HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् १७ (Atharvved Kand 17)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥अथ सप्तदशं काण्डम्॥

 
प्रथमं सूक्तम्» त्रिंशदृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आदित्यो देवता: |  प्रथमर्चस्त्र्यवसाना षट्पदा जगती  द्वितीयादिचतसृणां त्र्यवसाना षट्पदातिजगती  षष्ठीसप्तम्योस्त्र्यवसाना सप्तपदात्यष्टि:  अष्टम्यास्त्र्यवसाना सप्तपदातिधृति:  नवमीचतुर्दशीपञ्चदशीनां पञ्चपदा शक्वरी  दशम्यास्त्र्यवसानाष्टपदा धृति:  एकादशीषोडश्योस्त्र्यवसाना सप्तपदातिधृति:  द्वादश्यास्त्र्यवसाना सप्तपदा कृति:  त्रयोदश्यास्त्र्यवसाना सप्तपदा प्रकृति:  सप्तदश्या: पञ्चपदा विराडतिशक्वरी  अष्टादश्यास्त्र्यवसाना सप्तपदा भुरिगष्टि:  एकोनविंश्यास्त्र्यवसाना सप्तपदात्यष्टि:  विंश्या: ककुप्  एकविंश्याश्चतुष्पदोपरिष्टाद्बृहती  द्वाविंश्या द्विपदानुष्टुप्  त्रयोविंश्या द्विपदा निचृद्बृहती  चतुर्विंश्यास्त्र्यवसाना सप्तपदा विराडत्यष्टि: पञ्चविंशीषड्विंश्योरनुष्टुप् सप्तविंशीत्रिंश्योर्जगती अष्टाविंश्येकोनत्रिंश्योश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


विषासहिं सह॑मानं सासहानं सही॑यांसम् ।
सह॑मानं सहोजितं॑ स्वर्जितं॑ गोजितं॑ संधनाजित॑म् ।
ईड्यं नाम॑ ह्व इन्द्रमायु॑ष्मान्भूयासम् ॥१॥
विषासहिं सह॑मानं सासहानं सही॑यांसम् ।
सह॑मानं सहोजितं॑ स्वर्जितं॑ गोजितं॑ संधनाजित॑म् ।
ईड्यं नाम॑ ह्व इन्द्रं॑ प्रियो देवानां॑ भूयासम् ॥२॥
विषासहिं सह॑मानं सासहानं सही॑यांसम् ।
सह॑मानं सहोजितं॑ स्वर्जितं॑ गोजितं॑ संधनाजित॑म् ।
ईड्यं नाम॑ ह्व इन्द्रं॑ प्रिय: प्रजानां॑ भूयासम् ॥३॥
विषासहिं सह॑मानं सासहानं सही॑यांसम् ।
सह॑मानं सहोजितं॑ स्वर्जितं॑ गोजितं॑ संधनाजित॑म् ।
ईड्यं नाम॑ ह्व इन्द्रं॑ प्रिय: प॑शूनां भू॑यासम् ॥४॥
विषासहिं सह॑मानं सासहानं सही॑यांसम् ।
सह॑मानं सहोजितं॑ स्वर्जितं॑ गोजितं॑ संधनाजित॑म् ।
ईड्यं नाम॑ ह्व इन्द्रं॑ प्रिय: स॑मानानां॑ भूयासम् ॥५॥
उदिह्युदि॑हि सूर्य वर्च॑सा माभ्युदि॑हि ।
द्विषंश्च मह्यं रध्य॑तु मा चाहं द्वि॑षते र॑धं तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥६॥
उदिह्युदि॑हि सूर्य वर्च॑सा माभ्युदि॑हि ।
यांश्च पश्या॑मि यांश्च न तेषु॑ मा सुमतिं कृ॑धि तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥७॥
मा त्वा॑ दभन्त्सलिले अप्स्व१न्तर्ये पाशिन॑ उपतिष्ठन्त्यत्र॑ ।
हित्वाश॑स्तिं दिवमारु॑क्ष एतां स नो॑ मृड सुमतौ ते॑ स्याम तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥८॥
त्वं न॑ इन्द्र महते सौभ॑गायाद॑ब्धेभि: परि॑ पाह्यक्तुभिस्तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥९॥
त्वं न॑ इन्द्रोतिभि॑: शिवाभि: शंत॑मो भव ।
आरोहं॑स्त्रिदिवं दिवो गृ॑णान: सोम॑पीतये प्रियधा॑मा स्वस्तये तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥१०॥
त्वमि॑न्द्रासि विश्वजित्स॑र्ववित्पु॑रुहूतस्त्वमि॑न्द्र ।
त्वमि॑न्द्रेमं सुहवं स्तोममेर॑यस्व स नो॑ मृड सुमतौ ते॑ स्याम तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥११॥
अद॑ब्धो दिवि पृ॑थिव्यामुतासि न त॑ आपुर्महिमान॑मन्तरि॑क्षे ।
अद॑ब्धेन ब्रह्म॑णा वावृधान: स त्वं न॑ इन्द्र दिवि षंछर्म॑ यच्छ तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥१२॥
या त॑ इन्द्र तनूरप्सु या पृ॑थिव्यां यान्तरग्नौ या त॑ इन्द्र पव॑माने स्वर्विदि॑ ।
यये॑न्द्र तन्वा३ऽन्तरि॑क्षं व्यापिथ तया॑ न इन्द्र तन्वा३ शर्म॑ यच्छ तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥१३॥
त्वामि॑न्द्र ब्रह्म॑णा वर्धय॑न्त: सत्रं नि षे॑दुरृष॑यो नाध॑मानास्तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥१४॥
त्वं तृतं त्वं पर्येष्युत्सं॑ सहस्र॑धारं विदथं॑ स्वर्विदं तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥१५॥
त्वं र॑क्षसे प्रदिशश्चत॑स्रस्त्वं शोचिषा नभ॑सी वि भा॑सि ।
त्वमिमा विश्वा भुवनानु॑ तिष्ठस ऋतस्य पन्थामन्वे॑षि विद्वांस्तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥१६॥
पञ्चभि: परा॑ङ्तपस्येक॑यार्वाङश॑स्तिमेषि सुदिने बाध॑मानस्तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥१७॥
त्वमिन्द्रस्त्वं म॑हेन्द्रस्त्वं लोकस्त्वं प्रजाप॑ति: ।
तुभ्यं॑ यज्ञो वि ता॑यते तुभ्यं॑ जुह्वति जुह्व॑तस्तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥१८॥
अस॑ति सत्प्रति॑ष्ठितं सति भूतं प्रति॑ष्ठितम् ।
भूतं ह भव्य आहि॑तं भव्यं॑ भूते प्रति॑ष्ठितं तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥१९॥
शुक्रोद्गऽसि भ्राजोद्गऽसि ।
स यथा त्वं भ्राज॑ता भ्राजोऽस्येवाहं भ्राज॑ता भ्राज्यासम् ॥२०॥
रुचि॑रसि रोचोद्गऽसि ।
स यथा त्वं रुच्या॑ रोचोऽस्येवाहं पशुभि॑श्च ब्राह्मणवर्चसेन॑ च रुचिषीय ॥२१॥
उद्यते नम॑ उदायते नम उदि॑ताय नम॑: ।
विराजे नम॑: स्वराजे नम॑: सम्राजे नम॑: ॥२२॥
अस्तंयते नमो॑ऽस्तमेष्यते नमोऽस्त॑मिताय नम॑: ।
विराजे नम॑: स्वराजे नम॑: सम्राजे नम॑: ॥२३॥
उद॑गादयमा॑दित्यो विश्वे॑न तप॑सा सह ।
सपत्नान्मह्यं॑ रन्धयन्मा चाहं द्वि॑षते र॑धं तवेद्वि॑ष्णो बहुधा वीर्याद्गणि ।
त्वं न॑: पृणीहि पशुभि॑र्विश्वरू॑पै: सुधायां॑ मा धेहि परमे व्योद्गमन् ॥२४॥
आदि॑त्य नावमारु॑क्ष: शतारि॑त्रां स्वस्तये॑ ।
अहर्मात्य॑पीपरो रात्रिं॑ सत्राति॑ पारय ॥२५॥
सूर्य नावमारु॑क्ष: शतारि॑त्रां स्वस्तये॑ ।
रात्रिं मात्य॑पीपरोऽह॑: सत्राति॑ पारय ॥२६॥
प्रजाप॑तेरावृ॑तो ब्रह्म॑णा वर्म॑णाहं कश्यप॑स्य ज्योति॑षा वर्च॑सा च ।
जरद॑ष्टि: कृतवी॑र्यो विहा॑या: सहस्रा॑यु: सुकृ॑तश्चरेयम् ॥२७॥
परि॑वृतो ब्रह्म॑णा वर्म॑णाहं कश्यप॑स्य ज्योति॑षा वर्च॑सा च ।
मा मा प्रापन्निष॑वो दैव्या या मा मानु॑षीरव॑सृष्टा: वधाय॑ ॥२८॥
ऋतेन॑ गुप्त ऋतुभि॑श्च सर्वै॑र्भूतेन॑ गुप्तो भव्ये॑न चाहम् ।
मा मा प्राप॑त्पाप्मा मोत मृत्युरन्तर्द॑धेऽहं स॑लिलेन॑ वाच: ॥२९॥
अग्निर्मा॑ गोप्ता परि॑ पातु विश्वत॑: उद्यन्त्सूर्यो॑ नुदतां मृत्युपाशान् ।
व्युच्छन्ती॑रुषस: पर्व॑ता ध्रुवा: सहस्रं॑ प्राणा मय्या य॑तन्ताम् ॥३०॥
 
॥इति सप्तदशं काण्डम्॥

अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *