HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् १५ (Atharvved Kand 15)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥अथ पञ्चदशं काण्डम्॥

 
प्रथम: पर्याय:» व्रात्य आसीत् इत्यारभ्य अह्ना प्रत्यङ् इत्यन्तानामष्टादशपर्यायाणामथर्वा ऋषि: | प्रथमादिचतुर्णां षष्ठादित्रयोदशानाञ्च पर्यायाणामध्यात्मं व्रात्यो वा पञ्चमस्य च रुद्रो देवता: | अष्टर्चस्यास्य पर्यायस्य  प्रथमर्च: साम्नी पङ्क्ति:  द्वितीयाया द्विपदा साम्नी बृहती  तृतीयाया एकपदा यजुर्ब्राह्म्यनुष्टुप्  चतुर्थ्या एकपदा विराड्गायत्री  पञ्चम्या: साम्न्यनुष्टुप्  षष्ठ्यास्त्रिपदा प्राजापत्या बृहती सप्तम्या आसुरी पङ्क्ति:  अष्टम्याश्च त्रिपदानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
व्रात्य॑ आसीदीय॑मान एव स प्रजाप॑तिं समै॑रयत् ॥१॥
स प्रजाप॑ति: सुवर्ण॑मात्मन्न॑पश्यत्तत्प्राज॑नयत् ॥२॥
तदेक॑मभवत्तल्ललाम॑मभवत्तन्महद॑भवत्तज्ज्येष्ठम॑भवत्तद्ब्रह्मा॑भवत्तत्तपो॑ऽभवत्तत्सत्यम॑भवत्तेन प्राजा॑यत ॥३॥
सोद्गऽवर्धत स महान॑भवत्स म॑हादेवोद्गऽभवत् ॥४॥
स देवाना॑मीशां पर्यैत्स ईशा॑नोऽभवत् ॥५॥
स ए॑कव्रात्योद्ग भवत्स धनुराद॑त्त तदेवेन्द्र॑धनु: ॥६॥
नील॑मस्योदरं लोहि॑तं पृष्ठम् ॥७॥
नीले॑नैवाप्रि॑यं भ्रातृ॑व्यं प्रोर्णो॑ति लोहि॑तेन द्विषन्तं॑ विध्यतीति॑ ब्रह्मवादिनो॑ वदन्ति ॥८॥
 
 
 
द्वितीय: पर्याय:» अष्टाविंशत्यृचस्यास्य पर्यायस्य  प्रथमाषष्ठीनवमीपञ्चदश्येकविंशीषड्विंशीनामृचां साम्न्यनुष्टुप्  द्वितीयाषोडशीद्वाविंशीनां साम्नी त्रिष्टुप्  तृतीयाया द्विपदार्षी पङ्क्ति:  चतुर्थ्यष्टादशीचतुर्विंशीनां द्विपदा ब्राह्मी गायत्री  पञ्चमीत्रयोदशीपञ्चविंशीनां द्विपदार्ची जगती सप्तम्याश्चतुर्दशीविंश्योर्द्वितीयावसानर्चो: सप्तविंश्याश्च पदपङ्क्ति: अष्टम्याश्चतुर्दशीविंश्योस्तृतीयावसानर्चोरष्टाविंश्याश्च त्रिपदा प्राजापत्या त्रिष्टुप्  दशम्या एकपदोष्णिक्  एकादश्या द्विपदार्षी भुरिक्त्रिष्टुप्  द्वादश्या आर्षी परानुष्टुप् चतुर्दश्या: प्रथमावसानर्च: साम्नी पङ्क्ति:  सप्तदश्या द्विपदा विराडार्षी पङ्क्ति:  एकोनविंश्या द्विपदा विराडार्ची जगती  विंश्या आसुरी गायत्री  त्रयोविंश्याश्च निचृदार्षी पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
 

 

स उद॑तिष्ठत्स प्राचीं दिशमनु व्यद्गचलत् ॥१॥
तं बृहच्च॑ रथन्तरं चा॑दित्याश्च विश्वे॑ च देवा अ॑नुव्यद्गचलन् ॥२॥
बृहते च वै स र॑थन्तराय॑ चादित्येभ्य॑श्च विश्वे॑भ्यश्च देवेभ्य आ वृ॑श्चते य एवं विद्वांसं व्रात्य॑मुपवद॑ति ॥३॥
बृहतश्च वै स र॑थन्तरस्य॑ चादित्यानां॑ च विश्वे॑षां च देवानां॑ प्रियं धाम॑ भवति तस्य प्राच्यां॑ दिशि ॥४॥
श्रद्धा पुं॑श्चली मित्रो मा॑गधो विज्ञानं वसोऽह॑रुष्णीषं रात्री केशा हरि॑तौ प्रवर्तौ क॑ल्मलिर्मणि: ॥५॥
भूतं च॑ भविष्यच्च॑ परिष्कन्दौ मनो॑ विपथम् ॥६॥
मातरिश्वा॑ च पव॑मानश्च विपथवाहौ वात: सार॑थी रेष्मा प्र॑तोद: ॥७॥
कीर्तिश्च यश॑श्च पुर:सरादैनं॑ कीर्तिर्ग॑च्छत्या यशो॑ गच्छति य एवं वेद॑ ॥८॥
स उद॑तिष्ठत्स दक्षि॑णां दिशमनु व्यद्गचलत् ॥९॥
तं य॑ज्ञायज्ञियं॑ च वा॑मदेव्यं च॑ यज्ञश्च यज॑मानश्च पशव॑श्चानुव्यद्गचलन् ॥१०॥
यज्ञायज्ञिया॑य च वै स वा॑मदेव्याय॑ च यज्ञाय॑ च यज॑मानाय च पशुभ्यश्चा वृ॑श्चते य एवं विद्वांसं व्रात्य॑मुपवद॑ति ॥११॥
यज्ञायज्ञिय॑स्य च वै स वा॑मदेव्यस्य॑ च यज्ञस्य॑ च यज॑मानस्य च पशूनां च॑ प्रियं धाम॑ भवति तस्य दक्षि॑णायां दिशि ॥१२॥
उषा: पुं॑श्चली मन्त्रो॑ मागधो विज्ञानं वासोऽह॑रुष्णीषं रात्री केशा हरि॑तौ प्रवर्तौ क॑ल्मलिर्मणि: ॥१३॥
अमावास्याद्ग च पौर्णमासी च॑ परिष्कन्दौ मनो॑ विपथम् ।
मातरिश्वा॑ च पव॑मानश्च विपथवाहौ वात: सार॑थी रेष्मा प्र॑तोद: ।
कीर्तिश्च यश॑श्च पुर:सरावैनं॑ कीर्तिर्ग॑च्छत्या यशो॑ गच्छति य एवं वेद॑ ॥१४॥
स उद॑तिष्ठत्स प्रतीचीं दिशमनु व्यद्गचलत् ॥१५॥
तं वै॑रूपं च॑ वैराजं चाप॑श्च वरु॑णश्च राजा॑नुव्यद्गचलन् ॥१६॥
वैरूपाय॑ च वै स वै॑राजाय॑ चाद्भ्यश्च वरु॑णाय च राज्ञ आ वृ॑श्चते य एवं विद्वांसं व्रात्य॑मुपवद॑ति ॥१७॥
वै॑रूपस्य॑ च वै स वै॑राजस्य॑ चापां च वरु॑णस्य च राज्ञ॑: प्रियं धाम॑ भवति तस्य॑ प्रतीच्यां॑ दिशि ॥१८॥
इरा पुं॑श्चली हसो मागधो विज्ञानं वासोऽह॑रुष्णीषं रात्री केशा हरि॑तौ प्रवर्तौ क॑ल्मलिर्मणि: ॥१९॥
अह॑श्च रात्री॑ च परिष्कन्दौ मनो॑ विपथम् ।
मातरिश्वा॑ च पव॑मानश्च विपथवाहौ वात: सार॑थी रेष्मा प्र॑तोद: ।
कीर्तिश्च यश॑श्च पुर:सरावैनं॑ कीर्तिर्ग॑च्छत्या यशो॑ गच्छति य एवं वेद॑ ॥२०॥
स उद॑तिष्ठत्स उदी॑चीं दिशमनु व्यद्गचलत् ॥२१॥
तं श्यैतं च॑ नौधसं च॑ सप्तर्षय॑श्च सोम॑श्च राजा॑नुव्यद्गचलन् ॥२२॥
श्यैताय॑ च वै स नौ॑धसाय॑ च सप्तर्षिभ्य॑श्च सोमा॑य च राज्ञ आ वृ॑श्चते य एवं विद्वांसं व्रात्य॑मुपवद॑ति ॥२३॥
श्यैताय॑ च वै स नौ॑धसाय॑ च सप्तर्षीणां च सोम॑स्य च राज्ञ॑: प्रियं धाम॑ भवति तस्योदी॑च्यां दिशि ॥२४॥
विद्युत्पुं॑श्चली स्त॑नयित्नुर्मा॑गधो विज्ञानं वासोऽह॑रुष्णीषं रात्री केशा हरि॑तौ प्रवर्तौ क॑ल्मलिर्मणि: ॥२५॥
श्रुतं च विश्रु॑तं च परिष्कन्दौ मनो॑ विपथम् ॥२६॥
मातरिश्वा॑ च पव॑मानश्च विपथवाहौ वात: सार॑थी रेष्मा प्र॑तोद: ॥२७॥
कीर्तिश्च यश॑श्च पुर:सरावैनं॑ कीर्तिर्ग॑च्छत्या यशो॑ गच्छति य एवं वेद॑ ॥२८॥
 
 
 
तृतीय: पर्याय:» एकादशर्चस्यास्य पर्यायस्य  प्रथमर्च: पिपीलिकमध्या गायत्री  द्वितीयाया: साम्न्युष्णिक्  तृतीयाया याजुषी जगती  चतुर्थ्या द्विपदार्च्युष्णिक्  पञ्चम्या आर्ची बृहती  षष्ठ्या आसुर्यनुष्टुप्  सप्तम्या: साम्नी गायत्री  अष्टम्या आसुरी पङ्क्ति:  नवम्या आसुरी जगती  दशम्या: प्राजापत्या त्रिष्टुप्  एकादश्याश्च विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

स सं॑वत्सरमूर्ध्वोद्गऽतिष्ठत्तं देवा अ॑ब्रुवन्व्रात्य किं नु ति॑ष्ठसीति॑ ॥१॥
सोद्गऽब्रवीदासन्दीं मे सं भ॑रन्त्विति॑ ॥२॥
तस्मै व्रात्या॑यासन्दीं सम॑भरन् ॥३॥
तस्या॑ ग्रीष्मश्च॑ वसन्तश्च द्वौ पादावास्तां॑ शरच्च॑ वर्षाश्च द्वौ ॥४॥
बृहच्च रथंतरं चा॑नूच्ये३ आस्तां॑ यज्ञायज्ञियं॑ च वामदेव्यं च॑ तिरश्च्येद्ग ॥५॥
ऋच: प्राञ्चस्तन्त॑वो यजूं॑षि तिर्यञ्च॑: ॥६॥
वेद॑ आस्तर॑णं ब्रह्मो॑पबर्ह॑णम् ॥७॥
सामा॑साद उ॑द्गीथोद्गऽपश्रय: ॥८॥
तामा॑सन्दीं व्रात्य आरो॑हत् ॥९॥
तस्य॑ देवजना: प॑रिष्कन्दा आस॑न्त्संकल्पा: प्र॑हाय्या३ विश्वा॑नि भूतान्यु॑पसद॑: ॥१०॥
विश्वा॑न्येवास्य॑ भूतान्यु॑पसदो॑ भवन्ति य एवं वेद॑ ॥११॥
 
 

चतुर्थ: पर्याय:» अष्टादशर्चस्यास्य पर्यायस्य  प्रथमात्रयोदशीषोडशीनामृचां दैवी जगती   द्वितीयाष्टम्योरार्च्यनुष्टुप्  तृतीयाद्वादश्योर्द्विपदा प्राजापत्या जगती  चतुर्थीसप्तमीदशमीनां प्राजापत्या गायत्री  पञ्चम्या: प्राजापत्या पङ्क्ति:  षष्ठ्या आर्ची जगती  नवम्या आर्ची त्रिष्टुप् भौमा  एकादश्या: साम्नी त्रिष्टुप्  चतुर्दश्या: प्राजापत्या बृहती पञ्चदश्यष्टादश्योर्द्विपदार्ची पङ्क्ति:  सप्तदश्याश्चार्च्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

तस्मै प्राच्या॑ दिश: ॥१॥
वासन्तौ मासौ॑ गोप्तारावकु॑र्वन्बृहच्च॑ रथंतरं चा॑नुष्ठातारौ॑ ॥२॥
वासन्तावे॑नं मासौ प्राच्या॑ दिशो गो॑पायतो बृहच्च॑ रथंतरं चानु॑ तिष्ठतो य एवं वेद॑ ॥३॥
तस्मै दक्षि॑णाया दिश: ॥४॥
ग्रैष्मौ मासौ॑ गोप्तारावकु॑र्वन्यज्ञायज्ञियं॑ च वामदेव्यं चा॑नुष्ठातारौ॑ ॥५॥
ग्रैष्मा॑वेनं मासौ दक्षि॑णाया दिशो गो॑पायतो यज्ञायज्ञियं॑ च वामदेव्यं चानु॑ तिष्ठतो य एवं वेद॑ ॥६॥
तस्मै॑ प्रतीच्या॑ दिश: ॥७॥
वार्षि॑कौ मासौ॑ गोप्तारावकु॑र्वन्वैरूपं च वैराजं चा॑नुष्ठातारौ॑ ॥८॥
वार्षि॑कावेनं मासौ॑ प्रतीच्या॑ दिशो गो॑पायतो वैरूपं च॑ वैराजं चानु॑ तिष्ठतो य एवं वेद॑ ॥९॥
तस्मा उदी॑च्या दिश: ॥१०॥
शारदौ मासौ॑ गोप्तारावकु॑र्वञ्छ्यैतं च॑ नौधसं चा॑नुष्ठातारौ॑ ॥११॥
शारदावे॑नं मासावुदी॑च्या दिशो गो॑पायत: श्यैतं च॑ नौधसं चानु॑ तिष्ठतो य एवं वेद॑ ॥१२॥
तस्मै॑ ध्रुवाया॑ दिश: ॥१३॥
हैमनौ मासौ॑ गोप्तारावकु॑र्वन्भूमिं॑ चाग्निं चा॑नुष्ठातारौ॑ ॥१४॥
हैमनावे॑नं मासौ॑ ध्रुवाया॑ दिशो गो॑पायतो भूमि॑श्चाग्निश्चानु॑ तिष्ठतो य एवं वेद॑ ॥१५॥
तस्मा॑ ऊर्ध्वाया॑ दिश: ॥१६॥
शैशिरौ मासौ॑ गोप्तारावकु॑र्वन्भूमिं॑ चादित्यं चा॑नुष्ठातारौ॑ ॥१७॥
शैशिरावे॑नं मासा॑वूर्ध्वाया॑ दिशो गो॑पायतो द्यौश्चा॑दित्यश्चानु॑ तिष्ठतो य एवं वेद॑ ॥१८॥
 
 

पञ्चम: पर्याय:» षोडशर्चस्यास्य पर्यायस्य  प्रथमर्चस्त्रिपदा समविषमा गायत्री  द्वितीयायास्त्रिपदा भुरिगार्ची त्रिष्टुप् तृतीयाया: पञ्चमीसप्तमीनवम्येकादशीत्रयोदशीनां द्वितीयावसानर्चां षोडश्याश्च द्विपदा प्राजापत्यानुष्टुप्  चतुर्थ्यास्त्रिपदा स्वराट् प्राजापत्या पङ्क्ति: पञ्चमीसप्तमीनवमीत्रयोदशीनां प्रथमावसानर्चां त्रिपदा ब्राह्मी गायत्री षष्ठ्यष्टमीद्वादशीनां त्रिपदा ककुप् दशमीचतुर्दश्योर्भुरिग्विषमा गायत्री एकादश्या: प्रथमावसानर्चो निचृद्ब्राह्मी गायत्री  पञ्चदश्याश्च विराट् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

तस्मै प्राच्या॑ दिशो अ॑न्तर्देशाद्भवमि॑ष्वासम॑नुष्ठातार॑मकुर्वन् ॥१॥
भव ए॑नमिष्वास: प्राच्या॑ दिशो अ॑न्तर्देशाद॑नुष्ठातानु॑ तिष्ठति नैनं॑ शर्वो न भवो नेशा॑न: ॥२॥
नास्य॑ पशून्न स॑मानान्हि॑नस्ति य एवं वेद॑ ॥३॥
तस्मै दक्षि॑णाया दिशो अ॑न्तर्देशाच्छर्वमि॑ष्वासम॑नुष्ठातार॑मकुर्वन् ॥४॥
शर्व ए॑नमिष्वासो दक्षि॑णाया दिशो अ॑न्तर्देशाद॑नुष्ठातानु॑ तिष्ठति नैनं॑ शर्वो न भवो नेशा॑न: ।
नास्य॑ पशून्न स॑मानान्हि॑नस्ति य एवं वेद॑ ॥५॥

तस्मै॑ प्रतीच्या॑ दिशो अ॑न्तर्देशात्प॑शुपति॑मिष्वासम॑नुष्ठातार॑मकुर्वन् ॥६॥
पशुपति॑रेनमिष्वास: प्रतीच्या॑ दिशो अ॑न्तर्देशाद॑नुष्ठातानु॑ तिष्ठति नैनं॑ शर्वो न भवो नेशा॑न: ।
नास्य॑ पशून्न स॑मानान्हि॑नस्ति य एवं वेद॑ ॥७॥
तस्मा उदी॑च्या दिशो अ॑न्तर्देशादुग्रं देवमि॑ष्वासम॑नुष्ठातार॑मकुर्वन् ॥८॥
उग्र ए॑नं देव इ॑ष्वास उदी॑च्या दिशो अ॑न्तर्देशाद॑नुष्ठातानु॑ तिष्ठति नैनं॑ शर्वो न भवो नेशा॑न: ।
नास्य॑ पशून्न स॑मानान्हि॑नस्ति य एवं वेद॑ ॥९॥

तस्मै॑ ध्रुवाया॑ दिशो अ॑न्तर्देशाद्रुद्रमि॑ष्वासम॑नुष्ठातार॑मकुर्वन् ॥१०॥
रुद्र ए॑नमिष्वासो ध्रुवाया॑ दिशो अ॑न्तर्देशाद॑नुष्ठातानु॑ तिष्ठति नैनं॑ शर्वो न भवो नेशा॑न: ।
नास्य॑ पशून्न स॑मानान्हि॑नस्ति य एवं वेद॑ ॥११॥
तस्मा॑ ऊर्ध्वाया॑ दिशो अ॑न्तर्देशान्म॑हादेवमि॑ष्वासम॑नुष्ठातार॑मकुर्वन् ॥१२॥
महादेव ए॑नमिष्वास ऊर्ध्वाया॑ दिशो अ॑न्तर्देशाद॑नुष्ठातानु॑ तिष्ठति नैनं॑ शर्वो न भवो नेशा॑न: ।
नास्य॑ पशून्न स॑मानान्हि॑नस्ति य एवं वेद॑ ॥१३॥
तस्मै सर्वे॑भ्यो अन्तर्देशेभ्य ईशा॑नमिष्वासम॑नुष्ठातार॑मकुर्वन् ॥१४॥
ईशा॑न एनमिष्वास: सर्वे॑भ्यो अन्तर्देशेभ्यो॑ऽनुष्ठातानु॑ तिष्ठति नैनं॑ शर्वो न भवो नेशा॑न: ॥१५॥
नास्य॑ पशून्न स॑मानान्हि॑नस्ति य एवं वेद॑ ॥१६॥
 
 
 
षष्ठ: पर्याय:» षड्विंशत्यृचस्यास्य पर्यायस्य   प्रथमाचतुर्थ्योरृचोरासुरी पङ्क्ति: द्वितीयासप्तदश्योरार्ची पङ्क्ति:  तृतीयाया आर्षी पङ्क्ति:  पञ्चम्येकादश्यो: साम्नी त्रिष्टुप्  षष्ठीद्वादश्योर्निचृद्बृहती सप्तमीदशमीत्रयोदशीषोडशीचतुर्विंशीनामासुरी बृहती  अष्टम्या: साम्नी पङ्क्ति:  नवम्या: प्राजापत्या त्रिष्टुप् चतुर्दशीत्रयोविंश्योरार्ची त्रिष्टुप् पञ्चदश्यष्टादश्योर्विराड्जगती  एकोनविंश्या आर्च्युष्णिक्  विंश्या: साम्न्यनुष्टुप्  एकविंश्या आर्ची बृहती  द्वाविंश्या: परोष्णिक्  पञ्चविंश्या आर्च्यनुष्टुप् षड्विंश्याश्च विराड्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

स ध्रुवां दिशमनु व्यद्गचलत् ॥१॥
तं भूमि॑श्चाग्निश्चौष॑धयश्च वनस्पत॑यश्च वानस्पत्याश्च॑ वीरुध॑श्चानुव्यद्गचलन् ॥२॥
भूमे॑श्च वै सो३ऽग्नेश्चौष॑धीनां च वनस्पती॑नां च वानस्पत्यानां॑ च वीरुधां॑ च प्रियं धाम॑ भवति य एवं वेद॑ ॥३॥
स ऊर्ध्वां दिशमनु व्यद्गचलत् ॥४॥
तमृतं च॑ सत्यं च सूर्य॑श्च चन्द्रश्च नक्ष॑त्राणि चानुव्यद्गचलन् ॥५॥
ऋतस्य॑ च वै स सत्यस्य॑ च सूर्य॑स्य च चन्द्रस्य॑ च नक्ष॑त्राणां च प्रियं धाम॑ भवति य एवं वेद॑ ॥६॥
स उ॑त्तमां दिशमनु व्यद्गचलत् ॥७॥
तमृच॑श्च सामा॑नि च यजूं॑षि च ब्रह्म॑ चानुव्यद्गचलन् ॥८॥
ऋचां च वै स साम्नां॑ च यजु॑षां च ब्रह्म॑णश्च प्रियं धाम॑ भवति य एवं वेद॑ ॥९॥
स बृ॑हतीं दिशमनु व्यद्गचलत् ॥१०॥
तमि॑तिहासश्च॑ पुराणं च गाथा॑श्च नाराशंसीश्चा॑नुव्यद्गचलन् ॥११॥
इतिहासस्य॑ च वै स पु॑राणस्य॑ च गाथा॑नां च नाराशंसीनां॑ च प्रियं धाम॑ भवति य एवं वेद॑ ॥१२॥
स प॑रमां दिशमनु व्यद्गचलत् ॥१३॥
तमा॑हवनीय॑श्च गार्ह॑पत्यश्च दक्षिणाग्निश्च॑ यज्ञश्च यज॑मानश्च पशव॑श्चानुव्यद्गचलन् ॥१४॥
आहवनीय॑स्य च वै स गार्ह॑पत्यस्य च दक्षिणाग्नेश्च॑ यज्ञस्य॑ च यज॑मानस्य च पशूनां च॑ प्रियं धाम॑ भवति य एवं वेद॑ ॥१५॥
सोऽना॑दिष्टां दिशमनु व्यद्गचलत् ॥१६॥
तमृतव॑श्चार्तवाश्च लोका॑श्च लौक्याश्च मासा॑श्चार्धमासाश्चा॑होरात्रे चा॑नुव्यद्गचलन् ॥१७॥
ऋतूनां च वै स आ॑र्तवानां॑ च लोका॑नां च लौक्यानां॑ च मासा॑नां चार्धमासानां॑ चाहोरात्रयो॑श्च प्रियं धाम॑ भवति य एवं वेद॑ ॥१८॥
सोऽना॑वृत्तां दिशमनु व्यद्गचलत्ततो नावर्त्स्यन्न॑मन्यत ॥१९॥
तं दितिश्चादि॑तिश्चेडा॑ चेन्द्राणी चा॑नुव्यद्गचलन् ॥२०॥
दिते॑श्च वै सोऽदि॑तेश्चेडा॑याश्चेन्द्राण्याश्च॑ प्रियं धाम॑ भवति य एवं वेद॑ ॥२१॥
स दिशोऽनु व्यद्गचलत्तं विराडनु व्यद्गचलत्सर्वे॑ च देवा: सर्वा॑श्च देवता॑: ॥२२॥
विराज॑श्च वै स सर्वे॑षां च देवानां सर्वा॑सां च देवता॑नां प्रियं धाम॑ भवति य एवं वेद॑ ॥२३॥
स सर्वा॑नन्तर्देशाननु व्यद्गचलत् ॥२४॥
तं प्रजाप॑तिश्च परमेष्ठी च॑ पिता च॑ पितामहश्चा॑नुव्यद्गचलन् ॥२५॥
प्रजाप॑तेश्च वै प॑रमेष्ठिन॑श्च पितुश्च॑ पितामहस्य॑ च प्रियं धाम॑ भवति य एवं वेद॑ ॥२६॥
 
 
 
सप्तम: पर्याय:» पञ्चर्चस्यास्य पर्यायस्य  प्रथमर्चस्त्रिपदा निचृद्गायत्री द्वितीयाया एकपदा विराड्बृहती  तृतीयाया विराडुष्णिक् चतुर्थ्या एकपदा गायत्री  पञ्चम्याश्च पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

स म॑हिमा सद्रु॑र्भूत्वान्तं॑ पृथिव्या अ॑गच्छत्स स॑मुद्रोद्गऽभवत् ॥१॥
तं प्रजाप॑तिश्च परमेष्ठी च॑ पिता च॑ पितामहश्चाप॑श्च श्रद्धा च॑ वर्षं भूत्वानुव्यद्गवर्तयन्त ॥२॥
ऐनमापो॑ गच्छत्यैनं॑ श्रद्धा ग॑च्छत्यैनं॑ वर्षं ग॑च्छति य एवं वेद॑ ॥३॥
तं श्रद्धा च॑ यज्ञश्च॑ लोकश्चान्नं॑ चान्नाद्यं॑ च भूत्वाभि॑पर्याव॑र्तन्त ॥४॥
ऐनं॑ श्रद्धा ग॑च्छत्यैनं॑ यज्ञो ग॑च्छत्यैनं॑ लोको ग॑च्छत्यैनमन्नं॑ गच्छत्यैन॑मन्नाद्यं॑ गच्छति य एवं वेद॑ ॥५॥
 
 
 
अष्टम: पर्याय:» तृचस्यास्य पर्यायस्य प्रथमर्च: साम्न्युष्णिक्  द्वितीयाया: प्राजापत्यानुष्टुप्  तृतीयायाश्चार्ची पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

सोद्गऽरज्यत ततो॑ राजन्योद्गऽजायत ॥१॥
स विश: सब॑न्धूनन्न॑मन्नाद्य॑मभ्युद॑तिष्ठत् ॥२॥
विशां च वै स सब॑न्धूनां चान्न॑स्य चान्नाद्य॑स्य च प्रियं धाम॑ भवति य एवं वेद॑ ॥३॥
 
 
 
नवम: पर्याय:» तृचस्यास्य पर्यायस्य  प्रथमर्च आसुरी जगती द्वितीयाया आर्ची गायत्री  तृतीयायाश्चार्ची पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


स विशोऽनु व्यद्गचलत् ॥१॥
तं सभा च समि॑तिश्च सेना॑ च शुरा॑ चानुव्यद्गचलन् ॥२॥
सभायाश्च वै स समि॑तेश्च सेना॑याश्च सुरा॑याश्च प्रियं धाम॑ भवति य एवं वेद॑ ॥३॥
 
 

दशम: पर्याय:» एकादशर्चस्यास्य पर्यायस्य  प्रथमर्चो द्विपदा साम्नी बृहती  द्वितीयायास्त्रिपदार्ची पङ्क्ति:  तृतीयाया द्विपदा प्राजापत्या पङ्क्ति: चतुर्थ्यास्त्रिपदा वर्धमाना गायत्री  पञ्चम्यास्त्रिपदा साम्नी बृहती षष्ठ्यष्टमीदशमीनां द्विपदासुरी गायत्री  सप्तमीनवम्यो: साम्न्युष्णिक्  एकादश्याश्चासुरी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


तद्यस्यैवं विद्वान्व्रात्यो राज्ञोऽति॑थिर्गृहानागच्छे॑त् ॥१॥
श्रेयां॑समेनमात्मनो॑ मानयेत्तथा॑ क्षत्राय ना वृ॑श्चते तथा॑ राष्ट्राय ना वृ॑श्चते ॥२॥
अतो वै ब्रह्म॑ च क्षत्रं चोद॑तिष्ठतां ते अ॑ब्रूतां कं प्र वि॑शावेति॑ ॥३॥
अतो वै बृहस्पति॑मेव ब्रह्म प्र वि॑शत्विन्द्रं॑ क्षत्रं तथा वा इति॑ ॥४॥
अतो वै बृहस्पति॑मेव ब्रह्म प्रावि॑शदिन्द्रं॑ क्षत्रम् ॥५॥
इयं वा उ॑ पृथिवी बृहस्पतिर्द्यौरेवेन्द्र॑: ॥६॥
अयं वा उ॑ अग्निर्ब्रह्मासावा॑दित्य: क्षत्रम् ॥७॥
ऐनं ब्रह्म॑ गच्छति ब्रह्मवर्चसी भ॑वति ॥८॥
य: पृ॑थिवीं बृहस्पति॑मग्निं ब्रह्म वेद॑ ॥९॥
ऐन॑मिन्द्रियं ग॑च्छतीन्द्रियवा॑न्भवति ॥१०॥
य आ॑दित्यं क्षत्रं दिवमिन्द्रं वेद॑ ॥११॥
 
 
 
एकादश: पर्याय:» एकादशर्चस्यास्य पर्यायस्य  प्रथमर्चो दैवी पङ्क्ति:  द्वितीयाया द्विपदा पूर्वात्रिष्टुबतिशक्वरी   तृतीयादिचतसृणामष्टम्याश्च निचृदार्ची बृहती   सप्तमीनवम्योर्द्विपदा प्राजापत्या बृहती  दशम्या भुरिगार्ची बृहती एकादश्याश्च द्विपदार्च्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


तद्यस्यैवं विद्वान्व्रात्योऽति॑थिर्गृहानागच्छे॑त् ॥१॥
स्वयमे॑नमभ्युदेत्य॑ ब्रूयाद्व्रात्य क्वाद्गवात्सीर्व्रात्यो॑दकं व्रात्य॑ तर्पय॑न्तु व्रात्य यथा॑ ते प्रियं तथा॑स्तु व्रात्य यथा॑ ते वशस्तथा॑स्तु व्रात्य यथा॑ ते निकामस्तथास्त्विति॑ ॥२॥
यदे॑नमाह व्रात्य क्वाद्गवात्सीरिति॑ पथ एव तेन॑ देवयानानव॑ रुन्धे ॥३॥
यदे॑नमाह व्रात्यो॑दकमित्यप एव तेनाव॑ रुन्धे ॥४॥
यदे॑नमाह व्रात्य तर्पयन्त्विति॑ प्राणमेव तेन वर्षी॑यांसं कुरुते ॥५॥
यदे॑नमाह व्रात्य यथा॑ ते प्रियं तथास्त्विति॑ प्रियमेव तेनाव॑ रुन्धे ॥६॥
ऐनं॑ प्रियं ग॑च्छति प्रिय: प्रियस्य॑ भवति य एवं वेद॑ ॥७॥
यदे॑नमाह व्रात्य यथा॑ ते वशस्तथास्त्विति वश॑मेव तेनाव॑ रुन्धे ॥८॥
ऐनं वशो॑ गच्छति वशी वशिनां॑ भवति य एवं वेद॑ ॥९॥
यदे॑नमाह व्रात्य यथा॑ ते निकामस्तथास्त्विति॑ निकाममेव तेनाव॑ रुन्धे ॥१०॥
ऐनं॑ निकामो ग॑च्छति निकामे नि॑कामस्य॑ भवति य एवं वेद॑ ॥११॥
 
 
 
द्वादश: पर्याय:» एकादशर्चस्यास्य पर्यायस्य  प्रथमर्चस्त्रिपदा गायत्री  द्वितीयाया: प्राजापत्या बृहती  तृतीयाया भुरिक्प्राजापत्यानुष्टुप्  चतुर्थ्या भुरिक्साम्न्यनुष्टुप्  पञ्चमीषष्ठीनवमीदशमीनामासुरी गायत्री  सप्तम्येकादश्योस्त्रिपदा प्राजापत्या त्रिष्टुप्  अष्टम्याश्च विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

तद्यस्यैवं विद्वान्व्रात्य उद्धृ॑तेष्वग्निष्वधि॑श्रितेऽग्निहोत्रेऽति॑थिर्गृहानागच्छे॑त् ॥१॥
स्वयमे॑नमभ्युदेत्य॑ ब्रूयाद्व्रात्याति॑ सृज होष्यामीति॑ ॥२॥
स चा॑तिसृजेज्जु॑हुयान्न चा॑तिसृजेन्न जु॑हुयात् ॥३॥
स य एवं विदुषा व्रात्येनाति॑सृष्टो जुहोति॑ ॥४॥
प्र पि॑तृयाणं पन्थां॑ जानाति प्र दे॑वयान॑म् ॥५॥
न देवेष्वा वृ॑श्चते हुतम॑स्य भवति ॥६॥
पर्य॑स्यास्मिँल्लोक आयत॑नं शिष्यते य एवं विदुषा व्रात्येनाति॑सृष्टो जुहोति॑ ॥७॥
अथ य एवं विदुषा व्रात्येनान॑तिसृष्टो जुहोति॑ ॥८॥
न पि॑तृयाणं पन्थां॑ जानाति न दे॑वयान॑म् ॥९॥
आ देवेषु॑ वृश्चते अहुतम॑स्य भवति ॥१०॥
नास्यास्मिँल्लोक आयत॑नं शिष्यते य एवं विदुषा व्रात्येनान॑तिसृष्टो जुहोति॑ ॥११॥
 
 

त्रयोदश: पर्याय:» चतुर्दशर्चस्यास्य पर्यायस्य  प्रथमर्च: साम्न्युष्णिक्   द्वितीयाषष्ठ्यो: प्राजापत्यानुष्टुप्  ५  तृतीयापञ्जमीसप्तमीनामासुरी गायत्री चतुर्थ्यष्टम्यो: साम्नी बृहती  नवम्या द्विपदा निचृद्गायत्री  दशम्या द्विपदा विराड्गायत्री  एकादश्या: प्राजापत्या पङ्क्ति:  द्वादश्या आसुरी जगती  त्रयोदश्या: सत:पङ्क्ति:  चतुर्दश्याश्चाक्षरपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

तद्यस्यैवं विद्वान्व्रात्य एकां रात्रिमति॑थिर्गृहे वस॑ति ॥१॥
ये पृ॑थिव्यां पुण्या॑ लोकास्तानेव तेनाव॑ रुन्धे ॥२॥
तद्यस्यैवं विद्वान्व्रात्यो॑ द्वितीयां रात्रिमति॑थिर्गृहे वस॑ति ॥३॥
ये३ऽन्तरि॑क्षे पुण्या॑ लोकास्तानेव तेनाव॑ रुन्धे ॥४॥
तद्यस्यैवं विद्वान्व्रात्य॑स्तृतीयां रात्रिमति॑थिर्गृहे वस॑ति ॥५॥
ये दिवि पुण्या॑ लोकास्तानेव तेनाव॑ रुन्धे ॥६॥
तद्यस्यैवं विद्वान्व्रात्य॑श्चतुर्थीं रात्रिमति॑थिर्गृहे वस॑ति ॥७॥
ये पुण्या॑नां पुण्या॑ लोकास्तानेव तेनाव॑ रुन्धे ॥८॥
तद्यस्यैवं विद्वान्व्रात्योऽप॑रिमिता रात्रिमति॑थिर्गृहे वस॑ति ॥९॥
य एवाप॑रिमिता: पुण्या॑ लोकास्तानेव तेनाव॑ रुन्धे ॥१०॥
अथ यस्याव्रा॑त्यो व्रात्यब्रुवो ना॑मबिभ्रत्यति॑थिर्गृहानागच्छे॑त् ॥११॥
कर्षे॑देनं न चै॑नं कर्षे॑त् ॥१२॥
अस्यै देवता॑या उदकं या॑चामीमां देवतां॑ वासय इमामिमां देवतां परि॑ वेवेष्मीत्ये॑नं परि॑ वेविष्यात् ॥१३॥
तस्या॑मेवास्य तद्देवता॑यां हुतं भ॑वति य एवं वेद॑ ॥१४॥
 
 

चतुर्दश: पर्याय:» चतुर्विंशत्यृचस्यास्य पर्यायस्य  प्रथमर्चस्त्रिपदानुष्टुप् द्वितीयाचतुर्थीषष्ठ्यष्टमीदशमीविंशीद्वाविंशीचतुर्विंशीनां द्विपदासुरी गायत्री   तृतीयानवम्यो: पुर उष्णिक्  पञ्चम्या अनुष्टुप्  सप्तम्या: प्रस्तारपङ्क्ति:  एकादश्या: स्वराड्गायत्री द्वादशीचतुर्दशीषोडश्यष्टादशीनां भुरिक्प्राजापत्यानुष्टुप् त्रयोदशीपञ्चदश्यो:  सप्तदश्याश्च आर्ची पङ्क्ति:  एकोनविंश्या भुरिङ्नागी गायत्री  एकविंश्या: प्राजापत्या त्रिष्टुप् त्रयोविंश्याश्च निचृदार्ची पङ्क्ति: छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

स यत्प्राचीं दिशमनु व्यच॑लन्मारु॑तं शर्धो॑ भूत्वानुव्यद्गचलन्मनो॑ऽन्नादं कृत्वा ॥१॥
मन॑सान्नादेनान्न॑मत्ति य एवं वेद॑ ॥२॥
स यद्दक्षि॑णां दिशमनु व्यच॑लदिन्द्रो॑ भूत्वानुव्यद्गचलद्बल॑मन्नादं कृत्वा ॥३॥
बले॑नान्नादेनान्न॑मत्ति य एवं वेद॑ ॥४॥
स यत्प्रतीचीं दिशमनु व्यच॑लद्वरु॑णो राजा॑ भूत्वानुव्यद्गचलदपोद्गऽन्नादी: कृत्वा ॥५॥
अद्भिर॑न्नादीभिरन्न॑मत्ति य एवं वेद॑ ॥६॥
स यदुदी॑चीं दिशमनु व्यच॑लत्सोमो राजा॑ भूत्वानुव्यद्गचलत् सप्तर्षिभि॑र्हुत आहु॑तिमन्नादीं कृत्वा ॥७॥
आहु॑त्यान्नाद्यान्न॑मत्ति य एवं वेद॑ ॥८॥
स यद्ध्रुवां दिशमनु व्यच॑लद्विष्णु॑र्भूत्वानुव्यद्गचलद्विराज॑मन्नादीं कृत्वा ॥९॥
विराजा॑न्नाद्यान्न॑मत्ति य एवं वेद॑ ॥१०॥
स यत्पशूननु व्यच॑लद्रुद्रो भूत्वानुव्यद्गचलदोष॑धीरन्नादी: कृत्वा ॥११॥
ओष॑धीभिरन्नादीभिरन्न॑मत्ति य एवं वेद॑ ॥१२॥
स यत्पितॄननु व्यच॑लद्यमो राजा॑ भूत्वानुव्यद्गचलत्स्वधाकारम॑न्नादं कृत्वा ॥१३॥
स्वधाकारेणा॑न्नादेनान्न॑मत्ति य एवं वेद॑ ॥१४॥
स यन्म॑नुष्या३ननु व्यच॑लदग्निर्भूत्वानुव्यद्गचलत्स्वाहाकारम॑न्नादं कृत्वा ॥१५॥
स्वाहाकारेणा॑न्नादेनान्न॑मत्ति य एवं वेद॑ ॥१६॥
स यदूर्ध्वां दिशमनु व्यच॑लद्बृहस्पति॑र्भूत्वानुव्यद्गचलद्वषट्कारम॑न्नादं कृत्वा ॥१७॥
वषट्कारेणा॑न्नादेनान्न॑मत्ति य एवं वेद॑ ॥१८॥
स यद्देवाननु व्यच॑लदीशा॑नो भूत्वानुव्यद्गचलन्मन्युम॑न्नादं कृत्वा ॥१९॥
मन्युना॑न्नादेनान्न॑मत्ति य एवं वेद॑ ॥२०॥
स यत्प्रजा अनु व्यच॑लत्प्रजाप॑तिर्भूत्वानुव्यद्गचलत्प्राणम॑न्नादं कृत्वा ॥२१॥
प्राणेना॑न्नादेनान्न॑मत्ति य एवं वेद॑ ॥२२॥
स यत्सर्वा॑न्नन्तर्देशाननु व्यच॑लत्परमेष्ठी भूत्वानुव्यद्गचलद्ब्रह्मा॑न्नादं कृत्वा ॥२३॥
ब्रह्म॑णान्नादेनान्न॑मत्ति य एवं वेद॑ ॥२४॥
 
 
 
पञ्चदश: पर्याय:» नवर्चस्यास्य पर्यायस्य  प्रथमर्च: तृतीयादिषु तस्य व्रात्यस्य इत्यस्य च दैवी पङ्क्ति:  द्वितीयाया आसुरी बृहती  तृतीयाया: प्राजापत्यानुष्टुप् चतुर्थीसप्तम्यष्टमीनां भुरिक्प्राजापत्यानुष्टुप् पञ्चमीषष्ठ्योर्द्विपदा साम्नी बृहती नवम्याश्च विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

तस्य व्रात्य॑स्य ॥१॥
सप्त प्राणा: सप्तापाना: सप्त व्याना: ॥२॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य प्रथम: प्राण ऊर्ध्वो नामायं सो अग्नि: ॥३॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य द्वितीय॑: प्राण: प्रौढो नामासौ स आ॑दित्य: ॥४॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य तृतीय॑: प्राणो३ऽभ्यूद्गढो नामासौ स चन्द्रमा॑: ॥५॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य चतुर्थ: प्राणो विभूर्नामायं स पव॑मान: ॥६॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य पञ्चम: प्राणो योनिर्नाम ता इमा आप: ॥७॥
तस्य व्रात्य॑स्य ।
योद्ग ऽस्य षष्ठ: प्राण: प्रियो नाम त इमे पशव॑: ॥८॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य सप्तम: प्राणोऽप॑रिमितो नाम ता इमा: प्रजा: ॥९॥
 
 
 
षोडश: पर्याय:» सप्तर्चस्यास्य पर्यायस्य   प्रथमातृतीययोरृचो: साम्न्युष्णिक् सर्वासु तस्य व्रात्यस्य इत्यस्य दैवी पङ्क्ति:  ४ द्वितीयाचतुर्थीपञ्चमीनां प्राजापत्योष्णिक्  षष्ठ्या याजुषी त्रिष्टुप्  सप्तम्याश्चासुरी गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
तस्य व्रात्य॑स्य ।
योद्गऽस्य प्रथमोद्गऽपान: सा पौ॑र्णमासी ॥१॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य द्वितीयो॑ऽपान: साष्ट॑का ।
तस्य व्रात्य॑स्य ।
योद्गऽस्य तृतीयो॑ऽपान: सामा॑वास्याद्ग ॥३॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य चतुर्थोद्गऽपान: सा श्रद्धा ॥४॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य पञ्चमोद्गऽपान: सा दीक्षा ॥५॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य षष्टोद्गऽपान: स यज्ञ: ॥६॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य सप्तमोद्गऽपानस्ता इमा दक्षि॑णा: ॥७॥
 
 
 

सप्तदश: पर्याय:» दशर्चस्यास्य पर्यायस्य   प्रथमापञ्चम्यो: प्राजापत्योष्णिक् सर्वासु तस्य व्रात्यस्य इत्यस्य दैवी पङ्क्ति:   द्वितीयासप्तम्योरासुर्यनुष्टुप्  तृतीयाया याजुषी पङ्क्ति:  चतुर्थ्या: साम्न्युष्णिक्  षष्ठ्या याजुषी त्रिष्टुप्  अष्टम्यास्त्रिपदा प्रतिष्ठार्ची पङ्क्ति:  नवम्या द्विपदा साम्नी त्रिष्टुप् दशम्याश्च साम्न्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

तस्य व्रात्य॑स्य ।
योद्गऽस्य प्रथमो व्यान: सेयं भूमि॑: ॥१॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य द्वितीयो॑ व्यानस्तदन्तरि॑क्षम् ॥२॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य तृतीयो॑ व्यान: सा द्यौ: ॥३॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य चतुर्थो व्यानस्तानि नक्ष॑त्राणि ॥४॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य पञ्चमो व्यानस्त ऋतव॑: ॥५॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य षष्ठो व्यानस्त आ॑र्तवा: ॥६॥
तस्य व्रात्य॑स्य ।
योद्गऽस्य सप्तमो व्यान: स सं॑वत्सर: ॥७॥
तस्य व्रात्य॑स्य ।
समानमर्थं परि॑ यन्ति देवा: सं॑वत्सरं वा एतदृतवो॑ऽनुपरि॑यन्ति व्रात्यं॑ च ॥८॥
तस्य व्रात्य॑स्य ।
यदा॑दित्यम॑भिसंविशन्त्य॑मावास्यांद्ग चैव तत्पौ॑र्णमासीं च॑ ॥९॥
तस्य व्रात्य॑स्य ।
एकं तदे॑षाममृतत्वमित्याहु॑तिरेव ॥१०॥
 
 
 

अष्टादश: पर्याय:» पञ्चर्चस्यास्य पर्यायस्य  प्रथमर्चो दैवी पङ्क्ति: द्वितीयातृतीययोरार्ची बृहती  चतुर्थ्या आर्च्यनुष्टुप् पञ्चम्याश्च साम्न्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

तस्य व्रात्य॑स्य ॥१॥
यद॑स्य दक्षि॑णमक्ष्यसौ स आ॑दित्यो यद॑स्य सव्यमक्ष्यसौ स चन्द्रमा॑: ॥२॥
योद्गऽस्य दक्षि॑ण: कर्णोऽयं सो अग्निर्योद्गऽस्य सव्य: कर्णोऽयं स पव॑मान: ॥३॥
अहोरात्रे नासि॑के दितिश्चादि॑तिश्च शीर्षकपाले सं॑वत्सर: शिर॑: ॥४॥
अह्ना॑ प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्या॑य ॥५॥
 
॥इति पञ्चदशं काण्डम्॥

अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *