HinduMantavya
Loading...

यजुर्वेद- अध्याय 26, (yajurved Adhyay 26)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 26

 
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 1
अग्निश् च पृथिवी च संनते ते मे सं नमताम् अदः ।
 वायुश् चाऽन्तरिक्षं च संनते ते मे सं नमताम् अदः ।
 ऽ आदित्यश् च द्यौश् च संनते ते मे सं नमताम् अदः ।
 ऽ आपश् च वरुणश् च संनते ते मे सं नमताम् अदः ।
 सप्त सम्̐सदो ऽ अष्टमी भूतसाधनी ।
 सकामाम्̐२ऽ अध्वनस् कुरु संज्ञानम् अस्तु मे ऽमुना ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 2
यथेमां वाचं कल्याणीम् आवदानि जनेभ्यः ।
 ब्रह्मराजन्याभ्याम्̐ शूद्राय चार्याय च स्वाय चारणाय ।
 प्रियो देवानां दक्षिणायै दातुर् इह भूयासम् अयं मे कामः सम् ऋध्यताम् उप मादो नमतु ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 3
बृहस्पते ऽ अति यद् अर्यो ऽ अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु ।
 यद् दीदयच्छवस ऽ ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ।
 उपयामगृहीतो ऽसि बृहस्पतये त्वा ।
 एष ते योनिर् बृहस्पतये त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 4
इन्द्र गोमन्न् इहा याहि पिबा सोमम्̐ शतक्रतो ।
 विद्यद्भिर् ग्रावभिः सुतम् ।
 उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।
 ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 5
इन्द्रा याहि वृत्रहन् पिबा सोमम्̐ शतक्रतो ।
 गोमद्भिर् ग्रावभिः सुतम् ।
 उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।
 ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 6
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् ।
 अजस्रं घर्मम् ईमहे ।
 उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
 एष ते योनिर् वैश्वानराय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 7
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम् अभिश्रीः ।
 इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ।
 उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
 एष ते योनिर् वैश्वानराय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 8
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।
 अग्निर् उक्थेन वाहसा ।
 उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
 एष ते योनिर् वैश्वानराय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 9
अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
 तम् ईमहे महागयम् ।
 उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे ।
 ऽ एष ते योनिर् अग्नये त्वा वर्चसे ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 10
महाम्̐२ऽ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु ।
 हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ।
 उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
 एष ते योनिर् महेन्द्राय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 11
तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः ।
 अभि वत्सं न स्वसरेषु धेनव ऽ इन्द्रं गीर्भिर् नवामहे ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 12
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो ।
 महिषीव त्वद् रयिस् त्वद् वाजा ऽ उद् ईरते ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 13
एह्य् ऊ षु ब्रवाणि ते ऽग्न ऽ इत्थेतरा गिरः ।
 एभिर् वर्धास ऽ इन्दुभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 14
ऋतवस् ते यज्ञं वि तन्वन्तु मासा रक्षन्तु ते हविः ।
 संवत्सरस् ते यज्ञं दधातु नः प्रजां च परि पातु नः ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 15
उपह्वरे गिरीणाम्̐ संगमे च नदीनाम् ।
 धिया विप्रो ऽ अजायत ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 16
उच्चा ते जातम् अन्धसो दिवि सद् भूम्य् आ ददे ।
 उग्रम्̐ शर्म महि श्रवः ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 17
स न ऽ इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
 वरिवोवित् परि स्रव ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 18
एना विश्वान्य् अर्य ऽ आ द्युम्नानि मानुषाणाम् ।
 सिषासन्तो वनामहे ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 19
अनु वीरैर् अनु पुष्यास्म गोभिर् अन्व् अश्वैर् अनु सर्वेण पुष्टैः ।
 अनु द्विपदानु चतुष्पदा वयं देवा नो यज्ञम् ऋतुथा नयन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 20
अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप ।
 त्वष्टारम्̐ सोमपीतये ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 21
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऽ ऋतुना ।
 त्वम्̐ हि रत्नधा ऽ असि ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 22
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
 नेष्ट्राद् ऋतुभिर् इष्यत ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 23
तवायम्̐ सोमस् त्वम् एह्य् अर्वाङ्छश्वत्तमम्̐ सुमना ऽ अस्य पाहि ।
 अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर ऽ इन्दुम् इन्द्र ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 24
अमेव नः सुहवा ऽ आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
 अथा मन्दस्व जुजुषाणो ऽ अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 25
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
 इन्द्राय पातवे सुतः ॥
 
यजुर्वेदः-संहिता | अध्याय 26, मंत्र 26
रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् ।
 द्रुणा(द्रोणे) सधस्थम् आसदत् ॥
 

 

॥इति यजुर्वेदः षड्विंशतितमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *