उपनिषद्
ऐतरेयोपनिषत्
॥ अथ ऐतरेयोपनिषत् ॥
ॐ वाङ् मे
मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं
मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु
तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥
॥ ॐ शान्तिः
शान्तिः शान्तिः॥
॥ प्रथमाध्याये प्रथमः खण्डः ॥
आत्मा वा
इदमेक एवाग्र आसीत् ।
नान्यत्किञ्चन
मिषत् ।
स ईक्षत लोकान्नु
सृजा इति ॥ १/१/१ ॥
स इमांल्लोकानसृजताम्भो
मरीचीर्मरमापः ।
अदोऽम्भः
परेण दिवम् ।
द्यौः प्रतिष्ठा
।
अन्तरिक्षं
मरीचयः ।
पृथिवी मरः
।
या अधस्तात्ता
आपः ॥ १/१/२ ॥
॥ इति ऎतरेयोपनिषत्
समाप्ता ॥
स ईक्षतेमे
नु लोकाः ।
लोकपालान्नु
सृजा इति ।
सोऽद्भ्य
एव पुरुषं समुद्धृत्यामूर्च्छयत् ॥ १/१/३ ॥
तमभ्यतपत्
।
तस्याभितप्तस्य
मुखं निरभिद्यत यथाण्डम् ।
मुखाद्वाक्
।
वाचोऽग्निः
।
नासिके निरभिद्येताम्
।
नासिकाभ्यां
प्राणः ।
प्राणाद्वायुः
।
अक्षिणी निरभिद्येताम्
।
अक्षीभ्यां
चक्षुः ।
चक्षुष आदित्यः
।
कर्णौ निरभिद्येताम्
।
कर्णाभ्यां
श्रोत्रम् ।
श्रोत्राद्दिशः
।
त्वङ्निरभिद्यत
।
त्वचो लोमानि
।
लोमभ्य ओषधिवनस्पतयः
।
हृदयं निरभिद्यत
।
हृदयान्मनः
।
मनसश्चन्द्रमाः
।
नाभिर्निरभिद्यत
।
नाभ्या अपानः
।
अपानान्मृत्युः
।
शिश्नं निरभिद्यत
।
शिश्नाद्रेतः
।
रेतस आपः
॥ १/१/४ ॥
॥ प्रथमाध्याये द्वितीयः खण्डः ॥
ता एता देवताः
सृष्टा अस्मिन्महत्यर्णवे प्रापतन् ।
तमशनापिपासाभ्यामन्ववार्जत्
।
ता एनमब्रुवन्नायतनं
नः प्रजानीहि ।
यस्मिन् प्रतिष्ठिता
अन्नमदामेति ॥ १/२/१ ॥
ताभ्यो गामानयत्
।
ता अब्रुवन्न
वै नोऽयमलमिति ।
ताभ्योऽश्वमानयत्
।
ता अब्रुवन्न
वै नोऽयमलमिति ॥ १/२/२ ॥
ताभ्यः पुरुषमानयत्
।
ता अब्रुवन्
सुकृतं बतेति ।
पुरुषो वाव
सुकृतम् ।
ता अब्रवीद्यथायतनं
प्रविशतेति ॥ १/२/३ ॥
अग्निर्वाग्भूत्वा
मुखं प्राविशत् ।
वायुः प्राणो
भूत्वा नासिके प्राविशत् ।
आदित्यश्चक्षुर्भूत्वाक्षिणी
प्राविशत् ।
दिशः श्रोत्रं
भूत्वा कर्णौ प्राविशन् ।
ओषधिवनस्पतयो
लोमानि भूत्वा त्वचं प्राविशन् ।
चन्द्रमा
मनो भूत्वा हृदयं प्राविशत् ।
मृत्युरपानो
भूत्वा नाभिं प्राविशत् ।
आपो रेतो
भूत्वा शिश्नं प्राविशन् ॥ १/२/४ ॥
तमशनापिपासे
अब्रूतामवाभ्यामभिप्रजानीहीति ।
ते अब्रवीदेतास्वेव
वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति ।
तस्माद्यस्यै
कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः ॥ १/२/५ ॥
॥ प्रथमाध्याये तृतीयः खण्डः ॥
स ईक्षतेमे
नु लोकाश्च लोकपालाश्च ।
अन्नमेभ्यः
सृजा इति ॥ १/३/१ ॥
सोऽपोऽभ्यतपत्
।
ताभ्योऽभितप्ताभ्यो
मूर्तिरजायत ।
या वै सा
मूर्तिरजायतान्नं वै तत् ॥ १/३/२ ॥
तदेनत्सृष्टं
पराङत्यजिघांसत् ।
तद्वाचाजिघृक्षत्
।
तन्नाशक्नोद्वाचा
ग्रहीतुम् ।
स यद्धैनद्वाचाग्रहैष्यदभिव्याहृत्य
हैवान्नमत्रप्स्यत् ॥ १/३/३ ॥
तत्प्राणेनाजिघृक्षत्
।
तन्नाशक्नोत्प्राणेन
ग्रहीतुम् ।
स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य
हैवान्नमत्रप्स्यत् ॥ १/३/४ ॥
तच्चक्षुषाजिघृक्षत्
।
तन्नाशक्नोच्चक्षुषा
ग्रहीतुम् ।
स यद्धैनच्चक्षुषाग्रहैष्यद्दृष्ट्वा
हैवान्नमत्रप्स्यत् ॥ १/३/५ ॥
तच्छ्रोत्रेणाजिघृक्षत्
।
तन्नाशक्नोच्छ्रोत्रेण
ग्रहीतुम् ।
स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा
हैवान्नमत्रप्स्यत् ॥ १/३/६ ॥
तत्त्वचाजिघृक्षत्
।
तन्नाशक्नोत्त्वचा
ग्रहीतुम् ।
स यद्धैनत्त्वचाग्रहैष्यत्स्पृष्ट्वा
हैवान्नमत्रप्स्यत् ॥ १/३/७ ॥
तन्मनसाजिघृक्षत्
।
तन्नाशक्नोन्मनसा
ग्रहीतुम् ।
स यद्धैनन्मनसाग्रहैष्यद्ध्यात्वा
हैवान्नमत्रप्स्यत् ॥ १/३/८ ॥
तच्छिश्नेनाजिघृक्षत्
।
तन्नाशक्नोच्छिश्नेन
ग्रहीतुम् ।
स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य
हैवान्नमत्रप्स्यत् ॥ १/३/९ ॥
तदपानेनाजिघृक्षत्
।
तदावयत् ।
सैषोऽन्नस्य
ग्रहो यद्वायुः ।
अन्नायुर्वा
एष यद्वायुः ॥ १/३/१० ॥
स ईक्षत कथं
न्विदं मदृते स्यादिति ।
स ईक्षत कतरेण
प्रपद्या इति ।
स ईक्षत यदि
वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि
त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति
॥ १/३/११ ॥
स एतमेव सीमानं
विदार्यैतया द्वारा प्रापद्यत ।
सैषा विदृतिर्नाम
द्वाः ।
तदेतन्नान्दनम्
।
तस्य त्रय
आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति ॥ १/३/१२ ॥
स जातो भूतान्यभिव्यैख्यत्किमिहान्यं
वावदिषदिति ।
स एतमेव पुरुषं
ब्रह्म ततममपश्यदिदमदर्शमिती ३ ॥ १/३/१३ ॥
तस्मादिदन्द्रो
नाम ।
इदन्द्रो
ह वै नाम ।
तमिदन्द्रं
सन्तमिन्द्र इत्याचक्षते परोक्षेण ।
परोक्षप्रिया
इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १/३/१४ ॥
॥ द्वितीयोध्यायः ॥
पुरुषे ह
वा अयमादितो गर्भो भवति यदेतद्रेतः ।
तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः
सम्भूतमात्मन्येवात्मानं बिभर्ति ।
तद्यदा स्त्रियां
सिञ्चत्यथैनज्जनयति ।
तदस्य प्रथमं
जन्म ॥ २/१ ॥
तत्स्त्रिया
आत्मभूयं गच्छति यथा स्वमङ्गं तथा ।
तस्मादेनां
न हिनस्ति ।
सास्यैतमात्मानमत्र
गतं भावयति ॥ २/२ ॥
सा भावयित्री
भावयितव्या भवति ।
तं स्त्री
गर्भं बिभर्ति ।
सोऽग्र एव
कुमारं जन्मनोऽग्रेऽधि भावयति ।
स यत्कुमारं
जन्मनोऽग्रेऽधि भावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्यै ।
एवं सन्तता
हीमे लोकाः ।
तदस्य द्वितीयं
जन्म ॥ २/३ ॥
सोऽस्यायमात्मा
पुण्येभ्यः कर्मेभ्यः प्रतिधीयते ।
अथास्यायमितर
आत्मा कृतकृत्यो वयोगतः प्रैति ।
स इतः प्रयन्नेव
पुनर्जायते ।
तदस्य तृतीयं
जन्म ॥ २/४ ॥
तदुक्तमृषिणा गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा
।
शतं मा पुर
आयसीररक्षन्नध श्येनो जवसा निरदीयम् ।
इति ।
गर्भ एवैतच्छयानो
वामदेव एवमुवाच ॥ २/५ ॥
स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन्
स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ २/६ ॥
॥ तृतीयोध्यायः ॥
कोऽयम् ।
आत्मेति वयमुपास्महे
।
कतरः स आत्मा
।
येन वा पश्यति
येन वा शृणोति येन वा गन्धाञ्जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु
च विजानाति ॥३/१॥
यदेतद्धृदयं
मनश्चैतत् ।
सञ्ज्ञानमाज्ञानं
विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः
कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३/२ ॥
एष ब्रह्मा
।
एष इन्द्रः
।
एष प्रजापतिः
।
एते सर्वे
देवाः ।
इमानि च पञ्च
महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि
चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो
यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् ।
सर्वं तत्प्रज्ञानेत्रम्
।
प्रज्ञाने
प्रतिष्ठितम् ।
प्रज्ञानेत्रो
लोकः ।
प्रज्ञा प्रतिष्ठा
।
प्रज्ञानं
ब्रह्म ॥ ३/३ ॥
स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्
स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ ३/४ ॥
॥ इति ऎतरेयोपनिषत्
समाप्ता ॥
अन्य उपनिषद यहाँ से पढें
0 comments