HinduMantavya
Loading...

सामवेद संहिता- पूर्वार्चिकः प्रथमप्रपाठकः (Samved Samhita Purvarchik-1)

Google+ Whatsapp

सामवेद संहिता

पूर्वार्चिकः (छन्द आर्चिकः)
॥आग्नेयं काण्डम्॥
॥अथ प्रथमोऽध्यायः॥
 

अथ प्रथमप्रपाठके (प्रथमोऽर्धः)



॥प्रथमा दशतिः॥

(ऋषि- भरद्वाजो बार्हस्पत्यः, मेधातिथिः काण्वः, उशनाः काव्यः, सुदीतिपुरुमीढावाङ्गिरसौ तयोर्वान्यतरः, वत्सः काण्वः, वामदेवः| देवता- अग्निः | छन्द- गायत्री)
 
अग्न आ याहि वीतये गृणानो हव्यदातये।
नि होता सत्सि बर्हिषि ॥१॥
त्वमग्ने यज्ञानाद्ग होता विश्वेषाद्ग हितः।
देवेभिर्मानुषे जने ॥२॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्।
अस्य यज्ञस्य सुक्रतुम् ॥३॥
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया।
समिद्धः शुक्र आहुतः ॥४॥
प्रेष्ठं वो अतिथिद्गस्तुषे मित्रमिव प्रियम्।
अग्ने रथं न वेद्यम् ॥५॥
त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः।
उत द्विषो मर्त्यस्य ॥६॥
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः।
एभिर्वर्धास इन्दुभिः ॥७॥
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात्।
अग्ने त्वां कामये गिरा ॥८॥
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत।
मूर्ध्नो विश्वस्य वाघतः ॥९॥
अग्ने विवस्वदा भरास्मभ्यमूतये महे।
देवो ह्यसि नो दृशे ॥१०॥
॥इति प्रथमा दशतिः | प्रथमः खण्डः॥


 

॥द्वितीया दशतिः॥

(ॠषि- आयुङ्क्ष्वाहिः, वामदेवो गौतमः, प्रयोगो भार्गवः, मधुच्छन्दा वैश्वामित्रः, शुनःशेप आजीगर्तिः, मेधातिथिः काण्वः, वत्सः काण्वः, | देवता- अग्निः | छन्द- गायत्री)
 
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः।
अमैरमित्रमर्दय ॥१॥
दूतं वो विश्ववेदसद्ग हव्यवाहममर्त्यम्।
यजिष्ठमृञ्जसे गिरा ॥२॥
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः।
वायोरनीके अस्थिरन् ॥३॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्।
नमो भरन्त एमसि ॥४॥
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय।
स्तोमद्ग रुद्राय दृशीकम् ॥५॥
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे।
मरुद्भिरग्न आ गहि ॥६॥
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः।
सम्राजन्तमध्वराणाम् ॥७॥
और्वभृगुवच्छुचिमप्नवानवदा हुवे।
अग्निद्ग समुद्रवाससम् ॥८॥
अग्निमिन्धानो मनसा धियद्ग सचेत मर्त्यः।
अग्निमिन्धे विवस्वभिः ॥९॥
आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम्।
परो यदिध्यते दिवि ॥१०॥
॥इति द्वितीया दशतिः | द्वितीयः खण्डः॥

 

॥तृतीया दशतिः॥

(ॠषि- प्रयोगो भार्गवः, भरद्वाजो बार्हस्पत्यः, वामदेवो गौतमः, वसिष्ठो मैत्रावरुणिः, विरूप आङ्गिरसः, शुनःशेप आजीगर्तिः, गोपवन आत्रेयः, प्रस्कण्वः काण्वः, मेधातिथिः काण्वः, सिन्धुद्वीप आम्बरीषः त्रित आप्त्यो वा, उशना काव्यः, | देवता- अग्निः | छन्द- गायत्री)
 
अग्निं वो वृधन्तमध्वराणां पुरूतमम्।
अच्छा नप्त्रे सहस्वते ॥१॥
अग्निस्तिग्मेन शोचिषा यद्गसद्विश्वं न्या३त्रिणम्।
अग्निर्नो वद्गसते रयिम् ॥२॥
अग्ने मृड महाद्ग अस्यय आ देवयुं जनम्।
इयेथ बर्हिरासदम् ॥३॥
अग्ने रक्षा णो अद्गहसः प्रति स्म देव रीषतः।
तपिष्ठैरजरो दह ॥४॥
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः।
अरं वहन्त्याशवः ॥५॥
नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयम्।
सुवीरमग्न आहुत ॥६॥
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्।
अपाद्ग रेताद्गसि जिन्वति ॥७॥
इममू षु त्वमस्माकद्ग सनिं गायत्रं नव्याद्गसम्।
अग्ने देवेषु प्र वोचः ॥८॥
तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः।
स पावक श्रुधी हवम् ॥९॥
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत्।
दधद्रत्नानि दाशुषे ॥१०॥
उदु त्यं जातवेदसं देवं वहन्ति केतवः।
दृशे विश्वाय सूर्यम् ॥११॥
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे।
देवममीवचातनम् ॥१२॥
शं नो देवीरभिष्टये शं नो भवन्तु पीतये।
शं योरभि स्रवन्तु नः ॥१३॥
कस्य नूनं परीणसि धियो जिन्वसि सत्पते।
जोषाता यस्य ते गिरः ॥१४॥
॥इति तृतीया दशतिः | तृतीयः खण्डः॥
 
 

॥चतुर्थी दशतिः॥

(ॠषि- शंयुर्बार्हस्पत्यः, भर्गः प्रागाथः, वसिष्ठो मैत्रावरुणिः, प्रस्कण्वः काण्वः, सोभरिः काण्वः, | देवता- अग्निः | छन्द- बृहती)
 
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे।
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शद्गसिषम् ॥१॥
पाहि नो अग्न एकया पाह्यू३त द्वितीयया।
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥२॥
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा।
भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि ॥३॥
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः।
यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनाम् ॥४॥
अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः।
अप्रोषिवान्गृहपते महाद्ग असि दिवस्पायुर्दुरोणयुः ॥५॥
अग्ने विवस्वदुषसश्चित्रद्ग राधो अमर्त्य।
आ दाशुषे जातवेदो वहा त्वमद्या देवाद्ग उषर्बुधः ॥६॥
त्वं नश्चित्र ऊत्या वसो राधाद्गसि चोदय।
अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥७॥
त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः।
त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥८॥
आ नो अग्ने वयोवृधद्ग रयिं पावक शद्गस्यम्।
रास्वा च न उपमाते पुरुस्पृहद्ग सुनीती सुयशस्तरम् ॥९॥
यो विश्वा दयते वसु होता मन्द्रो जनानाम्।
मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥१०॥
॥इति चतुर्थी दशतिः | चतुर्थः खण्डः॥

 

॥पञ्चमी दशतिः॥

(ॠषि- वसिष्ठो मैत्रावरुणिः, भर्गः प्रागाथः, सौभरिः काण्वः, मनुर्वैवस्वतः, सुदीतिपुरूमीळावांगिरसौ, प्रस्कण्वः काण्वः, मेधातिथि-मेध्यातिथी काण्वौ, विश्वामित्रो गाथिनः, कण्वो घौरः, | देवता- अग्निः, इन्द्रः, | छन्द- बृहती)
 
सना वो अग्निं नमसोर्जो नपातमा हुवे।
प्रियं चेतिष्ठमरतिद्ग स्वध्वरं विश्वस्य दूतममृतम् ॥१॥
शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते।
अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि ॥२॥
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः।
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥३॥
अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे।
ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यम् ॥४॥
अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम्।
अग्निद्ग राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः ॥५॥
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः।
आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे ॥६॥
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥७॥
अध ज्मो अध वा दिवो बृहतो रोचनादधि।
अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥८॥
कायमानो वना त्वं यन्मातॄरजगन्नपः।
न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः ॥९॥
नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते।
दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥१०॥
इति पञ्चमी दशतिः | पञ्चमः खण्डः
इति प्रथमप्रपाठके प्रथमोऽर्धः

 
 

अथ प्रथमप्रपाठकस्य द्वितीयोऽर्धः

 

॥षष्ठी दशतिः॥

(ॠषि- वसिष्ठो मैत्रावरुणिः, कण्वो घौरः, सौभरिः काण्वः, उत्कीलः कात्यः, विश्वामित्रो गाथिनः, | देवता- अग्निः, ब्रह्मणस्पतिः, यूपः, | छन्द- बृहती)

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम्
उद्वा सिञ्जध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥१॥
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥२॥
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता
ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥३॥
प्र यो राये निनीषति मर्तो यस्ते वसो दाशत्
स वीरं धत्ते अग्न उक्थशद्गसिनं त्मना सहस्रपोषिणम् ॥४॥
प्र वो यह्वं पुरूणां विशां देवयतीनाम्
अग्निद्ग सूक्तेभिर्वचोभिर्वृणीमहे यद्गसमिदन्य इन्धते ॥५॥
अयमग्निः सुवीर्यस्येशे हि सौभगस्य
राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥६॥
त्वमग्ने गृहपतिस्त्वद्ग होता नो अध्वरे
त्वं पोता विश्ववार प्रचेता यक्षि यासि च वार्यम् ॥७॥
सखायस्त्वा ववृमहे देवं मर्तास ऊतये
अपां नपातद्ग सुभगद्ग सुदद्गससद्ग सुप्रतूर्तिमनेहसम् ॥८॥
इति षष्ठी दशतिः | षष्ठः खण्डः



॥सप्तमी दशतिः॥

(ॠषि- श्यावाश्वो वामदेवो वा, उपस्तुतो वार्हिष्टव्यः, बृहदुक्थो वामदेव्यः, कुत्स आंगिरसः, भरद्वाजो बार्हस्पत्यः, वामदेवो गौतमः, वसिष्ठो मैत्रावरुणिः, त्रिशिरास्त्वाष्ट्रः, | देवता- अग्नि | छन्द- त्रिष्टुप्, जगती, त्रिपाद्विराड्गायत्री)

आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम्
इडस्पदे नमसा रातहव्यद्ग सपर्यता यजतं पस्त्यानाम् ॥१॥
चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे
अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्यां३ चरन् ॥२॥
इदं त एकं पर उ त एकं तृतीयेन ज्योतिषा सं विशस्व
संवेशनस्तन्वे३ चारुरेधि प्रियो देवानां परमे जनित्रे ॥३॥
इमद्ग स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया
भद्रा हि नः प्रमतिरस्य सद्गसद्यग्ने सख्ये मा रिषामा वयं तव ॥४॥
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम्
कविद्ग सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥५॥
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः
तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः ॥६॥
आ वो राजानमध्वरस्य रुद्रद्ग होतारद्ग सत्ययजद्ग रोदस्योः
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥७॥
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन
नरो हव्येभिरीडते सबाध आग्निरग्रमुषसामशोचि ॥८॥
प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति
दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥९॥
अग्निं नरो दीधितिभिरण्योर्हस्तच्युतं जनयत प्रशस्तम्
दूरेदृशं गृहपतिमथव्युम् ॥१०॥
इति सप्तमी दशतिः | सप्तमः खण्डः



॥अष्टमी दशतिः॥

(ॠषि- बुधगविष्ठिरावात्रेयौ, वत्सप्रिर्भालन्दनः, भरद्वाजो बार्हस्पत्यः, विश्वामित्रो गाथिनः, वसिष्ठो मैत्रावरुणिः, पायुर्भारद्वाजः, | देवता- अग्नेः, पूषा | छन्द- त्रिष्टुप्)

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम्
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥१॥
प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम्
नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वर्मणा धनर्चिम् ॥२॥
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि
विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु ॥३॥
इडामग्ने पुरुदद्गसद्ग सनिं गोः शश्वत्तमद्ग हवमानाय साध
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥४॥
प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते
दधद्यो धायी सुते वयाद्गसि यन्ता वसूनि विधते तनूपाः ॥५॥
प्र सम्राजमसुरस्य प्रशस्तं पुद्गसः कृष्टीनामनुमाद्यस्य
इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु ॥६॥
अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः
दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥७॥
सनादग्ने मृणसि यातुधानान्न त्वा रक्षाद्गसि पृतनासु जिग्युः
अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः ॥८॥
इति अष्टमी दशतिः | अष्टमः खण्डः



॥नवमी दशतिः॥

(ॠषि- गय:, आत्रेयः, वामदेवः, भरद्वाजो बार्हस्पत्यः, द्वितो मृक्तवाहा आत्रेयः, वसूयव आत्रेयाः, गोपवन आत्रेयः, पूरुरात्रेयः, वामदेवः, कश्यपो वा मारीचो, मनुर्वा वैवस्वत उभौ वा, | देवता- अग्निः | छन्द- अनुष्टुप्)

अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो
प्र नो राये पनीयसे रत्सि वाजाय पन्थाम् ॥१॥
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः
आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम् ॥२॥
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः
सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥३॥
त्वद्ग हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे
त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥४॥
प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः
विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते ॥५॥
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो
महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥६॥
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम्
अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥७॥
बृहद्वयो हि भानवेऽर्चा देवायाग्नये
यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः ॥८॥
अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम्
य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते ॥९॥
जातः परेण धर्मणा यत्सवृद्धिः सहाभुवः
पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः ॥१०॥
इति नवमी दशतिः | दशव खण्डः


॥दशमी दशतिः॥

(ऋषि- अग्निस्तापसः, वामदेवः, कश्यपोसितो देवलो वा, सोमाहुतिर्भार्गवः, पायुर्भारद्वाजः, प्रस्कण्वः काण्वः, | देवता- अग्निः, विश्वेदेवाः, अङ्गिराः | छन्द- अनुष्टुप्)

सोमद्ग राजानं वरुणमग्निमन्वारभामहे
आदित्यं विष्णुद्ग सूर्यं ब्रह्मानं च बृहस्पतिम् ॥१॥
इत एत उदारुहन्दिवः पृष्ठान्या रुहन्
प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः ॥२॥
राये अग्ने महे त्वा दानाय समिधीमहि
ईडिष्वा हि महे वृषं द्यावा होत्राय पृथिवी ॥३॥
दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत्
परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत् ॥४॥
प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि
यातुधानस्य रक्षसो बलं न्युब्जवीर्यम् ॥५॥
त्वमग्ने वसूद्गरिह रुद्राद्ग आदित्याद्ग उत
यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥६॥
इति दशमी दशतिः | दशमः खण्डः

॥इति प्रथमप्रपाठके द्वितीयोऽर्धः प्रथमः प्रपाठकश्च समाप्तः॥

 
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें 
 
सामवेद संहिता- पूर्वार्चिकः

 
सामवेद संहिता- उत्तरार्चिकः

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *