HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् १९ (Atharvved Kand 19)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥अथ एकोनविंशं काण्डम्॥

 
प्रथमं सूक्तम्» तृचस्यास्य सुक्तस्य ब्रह्मा ऋषि: | यज्ञश्चन्द्रमाश्च देवता: | प्रथमाद्वितीययोरृचो: पथ्याबृहती  तृतीयायाश्च पङ्क्तिश्छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
संसं स्र॑वन्तु नद्य१ सं वाता: सं प॑तत्रिण॑: ।
यज्ञमिमं व॑र्धयता गिर: संस्राव्येद्गण हविषा॑ जुहोमि ॥१॥
इमं होमा॑ यज्ञम॑वतेमं सं॑स्रावणा उत ।
यज्ञमिमं व॑र्धयता गिर: संस्राव्येद्गण हविषा॑ जुहोमि ॥२॥
रूपंरू॑पं वयो॑वय: संरभ्यै॑नं परि॑ ष्वजे ।
यज्ञमिमं चत॑स्र: प्रदिशो॑ वर्धयन्तु संस्राव्येद्गण हविषा॑ जुहोमि ॥३॥
 
 
द्वितीयं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य सिन्धुद्वीप ऋषि: | आपो देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


शं त आपो॑ हैमवती: शमु॑ ते सन्तूत्स्याद्ग: ।
शं ते॑ सनिष्यदा आप: शमु॑ ते सन्तु वर्ष्याद्ग: ॥१॥
शं त आपो॑ धन्वन्या३ शं ते॑ सन्त्वनूप्याद्ग: ।
शं ते॑ खनित्रिमा आप: शं या: कुम्भेभिराभृ॑ता: ॥२॥
अनभ्रय: खन॑माना विप्रा॑ गम्भीरे अपस॑: ।
भिषग्भ्यो॑ भिषक्त॑रा आपो अच्छा॑ वदामसि ॥३॥
अपामह॑ दिव्याद्गनामपां स्रो॑तस्याद्गनाम् ।
अपामह॑ प्रणेजनेऽश्वा॑ भवथ वाजिन॑: ॥४॥
ता अप: शिवा अपोऽय॑क्ष्मंकर॑णीरप: ।
यथैव तृ॑प्यते मयस्तास्त आ द॑त्त भेषजी: ॥५॥

तृतीयं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | अग्निर्देवता: |
  प्रथमातृतीयाचतुर्थीनामृचां त्रिष्टुप्  द्वितीयायाश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 

दिवस्पृ॑थिव्या: पर्यन्तरि॑क्षाद्वनस्पति॑भ्यो अध्योष॑धीभ्य: ।
यत्र॑यत्र विभृ॑तो जातवे॑दास्तत॑ स्तुतो जुषमा॑णो न एहि॑ ॥१॥
यस्ते॑ अप्सु म॑हिमा यो वने॑षु य ओष॑धीषु पशुष्वप्स्व१न्त ।
अग्ने सर्वा॑स्तन्व१ सं र॑भस्व ताभि॑र्न एहि॑ द्रविणोदा अज॑स्र: ॥२॥
यस्ते॑ देवेषु॑ महिमा स्वर्गो या ते॑ तनू: पितृष्वा॑विवेश॑ ।
पुष्टिर्या ते॑ मनुष्येद्गषु पप्रथेऽग्ने तया॑ रयिमस्मासु॑ धेहि ॥३॥
श्रुत्क॑र्णाय कवये वेद्या॑य वचो॑भिर्वाकैरुप॑ यामि रातिम् ।
यतो॑ भयमभ॑यं तन्नो॑ अस्त्वव॑ देवानां॑ यज हेडो॑ अग्ने ॥४॥
 
 

चतुर्थं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | प्रथमातृतीयाचतुर्थीनामृचामग्नि:  द्वितीयायाश्च मन्त्रोक्ता देवता: | प्रथमर्च: पञ्चपदा विराडतिजगती  द्वितीयाया जगती तृतीयाचतुर्थ्योश्च त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


यामाहु॑तिं प्रथमामथ॑र्वा या जाता या हव्यमकृ॑णोज्जातवे॑दा: ।
तां त॑ एतां प्र॑थमो जो॑हवीमि ताभि॑ष्टुप्तो व॑हतु हव्यमग्निरग्नये स्वाहा॑ ॥१॥
आकू॑तिं देवीं सुभगां॑ पुरो द॑धे चित्तस्य॑ माता सुहवा॑ नो अस्तु ।
यामाशामे॑मि केव॑ली सा मे॑ अस्तु विदे॑यमेनां मन॑सि प्रवि॑ष्टाम् ॥२॥
आकू॑त्या नो बृहस्पत आकू॑त्या न उपा ग॑हि ।
अथो भग॑स्य नो धेह्यथो॑ न: सुहवो॑ भव ॥३॥
बृहस्पति॑र्म आकू॑तिमाङ्गिरस: प्रति॑ जानातु वाच॑मेताम् ।
यस्य॑ देवा देवता॑: संबभूवु: स सुप्रणी॑ता: कामो अन्वे॑त्वस्मान् ॥४॥
 
 

पञ्चमं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वाङ्गिरा ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


इन्द्रो राजा जग॑तश्चर्षणीनामधि क्षमि विषु॑रूपं यदस्ति॑ ।
ततो॑ ददाति दाशुषे वसू॑नि चोदद्राध उप॑स्तुतश्चिदर्वाक् ॥१॥
 
 
 
षष्ठं सूक्तम्» षोडशर्चस्यास्य सूक्तस्य नारायण ऋषि: | पुरुषो देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 

सहस्र॑बाहु: पुरु॑ष: सहस्राक्ष: सहस्र॑पात् ।
स भूमिं॑ विश्वतो॑ वृत्वात्य॑तिष्ठद्दशाङ्गुलम् ॥१॥
त्रिभि: पद्भिर्द्याम॑रोहत्पाद॑स्येहाभ॑वत्पुन॑: ।
तथा व्यद्गक्रामद्विष्व॑ङशनानशने अनु॑ ॥२॥
ताव॑न्तो अस्य महिमानस्ततो ज्यायां॑श्च पूरु॑ष: ।
पादो॑ऽस्य विश्वा॑ भूतानि॑ त्रिपाद॑स्यामृतं॑ दिवि ॥३॥
पुरु॑ष एवेदं सर्वं यद्भूतं यच्च॑ भाव्यद्गम् ।
उतामृ॑तत्वस्ये॑श्वरो यदन्येनाभ॑वत्सह ॥४॥
यत्पुरु॑षं व्यद॑धु: कतिधा व्यद्गकल्पयन् ।
मुखं किम॑स्य किं बाहू किमूरू पादा॑ उच्यते ॥५॥
ब्राह्मणोद्गऽस्य मुख॑मासीद्बाहू रा॑जन्योद्गऽभवत् ।
मध्यं तद॑स्य यद्वैश्य॑: पद्भ्यां शूद्रो अ॑जायत ॥६॥
चन्द्रमा मन॑सो जातश्चक्षो: सूर्यो॑ अजायत ।
मुखादिन्द्र॑श्चाग्निश्च॑ प्राणाद्वायुर॑जायत ॥७॥
नाभ्या॑ आसीदन्तरि॑क्षं शीर्ष्णो द्यौ: सम॑वर्तत ।
पद्भ्यां भूमिर्दिश: श्रोत्रात्तथा॑ लोकाँ अ॑कल्पयन् ॥८॥
विराडग्रे सम॑भवद्विराजो अधि पूरु॑ष: ।
स जातो अत्य॑रिच्यत पश्चाद्भूमिमथो॑ पुर: ॥९॥
यत्पुरु॑षेण हविषा॑ देवा यज्ञमत॑न्वत ।
वसन्तो अ॑स्यासीदाज्यं ग्रीष्म इध्म: शरद्धवि: ॥१०॥
तं यज्ञं प्रावृषा प्रौक्षन्पुरु॑षं जातम॑ग्रश: ।
तेन॑ देवा अ॑यजन्त साध्या वस॑वश्च ये ॥११॥
तस्मादश्वा॑ अजायन्त ये च के चो॑भयाद॑त: ।
गावो॑ ह जज्ञिरे तस्मात्तस्मा॑ज्जाता अ॑जावय॑: ॥१२॥
तस्मा॑द्यज्ञात्स॑र्वहुत ऋच: सामा॑नि जज्ञिरे ।
छन्दो॑ ह जज्ञिरे तस्माद्यजुस्तस्मा॑दजायत ॥१३॥
तस्मा॑द्यज्ञात्स॑र्वहुत: संभृ॑तं पृषदाज्यद्गम् ।
पशूँस्तांश्च॑क्रे वायव्याद्गनारण्या ग्राम्याश्च ये ॥१४॥
सप्तास्या॑सन्परिधयस्त्रि: सप्त समिध॑: कृता: ।
देवा यद्यज्ञं त॑न्वाना अब॑ध्नन्पुरु॑षं पशुम् ॥१५॥
मूर्ध्नो देवस्य॑ बृहतो अंशव॑: सप्त स॑प्तती: ।
राज्ञ: सोम॑स्याजायन्त जातस्य पुरु॑षादधि॑ ॥१६॥
 
 

सप्तमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य गार्ग्य ऋषि: | नक्षत्राणि देवता: |   प्रथमादितृचस्य पञ्चम्या ऋचश्च त्रिष्टुप्  चतुर्थ्याश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


चित्राणि॑ साकं दिवि रो॑चनानि॑ सरीसृपाणि भुव॑ने जवानि॑ ।
तुर्मिशं॑ सुमतिमिच्छमा॑नो अहा॑नि गीर्भि: स॑पर्यामि नाक॑म् ॥१॥
सुहव॑मग्ने कृत्ति॑का रोहि॑णी चास्तु॑ भद्रं मृगशि॑र: शमार्द्रा ।
पुन॑र्वसू सूनृता चारु पुष्यो॑ भानुरा॑श्लेषा अय॑नं मघा मे॑ ॥२॥
पुण्यं पूर्वा फल्गु॑न्यौ चात्र हस्त॑श्चित्रा शिवा स्वाति सुखो मे॑ अस्तु ।
राधे॑ विशाखे॑ सुहवा॑नुराधा ज्येष्ठा॑ सुनक्ष॑त्रमरि॑ष्ट मूल॑म् ॥३॥
अन्नं पूर्वा॑ रासतां मे अषाढा ऊर्जं॑ देव्युत्त॑रा आ व॑हन्तु ।
अभिजिन्मे॑ रासतां पुण्य॑मेव श्रव॑ण: श्रवि॑ष्ठा: कुर्वतां सुपुष्टिम् ॥४॥
आ मे॑ महच्छतभि॑षग्वरी॑य आ मे॑ द्वया प्रोष्ठ॑पदा सुशर्म॑ ।
आ रेवती॑ चाश्वयुजौ भगं॑ म आ मे॑ रयिं भर॑ण्य आ व॑हन्तु ॥५॥
 
 

अष्टमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य गार्ग्य ऋषि: |   प्रथमादिपञ्चर्चां सप्तम्याश्च नक्षत्राणि  षष्ठ्याश्च ब्रह्मणस्पतिर्देवता: |  प्रथमाया विराड्जगती द्वितीयाया महाबृहती त्रिष्टुप्  तृतीयाया विराट्स्थाना त्रिष्टुप्  चतुर्थ्यादितृचस्यानुष्टुप्  सप्तम्याश्च द्विपदा निचृत्त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 

यानि नक्ष॑त्राणि दिव्य१न्तरि॑क्षे अप्सु भूमौ यानि नगे॑षु दिक्षु ।
प्रक॑ल्पयंश्चन्द्रमा यान्येति सर्वा॑णि ममैतानि॑ शिवानि॑ सन्तु ॥१॥
अष्टाविंशानि॑ शिवानि॑ शग्मानि॑ सह योगं॑ भजन्तु मे ।
योगं प्र प॑द्ये क्षेमं॑ च क्षेमं प्र प॑द्ये योगं॑ च नमो॑ऽहोरात्राभ्या॑मस्तु ॥२॥
स्वस्ति॑तं मे सुप्रात: सु॑सायं सु॑दिवं सु॑मृगं सु॑शकुनं॑ मे अस्तु ।
सुहव॑मग्ने स्वस्त्य१मर्त्यं॑ गत्वा पुनराया॑भिनन्द॑न् ॥३॥
अनुहवं प॑रिहवं प॑रिवादं प॑रिक्षवम् ।
सर्वै॑र्मे रिक्तकुम्भान्परा तान्त्स॑वित: सुव ॥४॥
अपपापं प॑रिक्षवं पुण्यं॑ भक्षीमहि क्षव॑म् ।
शिवा ते॑ पाप नासि॑कां पुण्य॑गश्चाभि मे॑हताम् ॥५॥
इमा या ब्र॑ह्मणस्पते विषू॑चीर्वात ईर॑ते ।
सध्रीची॑रिन्द्र ता: कृत्वा मह्यं॑ शिवत॑मास्कृधि ॥६॥
स्वस्ति नो॑ अस्त्वभ॑यं नो अस्तु नमो॑ऽहोरात्राभ्या॑मस्तु ॥७॥
 
 
 
नवमं सूक्तम्» चतुर्दशर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ता देवता: |  प्रथमर्चो विराडुरोबृहती द्वितीयादितृचस्य षष्ठ्यादितृचस्य दशम्येकादशीत्रयोदशीनाञ्चानुष्टुप्  पञ्चम्या: पञ्चपदा पथ्यापङ्क्ति: नवम्या भुरिक्त्रिष्टुप्  द्वादश्यास्त्र्यवसाना सप्तपदाष्टि: चतुर्दश्याश्च चतुष्पदा सङ्कृतिश्छन्दांसि॥ (hindumantavya.blogspot.in)


शान्ता द्यौ: शान्ता पृ॑थिवी शान्तमिदमुर्व१न्तरि॑क्षम् ।
शान्ता उ॑दन्वतीराप॑: शान्ता न॑: सन्त्वोष॑धी: ॥१॥
शान्तानि॑ पूर्वरूपाणि॑ शान्तं नो॑ अस्तु कृताकृतम् ।
शान्तं भूतं च भव्यं॑ च सर्व॑मेव शम॑स्तु न: ॥२॥
इयं या प॑रमेष्ठिनी वाग्देवी ब्रह्म॑संशिता ।
ययैव स॑सृजे घोरं तयैव शान्ति॑रस्तु न: ॥३॥
इदं यत्प॑रमेष्ठिनं मनो॑ वां ब्रह्म॑संशितम् ।
यनैव स॑सृजे घोरं तनैव शान्ति॑रस्तु न: ॥४॥
इमानि यानि पञ्चे॑न्द्रियाणि मन॑:षष्ठानि मे हृदि ब्रह्म॑णा संशि॑तानि ।
यैरेव स॑सृजे घोरं तैरेव शान्ति॑रस्तु न: ॥५॥
शं नो॑ मित्र: शं वरु॑ण: शं विष्णु: शं प्रजाप॑ति: ।
शं न इन्द्रो बृहस्पति: शं नो॑ भवत्वर्यमा ॥६॥
शं नो॑ मित्र: शं वरु॑ण: शं विवस्वाञ्छमन्त॑क: ।
उत्पाता: पार्थि॑वान्तरि॑क्षा: शं नो॑ दिविच॑रा ग्रहा॑: ॥७॥
शं नो भूमि॑र्वेप्यमाना शमुल्का निर्ह॑तं च यत् ।
शं गावो लोहि॑तक्षीरा: शं भूमिरव॑ तीर्यती: ॥८॥
नक्ष॑त्रमुल्काभिह॑तं शम॑स्तु न: शं नो॑ऽभिचारा: शमु॑ सन्तु कृत्या: ।
शं नो निखा॑ता वल्गा: शमुल्का दे॑शोपसर्गा: शमु॑ नो भवन्तु ॥९॥
शं नो ग्रहा॑श्चान्द्रमसा: शमा॑दित्यश्च॑ राहुणा ।
शं नो॑ मृत्युर्धूमके॑तु: शं रुद्रास्तिग्मते॑जस: ॥१०॥
शं रुद्रा: शं वस॑व: शमा॑दित्या: शमग्नय॑: ।
शं नो॑ महर्षयो॑ देवा: शं देवा: शं बृहस्पति॑: ॥११॥
ब्रह्म॑ प्रजाप॑तिर्धाता लोका वेदा: स॑प्तऋषयोऽग्नय॑: ।
तैर्मे॑ कृतं स्वस्त्यय॑नमिन्द्रो॑ मे शर्म॑ यच्छतु ब्रह्मा मे शर्म॑ यच्छतु ।
विश्वे॑ मे देवा: शर्म॑ यच्छन्तु सर्वे॑ मे देवा: शर्म॑ यच्छन्तु ॥१२॥
यानि कानि॑ चिच्छान्तानि॑ लोके स॑प्तऋषयो॑ विदु: ।
सर्वा॑णि शं भ॑वन्तु मे शं मे॑ अस्त्वभ॑यं मे अस्तु ॥१३॥
पृथिवी शान्ति॑रन्तरि॑क्षं शान्तिर्द्यौ: शान्तिराप: शान्तिरोष॑धय: शान्तिर्वनस्पत॑य: शान्तिर्विश्वे॑ मे देवा: शान्ति: सर्वे॑ मे देवा: शान्ति: शान्ति: शान्ति: शान्ति॑भि: ।
ताभि: शान्ति॑भि: सर्व शान्तिभि: शम॑यामोहं यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्व॑मेव शम॑स्तु न: ॥१४॥
 
 
 
दशमं सूक्तम्» दशर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ता देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


शं न॑ इन्द्राग्नी भ॑वतामवो॑भि: शं न इन्द्रावरु॑णा रातह॑व्या ।
शमिन्द्रासोमा॑ सुविताय शं यो: शं न इन्द्रा॑पूषणा वाज॑सातौ ॥१॥
शं नो भग: शमु॑ न: शंसो॑ अस्तु शं न: पुरं॑धि: शमु॑ सन्तु राय॑: ।
शं न॑: सत्यस्य॑ सुयम॑स्य शंस: शं नो॑ अर्यमा पु॑रुजातो अ॑स्तु ॥२॥
शं नो॑ धाता शमु॑ धर्ता नो॑ अस्तु शं न॑ उरूची भ॑वतु स्वधाभि॑: ।
शं रोद॑सी बृहती शं नो अद्रि: शं नो॑ देवानां॑ सुहवा॑नि सन्तु ॥३॥
शं नो॑ अग्निर्ज्योति॑रनीको अस्तु शं नो॑ मित्रावरु॑णावश्विना शम् ।
शं न॑: सुकृतां॑ सुकृतानि॑ सन्तु शं न॑ इषिरो अभि वा॑तु वात॑: ॥४॥
शं नो द्यावा॑पृथिवी पूर्वहू॑तौ शमन्तरि॑क्षं दृशये॑ नो अस्तु ।
शं न ओष॑धीर्वनिनो॑ भवन्तु शं नो रज॑सस्पति॑रस्तु जिष्णु: ॥५॥
शं न इन्द्रो वसु॑भिर्देवो अ॑स्तु शमा॑दित्येभिर्वरु॑ण: सुशंस॑: ।
शं नो॑ रुद्रो रुद्रेभिर्जला॑ष: शं नस्त्वष्टा ग्नाभि॑रिह शृ॑णोतु ॥६॥
शं न: सोमो॑ भवतु ब्रह्म शं न: शं नो ग्रावा॑ण: शमु॑ सन्तु यज्ञा: ।
शं न: स्वरू॑णां मितयो॑ भवन्तु शं न॑: प्रस्व१ शम्व॑स्तु वेदि॑: ॥७॥
शं न: सूर्य॑ उरुचक्षा उदे॑तु शं नो॑ भवन्तु प्रदिशश्चत॑स्र: ।
शं न: पर्व॑ता ध्रुवयो॑ भवन्तु शं न: सिन्ध॑व: शमु॑ सन्त्वाप॑: ॥८॥
शं नो अदि॑तिर्भवतु व्रतेभि: शं नो॑ भवन्तु मरुत॑: स्वर्का: ।
शं नो विष्णु: शमु॑ पूषा नो॑ अस्तु शं नो॑ भवित्रं शम्व॑स्तु वायु: ॥९॥
शं नो॑ देव: स॑विता त्राय॑माण: शं नो॑ भवन्तूषसो॑ विभाती: ।
शं न॑: पर्जन्यो॑ भवतु प्रजाभ्य: शं न: क्षेत्र॑स्य पति॑रस्तु शंभु: ॥१०॥
 
 

एकादशं सूक्तम्» षडृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ता देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 

शं न॑: सत्यस्य पत॑यो भवन्तु शं नो अर्व॑न्त: शमु॑ सन्तु गाव॑: ।
शं न॑ ऋभव॑: सुकृत॑: सुहस्ता: शं नो॑ भवतु पितरो हवे॑षु ॥१॥
शं नो॑ देवा विश्वदे॑वा भवन्तु शं सर॑स्वती सह धीभिर॑स्तु ।
शम॑भिषाच: शमु॑ रातिषाच: शं नो॑ दिव्या: पार्थि॑वा: शं नो अप्या॑: ॥२॥
शं नो॑ अज एक॑पाद्देवो अ॑स्तु शमहि॑र्बुध्न्य१ शं स॑मुद्र: ।
शं नो॑ अपां नपा॑त्पेरुर॑स्तु शं न: पृश्नि॑र्भवतु देवगो॑पा ॥३॥
आदित्या रुद्रा वस॑वो जुषन्तामिदं ब्रह्म॑ क्रियमा॑णं नवी॑य: ।
शृण्वन्तु॑ नो दिव्या: पार्थि॑वासो गोजा॑ता उत ये यज्ञिया॑स: ॥४॥
ये देवाना॑मृत्विजो॑ यज्ञिया॑सो मनोर्यज॑त्रा अमृता॑ ऋतज्ञा: ।
ते नो॑ रासन्तामुरुगायमद्य यूयं पा॑त स्वस्तिभि: सदा॑ न: ॥५॥
तद॑स्तु मित्रावरुणा तद॑ग्ने शं योरस्मभ्य॑मिदम॑स्तु शस्तम् ।
अशीमहि॑ गाधमुत प्र॑तिष्ठां नमो॑ दिवे बृ॑हते साद॑नाय ॥६॥
 
 
 
 द्वादशं सूक्तम्»  एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ता देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 

उषा अप स्वसुस्तम: सं व॑र्तयति वर्तनिं सु॑जातता॑ ।
अया वाजं॑ देवहि॑तं सनेम मदे॑म शतहि॑मा: सुवीरा॑: ॥१॥
 

त्रयोदशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्याप्रतिरथ ऋषि: | इन्द्रो देवता: | प्रथमाद्वितीययोरृचो: सप्तम्यादिचतसृणाञ्च त्रिष्टुप् तृतीयादिचतसृणामेकादश्याश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
इन्द्र॑स्य बाहू स्थवि॑रौ वृषा॑णौ चित्रा इमा वृ॑षभौ पा॑रयिष्णू ।
तौ यो॑क्षे प्रथमो योग आग॑ते याभ्यां॑ जितमसु॑राणां स्व१र्यत् ॥१॥
आशु: शिशा॑नो वृषभो न भीमो घ॑नाघन: क्षोभ॑णश्चर्षणीनाम् ।
संक्रन्द॑नोऽनिमिष ए॑कवीर: शतं सेना॑ अजयत्साकमिन्द्र॑: ॥२॥
संक्रन्द॑नेनानिमिषेण॑ जिष्णुना॑योध्येन॑ दुश्च्यवनेन॑ धृष्णुना॑ ।
तदिन्द्रे॑ण जयत तत्स॑हध्वं युधो॑ नर इषु॑हस्तेन वृष्णा॑ ॥३॥
स इषु॑हस्तै: स नि॑षङ्गिभि॑र्वशी संस्र॑ष्टा स युध इन्द्रो॑ गणेन॑ ।
संसृष्टजित्सो॑मपा बा॑हुशर्ध्यु१ग्रध॑न्वा प्रति॑हिताभिरस्ता॑ ॥४॥
बलविज्ञाय: स्थवि॑र: प्रवी॑र: सह॑स्वान्वाजी सह॑मान उग्र: ।
अभिवी॑रो अभिष॑त्वा सहोजिज्जैत्र॑मिन्द्र रथमा ति॑ष्ठ गोविद॑म् ॥५॥
इमं वीरमनु॑ हर्षध्वमुग्रमिन्द्रं॑ सखायो अनु सं र॑भध्वम् ।
ग्रामजितं॑ गोजितं वज्र॑बाहुं जय॑न्तमज्म॑ प्रमृणन्तमोज॑सा ॥६॥
अभि गोत्राणि सह॑सा गाह॑मानोऽदाय उग्र: शतम॑न्युरिन्द्र॑: ।
दुश्च्यवन: पृ॑तनाषाड॑योध्यो३ऽस्माकं सेना॑ अवतु प्र युत्सु ॥७॥
बृह॑स्पते परि॑ दीया रथे॑न रक्षोहामित्राँ॑ अपबाध॑मान: ।
प्रभञ्जञ्छत्रू॑न्प्रमृणन्नमित्रा॑नस्माक॑मेध्यविता तनूना॑म् ॥८॥
इन्द्र॑ एषां नेता बृहस्पतिर्दक्षि॑णा यज्ञ: पुर ए॑तु सोम॑: ।
देवसेनाना॑मभिभञ्जतीनां जय॑न्तीनां मरुतो॑ यन्तु मध्ये॑ ॥९॥
इन्द्र॑स्य वृष्णो वरु॑णस्य राज्ञ॑ आदित्यानां॑ मरुतां शर्ध॑ उग्रम् ।
महाम॑नसां भुवनच्यवानां घोषो॑ देवानां जय॑तामुद॑स्थात् ॥१०॥
अस्माकमिन्द्र: समृ॑तेषु ध्वजेष्वस्माकं या इष॑वस्ता ज॑यन्तु ।
अस्माकं॑ वीरा उत्त॑रे भवन्त्वस्मान्दे॑वासोऽवता हवे॑षु ॥११॥
 
 

चतुर्दशं सूक्तम्» एकर्चस्यास्य सूक्तस्याथर्वा ऋषि: | द्यावापृथिव्यौ देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 
 
इदमुच्छ्रेयो॑ऽवसानमागां॑ शिवे मे द्यावा॑पृथिवी अ॑भूताम् ।
असपत्ना: प्रदिशो॑ मे भवन्तु न वै त्वा॑ द्विष्मो अभ॑यं नो अस्तु ॥१॥
 

पञ्चदशं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: | प्रथमादिचतसृणामृचामिन्द्र:  पञ्चमीषष्ठ्योश्च मन्त्रोक्ता देवता: | प्रथमाया: पथ्याबृहती   द्वितीयापञ्चम्योश्चतुष्पदा जगती तृतीयाया विराट्पथ्यापङ्क्ति:   चतुर्थीषष्ठ्योश्च त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


यत॑ इन्द्र भया॑महे ततो॑ नो अभ॑यं कृधि ।
मघ॑वञ्छग्धि तव त्वं न॑ ऊतिभिर्वि द्विषो वि मृधो॑ जहि ॥१॥
इन्द्रं॑ वयम॑नूराधं ह॑वामहेऽनु॑ राध्यास्म द्विपदा चतु॑ष्पदा ।
मा न: सेना अर॑रुषीरुप॑ गुर्विषू॑चिरिन्द्र द्रुहो वि ना॑शय ॥२॥
इन्द्र॑स्त्रातोत वृ॑त्रहा प॑रस्फानो वरे॑ण्य: ।
स र॑क्षिता च॑रमत: स म॑ध्यत: स पश्चात्स पुरस्ता॑न्नो अस्तु ॥३॥
उरुं नो॑ लोकमनु॑ नेषि विद्वान्त्स्व१र्यज्ज्योतिरभ॑यं स्वस्ति ।
उग्रा त॑ इन्द्र स्थवि॑रस्य बाहू उप॑ क्षयेम शरणा बृहन्ता॑ ॥४॥
अभ॑यं न: करत्यन्तरि॑क्षमभ॑यं द्यावा॑पृथिवी उभे इमे ।
अभ॑यं पश्चादभ॑यं पुरस्ता॑दुत्तराद॑धरादभ॑यं नो अस्तु ॥५॥
अभ॑यं मित्रादभ॑यममित्रादभ॑यं ज्ञातादभ॑यं पुरो य: ।
अभ॑यं नक्तमभ॑यं दिवा॑ न: सर्वा आशा मम॑ मित्रं भ॑वन्तु ॥६॥
 
 

षोडशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: |  प्रथमर्चोनुष्टुप्  द्वितीयायाश्च त्र्यवसाना सप्तपदा बृहतीगर्भातिशक्वरी छन्दांसि॥ (hindumantavya.blogspot.in)


असपत्नं पुरस्ता॑त्पश्चान्नो अभ॑यं कृतम् ।
सविता मा॑ दक्षिणत उ॑त्तरान्मा शचीपति॑: ॥१॥
दिवो मा॑दित्या र॑क्षन्तु भूम्या॑ रक्षन्त्वग्नय॑: ।
इन्द्राग्नी र॑क्षतां मा पुरस्ता॑दश्विना॑वभित: शर्म॑ यच्छताम् ।
तिरश्चीनघ्न्या र॑क्षतु जातवे॑दा भूतकृतो॑ मे सर्वत॑: सन्तु वर्म॑ ॥२॥
 
 
सप्तदशं सूक्तम्» दशर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | प्रथमर्च उपजगती  द्वितीयादितृचस्य  अष्टम्याश्च जगती पञ्चम्या: स्वराड्जगती  षष्ठ्या भुरिग्जगति  सप्तम्या अतिजगती नवम्या: पञ्चपदा विराडतिशक्वरी  दशम्याश्च निचृदतिजगती छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
अग्निर्मा॑ पातु वसु॑भि: पुरस्तात्तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
स मा॑ रक्षतु स मा॑ गोपायतु तस्मा॑ आत्मानं परि॑ ददे स्वाहा॑ ॥१॥
वायुर्मान्तरि॑क्षेणैतस्या॑ दिश: पा॑तु तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
स मा॑ रक्षतु स मा॑ गोपायतु तस्मा॑ आत्मानं परि॑ ददे स्वाहा॑ ॥२॥
सोमो॑ मा रुद्रैर्दक्षि॑णाया दिश: पा॑तु तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
स मा॑ रक्षतु स मा॑ गोपायतु तस्मा॑ आत्मानं परि॑ ददे स्वाहा॑ ॥३॥
वरु॑णो मादित्यैरेतस्या॑ दिश: पा॑तु तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
स मा॑ रक्षतु स मा॑ गोपायतु तस्मा॑ आत्मानं परि॑ ददे स्वाहा॑ ॥४॥
सूर्यो॑ मा द्यावा॑पृथिवीभ्यां॑ प्रतीच्या॑ दिश: पा॑तु तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
स मा॑ रक्षतु स मा॑ गोपायतु तस्मा॑ आत्मानं परि॑ ददे स्वाहा॑ ॥५॥
आपो मौष॑धीमतीरेतस्या॑ दिश: पा॑तु तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
ता मा॑ रक्षन्तु ता मा॑ गोपायन्तु ताभ्य॑ आत्मानं परि॑ ददे स्वाहा॑ ॥६॥
विश्वक॑र्मा मा सप्तऋषिभिरुदी॑च्या दिश: पा॑तु तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
स मा॑ रक्षतु स मा॑ गोपायतु तस्मा॑ आत्मानं परि॑ ददे स्वाहा॑ ॥७॥
इन्द्रो॑ मा मरुत्वा॑नेतस्या॑ दिश: पा॑तु तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
स मा॑ रक्षतु स मा॑ गोपायतु तस्मा॑ आत्मानं परि॑ ददे स्वाहा॑ ॥८॥
प्रजाप॑तिर्मा प्रजन॑नवान्त्सह प्रतिष्ठा॑या ध्रुवाया॑ दिश: पा॑तु तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
स मा॑ रक्षतु स मा॑ गोपायतु तस्मा॑ आत्मानं परि॑ ददे स्वाहा॑ ॥९॥
बृहस्पति॑र्मा विश्वै॑र्देवैरूर्ध्वाया॑ दिश: पा॑तु तस्मि॑न्क्रमे तस्मि॑ञ्छ्रये तां पुरं प्रैमि॑ ।
स मा॑ रक्षतु स मा॑ गोपायतु तस्मा॑ आत्मानं परि॑ ददे स्वाहा॑ ॥१०॥
 
 
 
अष्टादशं सूक्तम्» दशर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: |   प्रथमाष्टम्योरृचो: साम्नी त्रिष्टुप् 0 द्वितीयादितृचस्य षष्ठ्याश्चार्च्यनुष्टुप् पञ्चम्या: स्वराट् आर्च्यनुष्टुप् सप्तमीनवमीदशमीनाञ्च प्राजापत्या त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
सर्वा द्विपदा: अग्निं ते वसु॑वन्तमृच्छन्तु ।
ये मा॑घायव: प्राच्या॑ दिशोद्गऽभिदासा॑त् ॥१॥
वायुं ते३ऽन्तरि॑क्षवन्तमृच्छन्तु ।
ये मा॑घायव॑ एतस्या॑ दिशोद्गऽभिदासा॑त् ॥२॥
सोमं ते रुद्रव॑न्तमृच्छन्तु ।
ये मा॑ऽघायवो दक्षि॑णाया दिशोद्गऽभिदासा॑त् ॥३॥
वरु॑णं त आ॑दित्यव॑न्तमृच्छन्तु ।
ये मा॑घायव॑ एतस्या॑ दिशोद्गऽभिदासा॑त् ॥४॥
सूर्यं ते द्यावा॑पृथिवीव॑न्तमृच्छन्तु ।
ये मा॑घायव॑: प्रतीच्या॑ दिशोद्गऽभिदासा॑त् ॥५॥
अपस्त ओष॑धीमतीरृच्छन्तु ।
ये मा॑घायव॑ एतस्या॑ दिशोद्गऽभिदासा॑त् ॥६॥
विश्वक॑र्माणं ते स॑प्तऋषिव॑न्तमृच्छन्तु ।
ये मा॑ऽघायव उदी॑च्या दिशोद्गऽभिदासा॑त् ॥७॥
इन्द्रं ते मरुत्व॑न्तमृच्छन्तु ।
ये मा॑ऽघायव॑ एतस्या॑ दिशोद्गऽभिदासा॑त् ॥८॥
प्रजाप॑तिं ते प्रजन॑नवन्तमृच्छन्तु ।
ये मा॑घायवो॑ ध्रुवाया॑ दिशोद्गऽभिदासा॑त् ॥९॥
बृहस्पतिं ते विश्वदे॑ववन्तमृच्छन्तु ।
ये मा॑घायव॑ ऊर्ध्वाया॑ दिशोद्गऽभिदासा॑त् ॥१०॥
 
 

एकोनविंशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा मन्त्रोक्ताश्च देवता: | प्रथमातृतीयानवमीनामृचां भुरिग्बृहती द्वितीयायाश्चतुर्थ्यादिपञ्चानामेकादश्याचानुष्टुब्गर्भा पङ्क्ति: दशम्याश्च स्वराट् पङ्क्तिश्छन्दांसि॥ (hindumantavya.blogspot.in)


मित्र: पृ॑थिव्योद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥१॥
वायुरन्तरि॑क्षेणोद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥२॥
सूर्यो॑ दिवोद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥३॥
चन्द्रमा नक्ष॑त्रैरुद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥४॥
सोम ओष॑धीभिरुद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥५॥
यज्ञो दक्षि॑णाभिरुद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥६॥
समुद्रो नदीभिरुद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥७॥
ब्रह्म॑ ब्रह्मचारिभिरुद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥८॥
इन्द्रो॑ वीर्ये३णोद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥९॥
देवा अमृतेनोद॑क्रामंस्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥१०॥
प्रजाप॑ति: प्रजाभिरुद॑क्रामत्तां पुरं प्र ण॑यामि व: ।
तामा वि॑शत तां प्र वि॑शत सा व: शर्म॑ च वर्म॑ च यच्छतु ॥११॥
 
 
 

विंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: | प्रथमर्चस्त्रिष्टुप्  द्वितीयाया जगती  तृतीयाया: पुरस्ताद्बृहती चतुर्थ्याश्चानुष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
अप न्यधु: पौरु॑षेयं वधं यमि॑न्द्राग्नी धाता स॑विता बृहस्पति॑: ।
सोमो राजा वरु॑णो अश्विना॑ यम: पूषास्मान्परि॑ पातु मृत्यो: ॥१॥
यानि॑ चकार भुव॑नस्य यस्पति॑: प्रजाप॑तिर्मातरिश्वा॑ प्रजाभ्य॑: ।
प्रदिशो यानि॑ वसते दिश॑श्च तानि॑ मे वर्मा॑णि बहुलानि॑ सन्तु ॥२॥
यत्ते तनूष्वन॑ह्यन्त देवा द्युरा॑जयो देहिन॑: ।
इन्द्रो यच्चक्रे वर्म तदस्मान्पा॑तु विश्वत॑: ॥३॥
वर्म॑ मे द्यावा॑पृथिवी वर्माहर्वर्म सूर्य॑: ।
वर्म॑ मे विश्वे॑ देवा: क्रन्मा मा प्राप॑त्प्रतीचिका ॥४॥
 
 

एकविंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | छन्दांसि॥ (hindumantavya.blogspot.in) देवता: | एकावसाना द्विपदा साम्नी बृहती छन्द:॥ (hindumantavya.blogspot.in)

 
 
गायत्र्यु१ष्णिग॑नुष्टुब्बृ॑हती पङ्क्तिस्त्रिष्टुब्जग॑त्यै ॥१॥
 
 
द्वाविंशं सूक्तम्» एकविंशत्यृचस्यास्य सूक्तस्याङ्गिरा ऋषि: | मन्त्रोक्ता देवता: |  प्रथमर्च: साम्न्युष्णिक्  द्वितीयाषष्ठ्योश्चतुर्दश्यादितृचस्य विंश्याश्च दैवी पङ्क्ति:  तृतीयैकोनविंश्यो: प्राजापत्या गायत्री  चतुर्थीसप्तम्येकादशीसप्तदशीनां दैवी जगती  १पञ्चमीद्वादशीत्रयोदशीनां दैवी त्रिष्टुप्  अष्टम्यादितृचस्यासुरी जगती  अष्टादश्या आसुर्यनुष्टुप् 0एता एकावसाना:  एकविंश्याश्च चतुष्पदा त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
आङ्गिरसाना॑माद्यै: पञ्चा॑नुवाकै: स्वाहा॑ ॥१॥
षष्ठाय स्वाहा॑ ॥२॥
सप्तमाष्टमाभ्यां स्वाहा॑ ॥३॥
नीलनखेभ्य: स्वाहा॑ ॥४॥
हरितेभ्य: स्वाहा॑ ॥५॥
क्षुद्रेभ्य: स्वाहा॑ ॥६॥
पर्यायिकेभ्य: स्वाहा॑ ॥७॥
प्रथमेभ्य॑: शङ्खेभ्य: स्वाहा॑ ॥८॥
द्वितीयेभ्य॑: शङ्खेभ्य: स्वाहा॑ ॥९॥
तृतीयेभ्य॑: शङ्खेभ्य: स्वाहा॑ ॥१०॥
उपोत्तमेभ्य: स्वाहा॑ ॥११॥
उत्तमेभ्य: स्वाहा॑ ॥१२॥
उत्तरेभ्य: स्वाहा॑ ॥१३॥
ऋषिभ्य: स्वाहा॑ ॥१४॥
शिखिभ्य: स्वाहा॑ ॥१५॥
गणेभ्य: स्वाहा॑ ॥१६॥
महागणेभ्य: स्वाहा॑ ॥१७॥
सर्वेभ्योऽङ्गि॑रोभ्यो विदगणेभ्य: स्वाहा॑ ॥१८॥
पृथक्सहस्राभ्यां स्वाहा॑ ॥१९॥
ब्रह्मणे स्वाहा॑ ॥२०॥
ब्रह्म॑ज्येष्ठा संभृ॑ता वीर्याद्गणि ब्रह्माग्रे ज्येष्ठं दिवमा त॑तान ।
भूतानां॑ ब्रह्मा प्र॑थमोत जज्ञे तेना॑र्हति ब्रह्म॑णा स्पर्धि॑तुं क: ॥२१॥
 
 
त्रयोविंशं सूक्तम्» त्रिंशदृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ताश्चन्द्रमा वा देवता: | प्रथमर्च आसुरी बृहती द्वितीयादितृचद्वयस्य विंशीत्रयोविंशीसप्तविंशीनाञ्च दैवी त्रिष्टुप् अष्टम्या दशम्यादितृचस्य चतुर्दश्यादितृचस्य च प्राजापत्या गायत्री सप्तदश्येकोनविंश्येकविंशीचतुर्विंशीपञ्चविंश्येकोनत्रिंशीनां दैवी पङ्क्ति:  नवमीत्रयोदश्यष्टादशीद्वाविंशीषड्विंश्यष्टाविंशीनां दैवी जगती एता एकावसाना:  त्रिंश्याश्च चतुष्पदा त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
आथर्वणानां॑ चतुरृचेभ्य: स्वाहा॑ ॥१॥
पञ्चर्चेभ्य: स्वाहा॑ ॥२॥
षडृचेभ्य: स्वाहा॑ ॥३॥
सप्तर्चेभ्य: स्वाहा॑ ॥४॥
अष्टर्चेभ्य: स्वाहा॑ ॥५॥
नवर्चेभ्य: स्वाहा॑ ॥६॥
दशर्चेभ्य: स्वाहा॑ ॥७॥
एकादशर्चेभ्य: स्वाहा॑ ॥८॥
द्वादशर्चेभ्य: स्वाहा॑ ॥९॥
त्रयोदशर्चेभ्य: स्वाहा॑ ॥१०॥
चतुर्दशर्चेभ्य: स्वाहा॑ ॥११॥
पञ्चदशर्चेभ्य: स्वाहा॑ ॥१२॥
षोडशर्चेभ्य: स्वाहा॑ ॥१३॥
सप्तदशर्चेभ्य: स्वाहा॑ ॥१४॥
अष्टादशर्चेभ्य: स्वाहा॑ ॥१५॥
एकोन्विंशति: स्वाहा॑ ॥१६॥
विंशति: स्वाहा॑ ॥१७॥
महत्काण्डाय स्वाहा॑ ॥१८॥
तृचेभ्य: स्वाहा॑ ॥१९॥
एकर्चेभ्य: स्वाहा॑ ॥२०॥
क्षुद्रेभ्य: स्वाहा॑ ॥२१॥
एकानृचेभ्य: स्वाहा॑ ॥२२॥
रोहितेभ्य: स्वाहा॑ ॥२३॥
सूर्याभ्यां स्वाहा॑ ॥२४॥
व्रात्याभ्यां स्वाहा॑ ॥२५॥
प्राजापत्याभ्यां स्वाहा॑ ॥२६॥
विषासह्यै स्वाहा॑ ॥२७॥
मङ्गलिकेभ्य: स्वाहा॑ ॥२८॥
ब्रह्मणे स्वाहा॑ ॥२९॥
ब्रह्म॑ज्येष्ठा संभृ॑ता वीर्याद्गणि ब्रह्माग्रे ज्येष्ठं दिवमा त॑तान ।
भूतानां॑ ब्रह्मा प्र॑थमोत ज॑ज्ञे तेना॑र्हति ब्रह्म॑णा स्पर्धि॑तुं क: ॥३०॥
 
 
 

चतुर्विंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्ता ब्रह्मणस्पतिर्वा देवता: | प्रथमादितृचस्यानुष्टुप्   चतुर्थ्यादितृचस्याष्टम्या ऋचश्च त्रिष्टुप् सप्तम्याश्च त्रिपदार्षी गायत्री छन्दांसि॥ (hindumantavya.blogspot.in)


येन॑ देवं स॑वितारं परि॑ देवा अधा॑रयन् ।
तेनेमं ब्र॑ह्मणस्पते परि॑ राष्ट्राय॑ धत्तन ॥१॥
परीममिन्द्रमायु॑षे महे क्षत्राय॑ धत्तन ।
यथै॑नं जरसे॑ नयां ज्योक्क्ष्त्रेऽधि॑ जागरत् ॥२॥
परीमं सोममायु॑षे महे श्रोत्रा॑य धत्तन ।
यथै॑नं जरसे॑ नयां ज्योक्श्रोत्रेऽधि॑ जागरत् ॥३॥
परि॑ धत्त धत्त नो वर्च॑सेमं जरामृ॑त्युं कृणुत दीर्घमायु॑: ।
बृहस्पति: प्राय॑च्छद्वास॑ एतत्सोमा॑य राज्ञे परि॑धातवा उ॑ ॥४॥
जरां सु ग॑च्छ परि॑ धत्स्व वासो भवा॑ गृष्टीनाम॑भिशस्तिपा उ॑ ।
शतं च जीव॑ शरद॑: पुरूची रायश्च पोष॑मुपसंव्य॑यस्व ॥५॥
परीदं वासो॑ अधिथा: स्वस्तयेऽभू॑र्वापीनाम॑भिशस्तिपा उ॑ ।
शतं च जीव॑ शरद॑: पुरूचीर्वसू॑नि चारुर्वि भ॑जासि जीव॑न् ॥६॥
योगे॑योगे तवस्त॑रं वाजे॑वाजे हवामहे ।
सखा॑य इन्द्र॑मूतये॑ ॥७॥
हिर॑ण्यवर्णो अजर॑: सुवीरो॑ जरामृ॑त्यु: प्रजया सं वि॑शस्व ।
तदग्निरा॑ह तदु सोम॑ आह बृहस्पति॑: सविता तदिन्द्र॑: ॥८॥
 
 
पञ्चविंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य गोपथ ऋषि: | वाजी देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 
 
अश्रा॑न्तस्य त्वा मन॑सा युनज्मि॑ प्रथमस्य॑ च ।
उत्कू॑लमुद्वहो भ॑वोदुह्य प्रति॑ धावतात् ॥१॥
 
षड्विंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्हिरण्यञ्च देवता: | प्रथमाद्वितीययोरृचोस्त्रिष्टुप् तृतीयाया अनुष्टुप्  चतुर्थ्याश्च पथ्यापङ्क्तिश्छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
अग्ने: प्रजा॑तं परि यद्धिर॑ण्यममृतं॑ दध्रे अधि मर्त्ये॑षु ।
य ए॑नद्वेद स इदे॑नमर्हति जरामृ॑त्युर्भवति यो बिभर्ति॑ ॥१॥
यद्धिर॑ण्यं सूर्ये॑ण सुवर्णं॑ प्रजाव॑न्तो मन॑व: पूर्व॑ ईषिरे ।
तत्त्वा॑ चन्द्रं वर्च॑सा सं सृ॑जत्यायु॑ष्मान्भवति यो बिभर्ति॑ ॥२॥
आयु॑षे त्वा वर्च॑से त्वौज॑से च बला॑य च ।
यथा॑ हिरण्यतेज॑सा विभासा॑सि जनाँ अनु॑ ॥३॥
यद्वेद राजा वरु॑णो वेद॑ देवो बृहस्पति॑: ।
इन्द्रो यद्वृ॑त्रहा वेद तत्त॑ आयुष्यंद्ग भुवत्तत्ते॑ वर्चस्यंद्ग भुवत् ॥४॥
 
 

सप्तविंशं सूक्तम्» पञ्चदशर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | त्रिवृच्चन्द्रमा वा देवता: | प्रथमाद्वितीययोरृचोश्चतुर्थ्यादिपञ्चानां चतुर्दश्याश्चानुष्टुप्  तृतीयानवम्योस्त्रिष्टुप्  दशम्या विराट्स्थाना त्रिष्टुप् एकादश्या एकावसानार्च्युष्णिक्  द्वादश्या एकावसानार्च्यनुष्टुप् त्रयोदश्या एकावसाना साम्नी त्रिष्टुप् पञ्चदश्याश्च त्र्यवसाना सप्तपदा बृहतीगर्भातिशक्वरी छन्दांसि॥ (hindumantavya.blogspot.in)


गोभि॑ष्ट्वा पात्वृषभो वृषा॑ त्वा पातु वाजिभि॑: ।
वायुष्ट्वा ब्रह्म॑णा पात्विन्द्र॑स्त्वा पात्विन्द्रियै: ॥१॥
सोम॑स्त्वा पात्वोष॑धीभिर्नक्ष॑त्रै: पातु सूर्य॑: ।
माद्भ्यस्त्वा॑ चन्द्रो वृ॑त्रहा वात॑: प्राणेन॑ रक्षतु ॥२॥
तिस्रो दिव॑स्तिस्र: पृ॑थिवीस्त्रीण्यन्तरि॑क्षाणि चतुर॑: समुद्रान् ।
त्रिवृतं स्तोमं॑ त्रिवृत आप॑ आहुस्तास्त्वा॑ रक्षन्तु त्रिवृता॑ त्रिवृद्भि॑: ॥३॥
त्रीन्नाकांस्त्रीन्स॑मुद्रांस्त्रीन्ब्रध्नांस्त्रीन्वै॑ष्टपान् ।
त्रीन्मा॑तरिश्व॑नस्त्रीन्त्सूर्या॑न्गोप्तॄन्क॑ल्पयामि ते ॥४॥
घृतेन॑ त्वा समु॑क्षाम्यग्न आज्ये॑न वर्धय॑न् ।
अग्नेश्चन्द्रस्य सूर्य॑स्य मा प्राणं मायिनो॑ दभन् ॥५॥
मा व॑: प्राणं मा वो॑ऽपानं मा हरो॑ मायिनो॑ दभन् ।
भ्राज॑न्तो विश्ववे॑दसो देवा दैव्ये॑न धावत ॥६॥
प्राणेनाग्निं सं सृ॑जति वात॑: प्राणेन संहि॑त: ।
प्राणेन॑ विश्वतो॑मुखं सुर्यं॑ देवा अ॑जनयन् ॥७॥
आयु॑षायुष्कृतां॑ जीवायु॑ष्माञ्जीव मा मृ॑था: ।
प्राणेना॑त्मन्वतां॑ जीव मा मृत्योरुद॑गा वश॑म् ॥८॥
देवानां निहि॑तं निधिं यमिन्द्रोऽन्ववि॑न्दत्पथिभि॑र्देवयानै॑: ।
आपो हिर॑ण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा॑ रक्षन्तु त्रिवृता॑ त्रिवृद्भि॑: ॥९॥
त्रय॑स्त्रिंशद्देवतास्त्रीणि॑ च वीर्याद्गणि प्रियायमा॑णा जुगुपुरप्स्व१न्त ।
अस्मिंश्चन्द्रे अधि यद्धिर॑ण्यं तेनायं कृ॑णवद्वीर्या॑णि ॥१०॥
ये दे॑वा दिव्येका॑दश स्थ ते दे॑वासो हविरिदं जु॑षध्वम् ॥११॥
ये दे॑वा अन्तरि॑क्ष एका॑दश स्थ ते दे॑वासो हविरिदं जु॑षध्वम् ॥१२॥
ये दे॑वा: पृथिव्यामेका॑दश स्थ ते दे॑वासो हविरिदं जु॑षध्वम् ॥१३॥
असपत्नं पुरस्ता॑त्पश्चान्नो अभ॑यं कृतम् ।
सविता मा॑ दक्षिणत उ॑त्तरान्मा शचीपति॑: ॥१४॥
दिवो मा॑दित्या र॑क्षन्तु भूम्या॑ रक्षन्त्वग्नय॑: ।
इन्द्राग्नी र॑क्षतां मा पुरस्ता॑दश्विना॑वभित: शर्म॑ यच्छताम् ।
तिरश्चीनघ्न्या र॑क्षतु जातवे॑दा भूतकृतो॑ मे सर्वत॑: सन्तु वर्म॑ ॥१५॥
 
 

अष्टाविंशं सूक्तम्» दशर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | दर्भमणिर्देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 
 
इमं ब॑ध्नामि ते मणिं दी॑र्घायुत्वाय तेज॑से ।
दर्भं स॑पत्नदम्भ॑नं द्विषतस्तप॑नं हृद: ॥१॥
द्विषतस्तापय॑न्हृद: शत्रू॑णां तापयन्मन॑: ।
दुर्हार्द: सर्वांस्त्वं द॑र्भ घर्म इ॑वाभीन्त्सं॑तापय॑न् ॥२॥
घर्म इ॑वाभितप॑न्दर्भ द्विषतो नितप॑न्मणे ।
हृद: सपत्ना॑नां भिन्द्धीन्द्र॑ इव विरुजं बलम् ॥३॥
भिन्धि द॑र्भ सपत्ना॑नां हृद॑यं द्विषतां म॑णे ।
उद्यन्त्वच॑मिव भूम्या: शिर॑ एषां वि पा॑तय ॥४॥
भिन्धि द॑र्भ सपत्ना॑न्मे भिन्धि मे॑ पृतनायत: ।
भिन्धि मे सर्वा॑न्दुर्हार्दो॑ भिन्धि मे॑ द्विषतो म॑णे ॥५॥
छिन्धि द॑र्भ सपत्ना॑न्मे छिन्धि मे॑ पृतनायत: ।
छिन्धि मे सर्वा॑न्दुर्हार्दा॑न् छिन्धि मे॑ द्विषतो म॑णे ॥६॥
वृश्च द॑र्भ सपत्ना॑न्मे वृश्च मे॑ पृतनायत: ।
वृश्च मे सर्वा॑न्दुर्हार्दो॑ वृश्च मे॑ द्विषतो म॑णे ॥७॥
कृन्त द॑र्भ सपत्ना॑न्मे कृन्त मे॑ पृतनायत: ।
कृन्त मे सर्वा॑न्दुर्हार्दा॑न्कृन्त मे॑ द्विषतो म॑णे ॥८॥
पिंश द॑र्भ सपत्ना॑न्मे पिंश मे॑ पृतनायत: ।
पिंश मे सर्वा॑न्दुर्हार्द॑: पिंश मे॑ द्विषतो म॑णे ॥९॥
विध्य॑ दर्भ सपत्ना॑न्मे विध्य॑ मे पृतनायत: ।
विध्य॑ मे सर्वा॑न्दुर्हार्दो विध्य॑ मे द्विषतो म॑णे ॥१०॥
 
 

एकोनत्रिंशं सूक्तम्» नवर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | दर्भमणिर्देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 
 
निक्ष॑ दर्भ सपत्ना॑न्मे निक्ष॑ मे पृतनायत: ।
निक्ष॑ मे सर्वा॑न्दुर्हार्दो निक्ष॑ मे द्विषतो म॑णे ॥१॥
तृन्धि द॑र्भ सपत्ना॑न्मे तृन्धि मे॑ पृतनायत: ।
तृन्धि मे सर्वा॑न्दुर्हार्द॑स्तृन्धि मे॑ द्विषतो म॑णे ॥२॥
रुन्धि द॑र्भ सपत्ना॑न्मे रुन्धि मे॑ पृतनायत: ।
रुन्धि मे सर्वा॑न्दुर्हार्दो रुन्धि मे॑ द्विषतो म॑णे ॥३॥
मृण द॑र्भ सपत्ना॑न्मे मृण मे॑ पृतनायत: ।
मृण मे सर्वा॑न्दुर्हार्दो मृण मे॑ द्विषतो म॑णे ॥४॥
मन्थ॑ द॑र्भ सपत्ना॑न्मे मन्थ॑ मे॑ पृतनायत: ।
मन्थ॑ मे सर्वा॑न्दुर्हार्दो मन्थ॑ मे॑ द्विषतो म॑णे ॥५॥
पिण्ढि द॑र्भ सपत्ना॑न्मे पिण्ढि मे॑ पृतनायत: ।
पिण्ढि मे सर्वा॑न्दुर्हार्दो पिण्ढि मे॑ द्विषतो म॑णे ॥६॥
ओष॑ द॑र्भ सपत्ना॑न्मे ओष॑ मे॑ पृतनायत: ।
ओष॑ मे सर्वा॑न्दुर्हार्दो ओष॑ मे॑ द्विषतो म॑णे ॥७॥
दह॑ द॑र्भ सपत्ना॑न्मे दह॑ मे॑ पृतनायत: ।
दह॑ मे सर्वा॑न्दुर्हार्दो दह॑ मे॑ द्विषतो म॑णे ॥८॥
जहि द॑र्भ सपत्ना॑न्मे जहि मे॑ पृतनायत: ।
जहि मे सर्वा॑न्दुर्हार्दो जहि मे॑ द्विषतो म॑णे ॥९॥
 
 
 
त्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | दर्भमणिर्देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 
 
यत्ते॑ दर्भ जरामृ॑त्यु शतं वर्म॑सु वर्म॑ ते ।
तेनेमं वर्मिणं॑ कृत्वा सपत्नां॑ जहि वीर्यैद्ग: ॥१॥
शतं ते॑ दर्भ वर्मा॑णि सहस्रं॑ वीर्या॑णि ते ।
तमस्मै विश्वे त्वां देवा जरसे भर्तवा अ॑दु: ॥२॥
त्वामा॑हुर्देववर्म त्वां द॑र्भ ब्रह्म॑णस्पति॑म् ।
त्वामिन्द्र॑स्याहुर्वर्म त्वं राष्ट्राणि॑ रक्षसि ॥३॥
सपत्नक्षय॑णं दर्भ द्विषतस्तप॑नं हृद: ।
मणिं क्षत्रस्य वर्ध॑नं तनूपानं॑ कृणोमि ते ॥४॥
यत्स॑मुद्रो अभ्यक्र॑न्दत्पर्जन्यो॑ विद्युता॑ सह ।
ततो॑ हिरन्ययो॑ बिन्दुस्ततो॑ दर्भो अ॑जायत ॥५॥
 
 
एकत्रिंशं सूक्तम्» चतुर्दशर्चस्यास्य सूक्तस्य सविता ऋषि: | औदुम्बरमणिर्देवता: | प्रथमादिचतसृणामृचां सप्तम्यादिचतसृणाञ्चानुष्टुप्  पञ्चमीद्वादश्योस्त्रिष्टुप्  षष्ठ्या विराट् प्रस्तारपङ्क्ति: एकादशीत्रयोदश्यो: पञ्चपदा शक्वरी  चतुर्दश्याश्च विराडास्तारपङ्क्तिश्छन्दांसि॥ (hindumantavya.blogspot.in)
 


औदु॑म्बरेण मणिना पुष्टि॑कामाय वेधसा॑ ।
पशूनां सर्वे॑षां स्फातिं गोष्ठे मे॑ सविता क॑रत् ॥१॥
यो नो॑ अग्निर्गार्ह॑पत्य: पशूनाम॑धिपा अस॑त् ।
औदु॑म्बरो वृषा॑ मणि: सं मा॑ सृजतु पुष्ट्या ॥२॥
करीषिणीं फल॑वतीं स्वधामिरां॑ च नो गृहे ।
औदु॑म्बरस्य तेज॑सा धाता पुष्टिं द॑धातु मे ॥३॥
यद्द्विपाच्च चतु॑ष्पाच्च यान्यन्ना॑नि ये रसा॑: ।
गृह्णे३ऽहं त्वेषां॑ भूमानं बिभ्रदौदु॑म्बरं मणिम् ॥४॥
पुष्टिं प॑शूनां परि॑ जग्रभाहं चतु॑ष्पदां द्विपदां यच्च॑ धान्यद्गम् ।
पय॑: पशूनां रसमोष॑धीनां बृहस्पति॑: सविता मे नि य॑च्छात् ॥५॥
अहं प॑शूनाम॑धिपा अ॑सानि मयि॑ पुष्टं पु॑ष्टपति॑र्दधातु ।
मह्यमौदु॑म्बरो मणिर्द्रवि॑णानि नि य॑च्छतु ॥६॥
उप मौदु॑म्बरो मणि: प्रजया॑ च धने॑न च ।
इन्द्रे॑ण जिन्वितो मणिरा मा॑गन्त्सह वर्च॑सा ॥७॥
देवो मणि: स॑पत्नहा ध॑नसा धन॑सातये ।
पशोरन्न॑स्य भूमानं गवां॑ स्फातिं नि य॑च्छतु ॥८॥
यथाग्रे त्वं व॑नस्पते पुष्ठ्या सह ज॑ज्ञिषे ।
एवा धन॑स्य मे स्फातिमा द॑धातु सर॑स्वती ॥९॥
आ मे धनं सर॑स्वती पय॑स्फातिं च धान्यद्गम् ।
सिनीवाल्युपा॑ वहादयं चौदु॑म्बरो मणि: ॥१०॥
त्वं म॑णीनाम॑धिपा वृषा॑सि त्वयि॑ पुष्टं पु॑ष्टपति॑र्जजान ।
त्वयीमे वाजा द्रवि॑णानि सर्वौदु॑म्बर: स त्वमस्मत्स॑हस्वारादरा॑तिमम॑तिं क्षुधं॑ च ॥११॥
ग्रामणीर॑सि ग्रामणीरुत्थायाभिषि॑क्तोऽभि मा॑ सिञ्च वर्च॑सा ।
तेजो॑ऽसि तेजो मयि॑ धारयाधि॑ रयिर॑सि रयिं मे॑ धेहि ॥१२॥
पुष्टिर॑सि पुष्ट्या मा सम॑ङ्ग्धि गृहमेधी गृहप॑तिं मा कृणु ।
औदु॑म्बर: स त्वमस्मासु॑ धेहि रयिं च॑ न: सर्व॑वीरं नि य॑च्छ रायस्पोषा॑य प्रति॑ मुञ्चे अहं त्वाम् ॥१३॥
अयमौदु॑म्बरो मणिर्वीरो वीराय॑ बध्यते ।
स न॑: सनिं मधु॑मतीं कृणोतु रयिं च॑ न: सर्व॑वीरं नि य॑च्छात् ॥१४॥
 
 

द्वात्रिंशं सूक्तम्» दशर्चस्यास्य सूक्तस्य भृगुरृषि: । मन्त्रोक्ता देवता: | प्रथमादिसप्तर्चामनुष्टुप्  अष्टम्या: पुरस्ताद्बृहती नवम्यास्त्रिष्टुप्  दशम्याश्च जगती छन्दांसि॥ (hindumantavya.blogspot.in)


शतका॑ण्डो दुश्च्यवन: सहस्र॑पर्ण उत्तिर: ।
दर्भो य उग्र ओष॑धिस्तं ते॑ बध्नाम्यायु॑षे ॥१॥
नास्य केशान्प्र व॑पन्ति नोर॑सि ताडमा घ्न॑ते ।
यस्मा॑ अच्छिन्नपर्णेन॑ दर्भेण शर्म॑ यच्छति ॥२॥
दिवि ते तूल॑मोषधे पृथिव्याम॑सि निष्ठि॑त: ।
त्वया॑ सहस्र॑काण्डेनायु: प्र व॑र्धयामहे ॥३॥
तिस्रो दिवो अत्य॑तृणत्तिस्र इमा: पृ॑थिवीरुत ।
त्वयाहं दुर्हार्दो॑ जिह्वां नि तृ॑णद्मि वचां॑सि ॥४॥
त्वम॑सि सह॑मानोऽहम॑स्मि सह॑स्वान् ।
उभौ सह॑स्वन्तौ भूत्वा सपत्ना॑न्सहिषीवहि ॥५॥
सह॑स्व नो अभिमा॑तिं सह॑स्व पृतनायत: ।
सह॑स्व सर्वा॑न्दुर्हार्द॑: सुहार्दो॑ मे बहून्कृ॑धि ॥६॥
दर्भेण॑ देवजातेन॑ दिवि ष्टम्भेन शश्वदित् ।
तेनाहं शश्व॑तो जनाँ अस॑नं सन॑वानि च ॥७॥
प्रियं मा॑ दर्भ कृणु ब्रह्मराजन्याद्गभ्यां शूद्राय चार्या॑य च ।
यस्मै॑ च कामया॑महे सर्व॑स्मै च विपश्य॑ते ॥८॥
यो जाय॑मान: पृथिवीमदृं॑हद्यो अस्त॑भ्नादन्तरि॑क्षं दिवं॑ च ।
यं बिभ्र॑तं ननु पाप्मा वि॑वेद स नोऽयं दर्भो वरु॑णो दिवा क॑: ॥९॥
सपत्नहा शतका॑ण्ड: सह॑स्वानोष॑धीनां प्रथम: सं ब॑भूव ।
स नोऽयं दर्भ: परि॑ पातु विश्वतस्तेन॑ साक्षीय पृत॑ना: पृतन्यत: ॥१०॥
 
 

त्रयस्त्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य भृगुरृषि: । मन्त्रोक्ता देवता: | प्रथमर्चो जगती   द्वितीयापञ्चम्योस्त्रिष्टुप् तृतीयाया आर्षी पङ्क्ति:  चतुर्थ्याश्चास्तारपङ्क्तिश्छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
सहस्रार्घ: शतका॑ण्ड: पय॑स्वानपामग्निर्वीरुधां॑ राजसूय॑म् ।
स नोऽयं दर्भ: परि॑ पातु विश्वतो॑ देवो मणिरायु॑षा सं सृ॑जाति न: ॥१॥
घृतादुल्लु॑प्तो मधु॑मान्पय॑स्वान्भूमिदृंहोऽच्यु॑तश्च्यावयिष्णु: ।
नुदन्त्सपत्नानध॑रांश्च कृण्वन्दर्भा रो॑ह महतामि॑न्द्रियेण॑ ॥२॥
त्वं भूमिमत्येष्योज॑सा त्वं वेद्यां॑ सीदसि चारु॑रध्वरे ।
त्वां पवित्रमृष॑योऽभरन्त त्वं पु॑नीहि दुरितान्यस्मत् ॥३॥
तीक्ष्णो राजा॑ विषासही र॑क्षोहा विश्वच॑र्षणि: ।
ओजो॑ देवानां बल॑मुग्रमेतत्तं ते॑ बध्नामि जरसे॑ स्वस्तये॑ ॥४॥
दर्भेण त्वं कृ॑णवद्वीर्याद्गणि दर्भं बिभ्र॑दात्मना मा व्य॑थिष्ठा: ।
अति॑ष्ठाया वर्चसाधान्यान्त्सूर्य॑ इवा भा॑हि प्रदिशश्चत॑स्र: ॥५॥
 
 
 

चतुस्त्रिंशं सूक्तम्» दशर्चस्यास्य सूक्तस्याङ्ग्रिरा ऋषि: | मन्त्रोक्ता वनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 

जङ्गिडोद्गऽसि जङ्गिडो रक्षि॑तासि जङ्गिद: ।
द्विपाच्चतु॑ष्पादस्माकं सर्वं॑ रक्षतु जङ्गिद: ॥१॥
या गृत्स्य॑स्त्रिपञ्चाशी: शतं कृ॑त्याकृत॑श्च ये ।
सर्वा॑न्विनक्तु तेज॑सोऽरसां ज॑ङ्गिदस्क॑रत् ॥२॥
अरसं कृत्रिमं॑ नादम॑रसा: सप्त विस्र॑स: ।
अपेतो ज॑ङ्गिडाम॑तिमिषुमस्ते॑व शातय ॥३॥
कृत्यादूष॑ण एवायमथो॑ अरातिदूष॑ण: ।
अथो सह॑स्वां जङ्गिड: प्र ण आयुं॑षि तारिषत् ॥४॥
स ज॑ङ्गिडस्य॑ महिमा परि॑ ण: पातु विश्वत॑: ।
विष्क॑न्धं येन॑ सासह संस्क॑न्धमोज ओज॑सा ॥५॥
त्रिष्ट्वा॑ देवा अ॑जनयन्निष्ठि॑तं भूम्यामधि॑ ।
तमु त्वाङ्गि॑रा इति॑ ब्राह्मणा: पूर्व्या वि॑दु: ॥६॥
न त्वा पूर्वा ओष॑धयो न त्वा॑ तरन्ति या नवा॑: ।
विबा॑ध उग्रो ज॑ङ्गिड: प॑रिपाण॑: सुमङ्गल॑: ॥७॥
अथो॑पदान भगवो जाङ्गिडामि॑तवीर्य ।
पुरा त॑ उग्रा ग्र॑सत उपेन्द्रो॑ वीर्यंद्ग ददौ ॥८॥
उग्र इत्ते॑ वनस्पत इन्द्र॑ ओज्मानमा द॑धौ ।
अमी॑वा: सर्वा॑श्चातयं॑ जहि रक्षां॑स्योषधे ॥९॥
आश॑रीकं विश॑रीकं बलासं॑ पृष्ट्यामयम् ।
तक्मानं॑ विश्वशा॑रदमरसां ज॑ङ्गिडस्क॑रत् ॥१०॥
 
 

पञ्चत्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याङ्गिरा ऋषि: | मन्त्रोक्ता वनस्पतिर्देवता: | प्रथमाद्वितीयापञ्चमीनामृचामनुष्टुप् तृतीयाया: पथ्यापङ्क्ति:  चतुर्थ्याश्च निचृत्त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


इन्द्र॑स्य नाम॑ गृह्णन्त ऋष॑यो जङ्गिदं द॑दु: ।
देवा यं चक्रुर्भे॑षजमग्रे॑ विष्कन्धदूष॑णम् ॥१॥
स नो॑ रक्षतु जङ्गिडो ध॑नपालो धने॑व ।
देवा यं चक्रुर्ब्रा॑ह्मणा: प॑रिपाण॑मरातिहम् ॥२॥
दुर्हार्द: संघो॑रं चक्षु॑: पापकृत्वा॑नमाग॑मम् ।
तांस्त्वं स॑हस्रचक्षो प्रतीबोधेन॑ नाशय परिपाणो॑ऽसि जङ्गिड: ॥३॥
परि॑ मा दिव: परि॑ मा पृथिव्या: पर्यन्तरि॑क्षात्परि॑ मा वीरुद्भ्य॑: ।
परि॑ मा भूतात्परि॑ मोत भव्या॑द्दिशोदि॑शो जङ्गिड: पा॑त्वस्मान् ॥४॥
य ऋष्णवो॑ देवकृता य उतो व॑वृतेऽन्य: ।
सर्वां स्तान्विश्वभे॑षजोऽरसां ज॑ङ्गिडस्क॑रत् ॥५॥
 
 
 
षट्त्रिंशं सूक्तम्» षडृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | शतवारो देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 

शतवा॑रो अनीनशद्यक्ष्मान्रक्षां॑सि तेज॑सा ।
आरोहन्वर्च॑सा सह मणिर्दु॑र्णामचात॑न: ॥१॥
शृङ्गा॑भ्यां रक्षो॑ नुदते मूले॑न यातुधान्यद्ग: ।
मध्ये॑न यक्ष्मं॑ बाधते नैनं॑ पाप्माति॑ तत्रति ॥२॥
ये यक्ष्मा॑सो अर्भका महान्तो ये च॑ शब्दिन॑: ।
सर्वा॑न्दुर्णामहा मणि: शतवा॑रो अनीनशत् ॥३॥
शतं वीरान॑जनयच्छतं यक्ष्मानपा॑वपत् ।
दुर्णाम्न: सर्वा॑न्हत्वाव रक्षां॑सि धूनुते ॥४॥
हिर॑ण्यशृङ्ग ऋषभ: शा॑तवारो अयं मणि: ।
दुर्णाम्न: सर्वां॑स्तृड्ढ्वाव रक्षां॑स्यक्रमीत् ॥५॥
शतमहं दुर्णाम्नी॑नां गन्धर्वाप्सरसां॑ शतम् ।
शतं श॑श्वन्वती॑नां शतवा॑रेण वारये ॥६॥
 
 

सप्तत्रिंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्देवता: | प्रथमर्चस्त्रिष्टुप्  द्वितीयाया आस्तारपङ्क्ति: तृतीयायास्त्रिपदा महाबृहती  चतुर्थ्याश्च पुर उष्णिक् छन्दांसि॥ (hindumantavya.blogspot.in)

 

इदं वर्चो॑ अग्निना॑ दत्तमागन्भर्गो यश: सह ओजो वयो बल॑म् ।
त्रय॑स्त्रिंशद्यानि॑ च वीर्याद्गणि तान्यग्नि: प्र द॑दातु मे ॥१॥
वर्च आ धे॑हि मे तन्वां३ सह ओजो वयो बल॑म् ।
इन्द्रियाय॑ त्वा कर्म॑णे वीर्याद्गय प्रति॑ गृह्णामि शतशा॑रदाय ॥२॥
ऊर्जे त्वा बला॑य त्वौज॑से सह॑से त्वा ।
अभिभूया॑य त्वा राष्ट्रभृ॑त्याय पर्यू॑हामि शतशा॑रदाय ॥३॥
ऋतुभि॑ष्ट्वार्तवैरायु॑षे वर्च॑से त्वा ।
संवत्सरस्य तेज॑सा तेन संह॑नु कृण्मसि ॥४॥
 
 

अष्टात्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्याथर्वा ऋषि: | गुग्गुलुर्देवता: |  प्रथमर्चोऽनुष्टुप् द्वितीयायाश्चतुष्पदोष्णिक्  तृतीयायाश्चैकावसाना प्राजापत्यानुष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


न तं यक्ष्मा अरु॑न्धते नैनं॑ शपथो॑ अश्नुते ।
यं भे॑षजस्य॑ गुल्गुलो: सु॑रभिर्गन्धो अ॑श्नुते ॥१॥
विष्व॑ञ्चस्तस्माद्यक्ष्मा॑ मृगा अश्वा॑ इवेरते ।
यद्गु॑ल्गुलु सै॑न्धवं यद्वाप्यसि॑ समुद्रिय॑म् ॥२॥
उभयो॑रग्रभं नामास्मा अ॑रिष्टता॑तये ॥३॥
 
 

एकोनचत्वारिंशं सूक्तम्» दशर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | कुष्ठो देवता: | प्रथमानवमीदशमीनामृचामनुष्टुप्  द्वितीयातृतीययोस्त्र्यवसाना पथ्यापङ्क्ति: चतुर्थ्या: षट्पदा जगती  पञ्चम्याश्चतुरवसाना सप्तपदा शक्वरी षष्ठ्यादितृचस्य च चतुरवसानाष्टपदाष्टिश्छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
ऐतु॑ देवस्त्राय॑माण: कुष्ठो॑ हिमव॑तस्परि॑ ।
तक्मानं सर्वं॑ नाशय सर्वा॑श्च यातुधान्यद्ग: ॥१॥
त्रीणि॑ ते कुष्ठ नामा॑नि नद्यमारो॑ नद्यारि॑ष: ।
नद्यायं पुरु॑सो रिषत् ।
यस्मै॑ परिब्रवी॑मि त्वा सायंप्रा॑तरथो दिवा॑ ॥२॥
जीवला नाम॑ ते माता जी॑वन्तो नाम॑ ते पिता ।
नद्यायं पुरु॑षो रिषत् ।
यस्मै॑ परिब्रवी॑मि त्वा सायंप्रा॑तरथो दिवा॑ ॥३॥
उत्तमो अस्योष॑धीनामनड्वान्जग॑तामिव व्याघ्र: श्वप॑दामिव ।
नद्यायं पुरु॑षो रिषत् ।
यस्मै॑ परिब्रवी॑मि त्वा सायंप्रा॑तरथो दिवा॑ ॥४॥
त्रि: शाम्बु॑भ्यो अङ्गि॑रेभ्यस्त्रिरा॑दित्येभ्यस्परि॑ ।
त्रिर्जातो विश्वदे॑वेभ्य: ।
स कुष्ठो॑ विश्वभे॑षज: साकं सोमे॑न तिष्ठति ।
तक्मानं सर्वं॑ नाशय सर्वा॑श्च यातुधान्यद्ग: ॥५॥
अश्वत्थो दे॑वसद॑नस्तृतीय॑स्यामितो दिवि ।
तत्रामृत॑स्य चक्ष॑णं तत॑: कुष्ठो अ॑जायत ।
स कुष्ठो॑ विश्वभे॑षज: साकं सोमे॑न तिष्ठति ।
तक्मानं सर्वं॑ नाशय सर्वा॑श्च यातुधान्यद्ग: ॥६॥
हिरण्ययी नौर॑चरद्धिर॑ण्यबन्धना दिवि ।
तत्रामृत॑स्य चक्ष॑णं तत॑: कुष्ठो अ॑जायत ।
स कुष्ठो॑ विश्वभे॑षज: साकं सोमे॑न तिष्ठति ।
तक्मानं सर्वं॑ नाशय सर्वा॑श्च यातुधान्यद्ग: ॥७॥
यत्र नाव॑प्रभ्रंश॑नं यत्र॑ हिमव॑त: शिर॑: ।
तत्रामृत॑स्य चक्ष॑णं तत॑: कुष्ठो अ॑जायत ।
स कुष्ठो॑ विश्वभे॑षज: साकं सोमे॑न तिष्ठति ।
तक्मानं सर्वं॑ नाशय सर्वा॑श्च यातुधान्यद्ग: ॥८॥
यं त्वा वेद पूर्व इक्ष्वा॑को यं वा॑ त्वा कुष्ठ काम्यद्ग: ।
यं वा वसो यमात्स्यस्तेनासि॑ विश्वभे॑षज: ॥९॥
शीर्षलोकं तृतीय॑कं सदन्दिर्यश्च॑ हायन: ।
तक्मानं॑ विश्वधावीर्याधराञ्चं परा॑ सुव ॥१०॥
 
 
चत्वारिंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | बृहस्पतिर्विश्वे देवा वा देवता: | प्रथमर्च: परानुष्टुप्त्रिष्टुप्  द्वितीयाया: पुर:ककुम्मत्युपरिष्टाद्बृहती तृतीयाया बृहतीगर्भानुष्टुप्  चतुर्थ्याश्च त्रिपदार्षी गायत्री छन्दांसि॥ (hindumantavya.blogspot.in)

 

यन्मे॑ छिद्रं मन॑सो यच्च॑ वाच: सर॑स्वती मन्युमन्तं॑ जगाम॑ ।
विश्वैस्तद्देवै: सह सं॑विदान: सं द॑धातु बृहस्पति॑: ॥१॥
मा न आपो॑ मेधां मा ब्रह्म प्र म॑थिष्टन ।
शुष्यदा यूयं स्य॑न्दध्वमुप॑हूतोऽहं सुमेधा॑ वर्चस्वी ॥२॥
मा नो॑ मेधां मा नो॑ दीक्षां मा नो॑ हिंसिष्टं यत्तप॑: ।
शिवा न: शं सन्त्वायु॑षे शिवा भ॑वन्तु मातर॑: ॥३॥
मा न: पीप॑रदश्विना ज्योति॑ष्मती तम॑स्तिर: ।
तामस्मे रा॑सतामिष॑म् ॥४॥
 
 
एकचत्वारिंशं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | तपो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


भद्रमिच्छन्त ऋष॑य: स्वर्विदस्तपो॑ दीक्षामु॑पनिषे॑दुरग्रे॑ ।
ततो॑ राष्ट्रं बलमोज॑श्च जातं तद॑स्मै देवा उ॑पसंन॑मन्तु ॥१॥
 
 

द्विचत्वारिंच्शं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ब्रह्म देवता: | प्रथमर्चोऽनुष्टुप्  द्वितीयायास्त्र्यवसाना ककुम्मती पथ्यापङ्क्ति: तृतीयायास्त्रिष्टुप्  चतुर्थ्याश्च जगती छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
ब्रह्म होता ब्रह्म॑ यज्ञा ब्रह्म॑णा स्वर॑वो मिता: ।
अध्वर्युर्ब्रह्म॑णो जातो ब्रह्म॑णोऽन्तर्हि॑तं हवि: ॥१॥
ब्रह्म स्रुचो॑ घृतव॑तीर्ब्रह्म॑णा वेदिरुद्धि॑ता ।
ब्रह्म॑ यज्ञस्य तत्त्वं॑ च ऋत्विजो ये ह॑विष्कृत॑: ।
शमिताय स्वाहा॑ ॥२॥
अंहोमुचे प्र भ॑रे मनीषामा सुत्राव्णे॑ सुमतिमा॑वृणान: ।
इममि॑न्द्र प्रति॑ हव्यं गृ॑भाय सत्या: स॑न्तु यज॑मानस्य कामा॑: ॥३॥
अंहोमुचं॑ वृषभं यज्ञिया॑नां विराज॑न्तं प्रथमम॑ध्वराणा॑म् ।
अपां नपा॑तमश्विना॑ हुवे धिय॑ इन्द्रियेण॑ त इन्द्रियं द॑त्तमोज॑: ॥४॥
 
 
 
त्रिचत्वारिंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ता ब्रह्मा वा देवता: | त्र्यवसाना शङ्कुमती पथ्यापङ्क्तिश्छन्द:॥ (hindumantavya.blogspot.in)

 

यत्र॑ ब्रह्मविदो यान्ति॑ दीक्षया तप॑सा सह ।
अग्निर्मा तत्र॑ नयत्वग्निर्मेधा द॑धातु मे ।
अग्नये स्वाहा॑ ॥१॥
यत्र॑ ब्रह्मविदो यान्ति॑ दीक्षया तप॑सा सह ।
वायुर्मा तत्र॑ नयतु वायु: प्राणान्द॑धातु मे ।
वायवे स्वाहा॑ ॥२॥
यत्र॑ ब्रह्मविदो यान्ति॑ दीक्षया तप॑सा सह ।
सूर्यो॑ मा तत्र॑ नयतु चक्षु: सूर्यो॑ दधातु मे ।
सूर्या॑य स्वाहा॑ ॥३॥
यत्र॑ ब्रह्मविदो यान्ति॑ दीक्षया तप॑सा सह ।
चन्द्रो मा तत्र॑ नयतु मन॑श्चन्द्रो द॑धातु मे ।
चन्द्राय स्वाहा॑ ॥४॥
यत्र॑ ब्रह्मविदो यान्ति॑ दीक्षया तप॑सा सह ।
सोमो॑ मा तत्र॑ नयतु पय: सोमो॑ दधातु मे ।
सोमा॑य स्वाहा॑ ॥५॥
यत्र॑ ब्रह्मविदो यान्ति॑ दीक्षया तप॑सा सह ।
इन्द्रो॑ मा तत्र॑ नयतु बलमिन्द्रो॑ दधातु मे ।
इन्द्रा॑य स्वाहा॑ ॥६॥
यत्र॑ ब्रह्मविदो यान्ति॑ दीक्षया तप॑सा सह ।
आपो॑ मा तत्र॑ नयत्वमृतं मोप॑ तिष्ठतु ।
अद्भ्य: स्वाहा॑ ॥७॥
यत्र॑ ब्रह्मविदो यान्ति॑ दीक्षया तप॑सा सह ।
ब्रह्मा मा तत्र॑ नयतु ब्रह्मा ब्रह्म॑ दधातु मे ।
ब्रह्मणे स्वाहा॑ ॥८॥
 
 
 
चतुश्चत्वारिंशं सूक्तम्» दशर्चस्यास्य सूक्तस्य भृगुरृषि: । प्रथमादिसप्तर्चां दशम्याश्चाञ्जनम्  अष्टमीनवम्योश्च वरुणो देवता: | प्रथमादितृचस्य षष्ठ्यादिपञ्चानाञ्चानुष्टुप्  चतुर्थ्याश्चतुष्पदा शङ्कुमत्युष्णिक् पञ्चम्याश्च त्रिपदा निचृद्विषमा गायत्री छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
आयु॑षोऽसि प्रतर॑णं विप्रं॑ भेषजमु॑च्यसे ।
तदा॑ञ्जन त्वं शं॑ताते शमापो अभ॑यं कृतम् ॥१॥
यो ह॑रिमा जायान्यो॑ऽङ्गभेदो विसल्प॑क: ।
सर्वं॑ ते यक्ष्ममङ्गे॑भ्यो बहिर्निर्हन्त्वाञ्ज॑नम् ॥२॥
आञ्ज॑नं पृथिव्यां जातं भद्रं पु॑रुषजीव॑नम् ।
कृणोत्वप्र॑मायुकं रथ॑जूतिमना॑गसम् ॥३॥
प्राण॑ प्राणं त्रा॑यस्वासो अस॑वे मृड ।
निरृ॑ते निरृ॑त्या न: पाशे॑भ्यो मुञ्च ॥४॥
सिन्धोर्गर्भो॑ऽसि विद्युतां पुष्प॑म् ।
वात॑: प्राण: सूर्यश्चक्षु॑र्दिवस्पय॑: ॥५॥
देवा॑ञ्जन त्रैक॑कुदं परि॑ मा पाहि विश्वत॑: ।
न त्वा॑ तरन्त्योष॑धयो बाह्या: प॑र्वतीया॑ उत ॥६॥
वी३दं मध्यमवा॑सृपद्रक्षोहामी॑वचात॑न: ।
अमी॑वा: सर्वा॑श्चातय॑न्नाशय॑दभिभा इत: ॥७॥
बह्वि३दं रा॑जन्वरुणानृ॑तमाह पूरु॑ष: ।
तस्मा॑त्सहस्रवीर्य मुञ्च न: पर्यंह॑स: ॥८॥
यदापो॑ अघ्न्या इति वरुणेति यदू॑चिम ।
तस्मा॑त्सहस्रवीर्य मुञ्च न: पर्यंह॑स: ॥९॥
मित्रश्च॑ त्वा वरु॑णश्चानुप्रेय॑तुराञ्जन ।
तौ त्वा॑नुगत्य॑ दूरं भोगाय पुनरोह॑तु: ॥१०॥
 
 
 
 
पञ्चचत्वारिंशं सूक्तम्» दशर्चस्यास्य सूक्तस्य भृगुरृषि: ।  प्रथमादिपञ्चर्चामाञ्जनम् षष्ठ्यादिपञ्चानाञ्च मन्त्रोक्ता देवता: |  प्रथमाद्वितीययोरृचोरनुष्टुप् तृतीयादितृचस्य त्रिष्टुप्  षष्ठ्या एकावसाना विराण्महाबृहती सप्तम्यादिचतसृणाञ्चैकावसाना निचृन्महाबृहती छन्दांसि॥ (hindumantavya.blogspot.in)

 

ऋणादृणमि॑व संनय॑न्कृत्यां कृ॑त्याकृतो॑ गृहम् ।
चक्षु॑र्मन्त्रस्य दुर्हार्द॑: पृष्टीरपि॑ शृणाञ्जन ॥१॥
यदस्मासु॑ दुष्वप्न्यं यद्गोषु यच्च॑ नो गृहे ।
अना॑मगस्तच्च॑ दुर्हार्दो॑प्रिय: प्रति॑ मुञ्चताम् ॥२॥
अपामूर्ज ओज॑सो वावृधानमग्नेर्जातमधि॑ जातवे॑दस: ।
चतु॑र्वीरं पर्वतीयं यदाञ्ज॑नं दिश॑: प्रदिश॑: करदिच्छिवास्ते॑ ॥३॥
चतु॑र्वीरं बध्यत आञ्ज॑नं ते सर्वा दिशो अभ॑यास्ते भवन्तु ।
ध्रुवस्ति॑ष्ठासि सवितेव चार्य॑ इमा विशो॑ अभि ह॑रन्तु ते बलिम् ॥४॥
आक्ष्वैकं॑ मणिमेकं॑ कृष्णुष्व स्नाह्येकेना पिबैक॑मेषाम् ।
चतु॑र्वीरं नैरृतेभ्य॑श्चतुर्भ्यो ग्राह्या॑ बन्धेभ्य: परि॑ पात्वस्मान् ॥५॥
अग्निर्माग्निना॑वतु प्राणाया॑पानायायु॑षे वर्च॑स ओज॑से तेज॑से स्वस्तये॑ सुभूतये॑ स्वाहा॑ ॥६॥
इन्द्रो॑ मेन्द्रियेणा॑वतु प्राणाया॑पानायायु॑षे वर्च॑स ओज॑से तेज॑से स्वस्तये॑ सुभूतये॑ स्वाहा॑ ॥७॥
सोमो॑ मा सौम्ये॑नावतु प्राणाया॑पानायायु॑षे वर्च॑स ओज॑से तेज॑से स्वस्तये॑ सुभूतये॑ स्वाहा॑ ॥८॥
भगो॑ मा भगे॑नावतु प्राणाया॑पानायायु॑षे वर्च॑स ओज॑से तेज॑से स्वस्तये॑ सुभूतये॑ स्वाहा॑ ॥९॥
मरुतो॑ मा गणैर॑वन्तु प्राणाया॑पानायायु॑षे वर्च॑स ओज॑से तेज॑से स्वस्तये॑ सुभूतये॑ स्वाहा॑ ॥१०॥
 
 
 

षट्चत्वारिंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य प्रजापतिरृषि: । अस्तृतमणिर्देवता: |  प्रथमर्च: पञ्चपदा मध्येज्योतिष्मती त्रिष्टुप्  द्वितीयाया षट्पदा भुरिक् शक्वरी तृतीयासप्तम्यो: पञ्चपदा पथ्यापङ्क्ति:  चतुर्थ्याश्चतुष्पदा त्रिष्टुप् पञ्चम्या: पञ्चपदा शक्वरी  षष्ठ्याश्च पञ्चपदोष्णिग्गर्भा विराड्जगती छन्दांसि॥ (hindumantavya.blogspot.in)

 

प्रजाप॑तिष्ट्वा बध्नात्प्रथममस्तृ॑तं वीर्याद्गय कम् ।
तत्ते॑ बध्नाम्यायु॑षे वर्च॑स ओज॑से च बला॑य चास्तृ॑तस्त्वाभि र॑क्षतु ॥१॥
ऊर्ध्वस्ति॑ष्ठतु रक्षन्नप्र॑मादमस्तृ॑तेमं मा त्वा॑ दभन्पणयो॑ यातुधाना॑: ।
इन्द्र॑ इव दस्यूनव॑ धूनुष्व पृतन्यत: सर्वांछत्रून्वि ष॑हस्वास्तृ॑तस्त्वाभि र॑क्षतु ॥२॥
शतं च न प्रहर॑न्तो निघ्नन्तो न त॑स्तिरे ।
तस्मिन्निन्द्र: पर्य॑दत्त चक्षु॑: प्राणमथो बलमस्तृ॑तस्त्वाभि र॑क्षतु ॥३॥
इन्द्र॑स्य त्वा वर्म॑णा परि॑ धापयामो यो देवाना॑मधिराजो बभूव॑ ।
पुन॑स्त्वा देवा: प्र ण॑यन्तु सर्वेऽस्तृ॑तस्त्वाभि र॑क्षतु ॥४॥
अस्मिन्मणावेक॑शतं वीर्याद्गणि सहस्रं॑ प्राणा अस्मिन्नस्तृ॑ते ।
व्याघ्र: शत्रू॑नभि ति॑ष्ठ सर्वान्यस्त्वा॑ पृतन्यादध॑र: सो अस्त्वस्तृ॑तस्त्वाभि र॑क्षतु ॥५॥
घृतादुल्लु॑प्तो मधु॑मान्पय॑स्वान्त्सहस्र॑प्राण: शतयो॑निर्वयोधा: ।
शंभूश्च॑ मयोभूश्चोर्ज॑स्वांश्च पय॑स्वांश्चास्तृ॑तस्त्वाभि र॑क्षतु ॥६॥
यथा त्वमु॑त्तरोऽसो॑ असपत्न: स॑पत्नहा ।
सजाताना॑मसद्वशी तथा॑ त्वा सविता क॑रदस्तृ॑तस्त्वाभि र॑क्षतु ॥७॥
 
 
 
सप्तचत्वारिंशं सूक्तम्» नवर्चस्यास्य सूक्तस्य गोपथ ऋषि: | रात्रिर्देवता: | प्रथमर्च: पथ्याबृहती  द्वितीयाया: पञ्चपदानुष्टुब्गर्भा परातिजगती तृतीयादितृचस्याष्टमीनवम्योश्चानुष्टुप्  षष्ठ्या: पुरस्ताद्बृहती सप्तम्याश्च त्र्यवसाना षट्पदा जगती छन्दांसि॥ (hindumantavya.blogspot.in)

 

आ रा॑त्रि पार्थि॑वं रज॑: पितुर॑प्रायि धाम॑भि: ।
दिव: सदां॑सि बृहती वि ति॑ष्ठस आ त्वेषं व॑र्तते तम॑: ॥१॥
न यस्या॑: पारं ददृ॑शे न योयु॑वद्विश्व॑मस्यां नि वि॑शते यदेज॑ति ।
अरि॑ष्टासस्त उर्वि तमस्वति रात्रि॑ पारम॑शीमहि भद्रे॑ पारम॑शीमहि ॥२॥
ये ते॑ रात्रि नृचक्ष॑सो द्रष्टारो॑ नवतीर्नव॑ ।
अशीति: सन्त्यष्टा उतो ते॑ सप्त स॑प्तति: ॥३॥
षष्टिश्च षट्च॑ रेवति पञ्चाशत्पञ्च॑ सुम्नयि ।
चत्वार॑श्चत्वारिंशच्च त्रय॑स्त्रिंशच्च॑ वाजिनि ॥४॥
द्वौ च॑ ते विंशतिश्च॑ ते रात्र्येका॑दशावमा: ।
तेभि॑र्नो अद्य पायुभिर्नु पा॑हि दुहितर्दिव: ॥५॥
रक्षा माकि॑र्नो अघशं॑स ईशत मा नो॑ दु:शंस॑ ईशत ।
मा नो॑ अद्य गवां॑ स्तेनो मावी॑नां वृक॑ ईशत ॥६॥
माश्वा॑नां भद्रे तस्क॑रो मा नृणां या॑तुधान्यद्ग: ।
परमेभि॑: पथिभि॑ स्तेनो धा॑वतु तस्क॑र: ।
परे॑ण दत्वती रज्जु: परे॑णाघायुर॑र्षतु ॥७॥
अध॑ रात्रि तृष्टधू॑ममशीर्षाणमहिं॑ कृणु ।
हनू वृक॑स्य जम्भयास्तेन तं द्रु॑पदे ज॑हि ॥८॥
त्वयि॑ रात्रि वसामसि स्वपिष्याम॑सि जागृहि ।
गोभ्यो॑ न: शर्म॑ यच्छाश्वे॑भ्य: पुरु॑षेभ्य: ॥९॥
 
 
 
अष्टचत्वारिंशं सूक्तम्» षडृचस्यास्य सूक्तस्य गोपथ ऋषि: | रात्रिर्देवता: |  प्रथमर्चस्त्रिपदार्षी गायत्री  द्वितीयायास्त्रिपदा विराडनुष्टुप्  तृतीयाया बृहतीगर्भानुष्टुप् चतुर्थीषष्ठ्योरनुष्टुप्  पञ्चम्याश्च पथ्यापङ्किश्छन्दांसि॥ (hindumantavya.blogspot.in)

 

अथो यानि॑ च यस्मा॑ ह यानि॑ चान्त: प॑रीणहि॑ ।
तानि॑ ते परि॑ दद्मसि ॥१॥
रात्रि मात॑रुषसे॑ न: परि॑ देहि ।
उषो नो अह्ने परि॑ ददात्वहस्तुभ्यं॑ विभावरि ॥२॥
यत्किं चेदं पतय॑ति यत्किं चेदं स॑रीसृपम् ।
यत्किं च पर्व॑तायासत्वं तस्मात्त्वं रा॑त्रि पाहि न: ॥३॥
सा पश्चात्पा॑हि सा पुर: सोत्तराद॑धरादुत ।
गोपाय॑ नो विभावरि स्तोतार॑स्त इह स्म॑सि ॥४॥
ये रात्रि॑मनुतिष्ठ॑न्ति ये च॑ भूतेषु जाग्र॑ति ।
पशून्ये सर्वान्रक्ष॑न्ति ते न॑ आत्मसु॑ जाग्रति ते न॑: पशुषु॑ जाग्रति ॥५॥
वेद वै रा॑त्रि ते नाम॑ घृताची नाम वा अ॑सि ।
तां त्वां भरद्वा॑जो वेद सा नो॑ वित्तेऽधि॑ जाग्रति ॥६॥
 
 
 
एकोनपञ्चाशं सूक्तम्» दशर्चस्यास्य सूक्तस्य गोपथो भरद्वाजश्च ऋषी । रात्रिर्देवता: |   प्रथमादिपञ्चर्चामष्टम्याश्च त्रिष्टुप्  षष्ठ्या आस्तारपङ्क्ति:  सप्तम्या: पथ्यापङ्क्ति:  नवम्या अनुष्टुप्  दशम्याश्च त्र्यवसाना षट्पदा जगती छन्दांसि॥ (hindumantavya.blogspot.in)

 

इषिरा योषा॑ युवतिर्दमू॑ना रात्री॑ देवस्य॑ सवितुर्भग॑स्य ।
अश्वक्षभा सुहवा संभृ॑तश्रीरा प॑प्रौ द्यावा॑पृथिवी म॑हित्वा ॥१॥
अति विश्वा॑न्यरुहद्गम्भीरो वर्षि॑ष्ठमरुहन्त श्रवि॑ष्ठा: ।
उशती रात्र्यनु सा भद्राभि ति॑ष्ठते मित्र इ॑व स्वधाभि॑: ॥२॥
वर्ये वन्द्ये सुभ॑गे सुजा॑त आज॑गन्रात्रि॑ सुमना॑ इह स्या॑म् ।
अस्मांस्त्रा॑यस्व नर्या॑णि जाता अथो यानि गव्या॑नि पुष्ठ्या ॥३॥
सिंहस्य रात्र्यु॑शती पींषस्य॑ व्याघ्रस्य॑ द्वीपिनो वर्च आ द॑दे ।
अश्व॑स्य ब्रध्नं पुरु॑षस्य मायुं पुरु रूपाणि॑ कृणुषे विभाती ॥४॥
शिवां रात्रि॑मनुसूर्यं॑ च हिमस्य॑ माता सुहवा॑ नो अस्तु ।
अस्य स्तोम॑स्य सुभगे नि बो॑ध येन॑ त्वा वन्दे विश्वा॑सु दिक्षु ॥५॥
स्तोम॑स्य नो विभावरि रात्रि राजे॑व जोषसे ।
असा॑म सर्व॑वीरा भवा॑म सर्व॑वेदसो व्युच्छन्तीरनूषस॑: ॥६॥
शम्या॑ ह नाम॑ दधिषे मम दिप्स॑न्ति ये धना॑ ।
रात्रीहि तान॑सुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते॑ ॥७॥
भद्रासि॑ रात्रि चमसो न विष्टो विष्वं गोरू॑पं युवतिर्बि॑भर्षि ।
चक्षु॑ष्मती मे उशती वपूं॑षि प्रति त्वं दिव्या न क्षाम॑मुक्था: ॥८॥
यो अद्य स्तेन आय॑त्यघायुर्मर्त्यो॑ रिपु: ।
रात्री तस्य॑ प्रतीत्य प्र ग्रीवा: प्र शिरो॑ हनत् ॥९॥
प्र पादौ न यथाय॑ति प्र हस्तौ न यथाशि॑षत् ।
यो म॑लिम्लुरुपाय॑ति स संपि॑ष्टो अपा॑यति ।
अपा॑यति स्वपा॑यति शुष्के॑ स्थाणावपा॑यति ॥१०॥
 
 
 
पञ्चाशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य गोपथ ऋषि: | रात्रिर्देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


अध॑ रात्रि तृष्टधू॑ममशीर्षाणमहिं॑ कृणु ।
अक्षौ वृक॑स्य निर्ज॑ह्यास्तेन तं द्रु॑पदे ज॑हि ॥१॥
ये ते॑ रात्र्यनड्वाहस्तीक्ष्ण॑शृङ्गा: स्वाशव॑: ।
तेभि॑र्नो अद्य पा॑रयाति॑ दुर्गाणि॑ विश्वहा॑ ॥२॥
रात्रिं॑रात्रिमरि॑ष्यन्तस्तरे॑म तन्वाद्ग वयम् ।
गम्भीरमप्ल॑वा इव न त॑रेयुररा॑तय: ॥३॥
यथा॑ शाम्याक॑: प्रपत॑न्नपवान्नानु॑विद्यते॑ ।
एवा रा॑त्रि प्र पा॑तय यो अस्माँ अ॑भ्यघायति॑ ॥४॥
अप॑ स्तेनं वासो॑ गोअजमुत तस्क॑रम् ।
अथो यो अर्व॑त: शिरो॑ऽभिधाय निनी॑षति ॥५॥
यदद्य रा॑त्रि सुभगे विभजन्त्ययो वसु॑ ।
यदेतदस्मान्भो॑जय यथेदन्यानु॑पायसि॑ ॥६॥
उषसे॑ न: परि॑ देहि सर्वान्रात्र्य॑नागस॑: ।
उषा नो अह्ने आ भ॑जादहस्तुभ्यं॑ विभावरि ॥७॥
 
 

एकपञ्चाशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: |  प्रथमर्च आत्मा द्वितीयायाश्च सविता देवता: |  प्रथमाया एकावसाना ब्राह्म्यनुष्टुप् द्वितीयायाश्चैकावसाना त्रिपदा यवमध्योष्णिक् छन्दांसि॥ (hindumantavya.blogspot.in)

 

अयु॑तोऽहमयु॑तो म आत्मायु॑तं मे चक्षुरयु॑तं मे श्रोत्रमयु॑तो मे प्राणोऽयु॑तो मेऽपानोऽयु॑तो मे व्यानोऽयु॑तोऽहं सर्व॑: ॥१॥
देवस्य॑ त्वा सवितु: प्र॑सवेऽश्विनो॑र्बाहुभ्यां॑ पूष्णो हस्ता॑भ्यां प्रसू॑त आ र॑भे ॥२॥
 
 
 
 

द्विपञ्चाशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | कामो देवता: | प्रथमाद्वितीयाचतुर्थीनामृचां त्रिष्टुप् तृतीयायाश्चतुष्पदोष्णिक्  पञ्चम्याश्चोपरिष्टाद्बृहती छन्दांसि॥ (hindumantavya.blogspot.in)

 

कामस्तदग्रे सम॑वर्तत मन॑सो रेत॑: प्रथमं यदासी॑त् ।
स का॑म कामे॑न बृहता सयो॑नी रायस्पोषं यज॑मानाय धेहि ॥१॥
त्वं का॑म सह॑सासि प्रति॑ष्ठितो विभुर्विभावा॑ सख आ स॑खीयते ।
त्वमुग्र: पृत॑नासु सासहि: सह ओजो यज॑मानाय धेहि ॥२॥
दूराच्च॑कमानाय॑ प्रतिपाणायाक्ष॑ये ।
आस्मा॑ अशृण्वन्नाशा: कामे॑नाजनयन्त्स्वद्ग: ॥३॥
कामे॑न मा काम आगन्हृद॑याद्धृद॑यं परि॑ ।
यदमीषा॑मदो मनस्तदैतूप मामिह ॥४॥
यत्का॑म कामय॑माना इदं कृण्मसि॑ ते हवि: ।
तन्न: सर्वं समृ॑ध्यतामथैतस्य॑ हविषो॑ वीहि स्वाहा॑ ॥५॥
 
 

त्रिपञ्चाशं सूक्तम्» दशर्चस्यास्य सूक्तस्य भृगुरृषि: । सर्वात्मक: कालो देवता: | प्रथमादिचतुरृचां त्रिष्टुप्  पञ्चम्या निचृत्पुरस्ताद्बृहती षष्ठ्यादिपञ्चानाञ्चानुष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 

कालो अश्वो॑ वहति सप्तर॑श्मि: सहस्राक्षो अजरो भूरि॑रेता: ।
तमा रो॑हन्ति कवयो॑ विपश्चितस्तस्य॑ चक्रा भुव॑नानि विश्वा॑ ॥१॥
सप्त चक्रान्व॑हति काल एष सप्तास्य नाभी॑रमृतं न्वक्ष॑: ।
स इमा विश्वा भुव॑नान्यञ्जत्काल: स ई॑यते प्रथमो नु देव: ॥२॥
पूर्ण: कुम्भोऽधि॑ काल आहि॑तस्तं वै पश्या॑मो बहुधा नु सन्त: ।
स इमा विश्वा भुव॑नानि प्रत्यङ्कालं तमा॑हु: परमे व्योद्गमन् ॥३॥
स एव सं भुव॑नान्याभ॑रत्स एव सं भुव॑नानि पर्यै॑त् ।
पिता सन्न॑भवत्पुत्र ए॑षां तस्माद्वै नान्यत्पर॑मस्ति तेज॑: ॥४॥
कालोऽमूं दिव॑मजनयत्काल इमा: पृ॑थिवीरुत ।
काले ह॑ भूतं भव्यं॑ चेषितं ह वि ति॑ष्ठते ॥५॥
कालो भूतिम॑सृजत काले त॑पति सूर्य॑: ।
काले ह विश्वा॑ भूतानि॑ काले चक्षुर्वि प॑श्यति ॥६॥
काले मन॑: काले प्राण: काले नाम॑ समाहि॑तम् ।
कालेन सर्वा॑ नन्दन्त्याग॑तेन प्रजा इमा: ॥७॥
काले तप॑: काले ज्येष्ठं॑ काले ब्रह्म॑ समाहि॑तम् ।
कालो ह सर्व॑स्येश्वरो य: पितासी॑त्प्रजाप॑ते: ॥८॥
तेने॑षितं तेन॑ जातं तदु तस्मिन्प्रति॑ष्ठितम् ।
कालो ह ब्रह्म॑ भूत्वा बिभ॑र्ति परमेष्ठिन॑म् ॥९॥
काल: प्रजा अ॑सृजत कालो अग्रे॑ प्रजाप॑तिम् ।
स्वयंभू: कश्यप॑: कालात्तप॑: कालाद॑जायत ॥१०॥
 
 
 
चतुष्पञ्चाशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य भृगुरृषि: । सर्वात्मक: कालो देवता: | प्रथमातृतीयाचतुर्थीनामृचामनुष्टुप्  द्वितीयायास्त्रिपदार्षी गायत्री पञ्चम्याश्च त्र्यवसाना षट्पदा विराडष्टिश्छन्दांसि॥ (hindumantavya.blogspot.in)

 

कालादाप: सम॑भवन्कालाद्ब्रह्म तपो दिश॑: ।
कालेनोदे॑ति सूर्य॑: काले नि वि॑शते पुन॑: ॥१॥
कालेन वात॑: पवते कालेन॑ पृथिवी मही ।
द्यौर्मही काल आहि॑ता ॥२॥
कालो ह॑ भूतं भव्यं॑ च पुत्रो अ॑जनयत्पुरा ।
कालादृच: सम॑भवन्यजु॑: कालाद॑जायत ॥३॥
कालो यज्ञं समै॑रयद्देवेभ्यो॑ भागमक्षि॑तम् ।
काले ग॑न्धर्वाप्सरस॑: काले लोका: प्रति॑ष्ठिता: ॥४॥
कालेऽयमङ्गि॑रा देवोऽथ॑र्वा चाधि॑ तिष्ठत: ।
इमं च॑ लोकं प॑रमं च॑ लोकं पुण्यां॑श्च लोकान्विधृ॑तीश्च पुण्या॑: ।
सर्वां॑ल्लोकान॑भिजित्य ब्रह्म॑णा काल: स ई॑यते परमो नु देव: ॥५॥
 
 
 
पञ्चपञ्चाशं सूक्तम्» षडृचस्यास्य सूक्तस्य भृगुरृषि: । अग्निर्देवता: |  प्रथमातृतीयाचतुर्थीनामृचां त्रिष्टुप्  द्वितीयाया आस्तारपङ्क्ति:  पचम्यास्त्र्यवसाना पञ्चपदा पुरस्ताज्ज्योतिष्मती त्रिष्टुप्  षष्ठ्याश्च निचृद्बृहती छन्दांसि॥ (hindumantavya.blogspot.in)

 

रात्रिं॑रात्रिमप्र॑यातं भरन्तोऽश्वा॑येव तिष्ठ॑ते घासमस्मै ।
रायस्पोषे॑ण समिषा मद॑न्तो मा ते॑ अग्ने प्रति॑वेशा रिषाम ॥१॥
या ते वसोर्वात इषु: सा त॑ एषा तया॑ नो मृड ।
रायस्पोषे॑ण समिषा मद॑न्तो मा ते॑ अग्ने प्रति॑वेशा रिषाम ॥२॥
सायंसा॑यं गृहप॑तिर्नो अग्नि: प्रात:प्रा॑त: सौमनसस्य॑ दाता ।
वसो॑र्वसोर्वसुदान॑ एधि वयं त्वेन्धा॑नास्तन्वंद्ग पुषेम ॥३॥
प्रात:प्रा॑तर्गृहप॑तिर्नो अग्नि: सायंसा॑यं सौमनसस्य॑ दाता ।
वसो॑र्वसोर्वसुदान॑ एधीन्धा॑नास्त्वा शतंहि॑मा ऋधेम ॥४॥
अप॑श्चा दग्धान्न॑स्य भूयासम् ।
अन्नादायान्न॑पतये रुद्राय नमो॑ अग्नये॑ ।
सभ्य: सभां मे॑ पाहि ये च॑ सभ्या: स॑भासद॑: ॥५॥
त्वामि॑न्द्रा पुरुहूत विश्वमायुर्व्यद्गश्नवन् ।
अह॑रहर्बलिमित्ते हरन्तोऽश्वा॑येव तिष्ठ॑ते घासम॑ग्ने ॥६॥
 
 
 
षट्पञ्चाशं सूक्तम्» षडृचस्यास्य सूक्तस्य यम ऋषि: | दु:स्वप्नो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


यमस्य॑ लोकादध्या ब॑भूविथ प्रम॑दा मर्त्यान्प्र यु॑नक्षि धीर॑: ।
एकाकिना॑ सरथं॑ यासि विद्वान्त्स्वप्नं मिमा॑नो असु॑रस्य योनौ॑ ॥१॥
बन्धस्त्वाग्रे॑ विश्वच॑या अपश्यत्पुरा रात्र्या जनि॑तोरेके अह्नि॑ ।
तत॑: स्वप्नेदमध्या ब॑भूविथ भिषग्भ्यो॑ रूपम॑पगूह॑मान: ॥२॥
बृहद्गावासु॑रेभ्योऽधि॑ देवानुपा॑वर्तत महिमान॑मिच्छन् ।
तस्मै स्वप्ना॑य दधुराधि॑पत्यं त्रयस्त्रिंशास: स्वद्गरानशाना: ॥३॥
नैतां वि॑दु: पितरो नोत देवा येषां जल्पिश्चर॑त्यन्तरेदम् ।
त्रिते स्वप्न॑मदधुराप्त्ये नर आदि॑त्यासो वरु॑णेनानु॑शिष्टा: ॥४॥
यस्य॑ क्रूरम॑भजन्त दुष्कृतोऽस्वप्ने॑न सुकृत: पुण्यमायु॑: ।
स्वद्गर्मदसि परमेण॑ बन्धुना॑ तप्यमा॑नस्य मनसोऽधि॑ जज्ञिषे ॥५॥
विद्म ते सर्वा॑: परिजा: पुरस्ता॑द्विद्म स्व॑प्न यो अ॑धिपा इहा ते॑ ।
यशस्विनो॑ नो यश॑सेह पा॑ह्याराद्द्विषेभिरप॑ याहि दूरम् ॥६॥
 
 

सप्तपञ्चाशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य यम ऋषि: | दु:स्वप्नो देवता: | प्रथमर्चोऽनुष्टुप्  द्वितीयायास्त्रिपदा त्रिष्टुप्  तृतीयायास्त्र्यवसाना त्रिष्टुप् चतुर्थ्या: षट्पदोष्णिग्बृहतीगर्भा विराट् शक्वरी पञ्चम्याश्च त्र्यवसाना पञ्चपदा परशाक्वरातिजगती छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
यथा॑ कलां यथा॑ शफं यथर्णं संनय॑न्ति ।
एवा दुष्वप्न्यं सर्वमप्रि॑ये सं न॑यामसि ॥१॥
सं राजा॑नो अगु: समृणान्य॑गु: सं कुष्ठा अ॑गु: सं कला अ॑गु: ।
समस्मासु यद्दुष्वप्न्यं निर्द्वि॑षते दुष्वप्न्यं॑ सुवाम ॥२॥
देवा॑नां पत्नीनां गर्भ यम॑स्य कर यो भद्र: स्व॑प्न ।
स मम य: पापस्तद्द्वि॑षते प्र हि॑ण्म: ।
मा तृष्टाना॑मसि कृष्णशकुनेर्मुख॑म् ॥३॥
तं त्वा॑ स्वप्न तथा सं वि॑द्म स त्वं स्वप्नाश्व॑ इव कायमश्व॑ इव नीनाहम् ।
अनास्माकं दे॑वपीयुं पिया॑रुं वप यदस्मासु॑ दुष्वप्न्यं यद्गोषु यच्च॑ नो गृहे ॥४॥
अनास्माकस्तद्दे॑वपीयु: पिया॑रुर्निष्कमि॑व प्रति॑ मुञ्चताम् ।
नवा॑रत्नीनप॑मया अस्माकं तत: परि॑ ।
दुष्वप्न्यं सर्वं॑ द्विषते निर्द॑यामसि ॥५॥
 
 
 
अष्टपञ्चाशं सूक्तम्» षडृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | यज्ञो मन्त्रोक्ता वा देवता: |  प्रथमाचतुर्थ्योरृचोस्त्रिष्टुप्  द्वितीयाया: पुरोऽनुष्टुप्त्रिष्टुप्  तृतीयायाश्चतुष्पदातिशक्वरी  पञ्चम्या भुरिक्त्रिष्टुप्  षष्ठ्याश्च जगती छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
घृतस्य॑ जूति: स॑मना सदे॑वा संवत्सरं हविषा॑ वर्धय॑न्ती ।
श्रोत्रं चक्षु॑: प्राणोऽच्छि॑न्नो नो अस्त्वच्छि॑न्ना वयमायु॑षो वर्च॑स: ॥१॥
उपास्मान्प्राणो ह्व॑यतामुप॑ प्राणं ह॑वामहे ।
वर्चो॑ जग्राह पृथिव्य१न्तरि॑क्षं वर्च: सोमो बृहस्पति॑र्विधर्त्ता ॥२॥
वर्च॑सो द्यावा॑पृथिवी संग्रह॑णी बभूवथुर्वर्चो॑ गृहीत्वा पृ॑थिवीमनु सं च॑रेम ।
यश॑सा गावो गोप॑तिमुप॑ तिष्ठन्त्यायतीर्यशो॑ गृहीत्वा पृ॑थिवीमनु सं च॑रेम ॥३॥
व्रजं कृ॑णुध्वं स हि वो॑ नृपाणो वर्मा॑ सीव्यध्वं बहुला पृथूनि॑ ।
पुर॑: कृणुध्वमाय॑सीरधृ॑ष्टा मा व॑: सुस्रोच्चमसो दृं॑हता तम् ॥४॥
यज्ञस्य चक्षु: प्रभृ॑तिर्मुखं॑ च वाचा श्रोत्रे॑ण मन॑सा जुहोमि ।
इमं यज्ञं वित॑तं विश्वक॑र्मणा देवा य॑न्तु सुमनस्यमा॑ना: ॥५॥
ये देवाना॑मृत्विजो ये च॑ यज्ञिया येभ्यो॑ हव्यं क्रियते॑ भागधेय॑म् ।
इमं यज्ञं सह पत्नी॑भिरेत्य याव॑न्तो देवास्त॑विषा मा॑दयन्ताम् ॥६॥
 
 

एकोनषष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | अग्निर्देवता: | प्रथमर्चो गायत्री  द्वितीयातृतीययोश्च त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 

त्वम॑ग्ने व्रतपा अ॑सि देव आ मर्त्येष्वा ।
त्वं यज्ञेष्वीड्य॑: ॥१॥
यद्वो॑ वयं प्र॑मिनाम॑ व्रतानि॑ विदुषां॑ देवा अवि॑दुष्टरास: ।
अग्निष्टद्विश्वादा पृ॑णातु विद्वान्त्सोम॑स्य यो ब्रा॑ह्मणाँ आ॑विवेश॑ ॥२॥
आ देवानामपि पन्था॑मगन्म यच्छक्नवा॑म तद॑नुप्रवो॑दुम् ।
अग्निर्विद्वान्त्स य॑जात्स इद्धोता सोद्गऽध्वरान्त्स ऋतून्क॑ल्पयाति ॥३॥
 
 
षष्टितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | मन्त्रोक्ता वागादयो देवता: | प्रथमर्च: पथ्याबृहती  द्वितीयायाश्च ककुम्मती पुर उष्णिक् छन्दांसि॥ (hindumantavya.blogspot.in)

 
 
वाङ्म॑ आसन्नसो॑: प्राणश्चक्षु॑रक्ष्णो: श्रोत्रं कर्ण॑यो: ।
अप॑लिता: केशा अशो॑णा दन्ता॑ बहु बाह्वोर्बल॑म् ॥१॥
ऊर्वोरोजो जङ्घ॑योर्जव: पाद॑यो: प्रतिष्ठा ।
अरि॑ष्टानि मे सर्वात्मानि॑भृष्ट: ॥२॥
 
 
एकषष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ब्रह्मणस्पतिर्देवता: | विराट्पथ्याबृहती छन्द:॥ (hindumantavya.blogspot.in)


तनूस्तन्वाद्ग मे सहे दत: सर्वमायु॑रशीय ।
स्योनं मे॑ सीद पुरु: पृ॑णस्व पव॑मान: स्वर्गे ॥१॥
 
 

द्विषष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ब्रह्मणस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


प्रियं मा॑ कृणु देवेषु॑ प्रियं राज॑सु मा कृणु ।
प्रियं सर्व॑स्य पश्य॑त उत शूद्र उतार्ये॑ ॥१॥
 
 

त्रिषष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ब्रह्मणस्पतिर्देवता: | विराडुपरिष्टाद्बृहती छन्द:॥ (hindumantavya.blogspot.in)


उत्ति॑ष्ठ ब्रह्मणस्पते देवान्यज्ञेन॑ बोधय ।
आयु॑: प्राणं प्रजां पशूं कीर्तिं यज॑मानं च वर्धय ॥१॥
 
 
चतु:षष्टितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | अग्निर्देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


अग्ने॑ समिधमाहा॑र्षं बृहते जातवे॑दसे ।
स मे॑ श्रद्धां च॑ मेधां च॑ जातवे॑दा: प्र य॑च्छतु ॥१॥
इध्मेन॑ त्वा जातवेद: समिधा॑ वर्धयामसि ।
तथा त्वमस्मान्व॑र्धय प्रजया॑ च धने॑न च ॥२॥
यद॑ग्ने यानि कानि॑ चिदा ते दारू॑णि दध्मसि॑ ।
सर्वं तद॑स्तु मे शिवं तज्जु॑षस्व यविष्ठ्य ॥३॥
एतास्ते॑ अग्ने समिधस्त्वमिद्ध: समिद्भ॑व ।
आयु॑रस्मासु॑ धेह्यमृतत्वमा॑चार्याद्गय ॥४॥
 
 

पञ्चषष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | जातवेदा: सूर्यो देवता: | जगती छन्द:॥ (hindumantavya.blogspot.in)


हरि॑: सुपर्णो दिवमारु॑होऽर्चिषा ये त्वा दिप्स॑न्ति दिव॑मुत्पत॑न्तम् ।
अव तां ज॑हि हर॑सा जातवेदोऽबि॑भ्यदुग्रोऽर्चिषा दिवमा रो॑ह सूर्य ॥१॥
 
 

षट्षष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | जातवेदा: सूर्यो वज्रश्च देवता: | अतिजगती छन्द:॥ (hindumantavya.blogspot.in)


अयो॑जाला असु॑रा मायिनो॑ऽयस्मयै: पाशै॑रङ्किनो ये चर॑न्ति ।
तांस्ते॑ रन्धयामि हर॑सा जातवेद: सहस्र॑भृष्टि: सपत्ना॑न्प्रमृणन्पा॑हि वज्र॑: ॥१॥
 

सप्तषष्टितमं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | सूर्यो देवता: | प्राजापत्या गायत्री छन्द:॥ (hindumantavya.blogspot.in)


पश्ये॑म शरद॑: शतम् ॥१॥
जीवे॑म शरद॑: शतम् ॥२॥
बुध्ये॑म शरद॑: शतम् ॥३॥
रोहे॑म शरद॑: शतम् ॥४॥
पूषे॑म शरद॑: शतम् ॥५॥
भवे॑म शरद॑: शतम् ॥६॥
भूये॑म शरद॑: शतम् ॥७॥
भूय॑सी: शरद॑: शतम् ॥८॥
 
 
अष्टषष्टितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | कर्म देवता: | अनुष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


अव्य॑सश्च व्यच॑सश्च बिलं वि ष्या॑मि मायया॑ ।
ताभ्या॑मुद्धृत्य वेदमथ कर्मा॑णि कृण्महे ॥१॥
 
 
एकोनसप्ततितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आपो देवता: | प्रथमर्च आसुर्यनुष्टुप्  द्वितीयाया: साम्न्यनुष्टुप् तृतीयाया आसुरी गायत्री  चतुर्थ्याश्च साम्न्युष्णिक् छन्दांसि॥ (hindumantavya.blogspot.in)


जीवा स्थ॑ जीव्यासं सर्वमायु॑र्जीव्यासम् ॥१॥
उपजीवा स्थोप॑ जीव्यासं सर्वमायु॑र्जीव्यासम् ॥२॥
संजीवा स्थ सं जी॑व्यासं सर्वमायु॑र्जीव्यासम् ॥३॥
जीवला स्थ॑ जीव्यासं सर्वमायु॑र्जीव्यासम् ॥४॥
 
 
सप्ततितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | सूर्यादयो देवता: | त्रिपदा गायत्री छन्द:॥ (hindumantavya.blogspot.in)


इन्द्र जीव सूर्य जीव देवा जीवा॑ जीव्यास॑महम् ।
सर्वमायु॑र्जीव्यासम् ॥१॥
 
 
 
एकसप्ततितमं सूक्तम्»  एकर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | गायत्री देवता: | त्र्यवसाना पञ्चपदातिजगती छन्द:॥ (hindumantavya.blogspot.in)


स्तुता मया॑ वरदा वे॑दमाता प्र चो॑दयन्तां पावमानी द्विजाना॑म् ।
आयु॑: प्राणं प्रजां पशुं कीर्तिं द्रवि॑णं ब्रह्मवर्चसम् ।
मह्यं॑ दत्त्वा व्र॑जत ब्रह्मलोकम् ॥१॥
 
 
द्विसप्ततितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ब्रह्मा ऋषि: | परमात्मा सर्वे देवाश्च देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 
यस्मात्कोशा॑दुदभ॑राम वेदं तस्मि॑न्नन्तरव॑ दध्म एनम् ।
कृतमिष्टं ब्रह्म॑णो वीर्येद्गण तेन॑ मा देवास्तप॑सावतेह ॥१॥
 

॥इति एकोनविंशं काण्डम्॥

 
अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *