HinduMantavya
Loading...

यजुर्वेद- अध्याय 11, (yajurved Adhyay 11)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 11




यजुर्वेदः-संहिता | अध्याय 11, मंत्र 1
युञ्जानः प्रथमं मनस् तत्वाय सविता धियम् ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आभरत् ॥


यजुर्वेदः-संहिता | अध्याय 11, मंत्र 2
युक्तेन मनसा वयं देवस्य सवितुः सवे ।
स्वर्ग्याय शक्त्या ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 3
युक्त्वाय सविता देवान्त् स्वर्यतो धिया दिवम् ।
बृहज् ज्योतिः करिष्यतः सविता प्र सुवाति तान् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 4
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 5
युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक ऽ एतु पथ्येव सूरेः ।
शृण्वन्तु विश्वे ऽ अमृतस्य पुत्रा ऽ आ ये धामानि दिव्यानि तस्थुः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 6
यस्य प्रयाणम् अन्व् अन्य ऽ इद् ययुर् देवा देवस्य महिमानम् ओजसा ।
यः पार्थिवानि विममे स ऽ एतशो रजासि देवः सविता महित्वना ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 7
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचं नः स्वदतु ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 8
इमं नो देव सवितर् यज्ञं प्र णय देवाव्यम्̐ सखिविदम्̐ सत्राजितं धनजितम्̐ स्वर्जितम् ।
ऋचा स्तोमम्̐ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 9
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे गायत्रेण छन्दसाङ्गिरस्वत् पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन छन्दसाङ्गिरस्वत् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 10
अभ्रिर् असि नार्य् असि त्वया वयम् अग्निम्̐ शकेम खनितुम्̐ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 11
हस्त ऽ आधाय सविता बिभ्रद् अभ्रिम्̐ हिरण्ययीम् ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आ भर ।
आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 12
प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु सम्वतम् ।
दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 13
युञ्जाथाम्̐ रासभं युवम् अस्मिन् यामे वृषण्वसू ।
अग्निं भरन्तम् अस्मयुम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 14
योगे-योगे तवस्तरं वाजे-वाजे हवामहे ।
सखाय ऽ इन्द्रमूतये ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 15
प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तो रुद्रस्य गाणपत्यं मयोभूर् एहि ।
उर्व् अन्तरिक्षं वीहि ।
स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 16
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर ।
अग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमः ।
ऽ अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 17
अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः ।
अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी ऽ आ ततन्थ ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 18
आगत्य वाज्य् अध्वानम्̐ सर्वा मृधो विधूनुते ।
अग्निम्̐ सधस्थे महति चक्षुषा नि चिकीषते ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 19
आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् ।
भूम्या वृक्त्वाय नो ब्रूहि यतः खनेम तं वयम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 20
द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षम्̐ समुद्रो योनिः ।
विख्याय चक्षुषा त्वम् अभि तिष्ठ पृतन्यतः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 21
उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् ।
वयम्̐ स्याम सुमतौ पृथिव्या ऽ अग्निं खनन्त ऽ उपस्थे ऽ अस्याः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 22
उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकम्̐ सुकृतं पृथिव्याम् ।
ततः खनेम सुप्रतीकम् अग्निम्̐ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 23
आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 24
आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत ।
मर्यश्री स्पृहयद्वर्णो ऽ अग्निर् नाभिमृशे तन्वा जर्भुराणः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 25
परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।
दधद् रत्नानि दाशुषे ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 26
परि त्वाग्ने पुरं वयं विप्रम्̐ सहस्य धीमहि ।
धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 27
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि ।
त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 28
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि ।
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतम् ।
शिवं प्रजाभ्यो ऽहिम्̐सन्तं पृथिव्या सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 29
अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
वर्धमानो महाम्̐२ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 30
शर्म च स्थो वर्म च स्थो ऽच्छिद्रे बहुले ऽ उभे ।
व्यचस्वती सं वसाथां भृतम् अग्निं पुरीष्यम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 31
संवसाथा स्वर्विदा समीची ऽ उरसा त्मना ।
अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 32
पुरीष्यो सि विश्वभरा ऽ अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने ।
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
मूर्ध्नो विश्वस्य वाघतः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 33
तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ऽ ईधे अथर्वणः ।
वृत्रहणं पुरंदरम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 34
तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
धनंजयम्̐ रणे-रणे ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 35
सीद होतः स्व ऽ उ लोके चिकित्वान् सादया यज्ञम्̐ सुकृतस्य योनौ ।
देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 36
नि होता होतृषदने विदानस् त्वेषो दीदिवाम्̐२ ऽ असदत् सुदक्षः ।
अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो ऽ अग्निः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 37
सम्̐ सीदस्व महाम्̐२ ऽ असि शोचस्व देववीतमः ।
वि धूमम् ऽ अग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 38
अपो देवीर् उपसृज मधुमतीर् अयक्ष्माय प्रजाभ्यः ।
तासाम् आस्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 39
सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् ।
यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 40
सुजातो ज्योतिषा सह शर्म वरूथम् आसदत् स्वः ।
वासो ऽ अग्ने विश्वरूपम्̐ संव्ययस्व विभावसो ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 41
उद् उ तिष्ठ स्वध्वरावा नो देव्या धिया ।
दृशे च भासा बृहता शुशुक्वनिर् आग्ने याहि सुशस्तिभिः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 42
ऊर्ध्व ऽ ऊ षु ण ऽ ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 43
स जातो गर्भो ऽ असि रोदस्योर् अग्ने चारुर् विभृत ऽ ओषधीषु ।
चित्रः शिशुः परि तमास्य् अक्तून् प्र मातृभ्यो ऽ अधि कनिक्रदद् गाः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 44
स्थिरो भव वीड्व् अङ्ग ऽ आशुर् भव वाज्य् अर्वन् ।
पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहणः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 45
शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः ।
मा द्यावापृथिवी ऽ अभि शोचीर् मान्तरिक्षं मा वनस्पतीन् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 46
प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा ।
भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा ।
वृषाग्निं वृषणं भरन्न् अपां गर्भम्̐ समुद्रियम् ।
अग्न ऽ आयाहि वीतये ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 47
ऋतम्̐ सत्यम् ऋतम्̐ सत्यम् ।
अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः ।
ओषधयः प्रति मोदध्वम् अग्निम् एतम्̐ शिवम् आयन्तम् अभ्य् अत्र युष्माः ।
व्यस्यन् विश्वा ऽ अनिरा ऽ अमीवा निषीदन् नो ऽ अप दुर्मतिं जहि ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 48
ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः ।
अयं वो गर्भ ऽ ऋत्वियः प्रत्नम्̐ सधस्थम् आसदत् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 49
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो ऽ अमीवाः ।
सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहम्̐ सुहवस्य प्रणीतौ ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 50
आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन ।
महे रणाय चक्षसे ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 51
यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 52
तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 53
मित्रः सम्̐सृज्य पृथिवीं भूमिं च ज्योतिषा सह ।
सुजातं जातवेदसम् अयक्ष्माय त्वा सम्̐ सृजामि प्रजाभ्यः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 54
रुद्राः सम्̐सृज्य पृथिवीं बृहज् ज्योतिः सम् ईधिरे ।
तेषां भानुर् अजस्र ऽ इच् छुक्रो देवेषु रोचते ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 55
सम्̐सृष्टा वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् ।
हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 56
सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा ।
सा तुभ्यम् अदिते मह्योखां दधातु हस्तयोः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 57
उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया ।
माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ ऽ आ ।
मखस्य शिरोऽसि ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 58
वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् ध्रुवासि पृथिव्यसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यम्̐ सुवीर्यम्̐ सजातान् यजमानाय ।
रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवास्य् अन्तरिक्षम् असि ।
धारया मयि प्रजाम्̐ रायस्पोषं गौपत्यम्̐ सुवीर्यम्̐ सजातान् यजमानाय ।
आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् ध्रुवासि द्यौर् असि ।
धारया मयि प्रजा रायस्पोषं गौपत्यम्̐ सुवीर्यम्̐ सजातान् यजमानाय ।
विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् ध्रुवासि दिशोऽसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यम्̐ सुवीर्यम्̐ सजातान् यजमानाय ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 59
अदित्यै राम्नासि ।
अदितिष् टे बिलं गृभ्णातु ।
कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये ।
पुत्रेभ्यः प्रायच्छद् अदितिः श्रपयान् इति ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 60
वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।
रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।
आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत् ।
विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ।
इन्द्रस् त्वा धूपयतु ।
वरुणस् त्वा धूपयतु ।
विष्णु त्वा धूपयतु ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 61
अदितिष् ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् खनत्व् अवट ।
देवानाम् त्वा पत्नीर् देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् दधतूखे ।
धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् अभीन्धताम् उखे ।
वरूत्रीष् ट्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वच् छ्रपयन्तूखे ।
ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ।
जनयस् त्वाच्छिन्नपत्रा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 62
मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 63
देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुर् उत शक्त्या ।
अव्यथमाना पृथिव्याम् आशा दिश ऽ आ पृण ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 64
उत्थाय बृहती भवोद् उ तिष्ठ ध्रुवा त्वम् ।
मित्रैतां तऽउखां परि ददाम्य् अभित्त्या ऽएषा मा भेदि ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 65
वसवस् त्वा छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।
रुद्रास् त्वा छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।
आदित्यास् त्वा छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत् ।
विश्वे त्वा देवा वैश्वानरा ऽ आ छृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 66
आकूतिम् अग्निं प्रयुजम्̐ स्वाहा ।
मनो मेधाम् अग्निं प्रयुजम्̐ स्वाहा ।
चित्तं विज्ञातम् अग्निं प्रयुजम्̐ स्वाहा ।
वाचो विधृतिम् अग्निं प्रयुजम्̐ स्वाहा ।
प्रजापतये मनवे स्वाहा ।
ऽ अग्नये वैश्वानराय स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 67
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 68
मा सु भित्था मा सु रिषो ऽम्ब धृष्णु वीरयस्व सु ।
अग्निश् चेदं करिष्यथः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 69
दृम्̐हस्व देवि पृथिवि स्वस्तय ऽ आसुरी माया स्वधया कृतासि ।
जुष्टं देवेभ्य ऽ इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे ऽ अस्मिन् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 70
द्र्वन्न सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
सहसस् पुत्रो ऽ अद्भुतः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 71
परस्या ऽ अधि संवतो वराम्̐ ऽ अभ्य् आतर ।
यत्राहम् अस्मि ताम्̐ ऽ अव ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 72
परमस्याः परावतो रोहिद् अश्व ऽ इहा गहि ।
पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 73
यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 74
यद् अत्त्य् उपजिह्विका यद् वम्रो ऽ अतिसर्पति ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 75
अहर्-अहर् अप्रयावं भरन्तोऽश्वायेव तिष्ठते घासम् अस्मै ।
रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 76
नाभा पृथिव्याः समिधाने ऽ अग्नौ रायस्पोषाय बृहते हवामहे ।
इरंमदं बृहदुक्थ्यं यजत्रं जेतारम् अग्निं पृतनासु सासहिम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 77
याः सेना ऽ अभीत्वरीर् आव्याधिनीर् उगणा ऽ उत ।
ये स्तेना ये च तस्करास् ताम्̐स् ते ऽ अग्ने ऽपि दधाम्य् आस्ये ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 78
दम्̐ष्ट्राभ्यां मलिम्लून् जम्भ्यैस् तस्कराम्̐ ऽउत ।
हनुभ्याम्̐ स्तेनान् भगवस् ताम्̐स् त्वं खाद सुखादितान् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 79
ये जनेषु मलिम्लव स्तेनासस् तस्करा वने ।
ये कक्षेष्व् अघायवस् ताम्̐स् ते दधामि जम्भयोः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 80
यो ऽ अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः ।
निन्दाद् यो ऽ अस्मान् धिप्साच् च सर्वं तं भस्मसा कुरु ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 81
सम्̐शितं मे ब्रह्म सम्̐शितं वीर्यं बलम् ।
सम्̐शितं क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 82
उद् एषां बाहू ऽ अतिरम् उद् वर्चो ऽ अथो बलम् ।
क्षिणोमि ब्रह्मणामित्रान् उन् नयामि स्वाम्̐ अहम् ॥

यजुर्वेदः-संहिता | अध्याय 11, मंत्र 83
अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः ।
प्र-प्र दातारं तारिष ऽऊर्जं नो धेहि द्विपदे चतुष्पदे ॥


॥इति यजुर्वेदः एकादशोऽध्यायः॥


अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *