उपनिषद्
प्रश्नोपनिषद्
॥ अथ प्रश्नोपनिषद्
॥
प्रथम प्रश्नः
सुकेशा च
भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः
कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठा परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं
वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १/१ ॥
तान् ह स
ऋषिरुवाच ।
भूय एव तपसा
ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ ।
यथाकामं प्रश्नान्
पृच्छत ।
यदि विज्ञास्यामः
सर्वं ह वो वक्ष्याम इति ॥ १/२ ॥
अथ कबन्धी
कात्यायन उपेत्य पप्रच्छ ।
भगवन् कुतो
ह वा इमाः प्रजाः प्रजायन्त इति ॥ १/३ ॥
तस्मै स होवाच
।
द्वितीयः
प्रश्नः
चतुर्थः प्रश्नः
॥ इति प्रश्नोपनिषत्समाप्ता
॥
प्रजाकामो
वै प्रजापतिः ।
स तपोऽतप्यत
।
स तपस्तप्त्वा
स मिथुनमुत्पादयते रयिं च प्राणं चेति ।
एतौ मे बहुधाः
प्रजाः करिष्यत इति ॥ १/४ ॥
आदित्यो ह
वै प्राणो रयिरेव चन्द्रमाः ।
रयिर्वा एतत्सर्वं
यन्मूर्तं चामूर्तं च ।
तस्मान्मूर्तिरेव
रयिः ॥ १/५ ॥
अथादित्य
उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु संनिधत्ते ।
यद्दक्षिणं
यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्
प्राणान् रश्मिषु संनिधत्ते ॥१/६॥
स एष वैश्वानरो
विश्वरूपः प्राणोऽग्निरुदयते ।
तदेतद्दचाभ्युक्तम् ॥ १/७ ॥
विश्वरूपं
हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम्
।
सहस्ररश्मिः
शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः
॥ १/८ ॥
संवत्सरो
वै प्रजापतिः ।
तस्यायने
दक्षिणं चोत्तरं च ।
तद्ये ह वै
तदिष्टापूर्ते कृतिमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते ।
त एव पुनरावर्तन्ते
।
तस्मादेत
ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते ।
एष ह वै रयिर्यः
पितृयाणः ॥ १/९ ॥
अथोत्तरेण
तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते ।
एतद्वै प्राणानामायतनमेतदमृतमयमेतत्परायणम्
।
एतस्मान्न
पुनरावर्तन्त इति ।
एष निरोधः
।
तदेष श्लोकः ॥ १/१० ॥
पञ्चपादं
पितरं द्वादशकृतिं दिव आहुः परे अर्धे पुरीषिणम्
।
अथेमे अन्य
उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति
॥ १/११ ॥
मासो वै प्रजापतिः
।
तस्य कृष्णपक्ष
एव रयिः शुक्लः प्राणः ।
तस्मादेत
ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥
१/१२ ॥
अहोरात्रो
वै प्रजापतिः ।
तस्याहरेव
प्राणो रात्रिरेव रयिः ।
प्राणं वा
एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ।
ब्रह्मचर्यमेव
तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १/१३ ॥
अन्नं वै
प्रजापतिस्ततो ह वै तद्रेतः ।
तस्मादिमाः
प्रजाः प्रजायन्त इति ॥ १/१४ ॥
तद्ये ह वै
तत्प्रजापतिव्रतं चरन्ति ।
ते मिथुनमुत्पादयन्ते
।
तेषामेवैष
ब्रह्मलोकः ।
येषां तपो
ब्रह्मचर्यम् ।
येषु सत्यं
प्रतिष्ठितम् ॥ १/१५ ॥
तेषामसौ विरजो
ब्रह्मलोको न येषु जिह्वमनृतं न माया चेति
॥ १/१६ ॥
॥ इति प्रथम
प्रश्नः ॥
द्वितीयः
प्रश्नः
अत हैनं भार्गवो
वैदर्भिः पप्रच्छ ।
भगवन् कत्येव
देवाः प्रजां विधारयन्ते ।
कतर एतत्प्रकाशयन्ते
।
कः पुनरेषां
वरिष्ठ इति ॥ २/१ ॥
तस्मै स होवाच
।
आकाशो ह वा
एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षु श्रोत्रं च ।
ते प्रकाश्याभिवदन्ति
।
वयमेतद्बाणमवष्टभ्य
विधारयामः ॥ २/२ ॥
तान् वरिष्टः
प्राण उवाच ।
मा मोहमापद्यथ,
अहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति ।
तेऽश्रद्दधाना
बभूवुः ॥ २/३ ॥
सोऽभिमानादूर्ध्वमुत्क्रमत
इव ।
तस्मिन्नुत्क्रामत्यथेतरे
सर्व एवोत्क्रामन्ते ।
तस्मिंश्च
प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते ।
तद्यथा मक्षिका
मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते ।
तस्मिंश्च
प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते ।
एवं वाङ्मनश्चक्षुःश्रोत्रं
च ।
ते प्रीताः
प्राणं स्तुन्वन्ति ॥ २/४ ॥
एषोऽग्निस्तपत्येष
सूर्य एष पर्जन्यो मघवानेष वायुः ।
एष पृथिवी
रयिर्देवः सदसच्चामृतं च यत् ॥ २/५ ॥
अरा इव रथनाभौ
प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूंषि
सामानि यज्ञः क्षत्रं ब्रह्म च ॥ २/६॥
प्रजापतिश्चरसि
गर्भे त्वमेव प्रतिजायसे ।
तुभ्यं प्राण
प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतिष्ठसि
॥ २/७ ॥
देवानामसि
वह्नितमः पितॄणां प्रथमा स्वधा ।
ऋषीणां चरितं
सत्यमथर्वाङ्गिरसामसि ॥ २/८ ॥
इन्द्रस्त्वं
प्राण तेजसा रुद्रोऽसि संहरञ्जगत् ।
स्थितौ च
परि समन्ताद्रक्षिता पालयिता परिरक्षिता ।
त्वमेव जगतः
सौम्येन रूपेण ।
त्वमन्तरिक्षेऽजस्रं
चरसि उदयास्तमयाभ्यां सूर्यस्त्वमेव च सर्वेषां ज्योतिषां पतिः ॥ २/९ ॥
यदा त्वमभिवर्षस्यथेमाः
प्राण ते प्रजाः ।
आनन्दरूपास्तिष्ठन्ति
कामायान्नं भविष्यतीति ॥ २/१०॥
व्रात्यस्त्वं
प्राणैकऋषिरत्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य
दातारः पिता त्वं मातरिश्व नः ॥ २/११॥
या ते तनूर्वाचि
प्रतिष्ठिता या श्रोत्रं या च चक्षुषि ।
या च मनसि
संतता शिवां तां कुरु मोत्क्रमीः ॥ २/१२ ॥
प्राणस्येदं
वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान्
रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥
२/१३ ॥
॥ इति द्वितीयः
प्रश्नः॥
तृतीय प्रश्नः
अथ हैनं कौसल्यश्चाश्वलायनः
पप्रच्छ ।
भगवन् कुत
एष प्राणो जायते ।
कथमायात्यस्मिन्
शरीरे ।
आत्मानं वा
प्रविभज्य कथं प्रातिष्ठते ।
केनोत्क्रमते
।
कथं बाह्यमभिधत्ते
।
कथमध्यात्ममिति ॥ ३/१ ॥
तस्मै स होवाच
।
अतिप्रश्नान्
पृच्छसि ।
ब्रह्मिष्ठोऽसीति
।
तस्मात्तेऽहं
ब्रवीमि ॥ ३/२ ॥
आत्मन एष
प्राणो जायते ।
यथैषा पुरुषे
छायैतस्मिन्नेतदाततम् ।
मनोकृतेनायात्यस्मिञ्शरीरे ॥ ३/३ ॥
यथा सम्राडेवाधिकृतान्
विनियुङ्क्ते ।
एतान् ग्रामानेतान्
ग्रामानधितिष्ठस्वेति ।
एवमेवैष प्राण
इतरान् प्राणान् पृथक्पृथगेव संनिधत्ते ॥ ३/४
॥
पायूपस्थेऽपानम्
।
चक्षुःश्रोत्रे
मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते ।
मध्ये तु
समानः ।
एष ह्येतद्धुतमन्नं
समं नयति ।
तस्मादेताः
सप्तार्चिषो भवन्ति ॥ ३/५ ॥
हृदि ह्येष
आत्मा ।
अत्रैतदेकशतं
नाडीनाम् ।
तासां शतं
शतमेकैकस्याः ।
द्वासप्ततिर्द्वासप्ततिः
प्रतिशाखानाडीसहस्राणि भवन्ति ।
आसु व्यानश्चरति ॥ ३/६ ॥
अथैकयोर्ध्व
उदानः पुण्येन पुण्यं लोकं नयति ।
पापेन पापम्
।
उभाभ्यामेव
मनुष्यलोकम् ॥ ३/७ ॥
आदित्यो ह
वै बाह्यः प्राण उदयति ।
एष ह्येनं
चाक्षुषं प्राणमनुगृह्णानः ।
पृथिव्यां
या देवता सैषा पुरुषस्यापानमवष्टभ्य ।
अन्तरा यदाकाशः
स समानः ।
वायुर्व्यानः ॥ ३/८ ॥
तेजो ह वा
उदानः ।
तस्मादुपशान्ततेजाः
।
पुनर्भवमिन्द्रियैर्मनसि
संपद्यमानैः ॥ ३/९ ॥
यच्चित्तस्तेनैष
प्राणमायाति ।
प्राणस्तेजसा
युक्तः सहात्मना यथा संकल्पितं लोकं नयति ॥
३/१० ॥
य एवं विद्वान्
प्राणं वेद ।
न हास्य प्रजा
हीयतेऽमृतो भवति ।
तदेष श्लोकः ॥ ३/११ ॥
उत्पत्तिमायातिं
स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं
चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ ३/१२ ॥
॥ इति तृतीय
प्रश्नः ॥
चतुर्थः प्रश्नः
अथ हैनं सौर्यायणी
गार्ग्यः पप्रच्छ ।
भगवन्नेतस्मिन्
पुरुषे कानि स्वपन्ति ।
कान्यस्मिञ्जाग्रति
।
कतर एष देवः
स्वप्नान् पश्यति ।
कस्यैतत्सुखं
भवति ।
कस्मिन्नु
सर्वे संप्रतिष्ठिता भवन्तीति ॥ ४/१ ॥
तस्मै स होवाच
।
यथा गार्ग्य
मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ।
ताः पुनः
पुनरुदयतः प्रचरन्ति ।
एवं ह वै
तत्सर्वं परे देवे मनस्येकीभवति ।
तेन तर्ह्येष
पुरुषो न शृणोति ।
न पश्यति
।
न जिघ्रति
।
न रसयते ।
न स्पृशते
।
नाभिवदते
।
नादत्ते ।
नानन्दयते
।
न विसृजते
।
नेयायते ।
स्वपतीत्याचक्षते ॥ ४/२ ॥
प्राणाग्नय
एवैतस्मिन् पुरे जाग्रति ।
गार्हपत्यो
ह वा एषोऽपानः ।
व्यानोऽन्वाहार्यपचनः
।
यद्गार्हपत्यात्प्रणीयते
प्रणयनात् ।
आहवनीयः प्राणः ॥ ४/३ ॥
यदुच्छ्वासनिःश्वासावेतावाहुती
समं नयतीति स समानः ।
मनो ह वावन
यजमानः ।
इष्टफलमेवोदानः
।
स एनं यजमानमहरहर्ब्रह्म
गमयति ॥ ४/४ ॥
अत्रैष देवः
स्वप्ने महिमानमनुभवति ।
यद्दृष्टं
इष्टमनुपश्यति ।
श्रुतं श्रुतमेवार्थमनुशृणोति
।
देशदिगन्तरैश्च
प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति ।
दृष्टं चादृष्टं
च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति ।
सर्वः पश्यति ॥ ४/५ ॥
स यदा तेजसाभिभूतो
भवति ।
अत्रैष देवः
स्वप्नान्न पश्यति ।
अथ तदैतस्मिञ्शरीर
एतत्सुखं भवति ॥ ४/६ ॥
स यथा सोम्य
वयांसि वासोवृक्षं संप्रतिष्ठन्ते ।
एवं ह वै
तत्सर्वं पर आत्मनि संप्रतिष्ठते ॥ ४/७ ॥
पृथिवी च
पृथिवीमात्रा च ।
आपश्चापोमात्रा
च ।
तेजश्च तेजोमात्रा
च ।
वायुश्च वायुमात्रा
च ।
आकाशश्चाकाशमात्रा
च ।
चक्षुश्च
द्रष्टव्यं च ।
श्रोत्रं
च श्रोतव्यं च ।
घ्राणं च
घ्रातव्यं च ।
रसश्च रसयितव्यं
च ।
त्वक्च स्पर्शयितव्यं
च ।
वाक्च वक्तव्यं
च ।
हस्तौ चादातव्यं
च ।
उपस्थश्चानन्दयितव्यं
च ।
पायुश्च विसर्जयितव्यं
च ।
पादौ च गन्तव्यं
च ।
मनश्च मन्तव्यं
च ।
बुद्धिश्च
बोद्धव्यं च ।
अहङ्कारश्चाहङ्कर्तव्यं
च ।
चित्तं च
चेतयितव्यं च ।
तेजश्च विद्योतयितव्यं
च ।
प्राणश्च
विधारयितव्यं च ॥ ४/८ ॥
एष हि द्रष्टा
स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ।
स परेऽक्षर
आत्मनि संप्रतिष्ठते ॥ ४/९ ॥
परमेवाक्षरं
प्रतिपद्यते ।
स यो ह वै
तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य ।
स सर्वः सर्वो
भवति ।
तदेष श्लोकः ॥ ४/१० ॥
विज्ञानात्मा
सह देवैश्च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र ।
तदक्षरं वेदयते
यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥
४/११ ॥
॥ इति चतुर्थः
प्रश्नः ॥
पञ्चमः प्रश्नः
अथ हैनं शैब्यः
सत्यकामः पप्रच्छ ।
स यो ह वै
तद्भगवन्मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत ।
कतमं वाव
स तेन लोकं जयतीति ॥ ५/१ ॥
तस्मै स होवाच
।
एतद्वै सत्यकाम
परं चापरं च ब्रह्म यदोंकारः ।
तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ ५/२ ॥
स यद्येकमात्रमभिध्यायीत
।
स तेनैव संवेदितस्तूर्णमेव
जगत्यामभिसम्पद्यते ।
तमृचो मनुष्यलोकमुपनयन्ते
।
स तत्र तपसा
ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति
॥ ५/३ ॥
अथ यदि द्विमात्रेण
मनसि संपद्यते ।
सोऽन्तरीक्षं
यजुर्भिरुन्नीयते सोमलोकम् ।
स सोमलोके
विभूतिमनुभूय पुनरावर्तते ॥ ५/४ ॥
यः पुनरेतं
त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत ।
स तेजसि सूर्ये
संपन्नः ।
यथा पादोदरस्त्वचा
विनिर्मुच्यते ।
एवं ह वै
स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् ।
स एतस्माज्जीवधनात्परापरं
पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥
५/५ ॥
तिस्रो मात्रा
मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।
क्रियासु
बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ५/६ ॥
ऋग्भिरेतं
यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते
।
तमोंकारेणैवायतनेनान्वेति
विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति
॥ ५/७ ॥
॥ इति पञ्चमः
प्रश्नः ॥
षष्ठः प्रश्नः
अथ हैनं सुकेशा
भारद्वाजः पप्रच्छ ।
भगवन् हिरण्यनाभः
कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत ।
षोडशकलं भारद्वाज
पुरुषं वेत्थ ।
तमहं कुमारमब्रुवं
नाहमिमं वेद ।
यद्यहमिममवेदिषं
कथं ते नावक्ष्यमिति ।
समूलो वा
एष परिशुष्यति योऽनृतमभिवदति ।
तस्मान्नार्हाम्यनृतं
वक्तुम् ।
स तूष्णीं
रथमारुह्य प्रवव्राज ।
तं त्वा पृच्छामि
कासौ पुरुष इति ॥ ६/१ ॥
तस्मै स होवाच
।
इहैवान्तः
शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ ६/२ ॥
स ईक्षां
चक्रे ।
कस्मिन्नहमुत्क्रान्त
उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ६/३ ॥
स प्राणमसृजत
।
प्राणाच्छद्वां
खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु
नाम च ॥ ६/४ ॥
स यथेमा नद्यः
स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति ।
भिद्येते
तासां नामरूपे ।
समुद्र इत्येवं
प्रोच्यते ।
एवमेवास्य
परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति ।
भिद्येते
चासां नामरूपे ।
पुरुष इत्येवं
प्रोच्यते ।
स एषोऽकलोऽमृतो
भवति तदेष श्लोकः ॥ ६/५ ॥
अरा इव रथनाभौ
कला यस्मिन् प्रतिष्ठिताः ।
तं वेद्यं
पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति
॥ ६/६ ॥
तान् होवाच
।
एतावदेवाहमेतत्परं
ब्रह्म वेद ।
नातः परमस्तीति ॥ ६/७ ॥
ते तमर्चयन्तस्त्वं
हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति नमः ।
परमऋषिभ्यो
नमः परमऋषिभ्यः ॥ ६/८ ॥
॥ इति षष्ठः
प्रश्नः॥
0 comments