HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् ८ (Atharvved Kand 8)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥ अथ अष्टमं काण्डम् ॥
 

प्रथमं सूक्तम्» एकविंशत्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आयुर्देवता: |  प्रथमर्च: पुरोबृहती त्रिष्टुप्  द्वितीयातृतीययो: सप्तदश्यादिपञ्चानाञ्चानुष्टुप् चतुर्थीनवमीपञ्चदशीषोडशीनां प्रस्तारपङ्क्ति: पञ्चमीषष्ठीदशम्येकादशीनां त्रिष्टुप् सप्तम्यास्त्रिपदा विराड्गायत्री  अष्टम्या विराट्पथ्याबृहती द्वादश्यास्त्र्यवसाना पञ्चपदा जगती  त्रयोदश्यास्त्रिपदा भुरिग्महाबृहती चतुर्दश्याश्चैकावसाना द्विपदा साम्नी भुरिग्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
अन्त॑काय मृत्यवे नम॑: प्राणा अ॑पाना इह ते॑ रमन्ताम् ।
इहायम॑स्तु पुरु॑ष: सहासु॑ना सूर्य॑स्य भागे अमृत॑स्य लोके ॥१॥
उदे॑नं भगो॑ अग्रभीदुदे॑नं सोमो॑ अंशुमान् ।
उदे॑नं मरुतो॑ देवा उदि॑न्द्राग्नी स्वस्तये॑ ॥२॥
इह तेऽसु॑रिह प्राण इहायु॑रिह ते मन॑: ।
उत्त्वा निरृ॑त्या: पाशे॑भ्यो दैव्या॑ वाचा भ॑रामसि ॥३॥
उत्क्रामात॑: पुरुष माव॑ पत्था मृत्यो: पड्बी॑षमवमुञ्चमा॑न: ।
मा च्छि॑त्था अस्माल्लोकादग्ने: सूर्य॑स्य संदृश॑: ॥४॥
तुभ्यं वात॑: पवतां मातरिश्वा तुभ्यं॑ वर्षन्त्वमृतान्याप॑: ।
सूर्य॑स्ते तन्वे३ शं त॑पाति त्वां मृत्युर्द॑यतां मा प्र मे॑ष्ठा: ॥५॥

उद्यानं॑ ते पुरुष नावयानं॑ जीवातुं॑ ते दक्ष॑तातिं कृणोमि ।
आ हि रोहेमममृतं॑ सुखं रथमथ जिर्वि॑र्विदथमा व॑दासि ॥६॥
मा ते मनस्तत्र॑ गान्मा तिरो भून्मा जीवेभ्य: प्र म॑दो मानु॑ गा: पितॄन् ।
विश्वे॑ देवा अभि र॑क्षन्तु त्वेह ॥७॥
मा गतानामा दी॑धीथा ये नय॑न्ति परावत॑म् ।
आ रो॑ह तम॑सो ज्योतिरेह्या ते हस्तौ॑ रभामहे ॥८॥
श्यामश्च॑ त्वा मा शबल॑श्च प्रेषि॑तौ यमस्य यौ प॑थिरक्षी श्वानौ॑ ।
अर्वाङेहि मा वि दी॑ध्यो मात्र॑ तिष्ठ: परा॑ङ्मना: ॥९॥
मैतं पन्थामनु॑ गा भीम एष येन पूर्वं नेयथ तं ब्र॑वीमि ।
तम॑ एतत्पु॑रुष मा प्र प॑त्था भयं परस्तादभ॑यं ते अर्वाक् ॥१०॥
रक्ष॑न्तु त्वाग्नयो ये अप्स्व१न्ता रक्ष॑तु त्वा मनुष्या३ यमिन्धते॑ ।
वैश्वानरो र॑क्षतु जातवे॑दा दिव्यस्त्वा मा प्र धा॑ग्विद्युता॑ सह ॥११॥
मा त्वा॑ क्रव्यादभि मं॑स्तारात्संक॑सुकाच्चर
रक्ष॑तु त्वा द्यौ रक्ष॑तु पृथिवी सूर्य॑श्च त्वा रक्ष॑तां चन्द्रमा॑श्च ।
अन्तरि॑क्षं रक्षतु देवहेत्या: ॥१२॥
बोधश्च॑ त्वा प्रतिबोधश्च॑ रक्षतामस्वप्नश्च॑ त्वानवद्राणश्च॑ रक्षताम् ।
गोपायंश्च॑ त्वा जागृ॑विश्च रक्षताम् ॥१३॥
ते त्वा॑ रक्षन्तु ते त्वा॑ गोपायन्तु तेभ्यो नमस्तेभ्य: स्वाहा॑ ॥१४॥
जीवेभ्य॑स्त्वा समुदे॑ वायुरिन्द्रो॑ धाता द॑धातु सविता त्राय॑माण: ।
मा त्वा॑ प्राणो बलं॑ हासीदसुं तेऽनु॑ ह्वयामसि ॥१५॥
मा त्वा॑ जम्भ: संह॑नुर्मा तमो॑ विदन्मा जिह्वा बर्हि: प्र॑मयु: कथा स्या॑: ।
उत्त्वा॑दित्या वस॑वो भरन्तूदि॑न्द्राग्नी स्वस्तये॑ ॥१६॥
उत्त्वा द्यौरुत्पृ॑थिव्युत्प्रजाप॑तिरग्रभीत् ।
उत्त्वा॑ मृत्योरोष॑धय: सोम॑राज्ञीरपीपरन् ॥१७॥
अयं दे॑वा इहैवास्त्वयं मामुत्र॑ गादित: ।
इमं सहस्र॑वीर्येण मृत्योरुत्पा॑रयामसि ॥१८॥
उत्त्वा॑ मृत्योर॑पीपरं सं ध॑मन्तु वयोधस॑: ।
मा त्वा॑ व्यस्तकेश्यो३ मा त्वा॑घरुदो॑ रुदन् ॥१९॥
आहा॑र्षमवि॑दं त्वा पुनरागा: पुन॑र्णव: ।
सर्वा॑ङ्ग सर्वं॑ ते चक्षु: सर्वमायु॑श्च तेऽविदम् ॥२०॥
व्यद्गवात्ते ज्योति॑रभूदप त्वत्तमो॑ अक्रमीत् ।
अप त्वन्मृत्युं निरृ॑तिमप यक्ष्मं नि द॑ध्मसि ॥२१॥
 
 

 द्वितीयं सूक्तम्» अष्टाविंशत्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आयुर्देवता: | प्रथमाद्वितीययोरृचो: सप्तम्याश्च भुरिक्त्रिष्टुप् तृतीयाषड्विंश्योरास्तारपङ्क्ति:  चतुर्थ्या: प्रस्तारपङ्क्ति: पञ्चमीदशमीषोडश्यष्टादशीविंशीनां त्रयोविंश्यादितृचस्य सप्तविंश्याश्चानुष्टुप्  षष्ठीपञ्चदश्यो: पथ्यापङ्क्ति: अष्टम्या: पुरस्ताज्ज्योतिष्मती जगती  नवम्या: पञ्चपदा जगती  एकादश्या विष्टारपङ्क्ति: द्वादशीद्वाविंश्यष्टाविंशीनां पुरस्ताद्बृहती  त्रयोदश्यास्त्रिष्टुप् चतुर्दश्यास्त्र्यवसाना षट्पदा जगती  सप्तदश्यास्त्रिपदानुष्टुप् एकोनविंश्या उपरिष्टाद्बृहती  एकविंश्याश्च सत:पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


आ र॑भस्वेमाममृत॑स्य श्नुष्टिमच्छि॑द्यमाना जरद॑ष्टिरस्तु ते ।
असुं॑ त आयु: पुनरा भ॑रामि रजस्तमो मोप॑ गा मा प्र मे॑ष्ठा: ॥१॥
जीव॑तां ज्योति॑रभ्येह्यर्वाङा त्वा॑ हरामि शतशा॑रदाय ।
अवमुञ्चन्मृ॑त्युपाशानश॑स्तिं द्राघी॑य आयु॑: प्रतरं ते॑ दधामि ॥२॥
वाता॑त्ते प्राणम॑विदं सूर्याच्चक्षु॑रहं तव॑ ।
यत्ते मनस्त्वयि तद्धा॑रयामि सं वित्स्वाङ्गैर्वद॑ जिह्वयाल॑पन् ॥३॥
प्राणेन॑ त्वा द्विपदां चतु॑ष्पदामग्निमि॑व जातमभि सं ध॑मामि ।
नम॑स्ते मृत्यो चक्षु॑षे नम॑: प्राणाय॑ तेऽकरम् ॥४॥
अयं जी॑वतु मा मृ॑तेमं समी॑रयामसि ।
कृणोम्य॑स्मै भेषजं मृत्यो मा पुरु॑षं वधी: ॥५॥
जीवलां न॑घारिषां जी॑वन्तीमोष॑धीमहम् ।
त्रायमाणां सह॑मानां सह॑स्वतीमिह हु॑वेऽस्मा अ॑रिष्टता॑तये ॥६॥
अधि॑ ब्रूहि मा र॑भथा: सृजेमं तवैव सन्त्सर्व॑हाया इहास्तु॑ ।
भवा॑शर्वौ मृडतं शर्म॑ यच्छतमपसिध्य॑ दुरितं ध॑त्तमायु॑: ॥७॥
अस्मै मृ॑त्यो अधि॑ ब्रूहीमं द॑यस्वोदितो३ऽयमे॑तु ।
अरि॑ष्ट: सर्वा॑ङ्ग: सुश्रुज्जरसा॑ शतहा॑यन आत्मना भुज॑मश्नुताम् ॥८॥
देवानां॑ हेति: परि॑ त्वा वृणक्तु पारया॑मि त्वा रज॑स उत्त्वा॑ मृत्योर॑पीपरम् ।
आरादग्निं क्रव्यादं॑ निरूहं॑ जीवात॑वे ते परिधिं द॑धामि ॥९॥
यत्ते॑ नियानं॑ रजसं मृत्यो॑ अनवधर्ष्यद्गम् ।
पथ इमं तस्माद्रक्ष॑न्तो ब्रह्मा॑स्मै वर्म॑ कृण्मसि ॥१०॥
कृणोमि॑ ते प्राणापानौ जरां मृत्युं दीर्घमायु॑: स्वस्ति ।
वैवस्वतेन प्रहि॑तान्यमदूतांश्चरतोऽप॑ सेधामि सर्वा॑न् ॥११॥
आरादरा॑तिं निरृ॑तिं परो ग्राहिं॑ क्रव्याद॑: पिशाचान् ।
रक्षो यत्सर्वं॑ दुर्भूतं तत्तम॑ इवाप॑ हन्मसि ॥१२॥
अग्नेष्ट॑ प्राणममृतादायु॑ष्मतो वन्वे जातवे॑दस: ।
यथा न रिष्या॑ अमृत॑: सजूरसस्तत्ते॑ कृणोमि तदु॑ ते समृ॑ध्यताम् ॥१३॥
शिवे ते॑ स्तां द्यावा॑पृथिवी अ॑संतापे अ॑भिश्रियौ॑ ।
शं ते सूर्य आ त॑पतु शं वातो॑ वातु ते हृदे ।
शिवा अभि क्ष॑रन्तु त्वापो॑ दिव्या: पय॑स्वती: ॥१४॥
शिवास्ते॑ सन्त्वोष॑धय उत्त्वा॑हार्षमध॑रस्या उत्त॑रां पृथिवीमभि ।
तत्र॑ त्वादित्यौ र॑क्षतां सूर्याचन्द्रमसा॑वुभा ॥१५॥
यत्ते वास॑: परिधानं यां नीविं कृ॑णुषे त्वम् ।
शिवं ते॑ तन्वे३ तत्कृ॑ण्म: संस्पर्शेऽद्रू॑क्ष्णमस्तु ते ॥१६॥
यत्क्षुरेण॑ मर्चय॑ता सुतेजसा वप्ता वप॑सि केशश्मश्रु ।
शुभं मुखं मा न आयु: प्र मो॑षी: ॥१७॥
शिवौ ते॑ स्तां व्रीहियवाव॑बलासाव॑दोमधौ ।
एतौ यक्ष्मं वि बा॑धेते एतौ मु॑ञ्चतो अंह॑स: ॥१८॥
यदश्नासि यत्पिब॑सि धान्यंद्ग कृष्या: पय॑: ।
यदाद्यं१ यद॑नाद्यं सर्वं॑ ते अन्न॑मविषं कृ॑णोमि ॥१९॥
अह्ने॑ च त्वा रात्र॑ये चोभाभ्यां परि॑ दद्मसि ।
अराये॑भ्यो जिघत्सुभ्य॑ इमं मे परि॑ रक्षत ॥२०॥
शतं तेऽयुतं॑ हायनान्द्वे युगे त्रीणि॑ चत्वारि॑ कृण्म: ।
इन्द्राग्नी विश्वे॑ देवास्तेऽनु॑ मन्यन्तामहृ॑णीयमाना: ॥२१॥
शरदे॑ त्वा हेमन्ताय॑ वसन्ताय॑ ग्रीष्माय परि॑ दद्मसि ।
वर्षाणि तुभ्यं॑ स्योनानि येषु वर्ध॑न्त ओष॑धी: ॥२२॥
मृत्युरी॑शे द्विपदां॑ मृत्युरी॑शे चतु॑ष्पदाम् ।
तस्मात्त्वां मृत्योर्गोप॑तेरुद्भ॑रामि स मा बि॑भे: ॥२३॥
सोद्गऽरिष्ट न म॑रिष्यसि न म॑रिष्यसि मा बि॑भे: ।
न वै तत्र॑ म्रियन्ते नो य॑न्त्यधमं तम॑: ॥२४॥
सर्वो वै तत्र॑ जीवति गौरश्व: पुरु॑ष: पशु: ।
यत्रेदं ब्रह्म॑ क्रियते॑ परिधिर्जीव॑नाय कम् ॥२५॥
परि॑ त्वा पातु समानेभ्यो॑ऽभिचारात्सब॑न्धुभ्य: ।
अम॑म्रिर्भवामृतो॑ऽतिजीवो मा ते॑ हासिषुरस॑व: शरी॑रम् ॥२६॥
ये मृत्यव एक॑शतं या नाष्ट्रा अ॑तितार्याद्ग: ।
मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वै॑श्वानरादधि॑ ॥२७॥
अग्ने: शरी॑रमसि पारयिष्णु र॑क्षोहासि॑ सपत्नहा ।
अथो॑ अमीवचात॑न: पूतुद्रुर्नाम॑ भेषजम् ॥२८॥
 
 
 
तृतीयं सूक्तम्» षड्विंशत्यृचस्यास्य सूक्तस्य चातन ऋषि: | अग्निर्देवता: | प्रथमादिषडृचामष्टम्यादिचतसृणां त्रयोदशीषोडश्योरष्टादश्यादितृचस्य चतुर्विंश्याश्च त्रिष्टुप् सप्तमीद्वादशीचतुर्दशीपञ्चदशीसप्तदश्येकविंशीनां भुरिक्त्रिष्टुप् द्वाविंशीत्रयोविंश्योरनुष्टुप्  पञ्चविंश्या: पञ्चपदा बृहतीगर्भा जगती षड्विंश्याश्च गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


रक्षोहणं॑ वाजिनमा जि॑घर्मि मित्रं प्रथि॑ष्ठमुप॑ यामि शर्म॑ ।
शिशा॑नो अग्नि: क्रतु॑भि: समि॑द्ध: स नो दिवा स रिष: पा॑तु नक्त॑म् ॥१॥
अयो॑दंष्ट्रो अर्चिषा॑ यातुधानानुप॑ स्पृश जातवेद: समि॑द्ध: ।
आ जिह्वया मूर॑देवान्रभस्व क्रव्यादो॑ वृष्ट्वापि॑ धत्स्वासन् ॥२॥
उभोभ॑याविन्नुप॑ धेहि दंष्ट्रौ॑ हिंस्र: शिशानोऽव॑रं परं॑ च ।
उतान्तरि॑क्षे परि॑ याह्यग्ने जम्भै: सं धे॑ह्यभि या॑तुधाना॑न् ॥३॥
अग्ने त्वचं॑ यातुधान॑स्य भिन्धि हिंस्राशनिर्हर॑सा हन्त्वेनम् ।
प्र पर्वा॑णि जातवेद: शृणीहि क्रव्यात्क्र॑विष्णुर्वि चि॑नोत्वेनम् ॥४॥
यत्रेदानीं पश्य॑सि जातवेदस्तिष्ठ॑न्तमग्न उत वा चर॑न्तम् ।
उतान्तरि॑क्षे पत॑न्तं यातुधानं तमस्ता॑ विध्य शर्वा शिशा॑न: ॥५॥
यज्ञैरिषू॑: संनम॑मानो अग्ने वाचा शल्याँ अशनि॑भिर्दिहान: ।
ताभि॑र्विध्य हृद॑ये यातुधाना॑न्प्रतीचो बाहून्प्रति॑ भङ्ग्ध्येषाम् ॥६॥
उतार॑ब्धान्त्स्पृनुहि जातवेद उतारे॑भाणाँ ऋष्टिभि॑र्यातुधाना॑न् ।
अग्ने पूर्वो नि ज॑हि शोशु॑चान आमाद: क्ष्विङ्कास्तम॑दन्त्वेनी॑: ॥७॥
इह प्र ब्रू॑हि यतम: सो अ॑ग्ने यातुधानो य इदं कृणोति॑ ।
तमा र॑भस्व समिधा॑ यविष्ठ नृचक्ष॑सश्चक्षु॑षे रन्धयैनम् ॥८॥
तीक्ष्णेना॑ग्ने चक्षु॑षा रक्ष यज्ञं प्राञ्चं वसु॑भ्य: प्र ण॑य प्रचेत: ।
हिंस्रं रक्षां॑स्यभि शोशु॑चानं मा त्वा॑ दभन्यातुधाना॑ नृचक्ष: ॥९॥
नृचक्षा रक्ष: परि॑ पश्य विक्षु तस्य त्रीणि प्रति॑ शृणीह्यग्रा॑ ।
तस्या॑ग्ने पृष्टीर्हर॑सा शृणीहि त्रेधा मूलं॑ यातुधान॑स्य वृश्च ॥१०॥
त्रिर्या॑तुधान: प्रसि॑तिं त एत्वृतं यो अ॑ग्ने अनृ॑तेन हन्ति॑ ।
तमर्चिषा॑ स्फूर्जय॑ञ्जातवेद: समक्षमे॑नं गृणते नि यु॑ङ्ग्धि ॥११॥
यद॑ग्ने अद्य मि॑थुना शपा॑तो यद्वाचस्तृष्टं जनय॑न्त रेभा: ।
मन्योर्मन॑स: शरव्या३ जाय॑ते या तया॑ विध्य हृद॑ये यातुधाना॑न् ॥१२॥
परा॑ शृणीहि तप॑सा यातुधानान्परा॑ग्ने रक्षो हर॑सा शृणीहि ।
परार्चिषा मूर॑देवाञ्छृणीहि परा॑सुतृप: शोशु॑चत: शृणीहि ॥१३॥
पराद्य देवा वृ॑जिनं शृ॑णन्तु प्रत्यगे॑नं शपथा॑ यन्तु सृष्टा: ।
वाचास्ते॑नं शर॑व ऋच्छन्तु मर्मन्विश्व॑स्यैतु प्रसि॑तिं यातुधान॑: ॥१४॥
य: पौरु॑षेयेण क्रविषा॑ समङ्क्ते यो अश्व्ये॑न पशुना॑ यातुधान॑: ।
यो अघ्न्याया भर॑ति क्षीरम॑ग्ने तेषां॑ शीर्षाणि हरसापि॑ वृश्च ॥१५॥
विषं गवां॑ यातुधाना॑ भरन्तामा वृ॑श्चन्तामदि॑तये दुरेवा॑: ।
परै॑णान्देव: स॑विता द॑दातु परा॑ भागमोष॑धीनां जयन्ताम् ॥१६॥
संवत्सरीणं पय॑ उस्रिया॑यास्तस्य माशी॑द्यातुधानो॑ नृचक्ष: ।
पीयूष॑मग्ने यतमस्तितृ॑प्सात्तं प्रत्यञ्च॑मर्चिषा॑ विध्य मर्म॑णि ॥१७॥
सनाद॑ग्ने मृणसि यातुधानान्न त्वा रक्षां॑सि पृत॑नासु जिग्यु: ।
सहमू॑राननु॑ दह क्रव्यादो मा ते॑ हेत्या मु॑क्षत दैव्या॑या: ॥१८॥
त्वं नो॑ अग्ने अधरादु॑दक्तस्त्वं पश्चादुत र॑क्षा पुरस्ता॑त् ।
प्रति त्ये ते॑ अजरा॑सस्तपि॑ष्ठा अघशं॑सं शोशु॑चतो दहन्तु ॥१९॥
पश्चात्पुरस्ता॑दधरादुतोत्तरात्कवि: काव्ये॑न परि॑ पाह्यग्ने ।
सखा सखा॑यमजरो॑ जरिम्णे अग्ने मर्ताँ अम॑र्त्यस्त्वं न॑: ॥२०॥
तद॑ग्ने चक्षु: प्रति॑ धेहि रेभे श॑फारुजो येन पश्य॑सि यातुधाना॑न् ।
अथर्ववज्ज्योति॑षा दैव्ये॑न सत्यं धूर्व॑न्तमचितं न्योद्गष ॥२१॥
परि॑ त्वाग्ने पुरं॑ वयं विप्रं॑ सहस्य धीमहि ।
धृषद्व॑र्णं दिवेदि॑वे हन्तारं॑ भङ्गुराव॑त: ॥२२॥
विषेण॑ भङ्गुराव॑त: प्रति॑ स्म रक्षसो॑ जहि ।
अग्ने॑ तिग्मेन॑ शोचिषा तपु॑रग्राभिरर्चिभि॑: ॥२३॥
वि ज्योति॑षा बृहता भा॑त्यग्निराविर्विश्वा॑नि कृणुते महित्वा ।
प्रादे॑वीर्माया: स॑हते दुरेवा: शिशी॑ते शृङ्गे रक्षो॑भ्यो विनिक्ष्वे॑ ॥२४॥
ये ते शृङ्गे॑ अजरे॑ जातवेदस्तिग्महे॑ती ब्रह्म॑संशिते ।
ताभ्यां॑ दुर्हार्द॑मभिदास॑न्तं किमीदिनं॑ प्रत्यञ्च॑मर्चिषा॑ जातवेदो वि नि॑क्ष्व ॥२५॥
अग्नी रक्षां॑सि सेधति शुक्रशो॑चिरम॑र्त्य: ।
शुचि॑: पावक ईड्य॑: ॥२६॥
 
 
 
चतुर्थं सूक्तम्» पञ्चविंशत्यृचस्यास्य सूक्तस्य चातन ऋषि: | मन्त्रोक्ता देवता: | प्रथमादिसप्तर्चां पञ्चदश्यष्टादश्येकविंशीनाञ्च जगती अष्टम्यादिसप्तानां षोडशीसप्तदश्येकोनविंशीद्वाविंशीचतुर्विंशीनां त्रिष्टुप् विंशीत्रयोविंश्योर्भुरिक्त्रिष्टुप्  पञ्चविंश्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


इन्द्रा॑सोमा तप॑तं रक्ष॑ उब्जतं न्यद्गर्पयतं वृषणा तमोवृध॑: ।
परा॑ शृणीतमचितो न्योद्गषतं हतं नुदेथां नि शि॑शीतमत्रिण॑: ॥१॥
इन्द्रा॑सोमा समघशं॑समभ्य१घं तपु॑र्ययस्तु चरुर॑ग्निमाँ इ॑व ।
ब्रह्मद्विषे॑ क्रव्यादे॑ घोरच॑क्षसे द्वेषो॑ धत्तमनवायं कि॑मीदिने॑ ॥२॥
इन्द्रा॑सोमा दुष्कृतो॑ वव्रे अन्तर॑नारम्भणे तम॑सि प्र वि॑ध्यतम् ।
यतो नैषां पुनरेक॑श्चनोदयत्तद्वा॑मस्तु सह॑से मन्युमच्छव॑: ॥३॥
इन्द्रा॑सोमा वर्तय॑तं दिवो वधं सं पृ॑थिव्या अघशं॑साय तर्ह॑णम् ।
उत्त॑क्षतं स्वर्यं१ पर्व॑तेभ्यो येन रक्षो॑ वावृधानं निजूर्व॑थ: ॥४॥
इन्द्रा॑सोमा वर्तय॑तं दिवस्पर्य॑ग्नितप्तेभि॑र्युवमश्म॑हन्मभि: ।
तपु॑र्वधेभिरजरे॑भिरत्रिणो नि पर्शा॑ने विध्यतं यन्तु॑ निस्वरम् ॥५॥
इन्द्रा॑सोमा परि॑ वां भूतु विश्वत॑ इयं मति: कक्ष्याश्वे॑व वाजिना॑ ।
यां वां होत्रां॑ परिहिनोमि॑ मेधयेमा ब्रह्मा॑णि नृपती॑ इव जिन्वतम् ॥६॥
प्रति॑ स्मरेथां तुजय॑द्भिरेवै॑र्हतं द्रुहो रक्षसो॑ भङ्गुराव॑त: ।
इन्द्रा॑सोमा दुष्कृते मा सुगं भूद्यो मा॑ कदा चि॑दभिदास॑ति द्रुहु: ॥७॥
यो मा पाके॑न मन॑सा चर॑न्तमभिचष्टे अनृ॑तेभिर्वचो॑भि: ।
आप॑ इव काशिना संगृ॑भीता अस॑न्नस्त्वस॑त: इन्द्र वक्ता ॥८॥
ये पा॑कशंसं विहर॑न्त एवैर्ये वा॑ भद्रं दूषय॑न्ति स्वधाभि॑: ।
अह॑ये वा तान्प्रददा॑तु सोम आ वा॑ दधातु निरृ॑तेरुपस्थे॑ ॥९॥
यो नो रसं दिप्स॑ति पित्वो अ॑ग्ने अश्वा॑नां गवां यस्तनूना॑म् ।
रिपु स्तेन स्ते॑यकृद्दभ्रमे॑तु नि ष ही॑यतां तन्वा३ तना॑ च ॥१०॥
पर: सो अ॑स्तु तन्वा३ तना॑ च तिस्र: पृ॑थिवीरधो अ॑स्तु विश्वा॑: ।
प्रति॑ शुष्यतु यशो॑ अस्य देवा यो मा दिवा दिप्स॑ति यश्च नक्त॑म् ॥११॥
सुविज्ञानं चि॑कितुषे जना॑य सच्चास॑च्च वच॑सी पस्पृधाते ।
तस्योर्यत्सत्यं य॑तरदृजी॑यस्तदित्सोमो॑ऽवति हन्त्यस॑त् ॥१२॥
न वा उ सोमो॑ वृजिनं हि॑नोति न क्षत्रियं॑ मिथुया धारय॑न्तम् ।
हन्ति रक्षो हन्त्यासद्वद॑न्तमुभाविन्द्र॑स्य प्रसि॑तौ शयाते ॥१३॥
यदि॑ वाहमनृ॑तदेवो अस्मि मोघं॑ वा देवाँ अ॑प्यूहे अ॑ग्ने ।
किमस्मभ्यं॑ जातवेदो हृणीषे द्रोघवाच॑स्ते निरृथं स॑चन्ताम् ॥१४॥
अद्या मु॑रीय यदि॑ यातुधानो अस्मि यदि वायु॑स्ततप पुरु॑षस्य ।
अधा स वीरैर्दशभिर्वि यू॑या यो मा मोघं यातु॑धानेत्याह॑ ॥१५॥
यो माया॑तुं यातु॑धानेत्याह यो वा॑ रक्षा: शिचि॑रस्मीत्याह॑ ।
इन्द्रस्तं ह॑न्तु महता वधेन विश्व॑स्य जन्तोर॑धमस्प॑दीष्ट ॥१६॥
प्र या जिगा॑ति खर्गले॑व नक्तमप॑ द्रुहुस्तन्वं१ गूह॑माना ।
वव्रम॑नन्तमव सा प॑दीष्ट ग्रावा॑णो घ्नन्तु रक्षस॑ उपब्दै: ॥१७॥
वि ति॑ष्ठध्वं मरुतो विक्ष्वी३च्छत॑ गृभायत॑ रक्षस: सं पि॑नष्टन ।
वयो ये भूत्वा पतय॑न्ति नक्तभिर्ये वा रिपो॑ दधिरे देवे अ॑ध्वरे ॥१८॥
प्र व॑र्तय दिवोऽश्मा॑नमिन्द्र सोम॑शितं मघवन्त्सं शि॑शाधि ।
प्राक्तो अ॑पाक्तो अ॑धरादु॑दक्तो३ऽभि ज॑हि रक्षस: पर्व॑तेन ॥१९॥
एत उ त्ये प॑तयन्ति श्वया॑तव इन्द्रं॑ दिप्सन्ति दिप्सवोऽदा॑भ्यम् ।
शिशी॑ते शक्र: पिशु॑नेभ्यो वधं नूनं सृ॑जदशनिं॑ यातुमद्भ्य॑: ॥२०॥
इन्द्रो॑ यातूनाम॑भवत्पराशरो ह॑विर्मथी॑नामभ्या३विवा॑सताम् ।
अभीदु॑ शक्र: प॑रशुर्यथा वनं पात्रे॑व भिन्दन्त्सत ए॑तु रक्षस॑: ॥२१॥
उलू॑कयातुं शुशुलूक॑यातुं जहि श्वया॑तुमुत कोक॑यातुम् ।
सुपर्णया॑तुमुत गृध्र॑यातुं दृषदे॑व प्र मृ॑ण रक्ष॑ इन्द्र ॥२२॥
मा नो रक्षो॑ अभि न॑ड्यातुमावदपो॑च्छन्तु मिथुना ये कि॑मीदिन॑: ।
पृथिवी न: पार्थि॑वात्पात्वंह॑सोऽन्तरि॑क्षं दिव्यात्पा॑त्वस्मान् ॥२३॥
इन्द्र॑ जहि पुमां॑सं यातुधान॑मुत स्त्रियं॑ मायया शाश॑दानाम् ।
विग्री॑वासो मूर॑देवा ऋदन्तु मा ते दृ॑शन्त्सूर्य॑मुच्चर॑न्तम् ॥२४॥
प्रति॑ चक्ष्व वि चक्ष्वेन्द्र॑श्च सोम जागृतम् ।
रक्षो॑भ्यो वधम॑स्यतमशनिं॑ यातुमद्भ्य॑: ॥२५॥
 
 
 
पञ्चमं सूक्तम्» द्वाविंशत्यृचस्यास्य सूक्तस्य शुक्र ऋषि: | कृत्यादूषणं मन्त्रोक्ता वा देवता: |   प्रथमाषष्ठ्योरृचोरुपरिष्टाद्बृहती  द्वितीयायास्त्रिपदा विराड्गायत्री तृतीयायाश्चतुष्पदा भुरिग्जगती चतुर्थीद्वादशीत्रयोदशीनां षोडश्यादितृचस्य चानुष्टुप्  पञ्चम्या भुरिक्संस्तारपङ्क्ति:  सप्तम्यष्टम्यो: ककुम्मत्यनुष्टुप्  नवम्याश्चतुष्पदा पुरस्कृतिर्जगती  दशम्यास्त्रिष्टुप् एकादश्या: पथ्यापङ्क्ति:  चतुर्दश्यास्त्र्यवसाना षट्पदा जगती पञ्चदश्या: पुरस्ताद्बृहती  एकोनविंश्या जगतीगर्भा त्रिष्टुप् विंश्या विराड्गर्भास्तारपङ्क्ति:  एकविंश्या: पराविराट्त्रिष्टुप् द्वाविंश्याश्च त्र्यवसाना सप्तपदा विराड्गर्भा भुरिक्शक्वरी छन्दांसि॥ (www.hindumantavya.blogspot.in)


अयं प्र॑तिसरो मणिर्वीरो वीराय॑ बध्यते ।
वीर्यद्गवान्त्सपत्नहा शूर॑वीर: परिपाण॑: सुमङ्गल॑: ॥१॥
अयं मणि: स॑पत्नहा सुवीर: सह॑स्वान्वाजी सह॑मान उग्र: ।
प्रत्यक्कृत्या दूषय॑न्नेति वीर: ॥२॥
अनेनेन्द्रो॑ मणिना॑ वृत्रम॑हन्ननेनासु॑रान्परा॑भावयन्मनीषी ।
अनेना॑जयद्द्यावा॑पृथिवी उभे इमे अनेना॑जयत्प्रदिशश्चत॑स्र: ॥३॥
अयं स्राक्त्यो मणि: प्र॑तीवर्त: प्र॑तिसर: ।
ओज॑स्वान्विमृधो वशी सो अस्मान्पा॑तु सर्वत॑: ॥४॥
तदग्निरा॑ह तदु सोम॑ आह बृहस्पति॑: सविता तदिन्द्र॑: ।
ते मे॑ देवा: पुरोहि॑ता: प्रतीची॑: कृत्या: प्र॑तिसरैर॑जन्तु ॥५॥
अन्तर्द॑धे द्यावा॑पृथिवी उताह॑रुत सूर्य॑म् ।
ते मे॑ देवा: पुरोहि॑ता: प्रतीची॑: कृत्या: प्र॑तिसरैर॑जन्तु ॥६॥
ये स्राक्त्यं मणिं जना वर्मा॑णि कृण्वते॑ ।
सूर्य॑ इव दिव॑मारुह्य वि कृत्या बा॑धते वशी ॥७॥
स्राक्त्येन॑ मणिन ऋषि॑णेव मनीषिणा॑ ।
अजै॑षं सर्वा: पृत॑ना वि मृधो॑ हन्मि रक्षस॑: ॥८॥
या: कृत्या आ॑ङ्गिरसीर्या: कृत्या आ॑सुरीर्या: कृत्या: स्वयंकृ॑ता या उ॑ चान्येभिराभृ॑ता: ।
उभयीस्ता: परा॑ यन्तु परावतो॑ नवतिं नाव्या३ अति॑ ॥९॥
अस्मै मणिं वर्म॑ बध्नन्तु देवा इन्द्रो विष्णु॑: सविता रुद्रो अग्नि: ।
प्रजाप॑ति: परमेष्ठी विराड्वै॑श्वानर ऋष॑यश्च सर्वे॑ ॥१०॥
उत्तमो अस्योष॑धीनामनड्वाञ्जग॑तामिव व्याघ्र: श्वप॑दामिव ।
यमैच्छामावि॑दाम तं प्र॑तिस्पाश॑नमन्ति॑तम् ॥११॥
स इद्व्याघ्रो भ॑वत्यथो॑ सिंहो अथो वृषा॑ ।
अथो॑ सपत्नकर्श॑नो यो बिभ॑र्तीमं मणिम् ॥१२॥
नैनं॑ घ्नन्त्यप्सरसो न ग॑न्धर्वा न मर्त्या॑: ।
सर्वा दिशो वि रा॑जति यो बिभ॑र्तीमं मणिम् ॥१३॥
कश्यपस्त्वाम॑सृजत कश्यप॑स्त्वा समै॑रयत् ।
अबि॑भस्त्वेन्द्रो मानु॑षे बिभ्र॑त्संश्रेषिणेद्गऽजयत् ।
मणिं सहस्र॑वीर्यं वर्म॑ देवा अ॑कृण्वत ॥१४॥
यस्त्वा॑ कृत्याभिर्यस्त्वा॑ दीक्षाभि॑र्यज्ञैर्यस्त्वा जिघां॑सति ।
प्रत्यक्त्वमि॑न्द्र तं ज॑हि वज्रे॑ण शतप॑र्वणा ॥१५॥
अयमिद्वै प्र॑तीवर्त ओज॑स्वान्संजयो मणि: ।
प्रजां धनं॑ च रक्षतु परिपाण॑: सुमङ्गल॑: ॥१६॥
असपत्नं नो॑ अधराद॑सपत्नं न॑ उत्तरात् ।
इन्द्रा॑सपत्नं न॑: पश्चाज्ज्योति॑: शूर पुरस्कृ॑धि ॥१७॥
वर्म॑ मे द्यावा॑पृथिवी वर्माहर्वर्म सूर्य॑: ।
वर्म॑ म इन्द्र॑श्चाग्निश्च वर्म॑ धाता द॑धातु मे ॥१८॥
ऐन्द्राग्नं वर्म॑ बहुलं यदुग्रं विश्वे॑ देवा नातिविध्य॑न्ति सर्वे॑ ।
तन्मे॑ तन्वंद्ग त्रायतां सर्वतो॑ बृहदायु॑ष्मां जरद॑ष्टिर्यथासा॑नि ॥१९॥
आ मा॑रुक्षद्देवमणिर्मह्या अ॑रिष्टता॑तये ।
इमं मेथिम॑भिसंवि॑शध्वं तनूपानं॑ त्रिवरू॑थमोज॑से ॥२०॥
अस्मिन्निन्द्रो नि द॑धातु नृम्णमिमं दे॑वासो अभिसंवि॑शध्वम् ।
दीर्घायुत्वाय॑ शतशा॑रदायायु॑ष्माञ्जरद॑ष्टिर्यथास॑त् ॥२१॥
स्वस्तिदा विशां पति॑र्वृत्रहा वि॑मृधो वशी ।
इन्द्रो॑ बध्नातु ते मणिं जि॑गीवाँ अप॑राजित: सोमपा अ॑भयंकरो वृषा॑ ।
स त्वा॑ रक्षतु सर्वतो दिवा नक्तं॑ च विश्वत॑: ॥२२॥
 
 
 
षष्ठं सूक्तम्» षड्विंशत्यृचस्यास्य सूक्तस्य मातृनामा ऋषि: | प्रथमादिचतुर्दशर्चां षोडश्याद्येकादशानाञ्च मातृनामा मन्त्रोक्ता वा  पञ्चदश्याश्च ब्रह्मणस्पतिर्देवता: |  प्रथमायास्तृतीयादिसप्तानां त्रयोदश्या अष्टादश्यादिनवानाञ्चानुष्टुप्  द्वितीयाया: पुरस्ताद्बृहती  दशम्यास्त्र्यवसाना षट्पदा जगती एकादशीद्वादशीचतुर्दशीषोडशीनां पथ्यापङ्क्ति:  पञ्चदश्यास्त्र्यवसाना सप्तपदा शक्वरी सप्तदश्याश्च त्र्यवसाना सप्तपदा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
यौ ते॑ मातोन्ममार्ज॑ जाताया॑: पतिवेद॑नौ ।
दुर्णामा तत्र मा गृ॑धदलिंश॑ उत वत्सप॑: ॥१॥
पलालानुपलालौ शर्कुं कोकं॑ मलिम्लुचं पलीज॑कम् ।
आश्रेषं॑ वव्रिवा॑ससमृक्ष॑ग्रीवं प्रमीलिन॑म् ॥२॥
मा सं वृ॑तो मोप॑ सृप ऊरू माव॑ सृपोऽन्तरा ।
कृणोम्य॑स्यै भेषजं बजं दु॑र्णामचात॑नम् ॥३॥
दुर्णामा॑ च सुनामा॑ चोभा संवृत॑मिच्छत: ।
अरायानप॑ हन्म: सुनामा स्त्रैण॑मिच्छताम् ॥४॥
य: कृष्ण: केश्यसु॑र स्तम्बज उत तुण्डि॑क: ।
अराया॑नस्या मुष्काभ्यां भंससोऽप॑ हन्मसि ॥५॥
अनुजिघ्रं प्र॑मृशन्तं॑ क्रव्याद॑मुत रे॑रिहम् ।
अरायां॑छ्वकिष्किणो॑ बज: पिङ्गो अ॑नीनशत् ॥६॥
यस्त्वा स्वप्ने॑ निपद्य॑ते भ्राता॑ भूत्वा पितेव॑ च ।
बजस्तान्त्स॑हतामित: क्लीबरू॑पांस्तिरीटिन॑: ॥७॥
यस्त्वा॑ स्वपन्तीं त्सर॑ति यस्त्वा दिप्स॑ति जाग्र॑तीम् ।
छायामि॑व प्र तान्त्सूर्य॑: परिक्राम॑न्ननीनशत् ॥८॥
य: कृणोति॑ मृतव॑त्सामव॑तोकामिमां स्त्रिय॑म् ।
तमो॑षधे त्वं ना॑शयास्या: कमल॑मञ्जिवम् ॥९॥
ये शाला॑: परिनृत्य॑न्ति सायं ग॑र्दभनादिन॑: ।
कुसूला ये च॑ कुक्षिला: क॑कुभा: करुमा: स्रिमा॑: ।
तानो॑षधे त्वं गन्धेन॑ विषूचीनान्वि ना॑शय ॥१०॥
ये कुकुन्धा॑: कुकिर॑भा: कृत्ती॑र्दूर्शानि बिभ्र॑ति ।
क्लीबा इ॑व प्रनृत्य॑न्तो वने ये कुर्वते घोषं तानितो ना॑शयामसि ॥११॥
ये सूर्यं न तिति॑क्षन्त आतप॑न्तममुं दिव: ।
अराया॑न्बस्तवासिनो॑ दुर्गन्धीँल्लोहि॑तास्यान्मक॑कान्नाशयामसि ॥१२॥
य आत्मान॑मतिमात्रमंस॑ आधाय बिभ्र॑ति ।
स्त्रीणां श्रो॑णिप्रतोदिन इन्द्र रक्षां॑सि नाशय ॥१३॥
ये पूर्वे॑ वध्वो३ यन्ति हस्ते शृङ्गा॑णि बिभ्र॑त: ।
आपाकेस्था: प्र॑हासिन॑ स्तम्बे ये कुर्वते ज्योतिस्तानितो ना॑शयामसि ॥१४॥
येषां॑ पश्चात्प्रप॑दानि पुर: पार्ष्णी॑: पुरो मुखा॑ ।
खलजा: शक॑धूमजा उरु॑ण्डा ये च॑ मट्मटा: कुम्भमु॑ष्का अयाशव॑: ।
तानस्या ब्र॑ह्मणस्पते प्रतीबोधेन॑ नाशय ॥१५॥
पर्यस्ताक्षा अप्र॑चङ्कशा अस्त्रैणा: स॑न्तु पण्ड॑गा: ।
अव॑ भेषज पादय य इमां संविवृ॑त्सत्यप॑ति: स्वपतिं स्त्रिय॑म् ॥१६॥
उद्धर्षिणं मुनि॑केशं जम्भय॑न्तं मरीमृशम् ।
उपेष॑न्तमुदुम्बलं॑ तुण्डेल॑मुत शालु॑डम् ।
पदा प्र वि॑ध्य पार्ष्ण्या॑ स्थालीं गौरि॑व स्पन्दना ॥१७॥
यस्ते गर्भं॑ प्रतिमृशाज्जातं वा॑ मारया॑ति ते ।
पिङ्गस्तमुग्रध॑न्वा कृणोतु॑ हृदयाविध॑म् ॥१८॥
ये अम्नो जातान्मारय॑न्ति सूति॑का अनुशेर॑ते ।
स्त्रीभा॑गान्पिङ्गो ग॑न्धर्वान्वातो॑ अभ्रमि॑वाजतु ॥१९॥
परि॑सृष्टं धरयतु यद्धितं माव॑ पादि तत् ।
गर्भं॑ त उग्रौ र॑क्षतां भेषजौ नी॑विभार्यौद्ग ॥२०॥
पवीनसात्त॑ङ्गल्वा३च्छाय॑कादुत नग्न॑कात् ।
प्रजायै पत्ये॑ त्वा पिङ्ग: परि॑ पातु किमीदिन॑: ॥२१॥
द्व्याद्गस्याच्चतुरक्षात्पञ्च॑पदादनङ्गुरे: ।
वृन्ता॑दभि प्रसर्प॑त: परि॑ पाहि वरीवृतात् ॥२२॥
य आमं मांसमदन्ति पौरु॑षेयं च ये क्रवि: ।
गर्भान्खाद॑न्ति केशवास्तानितो ना॑शयामसि ॥२३॥
ये सूर्या॑त्परिसर्प॑न्ति स्नुषेव श्वशु॑रादधि॑ ।
बजश्च तेषां॑ पिङ्गश्च हृदयेऽधि नि वि॑ध्यताम् ॥२४॥
पिङ्ग रक्ष जाय॑मानं मा पुमां॑सं स्त्रियं॑ क्रन् ।
आण्डादो गर्भान्मा द॑भन्बाध॑स्वेत: कि॑मीदिन॑: ॥२५॥
अप्रजास्त्वं मार्त॑वत्समाद्रोद॑मघमा॑वयम् ।
वृक्षादि॑व स्रजं॑ कृत्वाप्रि॑ये प्रति॑ मुञ्च तत् ॥२६॥
 
 
 
सप्तमं सूक्तम्» अष्टाविंशत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | भेषजमायुश्च॑ ओषधयो वा देवता: | प्रथमर्च: सप्तम्यष्टम्येकादशीत्रयोदशीनां पञ्चदश्यादिदशानां सप्तविंश्याश्चानुष्टुप्  द्वितीयाया उपरिष्टाद्भुरिग्बृहती तृतीयाया: पुरउष्णिक्  चतुर्थ्या: पञ्चपदा परानुष्टुबतिजगती पञ्चमीदशमीपञ्चविंशीनां पथ्यापङ्क्ति: षष्ठ्या विराड्गर्भा भुरिक्पथ्यापङ्क्ति:  नवम्या द्विपदार्ची भुरिगनुष्टुप् द्वादश्या: पञ्चपदा विराडतिशक्वरी  चतुर्दश्या उपरिष्टान्निचृद्बृहती षड्विंश्या निचृदनुष्टुप्  अष्टाविंश्याश्च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


या बभ्रवो याश्च॑ शुक्रा रोहि॑णीरुत पृश्न॑य: ।
असि॑क्नी: कृष्णा ओष॑धी: सर्वा॑ अच्छाव॑दामसि ॥१॥
त्राय॑न्तामिमं पुरु॑षं यक्ष्मा॑द्देवेषि॑तादधि॑ ।
यासां द्यौष्पिता पृ॑थिवी माता स॑मुद्रो मूलं॑ वीरुधां॑ बभूव॑ ॥२॥
आपो अग्रं॑ दिव्या ओष॑धय: ।
तास्ते यक्ष्म॑मेनस्य१मङ्गा॑दङ्गादनीनशन् ॥३॥
प्रस्तृणती स्तम्बिनीरेक॑शुङ्गा: प्रतन्वतीरोष॑धीरा व॑दामि ।
अंशुमती॑: कण्डिनीर्या विशा॑खा ह्वया॑मि ते वीरुधो॑ वैश्वदेवीरुग्रा: पु॑रुषजीव॑नी: ॥४॥
यद्व: सह॑: सहमाना वीर्यं१ यच्च॑ वो बल॑म् ।
तेनेममस्माद्यक्ष्मात्पुरु॑षं मुञ्चतौषधीरथो॑ कृणोमि भेषजम् ॥५॥
जीवलां न॑घारिषां जी॑वन्तीमोष॑धीमहम् ।
अरुन्धतीमुन्नय॑न्तीं पुष्पां मधु॑मतीमिह हु॑वेऽस्मा अ॑रिष्टता॑तये ॥६॥
इहा य॑न्तु प्रचे॑तसो मेदिनीर्वच॑सो मम॑ ।
यथेमं पारया॑मसि पुरु॑षं दुरितादधि॑ ॥७॥
अग्नेर्घासो अपां गर्भो या रोह॑न्ति पुन॑र्णवा: ।
ध्रुवा: सहस्र॑नाम्नीर्भेषजी: सन्त्वाभृ॑ता: ॥८॥
अवको॑ल्बा उदका॑त्मान ओष॑धय: ।
व्यृद्गषन्तु दुरितं ती॑क्ष्णशृङ्ग्यद्ग: ॥९॥
उन्मुञ्चन्ती॑र्विवरुणा उग्रा या वि॑षदूष॑णी: ।
अथो॑ बलासनाश॑नी: कृत्यादूष॑णीश्च यास्ता इहा यन्त्वोष॑धी: ॥१०॥
अपक्रीता: सही॑यसीर्वीरुधो या अभिष्टु॑ता: ।
त्राय॑न्तामस्मिन्ग्रामे गामश्वं पुरु॑षं पशुम् ॥११॥
मधु॑मन्मूलं मधु॑मदग्र॑मासां मधु॑मन्मध्यं॑ वीरुधां॑ बभूव ।
मधु॑मत्पर्णं मधु॑मत्पुष्प॑मासां मधो: संभ॑क्ता अमृत॑स्य भक्षो घृतमन्नं॑ दुह्रतां गोपु॑रोगवम् ॥१२॥
याव॑ती: किय॑तीश्चेमा: पृ॑थिव्यामध्योष॑धी: ।
ता मा॑ सहस्रपर्ण्योद्ग मृत्योर्मु॑ञ्चन्त्वंह॑स: ॥१३॥
वैया॑घ्रो मणिर्वीरुधां त्राय॑माणोऽभिशस्तिपा: ।
अमी॑वा: सर्वा रक्षांस्यप॑ हन्त्वधि॑ दूरमस्मत् ॥१४॥
सिंहस्ये॑व स्तनथो: सं वि॑जन्तेऽग्नेरि॑व विजन्त आभृ॑ताभ्य: ।
गवां यक्ष्म: पुरु॑षाणां वीरुद्भिरति॑नुत्तो नाव्याद्ग एतु स्रोत्या: ॥१५॥
मुमुचाना ओष॑धयोऽग्नेर्वै॑श्वानरादधि॑ ।
भूमिं॑ संतन्वतीरि॑त यासां राजा वनस्पति॑: ॥१६॥
या रोह॑न्त्याङ्गिरसी: पर्व॑तेषु समेषु॑ च ।
ता न: पय॑स्वती: शिवा ओष॑धी: सन्तु शं हृदे ॥१७॥
याश्चाहं वेद॑ वीरुधो याश्च पश्या॑मि चक्षु॑षा ।
अज्ञा॑ता जानीमश्च या यासु॑ विद्म च संभृ॑तम् ॥१८॥
सर्वा॑: समग्रा ओष॑धीर्बोध॑न्तु वच॑सो मम॑ ।
यथेमं पारया॑मसि पुरु॑षं दुरितादधि॑ ॥१९॥
अश्वत्थो दर्भो वीरुधां सोमो राजामृतं॑ हवि: ।
व्रीहिर्यव॑श्च भेषजौ दिवस्पुत्रावम॑र्त्यौ ॥२०॥
उज्जि॑हीध्वे स्तनय॑त्यभिक्रन्द॑त्योषधी: ।
यदा व॑: पृश्निमातर: पर्जन्यो रेतसाव॑ति ॥२१॥
तस्यामृत॑स्येमं बलं पुरु॑षं पययामसि ।
अथो॑ कृणोमि भेषजं यथास॑च्छतहा॑यन: ॥२२॥
वराहो वे॑द वीरुधं॑ नकुलो वे॑द भेषजीम् ।
सर्पा ग॑न्धर्वा या विदुस्ता अस्मा अव॑से हुवे ॥२३॥
या: सु॑पर्णा आ॑ङ्गिरसीर्दिव्या या रघटो॑ विदु: ।
वयां॑सि हंसा या विदुर्याश्च सर्वे॑ पतत्रिण॑: ।
मृगा या विदुरोष॑धीस्ता अस्मा अव॑से हुवे ॥२४॥
याव॑तीनामोष॑धीनां गाव॑: प्राश्नन्त्यघ्न्या याव॑तीनामजावय॑: ।
ताव॑तीस्तुभ्यमोष॑धी: शर्म॑ यच्छन्त्वाभृ॑ता: ॥२५॥
याव॑तीषु मनुष्याद्ग भेषजं भिषजो॑ विदु: ।
ताव॑तीर्विश्वभे॑षजीरा भ॑रामि त्वामभि ॥२६॥
पुष्प॑वती: प्रसूम॑ती: फलिनी॑रफला उत ।
संमातर॑ इव दुह्रामस्मा अ॑रिष्टता॑तये ॥२७॥
उत्त्वा॑हार्षं पञ्च॑शलादथो दश॑शलादुत ।
अथो॑ यमस्य पड्वी॑शाद्विश्व॑स्माद्देवकिल्बिषात् ॥२८॥
 
 

अष्टमं सूक्तम्» चतुर्विंशत्यृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | इन्द्रो वनस्पतिर्वा देवता: | प्रथमापञ्चम्योरृचोस्त्रयोदश्यादिषण्णाञ्चानुष्टुप्  द्वितीयाया अष्टम्यादितृचस्य त्रयोविंश्याश्चोपरिष्टाद्बृहती  तृतीयाया विराड्बृहती  चतुर्थ्या बृहतीपुरस्तात्प्रस्तारपङ्क्ति:  षष्ठ्या आस्तारपङ्क्ति:  सप्तम्या विपरीतपादलक्ष्मा चतुष्पदातिजगती  एकादश्या: पथ्याबृहती  द्वादश्या भुरिगनुष्टुप्  एकोनविंश्या विराट् पुरस्ताद्बृहती  विंश्या निचृत्पुरस्ताद्बृहती  एकविंश्यास्त्रिष्टुप्  द्वाविंश्याश्चतुष्पदा शक्वरी  चतुर्विंश्याश्च त्र्यवसाना त्रिष्टुबुष्णिग्गर्भा पराशक्वरी पञ्चपदा जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


इन्द्रो॑ मन्थतु मन्थि॑ता शक्र: शूर॑: पुरंदर: ।
यथा हना॑म सेना॑ अमित्रा॑णां सहस्रश: ॥१॥
पूतिरज्जुरु॑पध्मानी पूतिं सेनां॑ कृणोत्वमूम् ।
धूममग्निं प॑रादृश्याऽमित्रा॑ हृत्स्वा द॑धतां भयम् ॥२॥
अमून॑श्वत्थ नि: शृ॑णीहि खादामून्ख॑दिराजिरम् ।
ताजद्भङ्ग॑ इव भजन्तां हन्त्वे॑नान्वध॑को वधै: ॥३॥
परुषानमून्प॑रुषाह्व: कृ॑णोतु हन्त्वे॑नान्वध॑को वधै: ।
क्षिप्रं शर इ॑व भजन्तां बृहज्जालेन संदि॑ता: ॥४॥
अन्तरि॑क्षं जाल॑मासीज्जालदण्डा दिशो॑ मही: ।
तेना॑भिधाय दस्यू॑नां शक्र: सेनामपा॑वपत् ॥५॥
बृहद्धि जालं॑ बृहत: शक्रस्य॑ वाजिनी॑वत: ।
तेन शत्रू॑नभि सर्वान्न्युद्गब्ज यथा न मुच्या॑तै कतमश्चनैषा॑म् ॥६॥
बृहत्ते जालं॑ बृहत इ॑न्द्र शूर सहस्रार्घस्य॑ शतवी॑र्यस्य ।
तेन॑ शतं सहस्र॑मयुतं न्यद्गर्बुदं जघान॑ शक्रो दस्यू॑नामभिधाय सेन॑या ॥७॥
अयं लोको जाल॑मासीच्छक्रस्य॑ महतो महान् ।
तेनाहमि॑न्द्रजालेनामूंस्तम॑साभि द॑धामि सर्वा॑न् ॥८॥
सेदिरुग्रा व्यृद्गद्धिरार्ति॑श्चानपवाचना ।
श्रम॑स्तन्द्रीश्च मोह॑श्च तैरमूनभि द॑धामि सर्वा॑न् ॥९॥
मृत्यवेऽमून्प्र य॑च्छामि मृत्युपाशैरमी सिता: ।
मृत्योर्ये अ॑घला दूतास्तेभ्य॑ एनान्प्रति॑ नयामि बद्ध्वा ॥१०॥
नय॑तामून्मृ॑त्युदूता यम॑दूता अपो॑म्भत ।
पर:सहस्रा ह॑न्यन्तां तृणेद्वे॑नान्मत्यंद्ग भवस्य॑ ॥११॥
साध्या एकं॑ जालदण्डमुद्यत्य॑ यन्त्योज॑सा ।
रुद्रा एकं वस॑व एक॑मादित्यैरेक उद्य॑त: ॥१२॥
विश्वे॑ देवा: उपरि॑ष्टादुब्जन्तो॑ यन्त्वोज॑सा ।
मध्ये॑न घ्नन्तो॑ यन्तु सेनामङ्गि॑रसो महीम् ॥१३॥
वनस्पती॑न्वानस्पत्यानोष॑धीरुत वीरुध॑: ।
द्विपाच्चतु॑ष्पादिष्णामि यथा सेना॑ममूं हन॑न् ॥१४॥
गन्धर्वाप्सरस॑: सर्पान्देवान्पु॑ण्यजनान्पितॄन् ।
दृष्टानदृष्टा॑निष्णामि यथा सेना॑ममूं हन॑न् ॥१५॥
इम उप्ता मृ॑त्युपाशा यानाक्रम्य न मुच्यसे॑ ।
अमुष्या॑ हन्तु सेना॑या इदं कूटं॑ सहस्रश: ॥१६॥
घर्म: समि॑द्धो अग्निनायं होम॑: सहस्रह: ।
भव॑श्च पृश्नि॑बाहुश्च शर्व सेना॑ममूं ह॑तम् ॥१७॥
मृत्योराषमा प॑द्यन्तां क्षुधं॑ सेदिं वधं भयम् ।
इन्द्र॑श्चाक्षुजालाभ्यां शर्व सेना॑ममूं ह॑तम् ॥१८॥
परा॑जिता: प्र त्र॑सतामित्रा नुत्ता धा॑वत ब्रह्म॑णा ।
बृहस्पति॑प्रनुत्तानां मामीषां॑ मोचि कश्चन ॥१९॥
अव॑ पद्यन्तामेषामायु॑धानि मा श॑कन्प्रतिधामिषु॑म् ।
अथै॑षां बहु बिभ्य॑तामिष॑व: घ्नन्तु मर्म॑णि ॥२०॥
सं क्रो॑शतामेनान्द्यावा॑पृथिवी समन्तरि॑क्षं सह देवता॑भि: ।
मा ज्ञातारं मा प्र॑तिष्ठां वि॑दन्त मिथो वि॑घ्नाना उप॑ यन्तु मृत्युम् ॥२१॥
दिशश्चत॑स्रोऽश्वतर्योद्ग देवरथस्य॑ पुरोदाशा॑: शफा अन्तरि॑क्षमुद्धि: ।
द्यावा॑पृथिवी पक्ष॑सी ऋतवोऽभीश॑वोऽन्तर्देशा: किं॑करा वाक्परि॑रथ्यम् ॥२२॥
संवत्सरो रथ॑: परिवत्सरो र॑थोपस्थो विराडीषाग्नी र॑थमुखम् ।
इन्द्र॑: सव्यष्ठाश्चन्द्रमा: सार॑थि: ॥२३॥
इतो ज॑येतो वि ज॑य सं ज॑य जय स्वाहा॑ ।
इमे ज॑यन्तु परामी ज॑यन्तां स्वाहैभ्यो दुराहामीभ्य॑: ।
नीललोहितेनामूनभ्यव॑तनोमि ॥२४॥
 
 

नवमं सूक्तम्» षड्विंशत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | कश्यप: सर्वर्षिच्छन्दांसि॥  वा देवता: | प्रथमाषष्ठीसप्तमीदशमीत्रयोदशीनामृचां पञ्चदश्यादिसप्तानाञ्चतुर्विंश्याश्च त्रिष्टुप्  द्वितीयाया: पङ्क्ति:  तृतीयाया आस्तारपङ्क्ति: चतुर्थीपञ्चमीत्रयोविंशीपञ्चविंशीषड्विंशीनामनुष्टुप् अष्टम्येकादशीद्वादशीद्वाविंशीनां जगती नवम्या भुरिक्त्रिष्टुप्  चतुर्दश्याश्च चतुष्पदातिजगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


कुतस्तौ जातौ क॑तम: सो अर्ध: कस्मा॑ल्लोकात्क॑तमस्या॑: पृथिव्या: ।
वत्सौ विराज॑: सलिलादुदै॑तां तौ त्वा॑ पृच्छामि कतरेण॑ दुग्धा ॥१॥
यो अक्र॑न्दयत्सलिलं म॑हित्वा योनिं॑ कृत्वा त्रिभुजं श्या॑न: ।
वत्स: का॑मदुघो॑ विराज: स गुहा॑ चक्रे तन्वद्ग: पराचै: ॥२॥
यानि त्रीणि॑ बृहन्ति येषां॑ चतुर्थं वि॑युनक्ति वाच॑म् ।
ब्रह्मैन॑द्विद्यात्तप॑सा विपश्चिद्यस्मिन्नेकं॑ युज्यते यस्मिन्नेक॑म् ॥३॥
बृहत: परि सामा॑नि षष्ठात्पञ्चाधि निर्मि॑ता ।
बृहद्बृ॑हत्या निर्मि॑तं कुतोऽधि॑ बृहती मिता ॥४॥
बृहती परि मात्रा॑या मातुर्मात्राधि निर्मि॑ता ।
माया ह॑ जज्ञे मायाया॑ मायाया मात॑ली परि॑ ॥५॥
वैश्वानरस्य॑ प्रतिमोपरि द्यौर्यावद्रोद॑सी विबबाधे अग्नि: ।
तत॑: षष्ठादामुतो॑ यन्ति स्तोमा उदितो य॑न्त्यभि षष्ठमह्न॑: ॥६॥
षट्त्वा॑ पृच्छाम ऋष॑य: कश्यपेमे त्वं हि युक्तं यु॑युक्षे योग्यं॑ च ।
विराज॑माहुर्ब्रह्म॑ण: पितरं तां नो वि धे॑हि यतिधा सखि॑भ्य: ॥७॥
यां प्रच्यु॑तामनु॑ यज्ञा: प्रच्यव॑न्त उपतिष्ठ॑न्त उपतिष्ठ॑मानाम् ।
यस्या॑ व्रते प्र॑सवे यक्षमेज॑ति सा विराडृ॑षय: परमे व्योद्गमन् ॥८॥
अप्राणैति॑ प्राणेन॑ प्राणतीनां॑ विराट् स्वराज॑मभ्येद्गति पश्चात् ।
विश्वं॑ मृशन्ती॑मभिरू॑पां विराजं पश्य॑न्ति त्वे न त्वे प॑श्यन्त्येनाम् ॥९॥
को विराजो॑ मिथुनत्वं प्र वे॑द क ऋतून्क उ कल्प॑मस्या: ।
क्रमान्को अ॑स्या: कतिधा विदु॑ग्धान्को अ॑स्या धाम॑ कतिधा व्युद्गष्टी: ॥१०॥
इयमेव सा या प्र॑थमा व्यौच्छ॑दास्वित॑रासु चरति प्रवि॑ष्टा ।
महान्तो॑ अस्यां महिमानो॑ अन्तर्वधूर्जि॑गाय नवगज्जनि॑त्री ॥११॥
छन्द॑:पक्षे उषसा पेपि॑शाने समानं योनिमनु सं च॑रेमे ।
सूर्य॑पत्नी सं च॑रत: प्रजानती के॑तुमती॑ अजरे भूरि॑रेतसा ॥१२॥
ऋतस्य पन्थामनु॑ तिस्र आगुस्त्रयो॑ घर्मा अनु रेत आगु॑: ।
प्रजामेका जिन्वत्यूर्जमेका॑ राष्ट्रमेका॑ रक्षति देवयूनाम् ॥१३॥
अग्नीषोमा॑वदधुर्या तुरीयासी॑द्यज्ञस्य॑ पक्षावृष॑य: कल्पय॑न्त: ।
गायत्रीं त्रिष्टुभं जग॑तीमनुष्टुभं॑ बृहदर्कीं यज॑मानाय स्वद्गराभर॑न्तीम् ॥१४॥
पञ्च व्युद्गष्टीरनु पञ्च दोहा गां पञ्च॑नाम्नीमृतवोऽनु पञ्च॑ ।
पञ्च दिश॑: पञ्चदशेन॑ कॢप्तास्ता एक॑मूर्ध्नीरभि लोकमेक॑म् ॥१५॥
षड्जाता भूता प्र॑थमजार्तस्य षटु सामा॑नि षडहं व॑हन्ति ।
षट्योगं सीरमनु साम॑साम षडा॑हुर्द्यावा॑पृथिवी: षडुर्वी: ॥१६॥
षडा॑हु: शीतान्षडु॑ मास उष्णानृतुं नो॑ ब्रूत यतमोऽति॑रिक्त: ।
सप्त सु॑पर्णा: कवयो नि षे॑दु: सप्त च्छन्दांस्यनु॑ सप्त दीक्षा: ॥१७॥
सप्त होमा॑: समिधो॑ ह सप्त मधू॑नि सप्तर्तवो॑ ह सप्त ।
सप्ताज्या॑नि परि॑ भूतमा॑यन्ता: स॑प्तगृध्रा इति॑ शुश्रुमा वयम् ॥१८॥
सप्त छन्दां॑सि चतुरुत्तराण्यन्यो अन्यस्मिन्नध्यार्पि॑तानि ।
कथं स्तोमा: प्रति॑ तिष्ठन्ति तेषु तानि स्तोमे॑षु कथमार्पि॑तानि ॥१९॥
कथं गा॑यत्री त्रिवृतं व्याद्गप कथं त्रिष्टुप्प॑ञ्चदशेन॑ कल्पते ।
त्रयस्त्रिंशेन जग॑ती कथम॑नुष्टुप्कथमे॑कविंश: ॥२०॥
अष्ट जाता भूता प्र॑थमजर्तस्याष्टेन्द्रर्त्विजो दैव्या ये ।
अष्टयो॑निरदि॑तिरष्टपु॑त्राष्टमीं रात्रि॑मभि हव्यमे॑ति ॥२१॥
इत्थं श्रेयो मन्य॑मानेदमाग॑मं युष्माकं॑ सख्ये अहम॑स्मि शेवा॑ ।
समानज॑न्मा क्रतु॑रस्ति व: शिव: स व: सर्वा: सं च॑रति प्रजानन् ॥२२॥
अष्टेन्द्र॑स्य षड्यमस्य ऋषी॑णां सप्त स॑प्तधा ।
अपो म॑नुष्या३नोष॑धीस्ताँ उ पञ्चानु॑ सेचिरे ॥२३॥
केवलीन्द्रा॑य दुदुहे हि गृष्टिर्वशं॑ पीयूषं॑ प्रथमं दुहा॑ना ।
अथा॑तर्पयच्चतुर॑श्चतुर्धा देवान्म॑नुष्याँ३ असु॑रानुत ऋषी॑न् ॥२४॥
को नु गौ: क ए॑कऋषि: किमु धाम का आशिष॑: ।
यक्षं पृ॑थिव्यामे॑कवृदे॑कर्तु: क॑तमो नु स: ॥२५॥
एको गौरेक॑ एकऋषिरेकं धामै॑कधाशिष॑: ।
यक्षं पृ॑थिव्यामे॑कवृदे॑कर्तुर्नाति॑ रिच्यते ॥२६॥
 
 
 
दशमं सूक्तम्» । प्रथम: पर्याय:» विराड्वा इदम् इत्यारभ्य विषमेवास्याप्रियम् इत्यन्तानां षट्पर्यायाणां विराड् देवता: | त्रयोदशर्चस्यास्य पर्यायस्य  प्रथमर्चस्त्रिपदार्ची पङ्क्ति: द्वितीयादिसमर्चां याजुषी जगती   तृतीयानवम्यो: साम्न्यनुष्टुप्  पञ्चम्या आर्च्यनुष्टुप्  सप्तमीत्रयोदश्योर्विराड्गायत्री  एकादश्याश्च साम्नी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


विराड्वा इदमग्र॑ आसीत्तस्या॑ जाताया: सर्व॑मबिभेदियमेवेदं भ॑विष्यतीति॑ ॥१॥
सोद॑क्रामत्सा गार्ह॑पत्ये न्यद्गक्रामत् ॥२॥
गृहमेधी गृहप॑तिर्भवति य एवं वेद॑ ॥३॥
सोद॑क्रामत्साह॑वनीये न्यद्गक्रामत् ॥४॥
यन्त्य॑स्य देवा देवहू॑तिं प्रियो देवानां॑ भवति य एवं वेद॑ ॥५॥
सोद॑क्रामत्सा द॑क्षिणाग्नौ न्यद्गक्रामत् ॥६॥
यज्ञर्तो॑ दक्षिणीयो वास॑तेयो भवति य एवं वेद॑ ॥७॥
सोद॑क्रामत्सा सभायां न्यद्गक्रामत् ॥८॥
यन्त्य॑स्य सभां सभ्यो॑ भवति य एवं वेद॑ ॥९॥
सोद॑क्रामत्सा समि॑तौ न्यद्गक्रामत् ॥१०॥
यन्त्य॑स्य समि॑तिं सामित्यो भ॑वति य एवं वेद॑ ॥११॥
सोद॑क्रामत्सामन्त्र॑णे न्यद्गक्रामत् ॥१२॥
यन्त्य॑स्यामन्त्र॑णमामन्त्रणीयो॑ भवति य एवं वेद॑ ॥१३॥
 
 

द्वितीय: पर्याय:» दशर्चस्यास्य पर्यायस्य  प्रथमर्चस्त्रिपदा साम्न्यनुष्टुप्  द्वितीयाया उष्णिग्गर्भा चतुष्पदोपरिष्टाद्विराड्बृहती  तृतीयाया एकपदा याजुषी गायत्री  चतुर्थ्या एकपदा साम्नी पङ्क्ति:  पञ्चम्या विराड्गायत्री  षष्ठ्या आर्च्यनुष्टुप्  सप्तम्या: साम्नी पङ्क्ति:  अष्टम्या आसुरी गायत्री  नवम्या: साम्न्यनुष्टुप्  दशम्याश्च साम्नी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


सोद॑क्रामत्सान्तरि॑क्षे चतुर्धा विक्रा॑न्तातिष्ठत् ॥१॥
तां दे॑वमनुष्याद्ग अब्रुवन्नियमेव तद्वे॑द यदुभय॑ उपजीवे॑मेमामुप॑ ह्वयामहा इति॑ ॥२॥
तामुपा॑ह्वयन्त ॥३॥
ऊर्ज एहि स्वध एहि सूनृ॑त एहीरा॑वत्येहीति॑ ॥४॥
तस्या इन्द्रो॑ वत्स आसी॑द्गायत्र्यद्गभिधान्यभ्रमूध॑: ॥५॥
बृहच्च॑ रथन्तरं च द्वौ स्तनावास्तां॑ यज्ञायज्ञियं॑ च वामदेव्यं च द्वौ ॥६॥
ओष॑धीरेव र॑थन्तरेण॑ देवा अ॑दुह्रन्व्यचो॑ बृहत् ॥७॥
अपो वा॑मदेव्येन॑ यज्ञं य॑ज्ञायज्ञिये॑न ॥८॥
ओष॑धीरेवास्मै॑ रथन्तरं दु॑हे व्यचो॑ बृहत् ॥९॥
अपो वा॑मदेव्यं यज्ञं य॑ज्ञायज्ञियं य एवं वेद॑ ॥१०॥
 
 

तृतीय: पर्याय:» अष्टर्चस्यास्य पर्यायस्य  प्रथमर्चश्चतुष्पदा विराडनुष्टुप्  द्वितीयाया आर्ची त्रिष्टुप्   तृतीयापञ्चमीसप्तमीनां चतुष्पदा प्राजापत्या पङ्क्ति: चतुर्थीषष्ठ्यष्टमीनाञ्चार्ची बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


सोद॑क्रामत्सा वनस्पतीनाग॑च्छत्तां वनस्पत॑योऽघ्नत सा सं॑वत्सरे सम॑भवत् ॥१॥
तस्माद्वनस्पती॑नां संवत्सरे वृक्णमपि॑ रोहति वृश्चतेऽस्याप्रि॑यो भ्रातृ॑व्यो य एवं वेद॑ ॥२॥
सोद॑क्रामत्सा पितॄनाग॑च्छत्तां पितरो॑ऽघ्नत सा मासि सम॑भवत् ॥३॥
तस्मा॑त्पितृभ्यो॑ मास्युप॑मास्यं ददति प्र पि॑तृयाणं पन्थां॑ जानाति य एवं वेद॑ ॥४॥
सोद॑क्रामत्सा देवानाग॑च्छत्तां देवा अ॑घ्नत सार्ध॑मासे सम॑भवत् ॥५॥
तस्मा॑द्देवेभ्यो॑ऽर्धमासे वष॑ट्कुर्वन्ति प्र दे॑वयानं पन्थां॑ जानाति य एवं वेद॑ ॥६॥
सोद॑क्रामत्सा म॑नुष्या३नाग॑च्छत्तां म॑नुष्याद्ग अघ्नत सा सद्य: सम॑भवत् ॥७॥
तस्मा॑न्मनुष्येद्गभ्य उभयद्युरुप॑ हरन्त्युपा॑स्य गृहे ह॑रन्ति य एवं वेद॑ ॥८॥
 
 

चतुर्थ: पर्याय:» षोडशर्चस्यास्य पर्यायस्य   प्रथमापञ्चम्योरृचोश्चतुष्पदा साम्नी जगती  द्वितीयाषष्ठीदशमीनां साम्नी बृहती  तृतीयाचतुर्दश्यो: साम्न्युष्णिक्   चतुर्थ्यष्टम्योरार्च्यनुष्टुप्  सप्तम्या आसुरी गायत्री  नवमीत्रयोदश्योश्चतुष्पदोष्णिक्  एकादश्या: प्राजापत्यानुष्टुप्  द्वादशीषोडश्योरार्ची त्रिष्टुप्  पञ्चदश्याश्च विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

सोद॑क्रामत्सासु॑रानाग॑च्छत्तामसु॑रा उपा॑ह्वयन्त माय एहीति॑ ॥१॥
तस्या॑ विरोच॑न: प्राह्रा॑दिर्वत्स आसी॑दयस्पात्रं पात्र॑म् ॥२॥
तां द्विमू॑र्धार्त्व्योद्गऽधोक्तां मायामेवाधो॑क् ॥३॥
तां मायामसु॑रा उप॑ जीवन्त्युपजीवनीयो॑ भवति य एवं वेद॑ ॥४॥
सोद॑क्रामत्सा पितॄनाग॑च्छत्तां पितर उपा॑ह्वयन्त स्वध एहीति॑ ॥५॥
तस्या॑ यमो राजा॑ वत्स आसी॑द्रजतपात्रं पात्र॑म् ॥६॥
तामन्त॑को मार्त्यवोऽधोक्तां स्वधामेवाधो॑क् ॥७॥
तां स्वधां पितर उप॑ जीवन्त्युपजीवनीयो॑ भवति य एवं वेद॑ ॥८॥
सोद॑क्रामत्सा म॑नुष्या३नाग॑च्छत्तां म॑नुष्या३ उपा॑ह्वयन्तेरा॑वत्येहीति॑ ॥९॥
तस्या मनु॑र्वैवस्वतो वत्स आसी॑त्पृथिवी पात्र॑म् ॥१०॥
तां पृथी॑ वैन्योद्गऽधोक्तां कृषिं च॑ सस्यं चा॑धोक् ॥११॥
ते कृषिं च॑ सस्यं च॑ मनुष्या३ उप॑ जीवन्ति कृष्टरा॑धिरुपजीवनीयो॑ भवति य एवं वेद॑ ॥१२॥
सोद॑क्रामत्सा स॑प्तऋषीनाग॑च्छत्तां स॑प्तऋषय उपा॑ह्वयन्त ब्रह्म॑ण्वत्येहीति॑ ॥१३॥
तस्या: सोमो राजा॑ वत्स आसीच्छन्द: पात्र॑म् ॥१४॥
तां बृहस्पति॑राङ्गिरसोद्गऽधोक्तां ब्रह्म॑ च तप॑श्चाधोक् ॥१५॥
तद्ब्रह्म॑ च तप॑श्च सप्तऋषय उप॑ जीवन्ति ब्रह्मवर्चस्युद्गपजीवनीयो॑ भवति य एवं वेद॑ ॥१६॥
 
 

पञ्चम: पर्याय:» षोडशर्चास्यास्य पर्यायस्य  १ प्रथमात्रयोदश्योरृचोश्चतुष्पदा साम्नी जगती  द्वितीयातृतीययो: साम्न्युष्णिक्  चतुर्थीषोडश्योरार्च्यनुष्टुप्  पञ्चम्याश्चतुष्पदा प्राजापत्या जगती  षष्ठ्या: साम्नी त्रिष्टुप्  सप्तम्येकादश्योर्विराड्गायत्री  अष्टम्या आर्ची त्रिष्टुप्  नवम्याश्चतुष्पदोष्णिक्  दशमीचतुर्दश्यो: साम्नी बृहती  द्वादश्यास्त्रिपदा ब्राह्मी भुरिग्गायत्री  पञ्चदश्याश्च साम्न्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


सोद॑क्रामत्सा देवानाग॑च्छत्तां देवा उपा॑ह्वयन्तोर्ज एहीति॑ ॥१॥
तस्या इन्द्रो॑ वत्स आसी॑च्चमस: पात्र॑म् ॥२॥
तां देव: स॑विताधोक्तामूर्जामेवाधो॑क् ॥३॥
तामूर्जां देवा उप॑ जीवन्त्युपजीवनीयो॑ भवति य एवं वेद॑ ॥४॥
सोद॑क्रामत्सा ग॑न्धर्वाप्सरस आग॑च्छत्तां ग॑न्धर्वाप्सरस उपा॑ह्वयन्त पुण्य॑गन्ध एहीति॑ ॥५॥
तस्या॑श्चित्रर॑थ: सौर्यवर्चसो वत्स आसी॑त्पुष्करपर्णं पात्र॑म् ॥६॥
तां वसु॑रुचि: सौर्यवर्चसोद्गऽधोक्तां पुण्य॑मेव गन्धम॑धोक् ॥७॥
तं पुण्यं॑ गन्धं ग॑न्धर्वाप्सरस उप॑ जीवन्ति पुण्य॑गन्धिरुपजीवनीयो॑ भवति य एवं वेद॑ ॥८॥
सोद॑क्रामत्सेत॑रजनानाग॑च्छत्तामि॑तरजना उपा॑ह्वयन्त तिरो॑ध एहीति॑ ॥९॥
तस्या: कुबे॑रो वैश्रवणो वत्स आसी॑दामपात्रं पात्र॑म् ॥१०॥
तां र॑जतना॑भि: कबेरकोद्गऽधोक्तां ति॑रोधामेवाधो॑क् ॥११॥
तां ति॑रोधामि॑तरजना उप॑ जीवन्ति तिरो ध॑त्ते सर्वं॑ पाप्मान॑मुपजीवनीयो॑ भवति य एवं वेद॑ ॥१२॥
सोद॑क्रामत्सा सर्पानाग॑च्छत्तां सर्पा उपा॑ह्वयन्त विष॑वत्येहीति॑ ॥१३॥
तस्या॑स्तक्षको वै॑शालेयो वत्स आसी॑दलाबुपात्रं पात्र॑म् ॥१४॥
तां धृतरा॑ष्ट्र ऐरावतोद्गऽधोक्तां विषमेवाधो॑क् ॥१५॥
तद्विषं सर्पा उप॑ जीवन्त्युपजीवनीयो॑ भवति य एवं वेद॑ ॥१६॥
 
 
 
षष्ठ: पर्याय:» चतुरृचस्यास्य पर्यायस्य  प्रथमर्चो विराड्गायत्री  द्वितीयाया: साम्नी त्रिष्टुप्  तृतीयाया: प्राजापत्यानुष्टुप्  चतुर्थ्याश्चार्च्युष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


तद्यस्मा॑ एवं विदुषेऽलाबु॑नाभिषिञ्चेत्प्रत्याह॑न्यात् ॥१॥
न च॑ प्रत्याहन्यान्मन॑सा त्वा प्रत्याहन्मीति॑ प्रत्याह॑न्यात् ॥२॥
यत्प्र॑त्याहन्ति॑ विषमेव तत्प्रत्याह॑न्ति ॥३॥
विषमेवास्याप्रि॑यं भ्रातृ॑व्यमनुविषि॑च्यते य एवं वेद॑ ॥४॥
 

॥इति अष्टमं काण्डम्॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *