HinduMantavya
Loading...

यजुर्वेद- अध्याय 23, (yajurved Adhyay 23)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

अध्याय 23

  
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 1
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
 स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 2
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि ।
 एष ते योनिः सूर्यस् ते महिमा ।
 यस् ते ऽहन्त् संवत्सरे महिमा संबभूव यस् ते वायाव् अन्तरिक्षे महिमा संबभूव यस् ते दिवि सूर्ये महिमा संबभूव तस्मै ते महिम्ने प्रजापतये स्वाहा देवेभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 3
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव ।
 य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 4
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि ।
 एष ते योनिश् चन्द्रस् ते महिमा ।
 यस् ते रात्रौ संवत्सरे महिमा संबभूव यस् ते पृथिव्याम् अग्नौ महिमा संबभूव यस् ते नक्षत्रेषु चन्द्रमसि महिमा संबभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 5
युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।
 रोचन्ते रोचना दिवि ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 6
युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।
 शोणा धृष्णू नृवाहसा ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 7
यद् वातो ऽ अपो ऽ अगनीगन् प्रियाम् इन्द्रस्य तन्वम् ।
 एतम्̐ स्तोतर् अनेन पथा पुनर् अश्वम् आ वर्तयासि नः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 8
वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा ।
 रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसा ।
 आदित्यास् त्वाञ्जन्तु जागतेन छन्दसा ।
 भूर् भुवः स्वर् लाजी3ञ् छाची3न् यव्ये गव्यऽ एतद् अन्नम् अत्त देवा ऽ एतद् अन्नम् अद्धि प्रजापते ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 9
कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः ।
 किम्̐ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 10
सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः ।
 अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 11
का स्विद् आसीत् पूर्वचित्तिः किम्̐ स्विद् आसीद् बृहद् वयः ।
 का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 12
द्यौर् आसीत् पूर्वचित्तिः अश्व ऽ आसीद् बृहद् वयः ।
 अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 13
वायुष् ट्वा पचतैर् अवतु ।
 असितग्रीवश् छागैः ।
 न्यग्रोधश् चमसैः ।
 शल्मलिर् वृद्ध्या ।
 एष स्य राथ्यो वृषा ।
 पड्भिश् चतुर्भिर् एद् अगन् ।
 ब्रह्माकृष्णश् च नो ऽवतु ।
 नमो ऽग्नये ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 14
सम्̐शितो रश्मिना रथः सम्̐शितो रश्मिना हयः ।
 सम्̐शितो अप्स्व् अप्सुजा ब्रह्मा सोमपुरोगवः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 15
स्वयं वाजिम्̐स् तन्वं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व ।
 महिमा ते ऽन्येन न संनशे ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 16
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाम्̐२ऽ इद् एषि पथिभिः सुगेभिः ।
 यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 17
अग्निः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्न् अग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ।
 वायुः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ।
 सूर्यः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्त् सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 18
प्राणाय स्वाहा ।
 अपानाय स्वाहा ।
 व्यानाय स्वाहा अम्बे ऽ अम्बिके ऽम्बालिके न मा नयति कश् चन ।
 ससस्त्य् अश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 19
गणानां त्वा गणपतिम्̐ हवामहे प्रियाणां त्वा प्रियपतिम्̐ हवामहे निधीनां त्वा निधिपतिम्̐ हवामहे वसो मम ।
 आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 20
ता ऽ उभौ चतुरः पदः सम्प्र सारयाव स्वर्गे लोके प्रोर्णुवाथां वृषा वाजी रेतोधा रेतो दधातु ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 21
उत्सक्थ्या ऽ अव गुदं धेहि सम् अञ्जिं चारया वृषन् ।
 य स्त्रीणां जीवभोजनः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 22
यकासकौ शकुन्तिकाहलग् इति वञ्चति ।
 आ हन्ति गभे पसो निगल्गलीति धारका ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 23
यको ऽसकौ शकुन्तक ऽ आहलग् इति वञ्चति ।
 विवक्षत ऽ इव ते मुखम् अध्वर्यो मा नस् त्वम् अभि भाषथाः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 24
माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः ।
 प्रतिलामीति ते पिता गभे मुष्टिम् अतम्̐सयत् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 25
माता च ते पिता च ते ऽग्रे वृक्षस्य क्रीडतः ।
 विवक्षत ऽइव ते मुखं ब्रह्मन् मा नस् त्वं वदो बहु ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 26
ऊर्ध्वम् एनाम् उच्छ्रापय गिरौ भारम्̐ हरन्न् इव ।
 अथास्यै मध्यम् एधताम्̐ शीते वाते पुनन्न् इव ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 27
ऊर्ध्वम् एनम् उच्छ्रापय गिरौ भारम्̐ हरन्न् इव ।
 अथास्य मध्यम् एजतु शीते वाते पुनन्न् इव ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 28
यद् अस्या ऽ अम्̐हुभेद्याः कृधु स्थूलम् उपातसत् ।
 मुष्काविदस्या ऽ एजतो गोशफे शकुलाव् इव ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 29
यद् देवासो ललामगुं प्र विष्टीमिनम् आविषुः ।
 सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 30
यद्धरिणो यवम् अत्ति न पुष्टं पशु मन्यते ।
 शूद्रा यद् अर्यजारा न पोषाय धनायति ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 31
यद्धरिणो यवम् अत्ति न पुष्टं बहु मन्यते ।
 शूद्रो यद् अर्यायै जारो न पोषम् अनु मन्यते ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 32
दधिक्राव्णो ऽ अकारिषं जिष्णोर् अश्वस्य वाजिनः ।
 सुरभि नो मुखा करत् प्र ण ऽ आयूम्̐षि तारिषत् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 33
गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह ।
 बृहत्य् उष्णिहा ककुप् सूचीभिः शम्यन्तु त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 34
द्विपदा याश् चतुष्पदास् त्रिपदा याश् च षट्पदाः ।
 विच्छन्दा याश् च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 35
महानाम्न्यो रेवत्यो विश्वा आशाः प्रभूवरीः ।
 मैघीर् विद्युतो वाचः सूचीभिः शम्यन्तु त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 36
नार्यस् ते पत्न्यो लोम विचिन्वन्तु मनीषया ।
 देवानां पत्न्यो दिशः सूचीभिः शम्यन्तु त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 37
रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः ।
 अश्वस्य वाजिनस् त्वचि सिमाः शम्यन्तु शम्यन्तीः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 38
कुविद् अङ्ग यवमन्तो वयं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
 इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 39
कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शम्यति ।
 क ऽ उ ते शमिता कविः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 40
ऋतवस्त ऽ ऋतुथा पर्व शमितारो वि शासतु ।
 संवत्सरस्य तेजसा शमीभिः शम्यन्तु त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 41
अर्धमासाः परूम्̐षि ते मासा ऽ आ च्छ्यन्तु शम्यन्तः ।
 अहोरात्राणि मरुतो विलिष्टम्̐ सूदयन्तु ते ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 42
दैव्या ऽ अध्वर्यवस् त्वा छ्यन्तु वि च आसतु ।
 गात्राणि पर्वशस् ते सिमाः कृण्वन्तु शम्यन्तीः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 43
द्यौस् ते पृथिव्यन्तरिक्षं वायुश् छिद्रं पृणातु ते ।
 सूयस् ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 44
शं ते परेभ्यो गात्रेभ्यः शम् अस्त्व् अवरेभ्यः ।
 शम् अस्थभ्यो मज्जभ्यः शम् व् अस्तु तन्वै तव ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 45
कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः ।
 किम्̐ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 46
सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः ।
 अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 47
किम्̐ स्वित् सूर्यसमं ज्योतिः किम्̐ समुद्रसमम्̐ सरः ।
 किम्̐ स्वित् पृथिव्यै वर्षीयः कस्य मात्रा न विद्यते ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 48
ब्रह्म सूर्यसमं ज्योतिर् द्यौः समुद्रसमम्̐ सरः ।
 इन्द्रः पृथिव्यै वर्षीयान् गोस् तु मात्रा न विद्यते ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 49
पृच्छामि त्वा चितये देवसख यदि त्वम् अत्र मनसा जगन्थ ।
 येषु विष्णुस् त्रिषु पदेष्व् एष्टस् तेषु विश्वं भुवनम् आ विवेशाम्̐३ऽ ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 50
अपि तेषु त्रिषु पदेष्व् अस्मि येषु विश्वं भुवनम् आविवेश ।
 सद्यः पर्य् एमि पृथिवीम् उत द्याम् एकेनाङ्गेन दिवो ऽ अस्य पृष्ठम् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 51
केष्व् अन्तः पुरुष ऽ आ विवेश कान्य् अन्तः पुरुषे ऽ अर्पितानि ।
 एतद् ब्रह्मन्न् उपवल्हामसि त्वा किम्̐ स्विन् नः प्रति वोचास्य् अत्र ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 52
पञ्चस्व् अन्तः पुरुष ऽ आ विवेश तान्य् अन्तः पुरुषे ऽ अर्पितानि ।
 एतत् त्वात्र प्रतिमन्वानो ऽ अस्मि न मायया भवस्य् उत्तरो मत् ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 53
का स्विद् आसीत् पूर्वचित्तिः किम्̐ स्विद् आसीद् बृहद् वयः ।
 का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 54
द्यौर् आसीत् पूर्वचित्तिः अश्वऽ आसीद् बृहद् वयः ।
 अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 55
का ऽ ईमरे पिशंगिला का ऽ ईं कुरुपिशंगिला ।
 क ऽ ईम् आस्कन्दम् अर्षति क ऽ ईं पन्थां वि सर्पति ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 56
अजारे पिशंगिला श्वावित् कुरुपिशंगिला ।
 शश आस्कन्दम् अर्षत्य् अहिः पन्थां वि सर्पति ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 57
कत्य् अस्य विष्ठाः कत्य् अक्षराणि कति होमासः कतिधा समिद्धः ।
 यज्ञस्य त्वा विदथा पृच्छम् अत्र कति होतार ऽ ऋतुशो यजन्ति ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 58
षड् अस्य विष्ठाः शतम् अक्षराण्य् अशीतिर् होमाः समिधो ह तिस्रः ।
 यज्ञस्य ते विदथा प्र ब्रवीमि सप्त होतार ऋतुशो यजन्ति ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 59
को ऽ अस्य वेद भुवनस्य नाभिं को द्यावापृथिवी ऽ अन्तरिक्षम् ।
 कः सूर्यस्य वेद बृहतो जनित्रं को वेद चन्द्रमसं यतोजाः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 60
वेदाहम् अस्य भुवनस्य नाभिं वेद द्यावापृथिवी ऽ अन्तरिक्षम् ।
 वेद सूर्यस्य बृहतो जनित्रं अथो वेद चन्द्रमसं यतोजाः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 61
पृच्छामि त्वा परम् अन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
 पृच्छामि त्वा वृष्णो ऽ अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 62
इयं वेदिः परो ऽ अन्तः पृथिव्या ऽ अयं यज्ञो यत्र भुवनस्य नाभिः ।
 अयम्̐ सोमो वृष्णो ऽ अश्वस्य रेतः ब्रह्मायं वाचः परमं व्योम ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 63
सुभूः स्वयम्भूः प्रथमो ऽन्तर् महत्य् अर्णवे ।
 दधे ह गर्भम् ऋत्वियं यतो जातः प्रजापतिः ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 64
होता यक्षत् प्रजापतिम्̐ सोमस्य महिम्नः ।
 जुषतां पिबतु सोमम्̐ होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 23, मंत्र 65
प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव ।
 यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु । वयम्̐ स्याम पतयो रयीणाम्॥
 

॥इति यजुर्वेदः त्रयोविंशतितमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *