।
अनतिप्रश्न्यां वै देवतामतिपृच्छसि ।
गार्गि मातिप्राक्षीरिति ।
ततो ह गार्गी वाचक्नव्युपरराम ॥ ३,६/१ ॥

अथैनमुद्दालक आरुणिः पप्रच्छ  याज्ञवल्क्येति होवाच ।
मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानाः ।
तस्यासीद्भार्या गन्धर्वगृहीता ।
तमपृच्छाम  कोऽसीति ।
सोऽब्रवीत्कबन्ध आथर्वण इति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च  वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति ।
सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद्भगवन् वेदेति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च ।
वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति ।
सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन् वेदेति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च ।
यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स आत्मवित्स सर्ववित् ।
इति तेभ्योऽब्रवीत् ।
तदहं वेद ।
तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यति ।
वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति ।
यो वा इदं कश्च ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ ३,७/१ ॥

स होवच  वायुर्वै गौतम तत्सूत्रम् ।
वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति ।
तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति ।
वायुना हि गौतम सूत्रेण सम्दृब्धानि भवन्तीति ।
एवमेवैतद्याज्ञवल्क्य ।
अन्तर्यामिणं ब्रूहीति ॥ ३,७/२ ॥

यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/३ ॥

योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/४ ॥

योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/५ ॥

योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/६ ॥

यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/७ ॥

यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/८ ॥

य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/९ ॥

यो दिक्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/१० ॥

यश्चन्द्रतारके तिष्ठञ्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/११ ॥

य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/१२ ॥

यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/१३ ॥

यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/१४ ॥

अथाधिभूतम् ।
यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ।
इत्यधिभूतम् ॥ ३,७/१५ ॥

अथाध्यात्मम् । यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ३,७/१६ ॥

यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/१७ ॥

यश्चक्षुषि तिष्ठञ्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/१८ ॥

यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/१९ ॥

यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/२० ॥

यस्त्वचि तिष्ठंस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/२१ ॥

यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७/२२ ॥

यो रेतसि तिष्ठं रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ।
अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञतो विज्ञाता ।
नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता ।
एष त आत्मान्तर्याम्यमृतः ।
अतोऽन्यदार्तम् ।
ततो होद्दालक आरुणिरुपरराम ॥ ३,७/२३ ॥

अथ ह वाचक्नव्युवाच  ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि ।
तौ चेन्मे विवक्ष्यति ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
पृच्छ गार्गीति ॥ ३,८/१ ॥

सा होवाच  अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् ।
तौ मे ब्रूहीति ।
पृच्छ गार्गीति ॥ ३,८/२ ॥

सा होवाच  यदूर्ध्वं  याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३,८/३ ॥

स होवाच  यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ ३,८/४ ॥

सा होवच  नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ३,८/५ ॥

सा होवाच  यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३,८/६ ॥
स होवाच  यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति ।
कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ३,८/७ ॥

स होवाच  एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखमगात्रमनन्तरमबाह्यम् (Vआऋ fओरगात्रममात्रम्) ।
न तदश्नाति किं चन ।
न तदश्नाति कश्चन ॥ ३,८/८ ॥

एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति ।
एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु ।
एतस्य वा अक्षरस्य प्रशासने गार्गि मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ३,८/९ ॥वा अक्षरस्य्

यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति
यो वा एतदक्षरमविदित्वा गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः ।
अथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ ३,८/१० ॥

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ ।
नान्यदतोऽस्ति द्रष्टृ ।
नान्यदतोऽस्ति श्रोतृ ।
नान्यदतोऽस्ति मन्तृ ।
नान्यदतोऽस्ति विज्ञातृ ।
एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च ॥ ३,८/११ ॥

सा होवाच  ब्राह्मणा भगवन्तस्तदेव बहु मन्यध्वं यदस्मान्नमस्कारेण मुच्येध्वम् ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
ततो ह वाचक्नव्युपरराम ॥ ३,८/१२ ॥

अथ हैनं विदग्धः शाकल्यः पप्रच्छ  कति देवा याज्ञवल्क्येति ।
स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते ।
त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
त्रयस्त्रिंशदिति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
षडिति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
त्रय इति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
द्वाविति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
अध्यर्ध इति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
एक इति ।
ओमिति होवाच ।
कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ ३,९/१ ॥

स होवाच  महिमान एवैषामेते ।
त्रयस्त्रिंशत्त्वेव देवा इति ।
कतमे ते त्रयस्त्रिंशदिति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्याः त एकत्रिंशदैन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ ३,९/२ ॥

कतमे वसव इति ।
अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौः च चन्द्रमाश्च नक्षत्राणि चैते वसवः ।
एतेषु हीदं सर्वं वसु हितं इति तस्माद्वसव इति ॥ ३,९/३ ॥

कतमे रुद्रा इति ।
दशेमे पुरुषे प्राणा आत्मैकादशः ।
ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति ।
तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ३,९/४ ॥
कतम आदित्या इति ।
द्वादश वै मासाः संवत्सरस्यैत आदित्याः ।
एते हीदं सर्वमाददाना यन्ति ।
ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ३,९/५ ॥

कतम इन्द्रः कतमः प्रजापतिरिति ।
स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति ।
कतमः स्तनयित्नुरिति ।
अशनिरिति ।
कतमो यज्ञ इति ।
पशव इति ॥ ३,९/६ ॥

कतमे षडिति ।
अग्निश्च पृथिवी च वायुश्चान्तरिक्षश्चादित्यश्च द्यौश्चैते षट् ।
एते हीदं सर्वं षडिति ॥ ३,९/७ ॥

कतमे ते त्रयो देवा इति ।
इम एव त्रयो लोकाः ।
एषु हीमे सर्वे देवा इति ।
कतमौ तौ द्वौ देवा इति ।
अन्नं चैव प्राणश्चेति ।
कतमोऽध्यर्ध इति ।
योऽयं पवत इति ॥ ३,९/८ ॥

तदाहुर्यदयमेक इवैव पवते ।
अथ कथमध्यर्ध इति ।
यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति ।
कतम एको देव इति ।
प्राण इति ।
स ब्रह्म त्यदित्याचक्षते ॥ ३,९/९ ॥

पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं शारीरः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
अमृतमिति होवाच ॥ ३,९/१० ॥

काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं काममयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
स्त्रिय इति होवाच ॥ ३,९/११ ॥

रूपाण्येव यस्यायतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवासावादित्ये पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
सत्यमिति होवाच ॥ ३,९/१२ ॥

आकश एव यस्यायतनं श्रोत्रं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं श्रौतः प्रातिश्रुत्कः पुरुषः स एष ।
वदैव शाकल्य तस्य का देवतेति ।
दिश इति होवच ॥ ३,९/१३ ॥

तम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं छायामयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
मृत्युरिति होवाच ॥ ३,९/१४ ॥

रूपाण्येव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायमादर्शे पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
सत्यमिति होवाच ॥ ३,९/१५ ॥
आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं अप्सु पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
वरुण इति होवाच ॥ ३,९/१६ ॥

रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं पुत्रमयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
प्रजापतिरिति होवाच ॥ ३,९/१७ ॥

शाकल्येति होवाच याज्ञवल्क्यः ।
त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥ ३,९/१८ ॥

याज्ञवल्क्येति होवाच शाकल्यः ।
यदिदं कुरुपञ्चालानां ब्राह्मनानत्यवादीः किं ब्रह्म विद्वानिति ।
दिशो वेद सदेवाः सप्रतिष्ठा इति ।
यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ ३,९/१९ ॥

किंदेवतोऽस्यां प्राच्यां दिश्यसीति ।
आदित्यदेवत इति ।
स आदित्यः कस्मिन् प्रतिष्ठित इति ।
चक्षुषीति ।
कस्मिन्नु चक्षुः प्रतिष्ठितमिति ।
रूपेष्विति ।
चक्षुषा हि रूपाणि पश्यति ।
कस्मिन्नु रूपाणि प्रतिष्ठितानीति ।
हृदय इति होवाच ।
हृदयेन हि रूपाणि जानाति ।
हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ३,९/२० ॥
किंदेवतोऽस्यां दक्षिणायां दिश्यसीति ।
यमदेवत इति ।
स यमः कस्मिन् प्रतिष्ठित इति ।
यज्ञ इति ।
कस्मिन्नु यज्ञः प्रतिष्ठित इति ।
दक्षिणायामिति ।
कस्मिन्नु दक्षिणा प्रतिष्ठितेति ।
श्रद्धायामिति ।
यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति ।
श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति ।
कस्मिन्नु श्रद्धा प्रतिष्ठितेति ।
हृदय इति होवाच ।
हृदयेन हि श्रद्धाम् ।
हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ३,९/२१ ॥

किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति ।
वरुणदेवत इति ।
स वरुणः कस्मिन् प्रतिष्ठित इति ।
अप्स्विति ।
कस्मिन्न्वापः प्रतिष्ठिता इति ।
रेतसीति ।
कस्मिन्नु रेतः प्रतिष्ठितमिति ।
हृदय इति ।
तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति ।
हृदये ह्येव रेतः प्रतिष्ठितं भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ३,९/२२ ॥

किंदेवतोऽस्यामुदीच्यां दिश्यसीति ।
सोमदेवत इति ।
स सोमः कस्मिन् प्रतिष्ठित इति ।
दीक्षायामिति ।
कस्मिन्नु दिक्षा प्रतिष्ठितेति ।
सत्य इति ।
तस्मादपि दीक्षितमाहुः सत्यं वदेति ।
सत्ये ह्येव दीक्षा प्रतिष्ठितेति ।
कस्मिन्नु सत्यं प्रतिष्ठितमिति ।
हृदय इति होवाच ।
हृदयेन हि सत्यं जानाति ।
हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ३,९/२३ ॥

किंदेवतोऽस्यां ध्रुवायां दिश्यसीति ।
अग्निदेवत इति ।
सोऽग्निः कस्मिन् प्रतिष्ठित इति ।
वाचीति ।
कस्मिन्नु वाक्प्रतिष्ठितेति ।
हृदय इति ।
कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ ३,९/२४ ॥

अहल्लिकेति होवाच याज्ञवल्क्यः ।
यत्रैतदन्यत्रास्मन्मन्यासै ।
यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ ३,९/२५ ॥

कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति ।
प्राण इति ।
कस्मिन्नु प्राणः प्रतिष्ठित इति ।
अपान इति ।
कस्मिन्न्वपानः प्रतिष्ठित इति ।
व्यान इति ।
कस्मिन्नु व्यानः प्रतिष्ठित इति ।
उदान इति ।
कस्मिन्नूदानः प्रतिष्ठित इति ।
समान इति ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न सज्यते ।
असितो न व्यथते ।
न रिष्यति ।
एतान्यष्टावायतनान्यष्टौ लोका अद्द्/ अष्टौ देवा अष्टौ पुरुषाः ।
स यस्तान् पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि ।
तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति ।
तं ह न मेने शाकल्यस्।
तस्य ह मूर्धा विपपात ।
अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ ३,९/२६ ॥

अथ होवाच  ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु ।
सर्वे वा मा पृच्छत ।
यो वः कामयते तं वः पृच्छामि सर्वान् वा वः पृच्छामीति ।
ते ह ब्राह्मणा न दधृषुः ॥ ३,९/२७ ॥

तान् हैतैः श्लोकैः पप्रच्छ
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा ।
तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ ३,९/२८/१ ॥

त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः ।
तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाहतात् ॥ ३,९/२८/२ ॥

मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् ।
अस्थीन्यन्तरतो दारुणि मज्जा मज्जोपमा कृता ॥ ३,९/२८/३ ॥

यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः ।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ३,९/२८/४ ॥

रेतस इति मा वोचत जीवतस्तत्प्रजायते ।
धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ३,९/२८/५ ॥

यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् ।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ३,९/२८/६ ॥

जात एव न जायते को न्वेनं जनयेत्पुनः ।
विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ ३,९/२८/७ ॥

जात एव न जायते को न्वेनं जनयेत्पुनः ।
विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥
तिष्ठमानस्य तद्विद इति ॥ ३,९/२८/८ ॥
 
॥ इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥
 

>>बृहदारण्यकोपनिषत् (भाग २)

अन्य उपनिषद यहाँ से पढें

Share This Article:

Related Posts

1 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *