HinduMantavya
Loading...

यजुर्वेद- अध्याय 14, (yajurved Adhyay 14)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

अध्याय 14

 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 1
ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवासि ध्रुवं योनिम् आ सीद साधुया ।
 उख्यस्य केतुं प्रथमं जुषाणा ।
 अश्विनाध्वर्यू सादयताम् इह त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 2
कुलायिनी घृतवती पुरंधिः स्योने सीद सदने पृथिव्याः ।
 अभि त्वा रुद्रा वसवो गृणन्त्व् इमा ब्रह्म पीपिहि सौभगाय ।
 अश्विनाध्वर्यू सादयताम् इह त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 3
स्वैर् दक्षैर् दक्षपितेह सीद देवानाम्̐ सुम्ने बृहते रणाय ।
 पितेवैधि सूनव ऽ आ सुशेवा स्वावेशा तन्वा सं विशस्व ।
 अश्विनाध्वर्यू सादयताम् इह त्वा ॥

यजुर्वेदः-संहिता | अध्याय 14, मंत्र 4
पृथिव्याः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।
 स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ।
 अश्विनाध्वर्यू सादयताम् इह त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 5
अदित्यास् त्वा पृष्ठे सादयाम्य् अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानामूर्मिर् द्रप्सो ऽ अपाम् असि विश्वकर्मा त ऽ ऋषिः ।
 अश्विनाध्वर्यू सादयताम् इह त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 6
शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू ऽ अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
 ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे ग्रैष्माव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 7
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
 सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
 सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
 सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
 सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 8
प्राणं मे पाहि ।
 अपानं मे पाहि ।
 व्यानं मे पाहि ।
 चक्षुर् म ऽ उर्व्या वि भाहि ।
 श्रोत्रं मे श्लोकय ।
 अपः पिन्व ।
 ओषधीर् जिन्व ।
 द्विपाद् अव ।
 चतुष्पात् पाहि ।
 दिवो वृष्टिम् एरय ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 9
मूर्धा वयः प्रजापतिश् छन्दः ।
 क्षत्रं वयो मयंदं छन्दः ।
 विष्टम्भो वयो ऽधिपतिश् छन्दः ।
 विश्वकर्मा वयः परमेष्ठी छन्दः ।
 वस्तो वयो विवलं छन्दः ।
 वृष्णिर् वयो विशालं छन्दः ।
 पुरुषो वयस् तन्द्रं छन्दः ।
 व्याघ्रो वयो ऽनाधृष्टं छन्दः ।
 सिम्̐हो वयश् छदिश् छन्दः ।
 पष्ठवाड् वयो बृहती छन्दः ।
 ऽ उक्षा वयः ककुप् छन्दः ।
 ऽ ऋषभो वयः सतोबृहती छन्दः ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 10
अनड्वान् वयः पङ्क्तिश् छन्दः ।
 धेनुर् वयो जगती छन्दः ।
 त्र्यविर् वयस् त्रिष्टुप् छन्दः ।
 दित्यवाड् वयो विराट् छन्दः ।
 पञ्चाविर् वयो गायत्री छन्दः ।
 त्रिवत्सो वय ऽ उष्णिक् छन्दः ।
 तुर्यवाड् वयो ऽनुष्टुप् छन्दः ।
[ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
 इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
 ता अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः ।
 जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
 इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
 रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥ ]???
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 11
इन्द्राग्नी ऽ अव्यथमानाम् इष्टकां दृम्̐हतं युवम् ।
 पृष्ठेन द्यावापृथिवी ऽ अन्तरिक्षं च विबाधसे ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 12
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीम् अन्तरिक्षं यच्छान्तरिक्षं दृम्̐हान्तरिक्षं मा हिम्̐सीः ।
 विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
 वायुष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 13
राज्ञ्य् असि प्राची दिक् ।
 विराड् असि दक्षिणा दिक् ।
 सम्राड् असि प्रतीची दिक् ।
 स्वराड् अस्य् उदीची दिक् ।
 अधिपत्न्य् असि बृहती दिक् ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 14
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम् ।
 विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।
 वायुष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 15
नभश् च नभस्यश् च वार्षिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
 ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे वार्षिकाव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 16
इषश् चोर्जश् च शारदाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
 ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे शारदाव् ऋतू ऽ अभिकल्पमाना ऽइन्द्रम् इव देवाऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 17
आयुर् मे पाहि ।
प्राणं मे पाहि ।
 अपानं मे पाहि ।
 व्यानं मे पाहि ।
 चक्षुर् मे पाहि ।
 श्रोत्रं मे पाहि ।
 वाचं मे पिन्व ।
 मनो मे जिन्व ।
 आत्मानं मे पाहि ।
 ज्योतिर् मे यच्छ ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 18
मा छन्दः ।
 प्रमा छन्दः ।
 प्रतिमा छन्दः ।
 ऽ अस्रीवयश् छन्दः ।
 पङ्क्तिश् छन्दः ।
 ऽ उष्णिक् छन्दः ।
 बृहती छन्दः ।
 ऽअनुष्टुप् छन्दः ।
 विराट् छन्दः ।
 गायत्री छन्दः ।
 त्रिष्टुप् छन्दः ।
 जगती छन्दः ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 19
पृथिवी छन्दः ।
 ऽअन्तरिक्षं छन्दः ।
 द्यौश् छन्दः ।
 समाश् छन्दः ।
 नक्षत्राणि छन्दः ।
 वाक् छन्दः ।
 मनश् छन्दः ।
 कृषिश् छन्दः ।
 हिरण्यं छन्दः ।
 गौश् छन्दः ।
 ऽअजा छन्दः ।
 ऽअश्वश् छन्दः ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 20
अग्निर् देवता ।
 वातो देवता ।
 सूर्यो देवता ।
 चन्द्रमा देवता ।
 वसवो देवता ।
 रुद्रा देवता ।
 ऽऽआदित्या देवता ।
 मरुतो देवता ।
 विश्वे देवा देवता ।
 बृहस्पतिर् देवता ।
 इन्द्रो देवता ।
 वरुणो देवता ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 21
मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरणी ।
 आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 22
यन्त्री राड् यन्त्र्य् असि यमनी ध्रुवासि धरित्री ।
 इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा ।
 लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
 इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
 ता अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः ।
 जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
 इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
 रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 23
आशुर् त्रिवृत् ।
 भान्तः पञ्चदशः ।
 व्योमा सप्तदशः ।
 धरुण ऽ एकविम्̐शः ।
 प्रतूर्तिर् अष्टादशः ।
 तपो नवदशः ।
 ऽअभीवर्तः सविम्̐शः ।
 वर्चो द्वाविम्̐शः ।
 संभरणस् त्रयोविम्̐शः ।
 योनिश् चतुर्विम्̐शः ।
 गर्भाः पञ्चविम्̐शः ।
 ऽ ओजस् त्रिणवः ।
 क्रतुर् एकत्रिम्̐शः ।
 प्रतिष्ठा त्रयस्त्रिम्̐शः ।
 ब्रध्नस्य विष्टपं चतुस्त्रिम्̐शः ।
 नाकः षट्त्रिम्̐शः ।
 विवर्तो ष्टाचत्वारिम्̐शः ।
 धर्त्रं चतुष्टोमः ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 24
अग्नेर् भागो ऽसि दीक्षाया ऽ आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमः ।
 इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रम्̐ स्पृतं पञ्चदशः स्तोमः ।
 नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रम्̐ स्पृतम्̐ सप्तदशः स्तोमः ।
 मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वात स्पृत ऽएकविम्̐श स्तोमः ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 25
वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विम्̐श स्तोमः ।
 आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविम्̐श स्तोमः ।
 अदित्यै भागो ऽसि पूष्ण ऽ आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः ।
 देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यम्̐ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 26
यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजा स्पृताश् चतुश्चत्वारिम्̐श स्तोमः ।
 ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतम्̐ स्पृतं त्रयस्त्रिम्̐श स्तोमः ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 27
सहश् च सहस्यश् च हैमन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
 ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे हैमन्तिकाव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 28
एकयास्तुवत प्रजा ऽ अधीयन्त प्रजापतिर् अधिपतिर् आसीत् ।
 तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् ।
 पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् ।
 सप्तभिर् अस्तुवत सप्त ऋषयो ऽसृज्यन्त धाताधिपतिर् आसीत् ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 29
नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अध्निपत्न्य् आसीत् ।
 एकादशभिर् अस्तुवत ऽ ऋतवो ऽसृज्यन्तार्तवा ऽ अधिपतय ऽ आसन् ।
 त्रयोदशभिर् अस्तुवत मासा ऽ असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् ।
 पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् ।
 सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 30
नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे ऽ अधिपत्नी आस्ताम् ।
 एकविम्̐शत्यास्तुवतैकशफाः पशवो सृज्यन्त वरुणो ऽधिपतिर् आसीत् ।
 त्रयोविम्̐शत्यास्तुवत क्षुद्रां पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् ।
 पञ्चविम्̐शत्यास्तुवताऽऽरण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् ।
 सप्तविम्̐शत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्राऽ आदित्याऽ अनुव्य् आयम्̐स् त ऽ एवाधिपतय ऽ आसन् ॥
 
यजुर्वेदः-संहिता | अध्याय 14, मंत्र 31
नवविम्̐शत्यास्तुवत वनस्पतयोऽसृज्यन्त सोमो ऽधिपतिर् आसीत् ।
 एकत्रिम्̐शतास्तुवत प्रजा ऽ असृज्यन्त यवाश् चायवाश् चाधिपतय ऽ आसन्त्रयस्त्रिम्̐ शतास्तुवत भूतान्यशाम्यन्. प्रजापतिः परमेष्ठ्यधिपतिरासील्लोकं ता ऽ इन्द्रम्॥

॥इति यजुर्वेदः चतुर्दशोऽध्यायः॥

अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *