HinduMantavya
Loading...

यजुर्वेद- अध्याय 2, (Yajurved Adhyay 2)

Google+ Whatsapp

 

॥ अथ यजुर्वेदः ॥


अध्याय 2

 
 यजुर्वेदः-संहिता | अध्याय 2, मंत्र 1
कृष्णोऽस्य् आखरेष्ठो ऽग्नये त्वा जुष्टं प्रोक्षामि ।
 वेदिर् असि बर्हिषे त्वा जुष्टां प्रोक्षामि ।
 बर्हिर् असि स्रुग्भ्यस् त्वा जुष्टं प्रोक्षामि ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 2
अदित्यै व्युन्दनम् असि ।
 विष्णो स्तुपो ऽसि ।
 ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्यः ।
 भुवपतये स्वाहा ।
 भुवनपतये स्वाहा ।
 भूतानां पतये स्वाहा ॥


यजुर्वेदः-संहिता | अध्याय 2, मंत्र 3
गन्धर्वस् त्वा विश्वावसुः परि दधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽīडितः ।
 इन्द्रस्य बाहुर् असि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः ।
 मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 4
वीतिहोत्रं त्वा कवे द्युमन्तम्̐ सम् इधीमहि ।
 अग्ने बृहन्तम् अध्वरे ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 5
समिद् असि ।
 सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्यै ।
 सवितुर् बाहू स्थः ।
 ऽ ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः ।
 ऽ आ त्वा वसवो रुद्रा ऽ आदित्याः सदन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 6
घृताच्य् असि जुहूर् नाम्ना सेदं प्रियेण धाम्ना प्रियम्̐ सद ऽ आ सीद ।
 घृताच्य् अस्य् उपभृन् नाम्ना सेदं प्रियेण धाम्ना प्रियम्̐ सद ऽ आ सीद ।
 घृताच्य् असि ध्रुवा नाम्ना सेदं प्रियेण धाम्ना प्रियम्̐ सदऽ आ सीद ।
 प्रियेण धाम्ना प्रियम्̐ सद ऽआ सीद ।
 ध्रुवा ऽ असदन्न् ऋतस्य योनौ ता विष्णो पाहि ।
 पाहि यज्ञं ।
 पाहि यज्ञपतिम् ।
 पाहि मां यज्ञन्यम् ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 7
अग्ने वाजजिद् वाजं त्वा सरिष्यन्तं वाजजितम्̐ सं मार्ज्मि ।
 नमो देवेभ्यः ।
 स्वधा पितृभ्यः ।
 सुयमे मे भूयास्तम् ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 8
अस्कन्नम् अद्य देवेभ्यऽ आज्यम्̐ सं भ्रियासम् ।
 अङ्घ्रिणा विष्णो मा त्वाव क्रमिषम् ।
 वसुमतीम् अग्ने ते छायाम् उप स्थेषं विष्णो स्थानम् असि ।
 इत ऽ इन्द्रो वीर्यम् अकृणोद् ऊर्ध्वो ध्वर ऽआस्थात् ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 9
अग्ने वेर् होत्रं वेर् दूत्यम् ।
 अवतां त्वां द्यावापृथिवी ।
 ऽअव त्वं द्यावापृथिवी स्विष्टकृद् देवेभ्यो इन्द्रऽ आज्येन हविषा भूत् स्वाहा ।
 सं ज्योतिषा ज्योतिः ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 10
मयीदम् इन्द्र ऽइन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
 अस्माकम्̐ सन्त्व् आशिषः सत्या नः सन्त्व् आशिषः ।
 ऽउपहूता पृथिवी मातोप मां पृथिवी माता ह्वयताम् ।
 अग्निर् आग्नीध्रात् स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 11
उपहूतो द्यौष् पितोप मां द्यौष् पिता ह्वयताम् अग्निर् आग्नीध्रात् स्वाहा ।
 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 प्रति गृह्णामि ।
 अग्नेष् ट्वास्येन प्राश्नामि ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 12
एतं ते देव सवितर् यज्ञं प्राहुर् बृहस्पतये ब्रह्मणे ।
 तेन यज्ञम् अव तेन यज्ञपतिं तेन माम् अव ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 13
मनो जूतिर् जुषताम् आज्यस्य बृहस्पतिर् यज्ञम् इमं तनोतु ।
 अरिष्टं यज्ञम्̐ सम् इमं दधातु विश्वे देवासऽ इह मादयन्ताम् ओ3ं प्र तिष्ठ ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 14
एषा तेऽ अग्ने समित् तया वर्धस्व चा च प्यायस्व ।
 वर्धिषीमहि च वयम् आ च प्यासिषीमहि ।
 अग्ने वाजजिद् वाजं त्वा ससृवाम्̐सं वाजजितम्̐ सं मार्ज्मि ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 15
अग्नीषोमयोर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि ।
 अग्नीषोमौ तम् अपनुदतां योऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि ।
 इन्द्राग्न्योर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि ।
 इन्द्राग्नी तम् अप नुदतां यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 16
वसुभ्यस् त्वा ।
 रुद्रेभ्यस् त्वा ।
 आदित्येभ्यस् त्वा ।
 सं जानाथां द्यावापृथिवी ।
 मित्रावरुणौ त्वा वृष्ट्यावताम् ।
 व्यन्तु वयो क्तम्̐ रिहाणाः ।
 मरुतां पृषतीर् गच्छ वशा पृश्निर् भूत्वा दिवं गच्छ ततो नो वृष्टिम् आ वह ।
 चक्षुष्पा ऽअग्ने ऽसि चक्षुर् मे पाहि ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 17
यं परिधिं पर्यधत्थाऽ अग्ने देव पणिभिर् गुह्यमानः ।
 तं तऽ एतम् अनु जोषं भराम्य् नेत् त्वद् अपचेतयातै ।
 ऽअग्नेः प्रियं पाथोऽपीतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 18
सम्̐स्रवभागा स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश् च देवाः ।
 इमां वाचम् अभि विश्वे गृणन्त ऽआसद्यास्मिन् बर्हिषि मादयध्वम् ।
 स्वाहा वाट् ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 19
घृताची स्थो धुर्यौ पातम्̐ सुम्ने स्थः सुम्ने मा धत्तम् ।
 यज्ञ नमश् च तऽ उप च यज्ञस्य शिवे सं तिष्ठस्व स्विष्टे मे संतिष्ठस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 20
अग्नेऽ दब्धायो ऽशीतम पाहि मा दिद्योः ।
 पाहि प्रसित्यै ।
 पाहि दुरिष्ट्यै ।
 पाहि दुरद्मन्याऽ अविषं नः पितुं कृणु ।
 सुषदा योनौ स्वाहा वाट् ।
 अग्नये संवेशपतये स्वाहा ।
 सरस्वत्यै यशोभगिन्यै स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 21
वेदो ऽसि येन त्वं देव वेद देवेभ्यो वेदोऽ भवस् तेन मह्यं वेदो भूयाः ।
 देवा गातुविदो गातुं वित्त्वा गातुम् इत ।
 मनसस् पतऽ इमं देव यज्ञम्̐ स्वाहा वाते धाः ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 22
सं बर्हिर् अङ्क्ताम्̐ हविषा घृतेन सम् आदित्यैर् वसुभिः सं मरुद्भिः ।
 सम् इन्द्रो विश्वदेवेभिर् अङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 23
कस् त्वा वि मुञ्चति स त्वा वि मुञ्चति कस्मै त्वा वि मुञ्चति तस्मै त्वा वि मुञ्चति ।
 पोषाय ।
 रक्षसां भागो ऽसि ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 24
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̐ शिवेन ।
 त्वष्टा सुदत्रो वि दधातु रायोऽ नुमार्ष्टु तन्वो यद् विलिष्टम् ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 25
दिवि विष्णुर् व्यक्रम्̐स्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
 अन्तरिक्षे विष्णुर् व्यक्रम्̐स्त जागतेन छन्दसा ततो निर्भक्तो योऽ स्मान् द्वेष्टि यं च वयं द्विष्मः ।
 पृथिव्यां विष्णुर् व्यक्रम्̐स्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
 अस्माद् ऽअन्नादस्यै प्रतिष्ठायै ।
 ऽ अगन्म स्वः ।
 सं ज्योतिषाभूम ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 26
स्वयम्भूर् असि श्रेष्ठो रश्मिर् ऽवर्चोदा असि वर्चो मे देहि ।
 सूर्यस्यावृतम् अन्व् आवर्ते ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 27
अग्ने गृहपते सुगृहपतिस् त्वयाऽग्ने ऽहं गृहपतिना भूयासम्̐ सुगृहपतिस् त्वं मयाऽग्ने गृहपतिना भूयाः ।
 अस्थूरि णौ गार्हपत्यानि सन्तु शतम्̐ हिमाः ।
 सूर्यस्यावृतम् अन्व् आवर्ते ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 28
अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मेऽ राधि ।
 इदम् अहं यऽ एवाऽस्मि सोऽस्मि ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 29
अग्नये कव्यवाहनाय स्वाहा ।
 सोमाय पितृमते स्वाहा ।
 अपहता ऽ असुरा रक्षाम्̐सि वेदिषदः ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 30
ये रूपाणि प्रतिमुञ्चमाना ऽ असुराः सन्तः स्वधया चरन्ति ।
 परापुरो निपुरो ये भरन्त्य् अग्निष्टाँन् लोकात् प्र णुदात्य् अस्मात् ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 31
अत्र पितरो मादयध्वं यथाभागम् आ वृषायध्वम् ।
 अमीमदन्त पितरो यथाभागम् आ वृषायिषत ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 32
नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः पितरो देष्मैतद्वः पितरो वासः॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 33
आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् ।
 यथेह पुरुषो ऽसत् ॥
 
यजुर्वेदः-संहिता | अध्याय 2, मंत्र 34
ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् ।
 स्वधा स्थ तर्पयत मे पितॄन् ॥
 

॥इति यजुर्वेदः द्वितीयोऽध्यायः॥

 

अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *