HinduMantavya
Loading...

यजुर्वेद- अध्याय 25, (yajurved Adhyay 25)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 25

 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 1
शादं दद्भिर् अवकां दन्तमूलैर् मृदं बर्स्वैस् तेगान् दम्̐ष्ट्राभ्याम्̐ सरस्वत्या ऽ अग्रजिह्वं जिह्वाया ऽ उत्सादम् अवक्रन्देन तालु वाजम्̐ हनुभ्याम् अप ऽ आस्येन वृषणम् आण्डाभ्याम् आदित्याम्̐ श्मश्रुभिः पन्थानं भ्रूभ्यां द्यावापृथिवी वर्तोभ्यां विद्युतं कनीनकाभ्याम्̐ शुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि पक्ष्माण्य् अवार्या ऽ इक्षवो वार्याणि पक्ष्माणि पार्या ऽ इक्षवः ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 2
वातं प्राणेनापानेन नासिके ऽ उपयामम् अधरेणौष्ठेन सद् उत्तरेण प्रकाशेनान्तरम् अनूकाशेन बाह्यं निवेष्यं मूर्ध्ना स्तनयित्नुं निर्बाधेनाशनिं मस्तिष्केण विद्युतं कनीनकाभ्यां कर्णाभ्याम्̐ श्रोत्रम्̐ श्रोत्राभ्यां कर्णौ तेदनीम् अधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिर् अदितिम्̐ शीर्ष्णा निर्ऋतिं निर्जर्जल्पेन शीर्ष्णा संक्रोशैः प्राणान् रेष्माणम्̐ स्तुपेन ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 3
मशकान् केशैर् इन्द्रम्̐ स्वपसा वहेन बृहस्पतिम्̐ शकुनिसादेन कूर्माञ्छफैर् आक्रमणम्̐ स्थूराभ्याम् ऋक्षलाभिः कपिञ्जलान् जवं जङ्घाभ्याम् अध्वानं बाहुभ्यां जाम्बीलेनारण्यम् अग्निम् अतिरुग्भ्यां पूषणं दोर्भ्याम् अश्विनाव् अम्̐साभ्याम्̐ रुद्रम्̐ रोराभ्याम् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 4
अग्नेः पक्षतिर् वायोर् निपक्षतिर् इन्द्रस्य तृतीया सोमस्य चतुर्थ्य् अदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुताम्̐ सप्तमी बृहस्पतेर् अष्टम्य् अर्यम्णो नवमी धातुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 5
इन्द्राग्न्योः पक्षतिर् सरस्वत्यै निपक्षतिर् मित्रस्य तृतीयापां चतुर्थी निर्ऋत्यै पञ्चम्य् अग्नीषोमयोः षष्ठी सर्पाणाम्̐ सप्तमी विष्णोर् अष्टमी पूष्णो नवमी त्वष्टुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यै त्रयोदशी द्यावापृथिव्योर् दक्षिणं पार्श्वं विश्वेषां देवानाम् उत्तरम् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 6
मरुताम्̐ स्कन्धा विश्वेषां देवानां प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीया वायोः पुच्छम् अग्नीषोमयोर् भासदौ क्रुञ्चौ श्रोणिभ्याम् इन्द्राबृहस्पती ऽ ऊरुभ्यां मित्रावरुणाव् अल्गाभ्याम् आक्रमणम्̐ स्थूराभ्यां बलं कुष्ठाभ्याम् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 7
पूषणं वनिष्ठुनान्धाहीन्त् स्थूलगुदया सर्पान् गुदाभिर् विह्रुत ऽ आन्त्रैर् अपो वस्तिना वृषणम् आण्डाभ्यां वाजिनम्̐ शेपेन प्रजाम्̐ रेतसा चाषान् पित्तेन प्रदरान् पायुना कूश्माञ्छकपिण्डैः ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 8
इन्द्रस्य क्रोडो ऽदित्यै पाजस्यं दिशां जत्रवो ऽदित्यै भसज् जीमूतान् हृदयौपशेनान्तरिक्षं पुरीतता नभ ऽ उदर्येण चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां गिरीन् प्लाशिभिर् उपलान् प्लीह्ना वल्मीकान् क्लोमभिर् ग्लौभिर् गुल्मान् हिराभिः स्रवन्तीर् ह्रदान् कुक्षिभ्याम्̐ समुद्रम् उदरेण वैश्वानरं भस्मना ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 9
विधृतिं नाभ्या धृतम्̐ रसेनापो यूष्णा मरीचीर् विप्रुड्भिर् नीहारमूष्मणा शीनं वसया प्रुष्वा ऽ अश्रुभिर् ह्रादुनीर् दूषीकाभिर् अस्ना रक्षाम्̐सि चित्राण्य् अङ्गैर् नक्षत्राणि रूपेण पृथिवीं त्वचा जुम्बकाय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 10
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
 स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 11
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव ।
 य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 12
यस्येमे हिमवन्तो महित्वा यस्य समुद्रम्̐ रसया सहाहुः ।
 यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 13
य ऽ आत्मदा बलदा यस्य विश्व ऽ उपासते प्रशिषं यस्य देवाः ।
 यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 14
आ नो भद्राः क्रतवो यन्तु विश्वतो दब्धासो ऽ अपरीतास ऽ उद्भिदः ।
 देवा नो यथा सदम् इद् वृधे ऽ असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 15
देवानां भद्रा सुमतिर् ऋजूयतां देवानाम्̐ रातिर् अभि नो नि वर्तताम् ।
 देवानाम्̐ सख्यम् उप सेदिमा वयं देवा न ऽ आयुः प्र तिरन्तु जीवसे ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 16
तान् पूर्वया निविदा हूमहे वयं भगं मित्रम् अदितिं दक्षम् अस्रिधम् ।
 अर्यमणं वरुणम्̐ सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 17
तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः ।
 तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 18
तम् ईशानं जगतस् तस्थुषस् पतिं धियंजिन्वम् अवसे हूमहे वयम् ।
 पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 19
स्वस्ति न ऽ इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
 स्वस्ति नस् तार्क्ष्यो ऽ अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 20
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
 अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा ऽ अवसा गमन्न् इह ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 21
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः ।
 स्थिरैर् अङ्गैस् तुष्टुवाम्̐सस् तनूभिर् व्यशेमहि देवहितं यद् आयुः ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 22
शतम् इन् नु शरदो ऽ अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् ।
 पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 23
अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः ।
 विश्वे देवा ऽ अदितिः पञ्च जना ऽ अदितिर् जातम् अदितिर् जनित्वम् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 24
मा नो मित्रो वरुणो ऽ अर्यमायुर् इन्द्र ऽ ऋभुक्षा मरुतः परि ख्यन् ।
 यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 25
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
 सुप्राङ् अजो मेम्यद् विश्वरूप ऽ इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 26
एष छागः पुरो ऽ अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
 अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टेद् एनम्̐ सौश्रवसाय जिन्वति ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 27
यद्धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति ।
 अत्रा पूष्णः प्रथमो भाग ऽ एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 28
होताध्वर्युर् आवया ऽ अग्निमिन्धो ग्रावग्राभ ऽ उत शम्̐स्ता सुविप्रः ।
 तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 29
यूपव्रस्का ऽ उत ये यूपवाहाश् चषालं ये ऽ अश्वयूपाय तक्षति ।
 ये चार्वते पचनम्̐ सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 30
उप प्रागात् सुमन् मे धायि मन्म देवानाम् आशा ऽ उप वीतपृष्ठः ।
 अन्व् एनं विप्रा ऽ ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 31
यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य ।
 यद् वा घास्य प्रभृतम् आस्ये तृणम्̐ सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 32
यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति ।
 यद्धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 33
यद् ऊवध्यम् उदरस्यापवाति य ऽ आमस्य क्रविषो गन्धो ऽ अस्ति ।
 सुकृता तच्छमितारः कृण्वन्तूत मेधम्̐ शृतपाकं पचन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 34
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति ।
 मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 35
ये वाजिनं परिपश्यन्ति पक्वं य ऽ ईम् आहुः सुरभिर् निर् हरेति ।
 ये चार्वतो माम्̐सभिक्षाम् उपासत ऽ उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 36
यन्नीक्षणं माम्̐स्पचन्या उखाया या पात्राणि यूष्ण ऽ आसेचनानि ।
 ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 37
मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः ।
 इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 38
निक्रमणं निषदनं विवर्तनं यच् च पड्वीशम् अर्वतः ।
 यच् च पपौ यच् च घासिं जघास सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 39
यद् अश्वाय वास ऽ उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै ।
 संदानम् अर्वन्तं पड्वीशं प्रिया देवेष्व् आ यामयन्ति ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 40
यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
 स्रुचेव ता हविषो ऽ अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 41
चतुस्त्रिम्̐शद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति ।
 अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 42
एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऽ ऋतुः ।
 या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानां प्र जुहोम्य् अग्नौ ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 43
मा त्वा तपत् प्रिय ऽ आत्मापियन्तं मा स्वधितिस् तन्व ऽआ तिष्ठिपत् ते ।
 मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 44
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाम्̐२ऽ इद् एषि पथिभिः सुगेभिः ।
 हरी ते युञ्जा पृषती ऽ अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 45
सुगव्यं नो वाजी स्वश्व्यं पुम्̐सः पुत्राम्̐२ऽ उत विश्वापुषम्̐ रयिम् ।
 अनागास्त्वं नो ऽ अदितिः कृणोतु क्षत्रं नो ऽ अश्वो वनताम्̐ हविष्मान् ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 46
इमा नु कं भुवना सीषधामेन्द्रश् च विश्वे च देवाः ।
 आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्मभ्यं भेषजा करत् ।
 यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह सीषधाति ॥
 
यजुर्वेदः-संहिता | अध्याय 25, मंत्र 47
अग्ने त्वं नो ऽ अन्तम ऽ उत त्राता शिवो भव वरूथ्यः ।
 वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमम्̐ रयिं दाः ।
 तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥
 

॥इति यजुर्वेदः पञ्चविंशतितमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *