HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् १६ (Atharvved Kand 16)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥अथ षोडशं काण्डम्॥
 

प्रथम: सूक्तम्» त्रयोदशर्चस्यास्य पर्यायस्याथर्वा ऋषि: । प्रजापतिर्देवता ।   प्रथमातृतीययोरृचोर्द्विपदा साम्नी बृहती  १ द्वितीयादशम्योर्याजुषी त्रिष्टुप्  चतुर्थ्या आसुरी गायत्री  पञ्चम्या द्विपदा साम्नी पङ्क्ति:  षष्ठ्या: साम्न्यनुष्टुप्  सप्तम्या निचृद्विराड्गायत्री  अष्टम्या: साम्नी पङ्क्ति:  नवम्या आसुरी पङ्क्ति:  एकादश्या: साम्न्युष्णिक् द्वादशीत्रयोदश्योश्चार्च्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

अति॑सृष्टो अपां वृ॑षभोऽति॑सृष्टा अग्नयो॑ दिव्या: ॥१॥
रुजन्प॑रिरुजन्मृणन्प्र॑मृणन् ॥२॥
म्रोको म॑नोहा खनो नि॑र्दाह आ॑त्मदूषि॑स्तनूदूषि॑: ॥३॥
इदं तमति॑ सृजामि तं माभ्यव॑निक्षि ॥४॥
तेन तमभ्यति॑सृजामो यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥५॥
अपामग्र॑मसि समुद्रं वोऽभ्यव॑सृजामि ॥६॥
यो३ऽप्स्व१ग्निरति तं सृ॑जामि म्रोकं खनिं त॑नूदूषि॑म् ॥७॥
यो व॑ आपोऽग्निरा॑विवेश स एष यद्वो॑ घोरं तदेतत् ॥८॥
इन्द्र॑स्य व इन्द्रियेणाभि षि॑ञ्चेत् ॥९॥
अरिप्रा आपो अप॑ रिप्रमस्मत् ॥१०॥
प्रास्मदेनो॑ वहन्तु प्र दुष्वप्न्यं॑ वहन्तु ॥११॥
शिवेन॑ मा चक्षु॑षा पश्यताप: शिवया॑ तन्वोप॑ स्पृशत त्वचं॑ मे ॥१२॥
शिवानग्नीन॑प्सुषदो॑ हवामहे मयि॑ क्षत्रं वर्च आ ध॑त्त देवी: ॥१३॥
 
 

द्वितीय: सूक्तम्» षडृचस्यास्य पर्यायस्याथर्वा ऋषि: । वाग्देवता ।  प्रथमर्च आसुर्यनुष्टुप्  द्वितीयाया आसुर्युष्णिक्  तृतीयाया: साम्न्युष्णिक्  चतुर्थ्यास्त्रिपदा साम्नी बृहती  पञ्चम्या आर्च्यनुष्टुप्  षष्ठ्याश्च निचृद्विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


निर्दु॑रर्मण्यद्ग ऊर्जा मधु॑मती वाक् ॥१॥
मधु॑मती स्थ मधु॑मतीं वाच॑मुदेयम् ॥२॥
उप॑हूतो मे गोपा: उप॑हूतो गोपीथ: ॥३॥
सुश्रुतौ कर्णौ॑ भद्रश्रुतौ कर्णौ॑ भद्रं श्लोकं॑ श्रूयासम् ॥४॥
सुश्रु॑तिश्च मोप॑श्रुतिश्च मा हा॑सिष्टां सौप॑र्णं चक्षुरज॑स्रं ज्योति॑: ॥५॥
ऋषी॑णां प्रस्तरोद्गऽसि नमो॑ऽस्तु दैवा॑य प्रस्तराय॑ ॥६॥
 
 
 
तृतीय: सूक्तम्» षडृचस्यास्य पर्यायस्य ब्रह्मा ऋषि: । आदित्यो देवता ।  प्रथमर्च आसुरी गायत्री  द्वितीयातृतीययोरार्च्यनुष्टुप्  चतुर्थ्या: प्राजापत्या त्रिष्टुप्  पञ्चम्या: साम्न्युष्णिक्  षष्ठ्याश्च द्विपदा साम्नी त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


मूर्धाहं र॑यीणां मूर्धा स॑मानानां॑ भूयासम् ॥१॥
रुजश्च॑ मा वेनश्च मा हा॑सिष्टां मूर्धा च॑ मा विध॑र्मा च मा हा॑सिष्टाम् ॥२॥
उर्वश्च॑ मा चमसश्च मा हा॑सिष्टां धर्ता च॑ मा धरुण॑श्च मा हा॑सिष्टाम् ॥३॥
विमोकश्च॑ मार्द्रप॑विश्च मा हा॑सिष्टामार्द्रदा॑नुश्च मा मातरिश्वा॑ च मा हा॑सिष्टाम् ॥४॥
बृहस्पति॑र्म आत्मा नृमणा नाम हृद्य॑: ॥५॥
असंतापं मे हृद॑यमुर्वी गव्यू॑ति: समुद्रो अ॑स्मि विध॑र्मणा ॥६॥
 
 
 
चतुर्थ: सूक्तम्» सप्तर्चस्यास्य पर्यायस्य ब्रह्मा ऋषि: । आदित्यो देवता । प्रथमातृतीययोरृचो: साम्न्यनुष्टुप्  द्वितीयाया: साम्न्युष्णिक् चतुर्थ्यास्त्रिपदानुष्टुप्  पञ्चम्या आसुरी गायत्री  षष्ठ्या आर्च्युष्णिक् सप्तम्याश्च त्रिपदा विराड्गर्भानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


नाभि॑रहं र॑यीणां नाभि॑: समानानां॑ भूयासम् ॥१॥
स्वासद॑सि सूषा अमृतो मर्त्येश्वा ॥२॥
मा मां प्राणो हा॑सीन्मो अ॑पानोद्गऽवहाय परा॑ गात् ॥३॥
सूर्यो माह्न॑: पात्वग्नि: पृ॑थिव्या वायुरन्तरि॑क्षाद्यमो म॑नुष्येद्गभ्य: सर॑स्वती पार्थि॑वेभ्य: ॥४॥
प्राणा॑पनौ मा मा॑ हासिष्टं मा जने प्र मे॑षि ॥५॥
स्वस्त्य१द्योषसो॑ दोषस॑श्च सर्व॑ आप: सर्व॑गणो अशीय ॥६॥
शक्व॑री स्थ पशवो मोप॑ स्थेषुर्मित्रावरु॑णौ मे प्राणापानावग्निर्मे दक्षं॑ दधातु ॥७॥
 
 

पञ्चम: सूक्तम्» दशर्चस्यास्य पर्यायस्य यम ऋषि: । दु:स्वप्ननाशनं देवता । प्रथमर्चश्चतुर्थ्यादितृचस्य प्रथमावसानर्चाञ्च विराड्गायत्री  द्वितीयायाश्चतुर्थ्यादिचतुर्द्वितीयावसानर्चां नवम्याश्च प्राजापत्या गायत्री  तृतीयायाश्चतुर्थ्यादिचतुस्तृतीयावसानर्चां दशम्याश्च द्विपदा साम्नी बृहती  सप्तम्या: प्रथमावसानर्चो भुरिग्विराड्गायत्री अष्टम्याश्च स्वराड्विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


विद्म ते॑ स्वप्न जनित्रं ग्राह्या॑: पुत्रोद्गऽसि यमस्य कर॑ण: ॥१॥
अन्त॑कोऽसि मृत्युर॑सि ॥२॥
तं त्वा॑ स्वप्न तथा सं वि॑द्म स न॑: स्वप्न दुष्वप्न्या॑त्पाहि ॥३॥
विद्म ते॑ स्वप्न जनित्रं निरृ॑त्या: पुत्रोद्गऽसि यमस्य कर॑ण: ।
अन्त॑कोऽसि मृत्युर॑सि ।
तं त्वा॑ स्वप्न तथा सं वि॑द्म स न॑: स्वप्न दुष्वप्न्या॑त्पाहि ॥४॥
विद्म ते॑ स्वप्न जनित्रमभू॑त्या: पुत्रोद्गऽसि यमस्य कर॑ण: ।
अन्त॑कोऽसि मृत्युर॑सि ।
तं त्वा॑ स्वप्न तथा सं वि॑द्म स न॑: स्वप्न दुष्वप्न्या॑त्पाहि ॥५॥
विद्म ते॑ स्वप्न जनित्रं निर्भू॑त्या: पुत्रोद्गऽसि यमस्य कर॑ण: ।
अन्त॑कोऽसि मृत्युर॑सि ।
तं त्वा॑ स्वप्न तथा सं वि॑द्म स न॑: स्वप्न दुष्वप्न्या॑त्पाहि ॥६॥
विद्म ते॑ स्वप्न जनित्रं परा॑भूत्या: पुत्रोद्गऽसि यमस्य कर॑ण: ।
अन्त॑कोऽसि मृत्युर॑सि ।
तं त्वा॑ स्वप्न तथा सं वि॑द्म स न॑: स्वप्न दुष्वप्न्या॑त्पाहि ॥७॥
विद्म ते॑ स्वप्न जनित्रं॑ देवजामीनां पुत्रोद्गऽसि यमस्य कर॑ण: ॥८॥
अन्त॑कोऽसि मृत्युर॑सि ॥९॥
तं त्वा॑ स्वप्न तथा सं वि॑द्म स न॑: स्वप्न दुष्वप्न्या॑त्पाहि ॥१०॥
 
 

षष्ठ: सूक्तम्» एकादशर्चस्यास्य पर्यायस्य यम ऋषि: । उषा देवता ।  प्रथमादिचतसृणामृचां प्राजापत्यानुष्टुप्  पञ्चम्या: साम्नी पङ्क्ति:  षष्ठ्या निचृदार्ची बृहती  सप्तम्या द्विपदा साम्नी बृहती  अष्टम्या आसुरी जगती  नवम्या आसुरी बृहती  दशम्या आर्च्युष्णिक् एकादश्याश्च त्रिपदा यवमध्या गायत्री आर्च्यनुष्टुब्वा छन्दांसि॥ (www.hindumantavya.blogspot.in)


अजै॑ष्माद्यास॑नामाद्यामूमाना॑गसो वयम् ॥१॥
उषो यस्मा॑द्दुष्वप्न्यादभैष्माप तदु॑च्छतु ॥२॥
द्विषते तत्परा॑ वह शप॑ते तत्परा॑ वह ॥३॥
यं द्विष्मो यश्च॑ नो द्वेष्टि तस्मा॑ एनद्गमयाम: ॥४॥
उषा देवी वाचा सं॑विदाना वाग्देव्यु१षसा॑ संविदाना ॥५॥
उषस्पति॑र्वाचस्पति॑ना संविदानो वाचस्पति॑रुषस्पति॑ना संविदान: ॥६॥
ते३ऽमुष्मै परा॑ वहन्त्वराया॑न्दुर्णाम्न॑: सदान्वा॑: ॥७॥
कुम्भीका॑: दूषीका: पीय॑कान् ॥८॥
जाग्रद्दुष्वप्न्यं स्व॑प्नेदुष्वप्न्यम् ॥९॥
अना॑गमिष्यतो वरानवि॑त्ते: संकल्पानमु॑च्या द्रुह: पाशा॑न् ॥१०॥
तदमुष्मा॑ अग्ने देवा: परा॑ वहन्तु वघ्रिर्यथासद्विथु॑रो न साधु: ॥११॥
 
 
 
सप्तम: सूक्तम्» त्रयोदशर्चस्यास्य पर्यायस्य यम ऋषि: । दु:स्वप्ननाशनं देवता । प्रथमर्च: पङ्क्ति:  द्वितीयाया: साम्न्यनुष्टुप्  तृतीयाया आसुर्युष्णिक् चतुर्थ्या: प्राजापत्या गायत्री  पञ्चम्या आर्च्युष्णिक् षष्ठीनवम्येकादशीनां साम्नी बृहती  सप्तम्या याजुषी गायत्री अष्टम्या: प्राजापत्या बृहती  दशम्या: साम्नी गायत्री द्वादश्या भुरिक् प्राजापत्यानुष्टुप्  त्रयोदश्याश्चासुरी त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


तेनै॑नं विध्याम्यभू॑त्यैनं विध्यामि निर्भू॑त्यैनं विध्यामि परा॑भूत्यैनं विध्यामि ग्राह्यै॑नं विध्यामि तम॑सैनं विध्यामि ॥१॥
देवाना॑मेनं घोरै: क्रूरै: प्रैषैर॑भिप्रेष्या॑मि ॥२॥
वैश्वानरस्यै॑नं दंष्ट्र॑योरपि॑ दधामि ॥३॥
एवानेवाव सा ग॑रत् ॥४॥
यो३ऽस्मान्द्वेष्टि तमात्मा द्वे॑ष्टु यं वयं द्विष्म: स आत्मानं॑ द्वेष्टु ॥५॥
निर्द्विषन्तं॑ दिवो नि: पृ॑थिव्या निरन्तरि॑क्षाद्भजाम ॥६॥
सुया॑मंश्चाक्षुष ॥७॥
इदमहमा॑मुष्यायणे३ऽमुष्या॑: पुत्रे दुष्वप्न्यं॑ मृजे ॥८॥
यददोअ॑दो अभ्यग॑च्छन्यद्दोषा यत्पूर्वां रात्रि॑म् ॥९॥
यज्जाग्रद्यत्सुप्तो यद्दिवा यन्नक्त॑म् ॥१०॥
यदह॑रहरभिगच्छा॑मि तस्मा॑देनमव॑ दये ॥११॥
तं ज॑हि तेन॑ मन्दस्व तस्य॑ पृष्टीरपि॑ शृणीहि ॥१२॥
स मा जी॑वीत्तं प्राणो ज॑हातु ॥१३॥
 
 
 
अष्टम: सूक्तम्» त्रयस्त्रिंशदृचस्यास्य पर्यायस्य यम ऋषि: । दु:स्वप्ननाशनं देवता । प्रथमर्च: पञ्चम्यादिपञ्चविंशते: प्रथमावसानर्चां त्रिंश्याश्चैकपदा यजुर्ब्राह्म्यनुष्टुप्  द्वितीयाया: पञ्चम्यादिपञ्चविंशतेर्द्वितीयावसानर्चामेकत्रिंश्याश्च त्रिपदा निचृद्गायत्री  तृतीयाया: प्राजापत्या गायत्री  चतुर्थ्या: पञ्चम्यादिपञ्चविंशतेश्चतुर्थावसानर्चां त्रयस्त्रिंश्याश्च त्रिपदा प्राजापत्या त्रिष्टुप् पञ्चम्यादितृचस्य द्वादशीविंशीद्वाविंशीसप्तविंशीनाञ्च तृतीयावसानर्चामासुरी जगती अष्टमीदशम्येकादशीत्रयोदशीचतुर्दशीषोडश्येकविंशीनां तृतीयावसानर्चामासुरी त्रिष्टुप् नवमीपञ्चदश्यो: सप्तदश्यादितृचस्य त्रयोविंश्यादिचतसृणाञ्च तृतीयावसानर्चां द्वात्रिंश्याश्चासुरी पङ्क्ति: अष्टाविंश्येकोनत्रिंश्योश्च तृतीयावसानर्चोरासुरी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ॥१॥
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ॥२॥
स ग्राह्या: पाशान्मा मो॑चि ॥३॥
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥४॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स निरृ॑त्या: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥५॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
सोऽभू॑त्या: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥६॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स निर्भू॑त्या: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥७॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स परा॑भूत्या: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥८॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स दे॑वजामीनां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥९॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स बृहस्पते: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥१०॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स प्रजाप॑ते: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥११॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स ऋ॑षीणां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥१२॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स आ॑र्षेयाणां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥१३॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
सोऽङ्गि॑रसां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥१४॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स आ॑ङ्गिरसानां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥१५॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
सोऽथ॑र्वणां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥१६॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स आ॑थर्वणानां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥१७॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स वनस्पती॑नां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥१८॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स वा॑नस्पत्यानां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥१९॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स ऋ॑तूनां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२०॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स आ॑र्तवानां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२१॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स मासा॑नां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२२॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
सोद्गऽर्धमासानां पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२३॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
सोद्गऽहोरात्रयो: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२४॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
सोऽह्नो॑: संयतो: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२५॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स द्यावा॑पृथिव्यो: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२६॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स इ॑न्द्राग्न्यो: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२७॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स मित्रावरु॑णयो: पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२८॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ।
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ।
स राज्ञो वरु॑णस्य पाशान्मा मो॑चि ।
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥२९॥
जितमस्माकमुद्भि॑न्नमस्माक॑मृतमस्माकं तेजोसस्माकं ब्रह्मास्माकं स्वद्गरस्माकं॑ यज्ञो३ऽस्माकं॑ पशवोऽस्माकं॑ प्रजा अस्माकं॑ वीरा अस्माक॑म् ॥३०॥
तस्मा॑दमुं निर्भ॑जामोऽमुमा॑मुष्यायणममुष्या॑: पुत्रमसौ य: ॥३१॥
स मृत्यो: पड्बी॑शात्पाशान्मा मो॑चि ॥३२॥
तस्येदं वर्चस्तेज॑: प्राणमायुर्नि वे॑ष्टयामीदमे॑नमधराञ्चं॑ पादयामि ॥३३॥
 
 
 
नवम: सूक्तम्» चतुरृचस्यास्य पर्यायस्य यम ऋषि: ।  प्रथमर्च: प्रजापति:  द्वितीयाया मन्त्रोक्ता:  तृतीयाचतुर्थ्योश्च सूर्यो देवता: ।  प्रथमाया आर्च्यनुष्टुप्  द्वितीयाया आर्च्युष्णिक्  तृतीयाया: साम्नी पङ्क्ति:  चतुर्थ्याश्च परोष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


जितमस्माकमुद्भि॑न्नमस्माक॑मभ्यद्गष्ठां विश्वा: पृत॑ना अरा॑ती: ॥१॥
तदग्निरा॑ह तदु सोम॑ आह पूषा मा॑ धात्सुकृतस्य॑ लोके ॥२॥
अग॑न्म स्व१ स्वद्गरगन्म सं सूर्य॑स्य ज्योति॑षागन्म ॥३॥
वस्योभूया॑य वसु॑मान्यज्ञो वसु॑ वंसिषीय वसु॑मान्भूयासं वसु मयि॑ धेहि ॥४॥

॥इति षोडशं काण्डम्॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *