HinduMantavya
Loading...

ऋग्वेद-संहिता - प्रथम मंडल सूक्त १३

Google+ Whatsapp

[ऋषि - मेधातिथि काण्व। देवता विश्वेदेवता। छन्द-गायत्री।]


 
१२३ सुसमिद्धो न आ वह देवां अग्ने हविष्मते । होतः पावक यक्षि च ॥१॥


१२४ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृणुहि वीतये ॥२॥

१२५ नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये । मधुजिह्वं हविष्कृतम् ॥३॥

१२६ अग्ने सुखतमे रथे देवां ईळित आ वह । असि होता मनुर्हितः ॥४॥


१२७ स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः । यत्रामृतस्य चक्षणम् ॥५॥

१२८ वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः । अद्या नूनं च यष्टवे ॥६॥

१२९ नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये । इदं नो बर्हिरासदे ॥७॥

१३० ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । यज्ञं नो यक्षतामिमम् ॥८॥

१३१ इळा सरस्वती मही तिस्रो देवीर्मयोभुवः । बर्हिः सीदन्त्वस्रिधः ॥९॥

१३२ इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये । अस्माकमस्तु केवलः ॥१०॥

१३३ अव सृजा वनस्पते देव देवेभ्यो हविः । प्र दातुरस्तु चेतनम् ॥११॥

१३४ स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे । तत्र देवां उप ह्वये ॥१२॥

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *