HinduMantavya
Loading...

सामवेद संहिता- उत्तरार्चिकः नवमप्रपाठकः (Samved Samhita Purvarchik-9)

Google+ Whatsapp


अथ विंशोऽध्यायः

अथ नवमप्रपाठके प्रथमोऽर्धः

(ऋषि- नृमेध आङ्गिरसः, प्रियमेध आङ्गिरसः, दीर्घतमा औचथ्यः, वामदेवो गौतमः, प्रस्कण्वः काण्वः, बृहदुक्थो वामदेव्यः, बिन्दुः पूतदक्षो वा आंगिरसः, जमदग्निर्भार्गवः, सुकक्ष आंगिरसः, वसिष्ठो मैत्रावरुणिः, सुदाः पैजवनः, मेधातिथिः काण्वः, नीपातिथिः काण्वः, परुच्छेपो दैवोदासिः, | देवता- पवमानः सोमः, इन्द्रः, अग्निः, मरुतः, सूर्यः, | छन्द- गायत्री, अनुष्टुम्मुखः प्रगाथः, विराट्, पदपंक्तिः, प्रगाथः, त्रिष्टुप्, शक्वरी, अत्यष्टिः)
 
प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
देवां अनु प्रभूषतः ॥१७६५॥
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
ज्योतिर्जज्ञानमुक्थ्यं ॥१७६६॥
सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
वर्धा समुद्रमुक्थ्यं ॥१७६७॥
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥१७६८॥
त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥१७६९॥
वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥१७७०॥
आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि ।
तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिं ॥१७७१॥
तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
आ पप्राथ महित्वना ॥१७७२॥

यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
हस्ता वज्रं हिरण्ययं ॥१७७३॥
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व ।
सूरो न रुरुक्वाञ्छतात्मा ॥१७७४॥
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचनो अस्थात् ।
होता यजिष्ठो अपां सधस्थे ॥१७७५॥
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
मर्तो यो अस्मै सुतुको ददाश ॥१७७६॥
अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृषं ।
ऋध्यामा त ओहैः ॥१७७७॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीरृतस्य बृहतो बभूथ ॥१७७८॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३र्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥१७७९॥
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ॥१७८०॥
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणां ।
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत्॥१७८१॥
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।
देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥१७८२॥
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः ।
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥१७८३॥
ऐभिर्ददे वृष्ण्या प्ॐस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥१७८४॥
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
उत स्वराजो अश्विना ॥१७८५॥
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
त्रिषधस्थस्य जावतः ॥१७८६॥
उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः ।
प्रातर्होतेव मत्सति ॥१७८७॥
बण्महां असि सूर्य बडादित्य महां असि ।
महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि ॥१७८८॥
बट्सूर्य श्रवसा महां असि सत्रा देव महां असि ।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यं ॥१७८९॥
उप नो हरिभिः सुतं याहि मदानां पते ।
उप नो हरिभिः सुतं ॥१७९०॥
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
उप नो हरिभिः सुतं ॥१७९१॥
त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।
उप नो हरिभिः सुतं ॥१७९२॥
प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वं ।
विशः पूर्वीः प्र चर चर्षणिप्राः ॥१७९३॥
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
तस्य व्रतानि न मिनन्ति धीराः ॥१७९४॥
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
हर्यश्वाय बर्हया समापीन्॥१७९५॥
यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषं ॥१७९६॥
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥१७९७॥
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषां ।
कृष्वा दुवांस्यन्तमा सचेमा ॥१७९८॥
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
सदा ते नाम स्वयशो विवक्मि ॥१७९९॥
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
मारे अस्मन्मघवञ्ज्योक्कः ॥१८००॥
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह ।
अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१८०१॥
त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिं ।
अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं ।
तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१८०२॥
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति ।
या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१८०३॥
रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
प्रेदु हरिवः सुतस्य ॥१८०४॥
उक्थं च न शस्यमानं नागो रयिरा चिकेत ।
न गायत्रं गीयमानं ॥१८०५॥
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
शिक्षा शचीवः शचीभिः ॥१८०६॥
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिं ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०७॥
अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०८॥
आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०९॥
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥१८१०॥
ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥१८११॥
असृग्रं देववीतये वाजयन्तो रथा इव ॥१८१२॥
अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥१८१३॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्रमन्मभिः ।
परिज्मानमिव द्यां होतारं चर्षणीनां ।
शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥१८१४॥
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।
वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरं ।
निष्षहमाणो यमते नायते धन्वासहा नायते ॥१८१५॥
इति नवमप्रपाठके प्रथमोऽर्धः
 
 
 

अथ नवमप्रपाठके द्वितीयोऽर्धः

(ऋषि- अग्निः पावकः, सोभरिः काण्वः, अरुणो वैतहव्यः, अवत्सारः काश्यपः, गोषूक्त्यश्वसूक्तिनौ काण्वायनौः, त्रिशिरात्वाष्ट्रः सिन्धुद्वीप आम्बरीषो वा, उलो वातायनः, वेनो भार्गवः, | देवता- अग्निः, विश्वे देवाः, इन्द्रः, आपः, वायुः, वेनः, | छन्द- विष्टारपंक्तिः, सतोबृहती, उपरिष्टाज्ज्योतिः, काकुभः प्रगाथः, जगती, त्रिष्टुप्, गायत्री)
 
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।
बृहद्भानो शवसा वाजमुक्थ्य३ं दधासि दाशुषे कवे ॥१८१६॥
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥१८१७॥
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।
त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥१८१८॥
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।
स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुं ॥१८१९॥
इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।
रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिं ॥१८२०॥
ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥१८२१॥
प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः ।
यस्य त्वं सख्यमाविथ ॥१८२२॥
तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।
त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥१८२३॥
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।
तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥१८२४॥
अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति ।
महिषीव वि जायते ॥१८२५॥
यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।
यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१८२६॥
अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति ।
अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१८२७॥
नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः ।
युञ्जे वाचं शतपदीं ॥१८२८॥
युञ्जे वाचं शतपदीं गाये सहस्रवर्त्तनि ।
गायत्रं त्रैष्टुभं जगत्॥१८२९॥
गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता ।
देवा ओकांसि चक्रिरे ॥१८३०॥
अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः ।
सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥१८३१॥
पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा ।
पुनर्नः पाह्यंहसः ॥१८३२॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस्परि ॥१८३३॥
यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।
स्तोता मे गोसखा स्यात्॥१८३४॥
शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।
यदहं गोपतिः स्यां ॥१८३५॥
धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
गामश्वं पिप्युषी दुहे ॥१८३६॥
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥१८३७॥
यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
उशतीरिव मातरः ॥१८३८॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥१८३९॥
वात आ वातु बेषजं शम्भु मयोभु नो हृदे ।
प्र न अयूंषि तारिषत्॥१८४०॥
उत वात पितासि न उत भ्रातोत नः सखा ।
स नो जीवातवे कृधि ॥१८४१॥
यददो वात ते गृहे३ऽमृतं निहितं गुहा ।
तस्यो नो देहि जीवसे ॥१८४२॥
अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः ।
सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥१८४३॥
अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव ।
अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥१८४४॥
अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार ।
सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥१८४५॥
नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युं ॥१८४६॥
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यञ्चित्रा बिभ्रदस्यायुधानि ।
वसानो अत्कं सुरभिं दृशे कं स्व३र्ण नाम जनत प्रियाणि ॥१८४७॥
द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।
भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥१८४८॥
इति नवमप्रपाठकस्य द्वितीयोऽर्धः | इति विंशोऽध्यायः

 
 

अथ नवमप्रपाठके तृतीयोऽर्धः

(ऋषि- अप्रतिरथ ऐन्द्रः, पायुर्भारद्वाजः, ज्ञासो भारद्वाजः, जय ऐन्द्रः, गोतमो राहूगणः, | देवता- इन्द्रः, इन्द्रो मरुतो वा, बृहस्पतिः, अप्वा देवी, इषवः, युद्धभूमिकवचब्राह्मणस्पत्यादितयः, संग्रामाशिषः, वर्म सोमवरुणाः, देवब्रह्माण सोमावरुणौ, विश्वे देवाः, | छन्द- त्रिष्टुप्, अनुष्टुप्, पंक्तिः, विराट्स्थानाः, विराड् जगती)
 
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनां ।
सङ्क्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥१८४९॥
सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥१८५०॥
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
सं सृष्टजित्सोमपा बाहुशर्ध्यू३ग्रधन्वा प्रतिहिताभिरस्ता ॥१८५१॥
बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः ।
प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानां ॥१८५२॥
बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥१८५३॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।
इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वं ॥१८५४॥
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडयुध्यो३ऽस्माकं सेना अवतु प्र युत्सु ॥१८५५॥
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रं ॥१८५६॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रं ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१८५७॥
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि ।
उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥१८५८॥
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु ॥१८५९॥
असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना ।
तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात्॥१८६०॥
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्तां ॥१८६१॥
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।
उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥१८६२॥
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ॥१८६३॥
कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना ।
मैषां मोच्यघहारश्च नेन्द्र वयांस्येनाननुसंयन्तु सर्वान्॥१८६४॥
अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि ।
उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥१८६५॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥१८६६॥
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥१८६७॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो अस्मां अभिदासत्यधरं गमया तमः ॥१८६८॥
इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ ।
तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणां सहो महत् ॥१८६९॥
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्तां ।
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१८७०॥
अन्धा अमित्रा भवताशीर्षाणोऽहय इव ।
तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरं ॥१८७१॥
यो नः स्वोऽरणो यश्च निष्ट्यो जिघांसति ।
देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शर्म वर्म ममान्तरं ॥१८७२॥
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः ।
सृकं संशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व ॥१८७३॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥१८७४॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥
 

इति नवमप्रपाठकस्य तृतीयोऽर्धः नवमप्रपाठकश्च समाप्तः | इत्येकविंशोऽध्यायः | इत्युत्तरार्चिकः समाप्तः
इति सामवेदसंहिता समाप्ता

 
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें 
 
सामवेद संहिता- पूर्वार्चिकः

 
सामवेद संहिता- उत्तरार्चिकः

Share This Article:

Related Posts

2 comments

  1. इनके पदार्थ और भावार्थ क्यों नहीं लिखे महान ढोंगी तुमने। ये टीप टीप कर यहाँ डाल दिये हैं। इतनी ही धर्म जागृति की पड़ी है तो क्यों नहीं ऋषि दयानन्द की भांति व्याकरण के भाष्य द्वारा यहाँ सभी मंत्रों को समझाया है जन मानस तक। सबको बर्गलाने में तो परिश्रम कर सकते हो परंतु वो विद्वत्ता वो तपस्या कहाँ से लाओगे ईर्ष्यालु ढोंगी। तुम तो क्या तुम्हारे जैसे करोड़ों लोग ऋषि दयानंद के पैर की धूल नहीं हो।

    ReplyDelete
    Replies
    1. aa ja andhbhakta teri hi kami thi isliye tumko namazi kahte hai. Maulalna niyoganand haji ke shisya yha pr bhi bakchodi krne aa gye hai.

      Delete

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *