HinduMantavya
Loading...

यजुर्वेद- अध्याय 34, (yajurved Adhyay 34)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 34

 

यजुर्वेदः-संहिता | अध्याय 34, मंत्र 1
यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति ।
 दूरंगमं ज्योतिषां ज्योतिर् एकं तन् मे मनः शिवसंकल्पम् अस्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 2
येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
 यद् अपूर्वं यक्षम् अन्तः प्रजानां तन् मे मनः शिवसंकल्पम् अस्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 3
यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतं प्रजासु ।
 यस्मान् न ऽ ऋते किं चन कर्म क्रियते तन् मे मनः शिवसंकल्पम् अस्तु ॥

यजुर्वेदः-संहिता | अध्याय 34, मंत्र 4
येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् ।
 येन यज्ञस् तायते सप्तहोता तन् मे मनः शिवसंकल्पम् अस्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 5
यस्मिन्न् ऋचः साम यजूम्̐षि यस्मिन् प्रतिष्ठिता रथनाभाव् इवाराः ।
 यस्मिम्̐श् चित्तम्̐ सर्वम् ओतं प्रजानं तन् मे मनः शिवसंकल्पम् अस्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 6
सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयते ऽभीशुभिर् वाजिन ऽ इव ।
 हृत्प्रतिष्ठं यद् अजिरं जविष्ठं तन् मे मनः शिवसंकल्पम् अस्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 7
पितुं नु स्तोषं महो धर्माणं तविषीम् ।
 यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 8
अन्व् इद् अनुमते त्वं मन्यासै शं च नस् कृधि ।
 क्रत्वे दक्षाय नो हिनु प्र ण ऽ आयूम्̐षि तारिषः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 9
अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् ।
 अग्निश् च हव्यवाहनो भवतं दाशुषे मयः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 10
सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।
 जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 11
पञ्च नद्यः सरस्वतीम् अपि यन्ति सस्रोतसः ।
 सरस्वती तु पञ्चधा सो देशे ऽभवत् सरित् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 12
त्वम् अग्ने प्रथमो ऽ अङ्गिरा ऽ ऋषिर् देवो देवानाम् अभवः शिवः सखा ।
 तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 13
त्वं नो ऽ अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य ।
 त्राता तोकस्य तनये गवाम् अस्य् अनिमेषम्̐ रक्षणस् तव व्रते ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 14
उत्तानायाम् अव भरा चिकित्वान्त् सद्यः प्रवीता वृषणं जजान ।
 अरुषस्तूपो रुशद् अस्य पाज ऽ इडायास् पुत्रो वयुने ऽजनिष्ट ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 15
इडायास् त्वा पदे वयं नाभा पृथिव्या ऽ अधि ।
 जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 16
प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे ऽ अङ्गिरस्वत् ।
 सुवृक्तिभिः स्तुवत ऽ ऋग्मियायार्चामार्कं नरे विश्रुताय ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 17
प्र वो महे महि नमो भरध्वम् आङ्गूष्यम्̐ शवसानाय साम ।
 येना नः पूर्वे पितरः पदज्ञा ऽ अर्चन्तो ऽ अङ्गिरसो गा ऽ अविन्दन् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 18
इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयाम्̐सि ।
 तितिक्षन्ते ऽ अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 19
न ते दूरे परमा चिद् रजाम्̐स्य् अस्या तु प्र याहि हरिवो हरिभ्याम् ।
 स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने ऽ अग्नौ ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 20
अषाढं युत्सु पृतनासु पप्रिम्̐ स्वर्षाम् अप्सां वृजनस्य गोपाम् ।
 भरेषुजाम्̐ सुक्षितिम्̐ सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 21
सोमो धेनुम्̐ सोमो ऽ अर्वन्तम् आशुम्̐ सोमो वीरं कर्मण्यं ददाति ।
 सादन्यं विदथ्यम्̐ सभेयं पितृश्रवणं यो ददाशद् अस्मै ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 22
त्वम् इमा ऽ ओषधीः सोम विश्वास् त्वम् अपो ऽ अजनयस् त्वं गाः ।
 त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 23
देवेन नो मनसा देव सोम रायो भागम्̐ सहसावन्न् अभि युध्य ।
 मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 24
अष्टौ व्यख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् ।
 हिरण्याक्षः सविता देव ऽ आगाद् दधद् रत्ना दाशुषे वार्याणि ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 25
हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी ऽ अन्तर् ईयते ।
 अपामीवां बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 26
हिरण्यहस्तो ऽ असुरः सुनीथः सुमृडीकः स्ववाँ यात्व् अर्वाङ् ।
 अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 27
ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता ऽ अन्तरिक्षे ।
 तेभिर् नो ऽ अद्य पथिभिः सुगेभी रक्षा च नो ऽ अधि च ब्रूहि देव ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 28
उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् ।
 अविद्रियाभिर् ऊतिभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 29
अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
 अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 30
द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः ।
 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 31
आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।
 हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 32
आ रात्रि पर्थिवम्̐ रजः पितुर् अप्रायि धामभिः ।
 दिवः सदाम्̐सि बृहती वि तिष्ठस ऽ आ त्वेषं वर्तते तमः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 33
उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति ।
 येन तोकं च तनयं च धामहे ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 34
प्रातर् अग्निं प्रातर् इन्द्रम्̐ हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना ।
 प्रातर् भगं पूषणं ब्रह्मणस्पतिं प्रातः सोमम् उत रुद्रम्̐ हुवेम ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 35
प्रातर्जितं भगम् उग्रम्̐ हुवेम वयं पुत्रम् अदितेर् यो विधर्ता ।
 आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 36
भग प्रणेतर् भग सत्यराधो भगेमां धियम् उदवा ददन् नः ।
 भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 37
उतेदानीं भगवन्तः स्यामोत प्रपित्व ऽ उत मध्ये ऽ अह्नाम् ।
 उतोदिता मघवन् सूर्यस्य वयं देवानाम्̐ सुमतौ स्याम ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 38
भग ऽ एव भगवाम्̐२ऽ अस्तु देवास् तेन वयं भगवन्तः स्याम ।
 तं त्वा भग सर्व ऽ इज्जोहवीति स नो भग पुर ऽ एता भवेह ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 39
सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
 अर्वाचीनं वसुविदं भगं नो रथम् इवाश्वा वाजिन ऽ आ वहन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 40
अश्वावतीर् गोमतीर् न ऽ उषासो वीरवतीः सदम् उच्छन्तु भद्राः ।
 घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 41
पूषन् तव व्रते वयं न रिष्येम कदा चन ।
 स्तोतारस् त ऽ इह स्मसि ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 42
पथस्-पथः परिपतिं वचस्या कामेन कृतो ऽ अभ्यानड् अर्कम् ।
 स नो रासच्छुरुधश् चन्द्राग्रा धियं-धियम्̐ सीषधाति प्र पूषा ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 43
त्रीणि पदा वि चक्रमे विष्णुर् गोपा ऽ अदाभ्यः ।
 अतो धर्माणि धारयन् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 44
तद् विप्रासो विपन्यवो जागृवाम्̐सः सम् इन्धते ।
 विष्णोर् यत् परमं पदम् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 45
घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
 द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽ अजरे भूरिरेतसा ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 46
ये नः सपत्ना ऽ अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् ।
 वसवो रुद्रा ऽ आदित्या ऽ उपरिस्पृशं मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 47
आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातं मधुपेयम् अश्विना ।
 प्रायुस् तारिष्टं नी रपाम्̐सि मृक्षतम्̐ सेधतं द्वेषो भवतम्̐ सचाभुवा ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 48
एष व स्तोमो मरुत ऽ इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
 एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 49
सहस्तोमाः सहच्छन्दस ऽ आवृतः सहप्रमा ऽ ऋषयः सप्त दैव्याः ।
 पूर्वेषां पन्थाम् अनुदृश्य धीरा ऽ अन्वालेभिरे रथ्यो न रश्मीन् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 50
आयुष्यं वर्चस्यम्̐ रायस्पोषम् औद्भिदम् ।
 इदम्̐ हिरण्यं वर्चस्वज् जैत्राया विशताद् उ माम् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 51
न तद् रक्षाम्̐सि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजम्̐ ह्य् एतत् ।
 यो बिभर्ति दाक्षायणम्̐ हिरण्यम्̐ स देवेषु कृणुते दीर्घम् आयुः स मनुष्येषु कृणुते दीर्घम् आयुः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 52
यद् आबध्नन् दाक्षायणा हिरण्यम्̐ शतानीकाय सुमनस्यमानाः ।
 तन् म ऽ आ बध्नामि शतशारदायायुष्मान् जरदष्टिर् यथासम् ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 53
उत नो ऽहिर्बुध्न्यः शृणोत्व् अज ऽ एकपात् पृथिवी समुद्रः ।
 विश्वे देवा ऽ ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता ऽ अवन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 54
इमा गिर ऽ आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि ।
 शृणोतु मित्रो ऽ अर्यमा भगो नस् तुविजातो वरुणो दक्षो ऽअम्̐शः ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 55
सप्त ऽ ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम् अप्रमादम् ।
 सप्तापः स्वपतो लोकम् ईयुस् तत्र जागृतो ऽ अस्वप्नजौ सत्रसदौ च देवौ ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 56
उत् तिष्ठ ब्रह्मणस्पते देवयन्तस् त्वेमहे ।
 उप प्र यन्तु मरुतः सुदानव ऽ इन्द्र प्राशूर् भवा सचा ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 57
प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् ।
 यस्मिन्न् इन्द्रो वरुणो मित्रो ऽ अर्यमा देवा ऽ ओकाम्̐सि चक्रिरे ॥
 
यजुर्वेदः-संहिता | अध्याय 34, मंत्र 58
ब्रह्मणस्पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
 विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ।
य ऽ इमा विश्वा । विश्वकर्मा । यो नः पिता । अन्नपते न्नस्य नो देहि ॥

॥इति यजुर्वेदः चतुस्त्रिंशत्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *