उपनिषद्
माण्डूक्योपनिषद्
॥ अथ माण्डूक्योपनिषद् ॥
ॐ इत्येतदक्षरमिदं
सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव ।
यच्चान्यत्त्रिकालातीतं
तदप्योंकार एव ॥१॥
सर्वं ह्येतद्ब्रह्मायमात्मा
ब्रह्म सोऽयमात्मा चतुष्पात् ॥२॥
जागरितस्थानो
बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥३॥
स्वप्रस्थानोऽन्तःप्रज्ञः
सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥४॥
यत्र सुप्तो
न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान
एकीभूतः प्रज्ञानघन एवान्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञः तृतीयः पादः ॥५॥
एषः सर्वेश्वर
एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥६॥
नान्तःप्रज्ञं
न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं
प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते ।
स आत्मा स
विज्ञेयः ॥७॥
सोऽयमात्माध्यक्षरमोंकारः
।
अधिमात्रं
पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥८॥
जागरितस्थानो
वैश्वानरः अकारः प्रथमा मात्राप्तेरादिमत्त्वाद्वा ।
आप्नोति ह
वै सर्वान् कामानादिश्च भवति य एवं वेद ॥९॥
स्वप्नस्थानस्तैजस
उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वा ।
उत्कर्षति
ह वै ज्ञानसंततिम् ।
समानश्च भवति
।
नास्याब्रह्मवित्कुले
भवति य एवं वेद ॥१०॥
सुषुप्तस्थानः
प्राज्ञो मकारः तृतीया मात्रा मितेरपीतेर्वा ।
मिनोति ह
वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥११॥
अमात्रश्चतुर्थोऽव्यवहार्यः
प्रपञ्चोपशमः शिवोऽद्वैतः ।
एवमोंकार
आत्मैव ।
संविशत्यात्मनात्मानं
य एवं वेद ॥१२॥
॥ इति माण्डूक्योपनिषत्समाप्ता ॥
अन्य उपनिषद यहाँ से पढें
0 comments