HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् ४ (Atharvved Kand 4)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥ अथ चतुर्थं काण्डम् ॥

 
प्रथमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य वेन ऋषि: | बृहस्पतिरादित्यो वा देवता: | प्रथमातृतीयाचतुर्थीषष्ठीसप्तमीनामृचां त्रिष्टुप्  द्वितीयापञ्चम्योश्च भुरिक्त्रिष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)


ब्रह्म॑ जज्ञानं प्र॑थमं पुरस्ताद्वि सी॑मत: सुरुचो॑ वेन आ॑व: ।
स बुध्न्याद्ग उपमा अ॑स्य विष्ठा: सतश्च योनिमस॑तश्च वि व॑: ॥१॥
इयं पित्र्या राष्ट्र्येत्वग्रे॑ प्रथमाय॑ जनुषे॑ भुवनेष्ठा: ।
तस्मा॑ एतं सुरुचं॑ ह्वारम॑ह्यं घर्मं श्री॑णन्तु प्रथमाय॑ धास्यवे॑ ॥२॥
प्र यो जज्ञे विद्वान॑स्य बन्धुर्विश्वा॑ देवानां जनि॑मा विवक्ति ।
ब्रह्म ब्रह्म॑ण उज्ज॑भार मध्या॑न्नीचैरुच्चै: स्वधा अभि प्र त॑स्थौ ॥३॥
स हि दिव: स पृ॑थिव्या ऋ॑तस्था मही क्षेमं रोद॑सी अस्कभायत् ।
महान्मही अस्क॑भायद्वि जातो द्यां सद्म पार्थि॑वं च रज॑: ॥४॥
स बुध्न्यादा॑ष्ट्र जनुषोऽभ्यग्रं बृहस्पति॑र्देवता तस्य॑ सम्राट् ।
अहर्यच्छुक्रं ज्योति॑षो जनिष्टाथ॑ द्युमन्तो वि व॑सन्तु विप्रा॑: ॥५॥
नूनं तद॑स्य काव्यो हि॑नोति महो देवस्य॑ पूर्व्यस्य धाम॑ ।
एष ज॑ज्ञे बहुभि॑: साकमित्था पूर्वे अर्धे विषि॑ते ससन्नु ॥६॥
योऽथ॑र्वाणं पितरं॑ देवब॑न्धुं बृहस्पतिं नमसाव॑ च गच्छा॑त् ।
त्वं विश्वे॑षां जनिता यथास॑: कविर्देवो न दभा॑यत्स्वधावा॑न् ॥७॥
 
 

द्वितीयं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य वेन ऋषि: | आत्मा देवता: | प्रथमादिपञ्चर्चां सप्तम्याश्च त्रिष्टुप्  षष्ठ्या: पुरोऽनुष्टुप्त्रिष्टुप् अष्टम्याश्चोपरिष्टाज्ज्योतिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


य आ॑त्मदा ब॑लदा यस्य विश्व॑ उपास॑ते प्रशिषं यस्य॑ देवा: ।
यो३ऽस्येशे॑ द्विपदो यश्चतु॑ष्पद: कस्मै देवाय॑ हविषा॑ विधेम ॥१॥
य: प्रा॑णतो नि॑मिषतो म॑हित्वैको राजा जग॑तो बभूव॑ ।
यस्य॑ छायामृतं यस्य॑ मृत्यु: कस्मै॑ देवाय॑ हविषा॑ विधेम ॥२॥
यं क्रन्द॑सी अव॑तश्चस्कभाने भियसा॑ने रोद॑सी अह्व॑येथाम् ।
यस्यासौ पन्था रज॑सो विमान: कस्मै॑ देवाय॑ हविषा॑ विधेम ॥३॥
यस्य द्यौरुर्वी पृ॑थिवी च॑ मही यस्याद उर्व१न्तरि॑क्षम् ।
यस्यासौ सूरो वित॑तो महित्वा कस्मै॑ देवाय॑ हविषा॑ विधेम ॥४॥
यस्य विश्वे॑ हिमव॑न्तो महित्वा स॑मुद्रे यस्य॑ रसामिदाहु: ।
इमाश्च॑ प्रदिशो यस्य॑ बाहू कस्मै॑ देवाय॑ हविषा॑ विधेम ॥५॥
आपो अग्रे विश्व॑मावन्गर्भं दधा॑ना अमृता॑ ऋतज्ञा: ।
यासु॑ देवीष्वधि॑ देव आ॑सीत्कस्मै॑ देवाय॑ हविषा॑ विधेम ॥६॥
हिरण्यगर्भ: सम॑वर्तताग्रे॑ भूतस्य॑ जात: पतिरेक॑ आसीत् ।
स दा॑धार पृथिवीमुत द्यां कस्मै॑ देवाय॑ हविषा॑ विधेम ॥७॥
आपो॑ वत्सं जनय॑न्तीर्गर्भमग्रे समै॑रयन् ।
तस्योत जाय॑मानस्योल्ब॑ आसीद्धिरण्यय: कस्मै॑ देवाय॑ हविषा॑ विधेम ॥८॥
 
 

तृतीयं सूक्तम्» सप्तर्चस्यास्य सूक्तस्याथर्वा ऋषि: | रुद्रो व्याघ्रो वा देवता: | प्रथमर्च: पथ्यापङ्क्ति:  द्वितीयायाश्चतुर्थ्यादितृचस्य चानुष्टुप् तृतीयाया गायत्री सप्तम्याश्च ककुम्मतीगर्भोपरिष्टाद्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


उदितस्त्रयो॑ अक्रमन्व्याघ्र: पुरु॑षो वृक॑: ।
हिरुग्घि यन्ति सिन्ध॑वो हिरु॑ग्देवो वनस्पतिर्हिरु॑ङ्नमन्तु शत्र॑व: ॥१॥
परे॑णैतु पथा वृक॑: परमेणोत तस्क॑र: ।
परे॑ण दत्वती रज्जु: परे॑णाघायुर॑र्षतु ॥२॥
अक्ष्यौद्ग च ते मुखं॑ च ते व्याघ्र जम्भयामसि ।
आत्सर्वा॑न्विंशतिं नखान् ॥३॥
व्याघ्रं दत्वतां॑ वयं प्र॑थमं ज॑म्भयामसि ।
आदु॑ ष्टेनमथो अहिं॑ यातुधानमथो वृक॑म् ॥४॥
यो अद्य स्तेन आय॑ति स संपि॑ष्टो अपा॑यति ।
पथाम॑पध्वंसेनैत्विन्द्रो वज्रे॑ण हन्तु तम् ॥५॥
मूर्णा मृगस्य दन्ता अपि॑शीर्णा उ पृष्टय॑: ।
निम्रुक्ते॑ गोधा भ॑वतु नीचाय॑च्छशयुर्मृग: ॥६॥
यत्संयमो न वि य॑मो वि य॑मो यन्न संयम॑: ।
इन्द्रजा: सो॑मजा आ॑थर्वणम॑सि व्याघ्रजम्भ॑नम् ॥७॥
 
 
चतुर्थं सूक्तम्» अष्टर्चस्यास्य सूक्तस्याथर्वा ऋषि: | वनस्पतिर्देवता: |  प्रथमादितृचस्य पञ्चम्यष्टम्योरृचोरनुष्टुप् चतुर्थ्या: भुरिक्पुर उष्णिक्  षष्ठीसप्तम्योश्च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यां त्वा॑ गन्धर्वो अख॑नद्वरु॑णाय मृतभ्र॑जे ।
तां त्वा॑ वयं ख॑नामस्योष॑धिं शेपहर्ष॑णीम् ॥१॥
उदुषा उदु सूर्य उदिदं मा॑मकं वच॑: ।
उदे॑जतु प्रजाप॑तिर्वृषा शुष्मे॑ण वाजिना॑ ॥२॥
यथा॑ स्म ते विरोह॑तोऽभित॑प्तमिवान॑ति ।
तत॑स्ते शुष्म॑वत्तरमियं कृ॑णोत्वोष॑धि: ॥३॥
उच्छुष्मौष॑धीनां सार॑ ऋषभाणा॑म् ।
सं पुंसामि॑न्द्र वृष्ण्य॑मस्मिन्धे॑हि तनूवशिन् ॥४॥
अपां रस॑: प्रथमजोऽथो वनस्पती॑नाम् ।
उत सोम॑स्य भ्राता॑स्युतार्शम॑सि वृष्ण्य॑म् ॥५॥
अद्याग्ने॑ अद्य स॑वितरद्य दे॑वि सरस्वति ।
अद्यास्य ब्र॑ह्मणस्पते धनु॑रिवा ता॑नया पस॑: ॥६॥
आहं त॑नोमि ते पसो अधि ज्यामि॑व धन्व॑नि ।
क्रमस्वर्श॑ इव रोहितमन॑वग्लायता सदा॑ ॥७॥
अश्व॑स्याश्वतरस्याजस्य पेत्व॑स्य च ।
अथ॑ ऋषभस्य ये वाजास्तानस्मिन्धे॑हि तनूवशिन् ॥८॥
 
 
 
पञ्चमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | वृषभ: स्वपनञ्च देवता: | प्रथमर्चस्तृतीयादिचतसृणाञ्चानुष्टुप्  द्वितीयाया भुरिगनुष्टुप् सप्तम्याश्च पुरस्ताज्ज्योतिस्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


सहस्र॑शृङ्गो वृषभो य: स॑मुद्रादुदाच॑रत् ।
तेना॑ सहस्येद्गना वयं नि जना॑न्त्स्वापयामसि ॥१॥
न भूमिं वातो अति॑ वाति नाति॑ पश्यति कश्चन ।
स्त्रिय॑श्च सर्वा॑: स्वापय शुनश्चेन्द्र॑सखा चर॑न् ॥२॥
प्रोष्ठेशयास्त॑ल्पेशया नारीर्या व॑ह्यशीव॑री: ।
स्त्रियो या: पुण्य॑गन्धयस्ता: सर्वा॑: स्वापयामसि ॥३॥
एज॑देजदजग्रभं चक्षु॑: प्राणम॑जग्रभम् ।
अङ्गा॑न्यजग्रभं सर्वा रात्री॑णामतिशर्वरे ॥४॥
य आस्ते यश्चर॑ति यश्च तिष्ठ॑न्विपश्य॑ति ।
तेषां सं द॑ध्मो अक्षी॑णि यथेदं हर्म्यं तथा॑ ॥५॥
स्वप्तु॑ माता स्वप्तु॑ पिता स्वप्तु श्वा स्वप्तु॑ विश्पति॑: ।
स्वप॑न्त्वस्यै ज्ञातय: स्वप्त्वयमभितो जन॑: ॥६॥
स्वप्न॑ स्वप्नाभिकर॑णेन सर्वं नि ष्वा॑पया जन॑म् ।
ओत्सूर्यमन्यान्त्स्वापया॑व्युषं जा॑गृतादहमिन्द्र॑ इवारि॑ष्टो अक्षि॑त: ॥७॥
 
 
षष्ठं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य गरुत्मानृषि: । तक्षको मन्त्रोक्ताश्च देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in) ॥
 


ब्राह्मणो ज॑ज्ञे प्रथमो दश॑शीर्षो दशा॑स्य: ।
स सोमं॑ प्रथम: प॑पौ स च॑कारारसं विषम् ॥१॥
याव॑ती द्यावा॑पृथिवी व॑रिम्णा याव॑त्सप्त सिन्ध॑वो वितष्ठिरे ।
वाचं॑ विषस्य दूष॑णीं तामितो निर॑वादिषम् ॥२॥
सुपर्णस्त्वा॑ गरुत्मान्विष॑ प्रथममा॑वयत् ।
नामी॑मदो नारू॑रुप उतास्मा॑ अभव: पितु: ॥३॥
यस्त आस्यत्पञ्चा॑ङ्गुरिर्वक्राच्चिदधि धन्व॑न: ।
अपस्कम्भस्य॑ शल्यान्निर॑वोचमहं विषम् ॥४॥
शल्याद्विषं निर॑वोचं प्राञ्ज॑नादुत प॑र्णधे: ।
अपाष्ठाच्छृङ्गात्कुल्म॑लान्निर॑वोचमहं विषम् ॥५॥
अरसस्त॑ इषो शल्योऽथो॑ ते अरसं विषम् ।
उतारसस्य॑ वृक्षस्य धनु॑ष्टे अरसारसम् ॥६॥
ये अपी॑षन्ये अदि॑हन्य आस्यन्ये अवासृ॑जन् ।
सर्वे ते वध्र॑य: कृता वध्रि॑र्विषगिरि: कृत: ॥७॥
वध्र॑यस्ते खनितारो वध्रिस्त्वम॑स्योषधे ।
वध्रि: स पर्व॑तो गिरिर्यतो॑ जातमिदं विषम् ॥८॥
 
 
 
सप्तमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य गरुत्मानृषि: । वनस्पतिर्देवता: | प्रथमादितृचस्य पञ्चम्यादितृचस्य चानुष्टुप् चतुर्थ्याश्च स्वराडनुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)

 
 
वारिदं वा॑रयातै वरणाव॑त्यामधि॑ ।
तत्रामृतस्यासि॑क्तं तेना॑ ते वारये विषम् ॥१॥
अरसं प्राच्यंद्ग विषम॑रसं यदु॑दीच्यद्गम् ।
अथेदम॑धराच्यं॑ करम्भेण वि क॑ल्पते ॥२॥
करम्भं कृत्वा तिर्यंद्ग पीबस्पाकमु॑दारथिम् ।
क्षुधा किल॑ त्वा दुष्टनो जक्षिवान्त्स न रू॑रुप: ॥३॥
वि ते मदं॑ मदावति शरमि॑व पातयामसि ।
प्र त्वा॑ चरुमि॑व येष॑न्तं वच॑सा स्थापयामसि ॥४॥
परि ग्राम॑मिवाचि॑तं वच॑सा स्थापयामसि ।
तिष्ठा॑ वृक्ष इ॑व स्थाम्न्यभ्रि॑खाते न रू॑रुप: ॥५॥
पवस्तै॑स्त्वा पर्य॑क्रीणन्दूर्शेभि॑रजिनै॑रुत ।
प्रक्रीर॑सि त्वमो॑षधेऽभ्रि॑खाते न रू॑रुप: ॥६॥
अना॑प्ता ये व॑: प्रथमा यानि कर्मा॑णि चक्रिरे ।
वीरान्नो अत्र मा द॑भन्तद्व॑ एतत्पुरो द॑धे ॥७॥
 
 
अष्टमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्याथर्वाऽङ्गिरा ऋषि: | चन्द्रमा आपश्च देवता: |   प्रथमासप्तम्योरृचोर्भुरिक्त्रिष्टुप्   द्वितीयाचतुर्थीषष्ठीनामनुष्टुप्  तृतीयायास्त्रिष्टुप्  पञ्चम्याश्च विराट् प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


भूतो भूतेषु पय आ द॑धाति स भूतानामधि॑पतिर्बभूव ।
तस्य॑ मृत्युश्च॑रति राजसूयं स राजा॑ राज्यमनु॑ मन्यतामिदम् ॥१॥
अभि प्रेहि माप॑ वेन उग्रश्चेत्ता स॑पत्नहा ।
आ ति॑ष्ठ मित्रवर्धन तुभ्यं॑ देवा अधि॑ ब्रुवन् ॥२॥
आतिष्ठ॑न्तं परि विश्वे॑ अभूषं छ्रियं वसा॑नश्चरति स्वरो॑चि: ।
महत्तद्वृष्णो असु॑रस्य नामा विश्वरू॑पो अमृता॑नि तस्थौ ॥३॥
व्याघ्रो अधि वैया॑घ्रे वि क्र॑मस्व दिशो॑ मही: ।
विश॑स्त्वा सर्वा॑ वाञ्छन्त्वापो॑ दिव्या: पय॑स्वती: ॥४॥
या आपो॑ दिव्या: पय॑सा मद॑न्त्यन्तरि॑क्ष उत वा॑ पृथिव्याम् ।
तासां॑ त्वा सर्वा॑सामपामभि षि॑ञ्चामि वर्च॑सा ॥५॥
अभि त्वा वर्च॑सासिचन्नापो॑ दिव्या: पय॑स्वतीह् ।
यथासो॑ मित्रवर्ध॑नस्तथा॑ त्वा सविता क॑रत् ॥६॥
एना व्याघ्रं प॑रिषस्वजाना: सिंहं हि॑न्वन्ति महते सौभ॑गाय ।
समुद्रं न सुभुव॑स्तस्थिवांसं॑ मर्मृज्यन्ते॑ द्वीपिन॑मप्स्व१न्त ॥७॥
 
 
 
नवमं सूक्तम्» दशर्चस्यास्य सूक्तस्य भृगुरृषि: । त्रैकाकुदाञ्जनं देवता: | प्रथमर्चश्चतुर्थ्यादिसप्तानाञ्चानुष्टुप्  द्वितीयाया ककुम्मत्यनुष्टुप् तृतीयायाश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


एहि॑ जीवं त्राय॑माणं पर्व॑तस्यास्यक्ष्य॑म् ।
विश्वे॑भिर्देवैर्दत्तं प॑रिधिर्जीव॑नाय कम् ॥१॥
परिपाणं पुरु॑षाणां परिपाणं गवा॑मसि ।
अश्वा॑नामर्व॑तां परिपाणा॑य तस्थिषे ॥२॥
उतासि॑ परिपाणं॑ यातुजम्भ॑नमाञ्जन ।
उतामृत॑स्य त्वं वेत्थाथो॑ असि जीवभोज॑नमथो॑ हरितभेषजम् ॥३॥
यस्या॑ञ्जन प्रसर्पस्यङ्ग॑मङ्गं परु॑ष्परु: ।
ततो यक्ष्मं वि बा॑धस उग्रो म॑ध्यमशीरि॑व ॥४॥
नैनं प्राप्नो॑ति शपथो न कृत्या नाभिशोच॑नम् ।
नैनं विष्क॑न्धमश्नुते यस्त्वा बिभ॑र्त्याञ्जन ॥५॥
असन्मन्त्राद्दुष्वप्न्या॑द्दुष्कृताच्छम॑लादुत ।
दुर्हार्दश्चक्षु॑षो घोरात्तस्मा॑न्न: पाह्याञ्जन ॥६॥
इदं विद्वाना॑ञ्जन सत्यं व॑क्ष्यामि नानृ॑तम् ।
सनेयमश्वं गामहमात्मानं तव॑ पूरुष ॥७॥
त्रयो॑ दासा आञ्ज॑नस्य तक्मा बलास आदहि॑: ।
वर्षि॑ष्ठ: पर्व॑तानां त्रिककुन्नाम॑ ते पिता ॥८॥
यदाञ्ज॑नं त्रैककुदं जातं हिमव॑तस्परि॑ ।
यातूंश्च सर्वा॑ञ्जम्भयत्सर्वा॑श्च यातुधान्यद्ग: ॥९॥
यदि वासि॑ त्रैककुदं यदि॑ यामुनमुच्यसे॑ ।
उभे ते॑ भद्रे नाम्नी ताभ्यां॑ न: पाह्याञ्जन ॥१०॥
 
 
दशमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्याथर्वा ऋषि: | शङ्खमणि: कृशनो देवता: | प्रथमादिपञ्चर्चामनुष्टुप्  षष्ठ्या: पथ्यापङ्क्ति: सप्तम्याश्च पञ्चपदा परानुष्टुप् शक्वरी छन्दांसि॥ (www.hindumantavya.blogspot.in)


वाता॑ज्जातो अन्तरि॑क्षाद्विद्युतो ज्योति॑षस्परि॑ ।
स नो॑ हिरण्यजा: शङ्ख: कृश॑न: पात्वंह॑स: ॥१॥
यो अ॑ग्रतो रो॑चनानां॑ समुद्रादधि॑ जज्ञिषे ।
शङ्खेन॑ हत्वा रक्षां॑स्यत्त्रिणो वि ष॑हामहे ॥२॥
शङ्खेनामी॑वामम॑तिं शङ्खेनोत सदान्वा॑: ।
शङ्खो नो॑ विश्वभे॑षज: कृश॑न: पात्वंह॑स: ॥३॥
दिवि जात: स॑मुद्रज: सि॑न्धुतस्पर्याभृ॑त: ।
स नो॑ हिरण्यजा: शङ्ख आ॑युष्प्रतर॑णो मणि: ॥४॥
समुद्राज्जातो मणिर्वृत्राज्जातो दि॑वाकर: ।
सो अस्मान्त्सर्वत॑: पातु हेत्या दे॑वासुरेभ्य॑: ॥५॥
हिर॑ण्यानामेको॑ऽसि सोमात्त्वमधि॑ जज्ञिषे ।
रथे त्वम॑सि दर्शत इ॑षुधौ रो॑चनस्त्वं प्र ण आयूं॑षि तारिषत् ॥६॥
देवानामस्थि कृश॑नं बभूव तदा॑त्मन्वच्च॑रत्यप्स्व१न्त ।
तत्ते॑ बध्नाम्यायु॑षे वर्च॑से बला॑य दीर्घायुत्वाय॑ शतशा॑रदाय कार्शनस्त्वाभि र॑क्षतु ॥७॥
 
 
एकादशं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | इन्द्ररूपोऽनडुद्देवता: |   प्रथमाचतुर्थ्योरृचोर्जगती  द्वितीयाया भुरिक्त्रिष्टुप्  तृतीयापञ्चमीषष्ठीनां त्रिष्टुप्  सप्तम्यास्त्र्यवसाना षट्पदानुष्टुब्गर्भोपरिष्टाज्जागता निचृच्छक्वरी अष्टम्यादिपञ्चानाञ्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अनड्वान्दा॑धार पृथिवीमुत द्याम॑नड्वान्दा॑धारोर्व१न्तरि॑क्षम् ।
अनड्वान्दा॑धार प्रदिश: षडुर्वीर॑नड्वान्विश्वं भुव॑नमा वि॑वेश ॥१॥
अनड्वानिन्द्र: स पशुभ्यो वि च॑ष्टे त्रयां छक्रो वि मि॑मीते अध्व॑न: ।
भूतं भ॑विष्यद्भुव॑ना दुहा॑न: सर्वा॑ देवानां॑ चरति व्रतानि॑ ॥२॥
इन्द्रो॑ जातो म॑नुष्येद्गष्वन्तर्घर्मस्तप्तश्च॑रति शोशु॑चान: ।
सुप्रजा: सन्त्स उ॑दारे न स॑र्षद्यो नाश्नीयाद॑नडुहो॑ विजानन् ॥३॥
अनड्वान्दु॑हे सुकृतस्य॑ लोक ऐनं॑ प्याययति पव॑मान: पुरस्ता॑त् ।
पर्जन्यो धारा॑ मरुत ऊधो॑ अस्य यज्ञ: पयो दक्षि॑णा दोहो॑ अस्य ॥४॥
यस्य नेशे॑ यज्ञप॑तिर्न यज्ञो नास्य॑ दातेशे न प्र॑तिग्रहीता ।
यो वि॑श्वजिद्वि॑श्वभृद्विश्वक॑र्मा घर्मं नो॑ ब्रूत यतमश्चतु॑ष्पात् ॥५॥
येन॑ देवा: स्वद्गरारुरुहुर्हित्वा शरी॑रममृत॑स्य नाभि॑म् ।
तेन॑ गेष्म सुकृतस्य॑ लोकं घर्मस्य॑ व्रतेन तप॑सा यशस्यव॑: ॥६॥
इन्द्रो॑ रूपेणाग्निर्वहे॑न प्रजाप॑ति: परमेष्ठी विराट् ।
विश्वान॑रे अक्रमत वैश्वानरे अ॑क्रमतानदुह्य॑क्रमत ।
सोद्गऽदृंहयत सोद्गऽधारयत ॥७॥
मध्य॑मेतद॑नडुहो यत्रैष वह आहि॑त: ।
एताव॑दस्य प्राचीनं यावा॑न्प्रत्यङ् समाहि॑त: ॥८॥
यो वेदा॑नदुहो दोहा॑न्त्सप्तानु॑पदस्वत: ।
प्रजां च॑ लोकं चा॑प्नोति तथा॑ सप्तऋषयो॑ विदु: ॥९॥
पद्भि: सेदिम॑वक्रामन्निरां जङ्घा॑भिरुत्खिदन् ।
स्रमे॑णानड्वान्कीलालं॑ कीनाश॑श्चाभि ग॑च्छत: ॥१०॥
द्वाद॑श वा एता रात्रीर्व्रत्या॑ आहु: प्रजाप॑ते: ।
तत्रोप ब्रह्म यो वेद तद्वा अ॑नडुहो॑ व्रतम् ॥११॥
दुहे सायं दुहे प्रातर्दुहे मध्यंदि॑नं परि॑ ।
दोहा ये अ॑स्य संयन्ति तान्विद्मानु॑पदस्वत: ॥१२॥
 
 

द्वादशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य ऋभुरृषि: । वनस्पतिर्देवता: | प्रथमर्चस्त्रिपदा गायत्री  द्वितीयादिचतसृणामनुष्टुप् षष्ठ्यास्त्रिपदा यवमध्या भुरिग्गायत्री सप्तम्याश्च बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


रोह॑ण्यसि रोह॑ण्यस्थ्नश्छिन्नस्य रोह॑णी ।
रोहयेदम॑रुन्धति ॥१॥
यत्ते॑ रिष्टं यत्ते॑ द्युत्तमस्ति पेष्ट्रं॑ त आत्मनि॑ ।
धाता तद्भद्रया पुन: सं द॑धत्परु॑षा परु॑: ॥२॥
सं ते॑ मज्ज मज्ञा भ॑वतु समु॑ ते परु॑षा परु॑: ।
सं ते॑ मांसस्य विस्र॑स्तं समस्थ्यपि॑ रोहतु ॥३॥
मज्ज मज्ञा सं धी॑यतां चर्म॑णा चर्म॑ रोहतु ।
असृ॑क्ते अस्थि॑ रोहतु मांसं मांसेन॑ रोहतु ॥४॥
लोम लोम्ना सं क॑ल्पया त्वचा सं क॑ल्पया त्वच॑म् ।
असृ॑क्ते अस्थि॑ रोहतु च्छिन्नं सं धे॑ह्योषधे ॥५॥
स उत्ति॑ष्ठ प्रेहि प्र द्र॑व रथ॑: सुचक्र: सु॑पवि: सुनाभि॑: ।
प्रति॑ तिष्ठोर्ध्व: ॥६॥
यदि॑ कर्तं प॑तित्वा सं॑शश्रे यदि वाश्मा प्रहृ॑तो जघान॑ ।
ऋभू रथ॑स्येवाङ्गा॑नि सं द॑धत्परु॑षा परु॑: ॥७॥
 
 

त्रयोदशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य शन्तातिरृषि: । चन्द्रमा विश्वे देवा वा देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


उत दे॑वा अव॑हितं देवा उन्न॑यथा पुन॑: ।
उताग॑श्चक्रुषं॑ देवा देवा॑ जीवय॑था पुन॑: ॥१॥
द्वाविमौ वातौ॑ वात आ सिन्धोरा प॑रावत॑: ।
दक्षं॑ ते अन्य आवातु व्य१न्यो वा॑तु यद्रप॑: ॥२॥
आ वा॑त वाहि भेषजं वि वा॑त वाहि यद्रप॑: ।
त्वं हि वि॑श्वभेषज देवानां॑ दूत ईय॑से ॥३॥
त्राय॑न्तामिमं देवास्त्राय॑न्तां मरुतां॑ गणा: ।
त्राय॑न्तां विश्वा॑ भूतानि यथायम॑रपा अस॑त् ॥४॥
आ त्वा॑गमं शंता॑तिभिरथो॑ अरिष्टता॑तिभि: ।
दक्षं॑ त उग्रमाभा॑रिषं परा यक्ष्मं॑ सुवामि ते ॥५॥
अयं मे हस्तो भग॑वानयं मे भग॑वत्तर: ।
अयं मे॑ विश्वभे॑षजोऽयं शिवाभि॑मर्शन: ॥६॥
हस्ता॑भ्यां दश॑शाखाभ्यां जिह्वा वाच: पु॑रोगवी ।
अनामयित्नुभ्यां हस्ता॑भ्यां ताभ्यां॑ त्वाभि मृ॑शामसि ॥७॥
 
 
 
चतुर्दशं सूक्तम्» नवर्चस्यास्य सूक्तस्य भृगुरृषि: । आज्यमग्निश्च देवता: | प्रथमापञ्चमीषष्ठीनामृचां त्रिष्टुप्   द्वितीयाचतुर्थ्योरनुष्टुप्  तृतीयाया: प्रस्तारपङ्क्ति:   सप्तमीनवम्योर्जगती  अष्टम्याश्च पञ्चपदातिशक्वरी छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


अजो ह्य१ग्नेरज॑निष्ट शोकात्सो अ॑पश्यज्जनितारमग्रे॑ ।
तेन॑ देवा देवतामग्र॑ आयन्तेन रोहा॑न्रुरुहुर्मेध्या॑स: ॥१॥
क्रम॑ध्वमग्निना नाकमुख्यान्हस्ते॑षु बिभ्र॑त: ।
दिवस्पृष्ठं स्वद्गर्गत्वा मिश्रा देवेभि॑राध्वम् ॥२॥
पृष्ठात्पृ॑थिव्या अहमन्तरि॑क्षमारु॑हमन्तरि॑क्षाद्दिवमारु॑हम् ।
दिवो नाक॑स्य पृष्ठात्स्व१र्ज्योति॑रगामहम् ॥३॥
स्व१र्यन्तो नापे॑क्षन्त आ द्यां रो॑हन्ति रोद॑सी ।
यज्ञं ये विश्वतो॑धारं सुवि॑द्वांसो वितेनिरे ॥४॥
अग्ने प्रेहि॑ प्रथमो देवता॑नां चक्षु॑र्देवाना॑मुत मानु॑षानाम् ।
इय॑क्षमाणा भृगु॑भि: सजोषा: स्वद्गर्यन्तु यज॑माना: स्वस्ति ॥५॥
अजम॑नज्मि पय॑सा घृतेन॑ दिव्यं सु॑पर्नं प॑यसं बृहन्त॑म् ।
तेन॑ गेष्म सुकृतस्य॑ लोकं स्वद्गरारोह॑न्तो अभि नाक॑मुत्तमम् ॥६॥
पञ्चौ॑दनं पञ्चभि॑रङ्गुलि॑भिर्दर्व्योद्ध॑र पञ्चधैतमो॑दनम् ।
प्राच्यां॑ दिशि शिरो॑ अजस्य॑ धेहि दक्षि॑णायां दिशि दक्षि॑णं धेहि पार्श्वम् ॥७॥
प्रतीच्यां॑ दिशि भसद॑मस्य धेह्युत्त॑रस्यां दिश्युत्त॑रं धेहि पार्श्वम् ।
ऊर्ध्वायां॑ दिश्य१जस्यानू॑कं धेहि दिशि ध्रुवायां॑ धेहि पाजस्यद्गमन्तरि॑क्षे मध्यतो मध्य॑मस्य ॥८॥
शृतमजं शृतया प्रोर्णु॑हि त्वचा सर्वैरङ्गै: संभृ॑तं विश्वरू॑पम् ।
स उत्ति॑ष्ठेतो अभि नाक॑मुत्तमं पद्भिश्चतुर्भि: प्रति॑ तिष्ठ दिक्षु ॥९॥
 
 
 

पञ्चदशं सूक्तम्» षोडशर्चस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमर्च: सर्वा दिश:  द्वितीयातृतीययोर्वारुध:  चतुर्थ्या मारुतपर्जन्या:  पञ्चम्यादिपञ्चानां मरुत:  दशम्या अग्नि:  एकादश्या: स्तनयित्नुना सह प्रजापति:  द्वादश्या वरुण: त्रयोदश्यादितृचस्य मण्डूका: पितरश्च  षोडश्याश्च वातो देवता: |  प्रथमाद्वितीयापञ्चमीनां विराड्जगती तृतीयाषष्ठ्येकादशीषोडशीनां त्रिष्टुप्
चतुर्थ्या विराट् पुरस्ताद्बृहती  १सप्तम्यष्टमीत्रयोदशीचतुर्दशीनामनुष्टुप्  नवम्या: पथ्यापङ्क्ति:  दशम्या भुरिक्त्रिष्टुप् द्वादश्या: पञ्चपदानुष्टुब्गर्भा भुरिक्त्रिष्टुप्  पञ्चदश्याश्च शङ्कुमत्यनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


समुत्प॑तन्तु प्रदिशो नभ॑स्वती: समभ्राणि वात॑जूतानि यन्तु ।
महऋषभस्य नद॑तो नभ॑स्वतो वाश्रा आप॑: पृथिवीं त॑र्पयन्तु ॥१॥
समी॑क्षयन्तु तविषा: सुदान॑वोऽपां रसा ओष॑धीभि: सचन्ताम् ।
वर्षस्य सर्गा॑ महयन्तु भूमिं पृथ॑ग्जायन्तामोष॑धयो विश्वरू॑पा: ॥२॥
समी॑क्षयस्व गाय॑तो नभां॑स्यपां वेगा॑स: पृथगुद्वि॑जन्ताम् ।
वर्षस्य सर्गा॑ महयन्तु भूमिं पृथ॑ग्जायन्तां वीरुधो॑ विश्वरू॑पा: ॥३॥
गणास्त्वोप॑ गायन्तु मारु॑ता: पर्जन्य घोषिण: पृथ॑क् ।
सर्गा॑ वर्षस्य वर्ष॑तो वर्ष॑न्तु पृथिवीमनु॑ ॥४॥
उदी॑रयत मरुत: समुद्रतस्त्वेषो अर्को नभ उत्पा॑तयाथ ।
महऋषभस्य नद॑तो नभ॑स्वतो वाश्रा आप॑: पृथिवीं त॑र्पयन्तु ॥५॥
अभि क्र॑न्द स्तनयार्दयो॑दधिं भूमिं॑ पर्जन्य पय॑सा सम॑ङिग्ध ।
त्वया॑ सृष्टं ब॑हुलमैतु॑ वर्षमा॑शारैषी कृशगु॑रेत्वस्त॑म् ॥६॥
सं वो॑ऽवन्तु सुदान॑व उत्सा॑ अजगरा उत ।
मरुद्भि: प्रच्यु॑ता मेघा वर्ष॑न्तु पृथिवीमनु॑ ॥७॥
आशा॑माशां वि द्यो॑ततां वाता॑ वान्तु दिशोदि॑श: ।
मरुद्भि: प्रच्यु॑ता मेघा: सं य॑न्तु पृथिवीमनु॑ ॥८॥
आपो॑ विद्युदभ्रं वर्षं सं वो॑ऽवन्तु सुदान॑व उत्सा॑ अजगरा उत ।
मरुद्भि: प्रच्यु॑ता मेघा: प्राव॑न्तु पृथिवीमनु॑ ॥९॥
अपामग्निस्तनूभि॑: संविदानो य ओष॑धीनामधिपा बभूव॑ ।
स नो॑ वर्षं व॑नुतां जातवे॑दा: प्राणं प्रजाभ्यो॑ अमृतं॑ दिवस्परि॑ ॥१०॥
प्रजाप॑ति: सलिलादा स॑मुद्रादाप॑ ईरय॑न्नुदधिम॑र्दयाति ।
प्र प्या॑यतां वृष्णो अश्व॑स्य रेतोऽर्वाङेतेन॑ स्तनयित्नुनेहि॑ ॥११॥
अपो नि॑षिञ्चन्नसु॑र: पिता न: श्वस॑न्तु गर्ग॑रा अपां व॑रुणाव नीची॑रप: सृज ।
वद॑न्तु पृश्नि॑बाहवो मण्डूका इरिणानु॑ ॥१२॥
संवत्सरं श॑शयाना ब्रा॑ह्मणा व्र॑तचारिण॑: ।
वाचं॑ पर्जन्य॑जिन्वितां प्र मण्दूका॑ अवादिषु: ॥१३॥
उपप्रव॑द मण्डूकि वर्षमा व॑द तादुरि ।
मध्ये॑ ह्रदस्य॑ प्लवस्व विगृह्य॑ चतुर॑: पद: ॥१४॥
खण्वखा३इ खैमखा३इ मध्ये॑ तदुरि ।
वर्षं व॑नुध्वं पितरो मरुतां मन॑ इच्छत ॥१५॥
महान्तं कोशमुद॑चाभि षि॑ञ्च सविद्युतं भ॑वतु वातु वात॑: ।
तन्वतां॑ यज्ञं ब॑हुधा विसृ॑ष्टा आनन्दिनीरोष॑धयो भवन्तु ॥१६॥
 
 
 

षोडशं सूक्तम्» नवर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | वरुणो देवता: |  प्रथमर्चोऽनुष्टुप्  द्वितीयादितृचस्य षष्ठ्याश्च त्रिष्टुप्  पञ्चम्या भुरिकि0त्रिष्टुप्  सप्तम्या जगती  अष्टम्यास्त्रिपान्महाबृहती  नवम्याश्च त्रिपदा विराड्गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


बृहने॑षामधिष्ठाता अ॑न्तिकादि॑व पश्यति ।
य स्तायन्मन्य॑ते चरन्त्सर्वं॑ देवा इदं वि॑दु: ॥१॥
यस्तिष्ठ॑ति चर॑ति यश्च वञ्च॑ति यो निलायं चर॑ति य: प्रतङ्क॑म् ।
द्वौ सं॑निषद्य यन्मन्त्रये॑ते राजा तद्वे॑द वरु॑णस्तृतीय॑: ॥२॥
उतेयं भूमिर्वरु॑णस्य राज्ञ॑ उतासौ द्यौर्बृ॑हती दूरेअ॑न्ता ।
उतो स॑मुद्रौ वरु॑णस्य कुक्षी उतास्मिन्नल्प॑ उदके निली॑न: ॥३॥
उत यो द्याम॑तिसर्पा॑त्परस्तान्न स मु॑च्यातै वरु॑णस्य राज्ञ॑: ।
दिव स्पश: प्र च॑रन्तीदम॑स्य सहस्राक्षा अति॑ पश्यन्ति भूमि॑म् ॥४॥
सर्वं तद्राजा वरु॑णो वि च॑ष्टे यद॑न्तरा रोद॑सी यत्परस्ता॑त् ।
संख्या॑ता अस्य निमिषो जना॑नामक्षानि॑व श्वघ्नी नि मि॑नोति तानि॑ ॥५॥
ये ते पाशा॑ वरुण सप्तस॑प्त त्रेधा तिष्ठ॑न्ति विषि॑ता रुश॑न्त: ।
छिनन्तु सर्वे अनृ॑तं वद॑न्तं य: स॑त्यवाद्यति तं सृ॑जन्तु ॥६॥
शतेन पाशै॑रभि धे॑हि वरुणैनं मा ते॑ मोच्यनृतवाङ् नृ॑चक्ष: ।
आस्तां॑ जाल्म उदरं॑ श्रंशयित्वा कोश॑ इवाबन्ध: प॑रिकृत्यमा॑न: ॥७॥
य: स॑माम्यो३ वरु॑णो यो व्याम्यो३ य: सं॑देश्यो३ वरु॑णो यो वि॑देश्यद्ग: ।
यो दैवो वरु॑णो यश्च मानु॑ष: ॥८॥
तैस्त्वा सर्वै॑रभि ष्या॑मि पाशै॑रसावामुष्यायणामुष्या: पुत्र ।
तानु॑ ते सर्वा॑ननुसंदि॑शामि ॥९॥
 
 

सप्तदशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य शुक्र ऋषि: | अपामार्गवनस्पतिर्देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


ईशा॑णां त्वा भेषजानामुज्जे॑ष आ र॑भामहे ।
चक्रे सहस्र॑वीर्यं सर्व॑स्मा ओषधे त्वा ॥१॥
सत्यजितं॑ शपथयाव॑नीं सह॑मानां पुन:सराम् ।
सर्वा: समह्व्योष॑धीरितो न॑: पारयादिति॑ ॥२॥
या शशाप शप॑नेन याघं मूर॑मादधे ।
या रस॑स्य हर॑णाय जातमा॑रेभे तोकम॑त्तु सा ॥३॥
यां ते॑ चक्रुरामे पात्रे यां चक्रुर्नी॑ललोहिते ।
आमे मांसे कृत्यां यां चक्रुस्तया॑ कृत्याकृतो॑ जहि ॥४॥
दौष्व॑प्न्यं दौर्जी॑वित्यं रक्षो॑ अभ्वद्गमराय्यद्ग: ।
दुर्णाम्नी: सर्वा॑ दुर्वाचस्ता अस्मन्ना॑शयामसि ॥५॥
क्षुधामारं तृ॑ष्णामारमगोता॑मनपत्यता॑म् ।
अपा॑मार्ग त्वया॑ वयं सर्वं तदप॑ मृज्महे ॥६॥
तृष्णामारं क्षु॑धामारमथो॑ अक्षपराजयम् ।
अपा॑मार्ग त्वया॑ वयं सर्वं तदप॑ मृज्महे ॥७॥
अपामार्ग ओष॑धीनां सर्वा॑सामेक इद्वशी ।
तेन॑ ते मृज्म आस्थि॑तमथ त्वम॑गदश्च॑र ॥८॥
 
 

अष्टादशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य शुक्र ऋषि: | अपामार्गवनस्पतिर्देवता: |  प्रथमादिपञ्चानामृचां सप्तम्यष्टम्योश्चानुष्टुप्  षष्ठ्याश्च बृहतीगर्भानुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)

 
समं ज्योति: सूर्येणाह्ना रात्री॑ समाव॑ती ।
कृणोमि॑ सत्यमूतये॑ऽरसा: स॑न्तु कृत्व॑री: ॥१॥
यो दे॑वा: कृत्यां कृत्वा हरादवि॑दुषो गृहम् ।
वत्सो धारुरि॑व मातरं तं प्रत्यगुप॑ पद्यताम् ॥२॥
अमा कृत्वा पाप्मानं यस्तेनान्यं जिघां॑सति ।
अश्मा॑नस्तस्यां॑ दग्धायां॑ बहुला: फट्क॑रिक्रति ॥३॥
सह॑स्रधामन्विशि॑खान्विग्री॑वां छायया त्वम् ।
प्रति॑ स्म चक्रुषे॑ कृत्यां प्रियां प्रियाव॑ते हर ॥४॥
अनयाहमोष॑ध्या सर्वा॑: कृत्या अ॑दूदुषम् ।
यां क्षेत्रे॑ चक्रुर्यां गोषु यां वा॑ ते पुरु॑षेषु ॥५॥
यश्चकार न शशाक कर्तुं॑ शश्रे पाद॑मङ्गुरि॑म् ।
चकार॑ भद्रमस्मभ्य॑मात्मने तप॑नं तु स: ॥६॥
अपामार्गोऽप॑ मार्ष्टु क्षेत्रियं शपथ॑श्च य: ।
अपाह॑ यातुधानीरप सर्वा॑ अराय्यद्ग: ॥७॥
अपमृज्य॑ यातुधानानप सर्वा॑ अराय्यद्ग: ।
अपा॑मार्ग त्वया॑ वयं सर्वं तदप॑ मृज्महे ॥८॥
 
 
 
एकोनविंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य शुक्र ऋषि: | प्रथमर्चस्तृतीयादिषण्णाञ्चानुष्टुप्  द्वितीयायाश्च पथ्यापङ्क्तिश्छन्दसी॥ (www.hindumantavya.blogspot.in)
 


उतो अस्यब॑न्धुकृदुतो अ॑सि नु जा॑मिकृत् ।
उतो कृ॑त्याकृत॑: प्रजां नदमिवा छि॑न्धि वार्षि॑कम् ॥१॥
ब्राह्मणेन पर्यु॑क्तासि कण्वे॑न नार्षदेन॑ ।
सेने॑वैषि त्विषी॑मती न तत्र॑ भयमस्ति यत्र॑ प्राप्नोष्यो॑षधे ॥२॥
अग्र॑मेष्योष॑धीनां ज्योति॑षेवाभिदीपय॑न् ।
उत त्रातासि पाकस्याथो॑ हन्तासि॑ रक्षस॑: ॥३॥
यददो देवा असु॑रांस्त्वयाग्रे॑ निरकु॑र्वत ।
ततस्त्वमध्यो॑षधेऽपामार्गो अ॑जायथा: ॥४॥
विभिन्दती शतशा॑खा विभिन्दन्नाम॑ ते पिता ।
प्रत्यग्वि भि॑न्धि त्वं तं यो अस्मां अ॑भिदास॑ति ॥५॥
असद्भूम्या: सम॑भवत्तद्यामे॑ति महद्व्यच॑: ।
तद्वै ततो॑ विधूपाय॑त्प्रत्यक्कर्तार॑मृछतु ॥६॥
प्रत्यङ् हि सं॑बभूवि॑थ प्रतीचीन॑फलस्त्वम् ।
सर्वान्मच्छपथाँ अधि वरी॑यो यावया वधम् ॥७॥
शतेन॑ मा परि॑ पाहि सहस्रे॑णाभि र॑क्षा मा ।
इन्द्र॑स्ते वीरुधां पत उग्र ओज्मानमा द॑धत् ॥८॥
 
 

विंशं सूक्तम्» नवर्चस्यास्य सूक्तस्य मातृनामा ऋषि: | मातृनामौषधिर्देवता: | प्रथमर्च: स्वराडनुष्टुप्  द्वितीयादिसप्तानामनुष्टुप् नवम्याश्च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
आ प॑श्यति प्रति॑ पश्यति परा॑ पश्यति पश्य॑ति ।
दिव॑मन्तरि॑क्षमाद्भूमिं सर्वं तद्दे॑वि पश्यति ॥१॥
तिस्रो दिव॑स्तिस्र: पृ॑थिवी: षट् चेमा: प्रदिश: पृथ॑क् ।
त्वयाहं सर्वा॑ भूतानि पश्या॑नि देव्योषधे ॥२॥
दिव्यस्य॑ सुपर्णस्य तस्य॑ हासि कनीनि॑का ।
सा भूमिमा रु॑रोहिथ वह्यं श्रान्ता वधूरि॑व ॥३॥
तां मे॑ सहस्राक्षो देवो दक्षि॑णे हस्त आ द॑धत् ।
तयाहं सर्वं॑ पश्यामि यश्च॑ शूद्र उतार्य॑: ॥४॥
आविष्कृ॑णुष्व रूपाणि मात्मानमप॑ गूहथा: ।
अथो॑ सहस्रचक्षो त्वं प्रति॑ पश्या: किमीदिन॑: ॥५॥
दर्शय॑ मा यातुधाना॑न्दर्शय॑ यातुधान्यद्ग: ।
पिशाचान्त्सर्वा॑न्दर्शयेति त्वा र॑भ ओषधे ॥६॥
कश्यप॑स्य चक्षु॑रसि शुन्याश्च॑ चतुरक्ष्या: ।
वीध्रे सूर्य॑मिव सर्प॑न्तं मा पि॑शाचं तिरस्क॑र: ॥७॥
उद॑ग्रभं परिपाणा॑द्यातुधानं॑ किमीदिन॑म् ।
तेनाहं सर्वं॑ पश्याम्युत शूद्रमुतार्य॑म् ॥८॥
यो अन्तरि॑क्षेण पत॑ति दिवं यश्चा॑तिसर्प॑ति ।
भूमिं यो मन्य॑ते नाथं तं पि॑शाचं प्र द॑र्शय ॥९॥
 
 
एकविंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | गावो देवता: |  प्रथमर्च: पञ्चम्यादितृचस्य च त्रिष्टुप्  द्वितीयादितृचस्य च जगती छन्दसी॥ (www.hindumantavya.blogspot.in)

 

आ गावो॑ अग्मन्नुत भद्रम॑क्रन्त्सीद॑न्तु गोष्ठे रणय॑न्त्वस्मे ।
प्रजाव॑ती: पुरुरूपा॑ इह स्युरिन्द्रा॑य पूर्वीरुषसो दुहा॑ना: ॥१॥
इन्द्रो यज्व॑ने गृणते च शिक्ष॑त उपेद्द॑दाति न स्वं मु॑षायति ।
भूयो॑भूयो रयिमिद॑स्य वर्धय॑न्नभिन्ने खिल्ये नि द॑धाति देवयुम् ॥२॥
न ता न॑शन्ति न द॑भाति तस्क॑रो नासा॑मामित्रो व्यथिरा द॑धर्षति ।
देवांश्च याभिर्यज॑ते ददा॑ति च ज्योगित्ताभि॑: सचते गोप॑ति: सह ॥३॥
न ता अर्वा॑ रेणुक॑काटोऽश्नुते न सं॑स्कृतत्रमुप॑ यन्ति ता अभि ।
उरुगायमभ॑यं तस्य ता अनु गावो मर्त॑स्य वि च॑रन्ति यज्व॑न: ॥४॥
गावो भगो गाव इन्द्रो॑ म इच्छाद्गाव: सोम॑स्य प्रथमस्य॑ भक्ष: ।
इमा या गाव: स ज॑नास इन्द्र॑ इच्छामि॑ हृदा मन॑सा चिदिन्द्र॑म् ॥५॥
यूयं गा॑वो मेदयथ कृशं चि॑दश्रीरं चि॑त्कृणुथा सुप्रती॑कम् ।
भद्रं गृहं कृ॑णुथ भद्रवाचो बृहद्वो वय॑ उच्यते सभासु॑ ॥६॥
प्रजाव॑ती: सूयव॑से रुशन्ती॑: शुद्धा अप: सु॑प्रपाणे पिब॑न्ती: ।
मा व॑ स्तेन ई॑शत माघशं॑स: परि॑ वो रुद्रस्य॑ हेतिर्वृ॑णक्तु ॥७॥
 
 

द्वाविंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य वसिष्ठ अथर्वा वा ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


इममि॑न्द्र वर्धय क्षत्रियं॑ मे इमं विशामे॑कवृषं कृ॑णु त्वम् ।
निरमित्रा॑नक्ष्णुह्यस्य सर्वांस्तान्र॑न्धयास्मा अहमुत्तरेषु॑ ॥१॥
एमं भ॑ज ग्रामे अश्वे॑षु गोषु निष्टं भ॑ज यो अमित्रो॑ अस्य ।
वर्ष्म॑ क्षत्राणा॑मयम॑स्तु राजेन्द्र शत्रुं॑ रन्धय सर्व॑मस्मै ॥२॥
अयम॑स्तु धन॑पतिर्धना॑नामयं विशां विश्पति॑रस्तु राजा॑ ।
अस्मिन्नि॑न्द्र महि वर्चां॑सि धेह्यवर्चसं॑ कृणुहि शत्रु॑मस्य ॥३॥
अस्मै द्या॑वापृथिवी भूरि॑ वामं दु॑हाथां घर्मदुघे॑ इव धेनू ।
अयं राजा॑ प्रिय इन्द्र॑स्य भूयात्प्रियो गवामोष॑धीनां पशूनाम् ॥४॥
युनज्मि॑ त उत्तराव॑न्तमिन्द्रं येन जय॑न्ति न प॑राजय॑न्ते ।
यस्त्वा कर॑देकवृषं जना॑नामुत राज्ञा॑मुत्तमं मा॑नवाना॑म् ॥५॥
उत्त॑रस्त्वमध॑रे ते सपत्ना ये के च॑ राजन्प्रति॑शत्रवस्ते ।
एकवृष इन्द्र॑सखा जिगीवां छ॑त्रूयतामा भ॑रा भोज॑नानि ॥६॥
सिंहप्र॑तीको विशो॑ अद्धि सर्वा॑ व्याघ्रप्र॑तीकोऽव॑ बाधस्व शत्रू॑न् ।
एकवृष इन्द्र॑सखा जिगीवां छ॑त्रूयतामा खि॑दा भोज॑नानि ॥७॥
 
 
 
त्रयोविंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य मृगार ऋषि: | प्रचेता अग्निर्देवता: |  प्रथमाद्वितीयापञ्चमीसप्तमीनामृचां त्रिष्टुप्  तृतीयाया: पुरस्ताज्ज्योतिष्मती त्रिष्टुप्  चतुर्थ्या अनुष्टुप्  षष्ठ्याश्च प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


अग्नेर्म॑न्वे प्रथमस्य प्रचे॑तस: पाञ्च॑जन्यस्य बहुधा यमिन्धते॑ ।
विशो॑विश: प्रविशिवांस॑मीमहे स नो॑ मुञ्चन्त्वंह॑स: ॥१॥
यथा॑ हव्यं वह॑सि जातवेदो यथा॑ यज्ञं कल्पय॑सि प्रजानन् ।
एवा देवेभ्य॑: सुमतिं न आ व॑ह स नो॑ मुञ्चन्त्वंह॑स: ॥२॥
याम॑न्यमन्नुप॑युक्तं वहि॑ष्ठं कर्म॑ङ्कर्मन्नाभ॑गम् ।
अग्निमी॑डे रक्षोहणं॑ यज्ञवृधं॑ घृताहु॑तं स नो॑ मुञ्चन्त्वंह॑स: ॥३॥
सुजा॑तं जातवे॑दसमग्निं वै॑श्वानरं विभुम् ।
हव्यवाहं॑ हवामहे स नो॑ मुञ्चन्त्वंह॑स: ॥४॥
येन ऋष॑यो बलमद्यो॑तयन्युजा येनासु॑राणामयु॑वन्त माया: ।
येनाग्निना॑ पणीनिन्द्रो॑ जिगाय स नो॑ मुञ्चन्त्वंह॑स: ॥५॥
येन॑ देवा अमृत॑मन्ववि॑न्दन्येनौष॑धीर्मधु॑मतीरकृ॑ण्वन् ।
येन॑ देवा: स्व१राभ॑रन्त्स नो॑ मुञ्चन्त्वंह॑स: ॥६॥
यस्येदं प्रदिशि यद्विरोच॑ते यज्जातं ज॑नितव्यंद्ग च केव॑लम् ।
स्तौम्यग्निं ना॑थितो जो॑हवीमि स नो॑ मुञ्चन्त्वंह॑स: ॥७॥
 
 
 
चतुर्विंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य मृगार ऋषि: | इन्द्रो देवता: |  प्रथमर्च: शक्वरीगर्भा पुर:शक्वरी त्रिष्टुप्  द्वितीयादिषण्णा ञ्च त्रिष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)


इन्द्र॑स्य मन्महे शश्वदिद॑स्य मन्महे वृत्रघ्न स्तोमा उप॑ मेम आगु॑: ।
यो दाशुष॑: सुकृतो हवमेति स नो॑ मुञ्चन्त्वंह॑स: ॥१॥
य उग्रीणा॑मुग्रबा॑हुर्ययुर्यो दा॑नवानां बल॑मारुरोज॑ ।
येन॑ जिता: सिन्ध॑वो येन गाव: स नो॑ मुञ्चन्त्वंह॑स: ॥२॥
यश्च॑र्षणिप्रो वृ॑षभ: स्वर्विद्यस्मै ग्रावा॑ण: प्रवद॑न्ति नृम्णम् ।
यस्या॑ध्वर: सप्तहो॑ता मदि॑ष्ठ: स नो॑ मुञ्चन्त्वंह॑स: ॥३॥
यस्य॑ वशास॑ ऋषभास॑ उक्षणो यस्मै॑ मीयन्ते स्वर॑व: स्वर्विदे॑ ।
यस्मै॑ शुक्र: पव॑ते ब्रह्म॑शुम्भित: स नो॑ मुञ्चन्त्वंह॑स: ॥४॥
यस्य जुष्टिं॑ सोमिन॑: कामय॑न्ते यं हव॑न्त इषु॑मन्तं गवि॑ष्टौ ।
यस्मि॑न्नर्क: शि॑श्रिये यस्मिन्नोज: स नो॑ मुञ्चन्त्वंह॑स: ॥५॥
य: प्र॑थम: क॑र्मकृत्या॑य जज्ञे यस्य॑ वीर्यंद्गप्रथमस्यानु॑बुद्धम् ।
येनोद्य॑तो वज्रोऽभ्यायताहिं स नो॑ मुञ्चन्त्वंह॑स: ॥६॥
य: सं॑ग्रामान्नय॑ति सं युधे वशी य: पुष्टानि॑ संसृजति॑ दूयानि॑ ।
स्तौमीन्द्रं॑ नाथितो जो॑हवीमि स नो॑ मुञ्चन्त्वंह॑स: ॥७॥
 
 
 

पञ्चविंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य मृगार ऋषि: | वायुसवितारौ देवता: | प्रथमाद्वितीययोरृचोश्चतुर्थ्यादितृचस्य च त्रिष्टुप् तृतीयाया अतिशक्वरीगर्भा जगती  सप्तम्याश्च पथ्याबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


वायो: स॑वितुर्विदथा॑नि मन्महे यावा॑त्मन्वद्विशथो यौ च रक्ष॑थ: ।
यौ विश्व॑स्य परिभू ब॑भूवथुस्तौ नो॑ मुञ्चतमंह॑स: ॥१॥
ययो: संख्या॑ता वरि॑मा पार्थि॑वानि याभ्यां रजो॑ युपितमन्तरि॑क्षे ।
ययो॑: प्रायं नान्वा॑नशे कश्चन तौ नो॑ मुञ्चतमंह॑स: ॥२॥
तव॑ व्रते नि वि॑शन्ते जना॑सस्त्वय्युदि॑ते प्रेर॑ते चित्रभानो ।
युवं वा॑यो सविता च भुव॑नानि रक्षथस्तौ नो॑ मुञ्चतमंह॑स: ॥३॥
अपेतो वा॑यो सविता च॑ दुष्कृतमप रक्षां॑सि शिमि॑दां च सेधतम् ।
सं ह्यू३र्जया॑ सृजथ: सं बले॑न तौ नो॑ मुञ्चतमंह॑स: ॥४॥
रयिं मे पोषं॑ सवितोत वायुस्तनू दक्षमा सु॑वतां सुशेव॑म् ।
अयक्ष्मता॑तिं मह॑ इह ध॑त्तं तौ नो॑ मुञ्चतमंह॑स: ॥५॥
प्र सु॑मतिं स॑वितर्वाय ऊतये मह॑स्वन्तं मत्सरं मा॑दयाथ: ।
अर्वाग्वामस्य॑ प्रवतो नि य॑च्छतं तौ नो॑ मुञ्चतमंह॑स: ॥६॥
उप श्रेष्ठा॑ न आशिषो॑ देवयोर्धाम॑न्नस्थिरन् ।
स्तौमि॑ देवं स॑वितारं॑ च वायुं तौ नो॑ मुञ्चतमंह॑स: ॥७॥
 
 

षड्विंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य मृगार ऋषि: | द्यावापृथिव्यौ देवता: | प्रथमर्च: पुरोऽष्टिर्जगती  द्वितीयादिपञ्चानां त्रिष्टुप् सप्तम्याश्च शाक्वरगर्भातिमध्येज्योतिस्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


मन्वे वां॑ द्यावापृथिवी सुभोजसौ सचे॑तसौ ये अप्र॑थेथाममि॑ता योज॑नानि ।
प्रतिष्ठे ह्यभ॑वतं वसू॑नां ते नो॑ मुञ्चतमंह॑स: ॥१॥
प्रतिष्ठे ह्यभ॑वतं वसू॑नां प्रवृ॑द्धे देवी सुभगे उरूची ।
द्यावा॑पृथिवी भव॑तं मे स्योने ते नो॑ मुञ्चतमंह॑स: ॥२॥
असंतापे सुतप॑सौ हुवेऽहमुर्वी ग॑म्भीरे कविभि॑र्नमस्येद्ग ।
द्यावा॑पृथिवी भव॑तं मे स्योने ते नो॑ मुञ्चतमंह॑स: ॥३॥
ये अमृतं॑ बिभृथो ये हवींषि ये स्रोत्या बि॑भृथो ये म॑नुष्याद्गन् ।
द्यावा॑पृथिवी भव॑तं मे स्योने ते नो॑ मुञ्चतमंह॑स: ॥४॥
ये उस्रिया॑ बिभृथो ये वनस्पतीन्ययो॑र्वां विश्वा भुव॑नान्यन्त: ।
द्यावा॑पृथिवी भव॑तं मे स्योने ते नो॑ मुञ्चतमंह॑स: ॥५॥
ये कीलाले॑न तर्पय॑थो ये घृतेन याभ्या॑मृते न किं चन श॑क्नुवन्ति॑ ।
द्यावा॑पृथिवी भव॑तं मे स्योने ते नो॑ मुञ्चतमंह॑स: ॥६॥
यन्मेदम॑भिशोच॑ति येन॑येन वा कृतं पौरु॑षेयान्न दैवा॑त् ।
स्तौमि द्यावा॑पृथिवी ना॑थितो जो॑हवीमि ते नो॑ मुञ्चतमंह॑स: ॥७॥
 
 
 
सप्तविंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य मृगार ऋषि: | मरुतो देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


मरुतां॑ मन्वे अधि॑ मे ब्रुवन्तु प्रेमं वाजं वाज॑साते अवन्तु ।
आशूनि॑व सुयमा॑नह्व ऊतये ते नो॑ मुञ्चन्त्वंह॑स: ॥१॥
उत्समक्षि॑तं व्यच॑न्ति ये सदा य आ॑सिञ्चन्ति रसमोष॑धीषु ।
पुरो द॑धे मरुत: पृश्नि॑मातॄंस्ते नो॑ मुञ्चन्त्वंह॑स: ॥२॥
पयो॑ धेनूनां रसमोष॑धीनां जवमर्व॑तां कवयो य इन्व॑थ ।
शग्मा भ॑वन्तु मरुतो॑ न: स्योनास्ते नो॑ मुञ्चन्त्वंह॑स: ॥३॥
अप: स॑मुद्राद्दिवमुद्व॑हन्ति दिवस्पृ॑थिवीमभि ये सृजन्ति॑ ।
ये अद्भिरीशा॑ना मरुतश्चर॑न्ति ते नो॑ मुञ्चन्त्वंह॑स: ॥४॥
ये कीलाले॑न तर्पय॑न्ति ये घृतेन ये वा वयो मेद॑सा संसृजन्ति॑ ।
ये अद्भिरीशा॑ना मरुतो॑ वर्षय॑न्ति ते नो॑ मुञ्चन्त्वंह॑स: ॥५॥
यदीदिदं म॑रुतो मारु॑तेन यदि॑ देवा दैव्ये॑नेदृगार॑ ।
यूयमी॑शिध्वे वसवस्तस्य निष्कृ॑तेस्ते नो॑ मुञ्चन्त्वंह॑स: ॥६॥
तिग्ममनी॑कं विदितं सह॑स्वन्मारु॑तं शर्ध: पृत॑नासूग्रम् ।
स्तौमि॑ मरुतो॑ नाथितो जो॑हवीमि ते नो॑ मुञ्चन्त्वंह॑स: ॥७॥
 

अष्टाविंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य मृगारोऽथर्वा वा ऋषि: | भवाशर्वौ रुद्रो वा देवता: |  प्रथमर्चो द्व्यतिजागतगर्भा भुरिक्त्रिष्टुप्  द्वितीयादिषण्णाञ्च त्रिष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)


भवा॑शर्वौ मन्वे वां तस्य॑ वित्तं ययो॑र्वामिदं प्रदिशि यद्विरोच॑ते ।
यावस्येशा॑थे द्विपदो यौ चतु॑ष्पदस्तौ नो॑ मुञ्चतमंह॑स: ॥१॥
ययो॑रभ्यभ्व उत यद्दूरे चिद्यौ वि॑दितावि॑षुभृतामसि॑ष्ठौ ।
यावस्येशा॑थे द्विपदो यौ चतु॑ष्पदस्तौ नो॑ मुञ्चतमंह॑स: ॥२॥
सहस्राक्षौ वृ॑त्रहना॑ हुवेहं दूरेग॑व्यूती स्तुवन्ने॑म्युग्रौ ।
यावस्येश॑थे द्विपदो यौ चतु॑ष्पदस्तौ नो॑ मुञ्चतमंह॑स: ॥३॥
यावा॑रेभाथे॑ बहु साकमग्रे प्र चेदस्रा॑ष्ट्रमभिभां जने॑षु ।
यावस्येशा॑थे द्विपदो यौ चतु॑ष्पदस्तौ नो॑ मुञ्चतमंह॑स: ॥४॥
ययो॑र्वधान्नापपद्य॑ते कश्चनान्तर्देवेषूत मानु॑षेषु ।
यावस्येशा॑थे द्विपदो यौ चतु॑ष्पदस्तौ नो॑ मुञ्चतमंह॑स: ॥५॥
य: कृ॑त्याकृन्मू॑लकृद्या॑तुधानो नि तस्मि॑न्धत्तं वज्र॑मुग्रौ ।
यावस्येशा॑थे द्विपदो यौ चतु॑ष्पदस्तौ नो॑ मुञ्चतमंह॑स: ॥६॥
अधि॑ नो ब्रूतं पृत॑नासूग्रौ सं वज्रे॑ण सृजतं य: कि॑मीदी ।
स्तौमि॑ भवाशर्वौ ना॑थितो जो॑हवीमि तौ नो॑ मुञ्चतमंह॑स: ॥७॥
 
 
 
एकोनत्रिंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य मृगार ऋषि: | मित्रावरुणौ देवता: |  प्रथमादिषण्णामृचां त्रिष्टुप्  सप्तम्याश्च शक्वरीगर्भातिजगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


मन्वे वां॑ मित्रावरुणावृतावृधौ सचे॑तसौ द्रुह्व॑णो यौ नुदेथे॑ ।
प्र सत्यावा॑नमव॑थो भरे॑षु तौ नो॑ मुञ्चतमंह॑स: ॥१॥
सचे॑तसौ द्रुह्व॑णो यौ नुदेथे प्र सत्यावा॑नमव॑थो भरे॑षु ।
यौ गच्छ॑थो नृचक्ष॑सौ बभ्रुणा॑ सुतं तौ नो॑ मुञ्चतमंह॑स: ॥२॥
यावङ्गि॑रसमव॑थो यावगस्तिं मित्रा॑वरुणा जमद॑ग्निमत्रि॑म् ।
यौ कश्यपमव॑थो यौ वसि॑ष्ठं तौ नो॑ मुञ्चतमंह॑स: ॥३॥
यौ श्यावाश्वमव॑थो वाध्र्यश्वं मित्रा॑वरुणा पुरुमीढमत्रि॑म् ।
यौ वि॑मदमव॑थो सप्तव॑ध्रिं तौ नो॑ मुञ्चतमंह॑स: ॥४॥
यौ भरद्वा॑जमव॑थो यौ गविष्ठि॑रं विश्वामि॑त्रं वरुण मित्र कुत्स॑म् ।
यौ कक्षीव॑न्तमव॑थ: प्रोत कण्वं तौ नो॑ मुञ्चतमंह॑स: ॥५॥
यौ मेधा॑तिथिमव॑थो यौ त्रिशोकं मित्रा॑वरुणावुशनां॑ काव्यं यौ ।
यौ गोत॑ममव॑थ: प्रोत मुग्द॑लं तौ नो॑ मुञ्चतमंह॑स: ॥६॥
ययो रथ॑: सत्यव॑र्त्मर्जुर॑श्मिर्मिथुया चर॑न्तमभियाति॑ दूषय॑न् ।
स्तौमि॑ मित्रावरु॑णौ नाथितो जो॑हवीमि तौ नो॑ मुञ्चतमंह॑स: ॥७॥
 
 
 
त्रिंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्याथर्वा ऋषि: | सर्वरूपा सर्वात्मिका सर्वदेवमयो वाक् देवता: |  प्रथमादिपञ्चर्चां सप्तम्यष्टम्योश्च त्रिष्टुप्  षष्ठ्याश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


अहं रुद्रेभिर्वसु॑भिश्चराम्यहमा॑दित्यैरुत विश्वदे॑वै: ।
अहं मित्रावरु॑णोभा बि॑भर्म्यहमि॑न्द्राग्नी अहमश्विनोभा ॥१॥
अहं राष्ट्री॑ संगम॑नी वसू॑नां चिकितुषी॑ प्रथमा यज्ञिया॑नाम् ।
तां मा॑ देवा व्य॑दधु: पुरुत्रा भूरि॑स्थात्रां भूर्या॑वेशय॑न्त: ॥२॥
अहमेव स्वयमिदं व॑दामि जुष्टं॑ देवाना॑मुत मानु॑षाणाम् ।
यं कामये तंत॑मुग्रं कृ॑णोमि तं ब्रह्माणं तमृषिं तं सु॑मेधाम् ॥३॥
मया सोऽन्न॑मत्ति यो विपश्य॑ति य: प्राणति य ईं॑ शृणोत्युक्तम् ।
अमन्तवो मां त उप॑ क्षियन्ति श्रुधि श्रु॑त श्रद्धेयं॑ ते वदामि ॥४॥
अहं रुद्राय धनुरा त॑नोमि ब्रह्मद्विषे शर॑वे हन्तवा उ॑ ।
अहं जना॑य समदं॑ कृणोम्यहं द्यावा॑पृथिवी आ वि॑वेश ॥५॥
अहं सोम॑माहनसं॑ बिभर्म्यहं त्वष्टा॑रमुत पूषणं भग॑म् ।
अहं द॑धामि द्रवि॑णा हविष्म॑ते सुप्राव्या३ यज॑मानाय सुन्वते ॥६॥
अहं सु॑वे पितर॑मस्य मूर्धन्मम योनि॑रप्स्वन्त: स॑मुद्रे ।
ततो वि ति॑ष्ठे भुव॑नानि विश्वोतामूं द्यां वर्ष्मणोप॑ स्पृशामि ॥७॥
अहमेव वात॑ इव प्र वा॑म्यारभ॑माणा भुव॑नानि विश्वा॑ ।
परो दिवा पर एना पृ॑थिव्यैताव॑ती महिम्ना सं ब॑भूव ॥८॥
 
 
 
एकत्रिंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य ब्रह्मास्कन्द ऋषि: | मन्युर्देवता: | प्रथमातृतीययोरृचोस्त्रिष्टुप्   द्वितीयाचतुर्थ्योर्भुरिक्त्रिष्टुप् पञ्चम्यादितृचस्य च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


त्वया॑ मन्यो सरथ॑मारुजन्तो हर्ष॑माणा हृषितासो॑ मरुत्वन् ।
तिग्मेष॑व आयु॑धा संशिशा॑ना उप प्र य॑न्तु नरो॑ अग्निरू॑पा: ॥१॥
अग्निरि॑व मन्यो त्विषित: स॑हस्व सेनानीर्न॑: सहुरे हूत ए॑धि ।
हत्वाय शत्रून्वि भ॑जस्व वेद ओजो मिमा॑नो वि मृधो॑ नुदस्व ॥२॥
सह॑स्व मन्यो अभिमा॑तिमस्मै रुजन्मृणन्प्र॑मृणन्प्रेहि शत्रू॑न् ।
उग्रं ते पाजो॑ नन्वा रु॑रुध्रे वशी वशं॑ नयासा एकज त्वम् ॥३॥
एको॑ बहूनाम॑सि मन्यो ईडिता विशं॑विशं युद्धाय सं शि॑शाधि ।
अकृ॑त्तरुक्त्वया॑ युजा वयं द्युमन्तं घोषं॑ विजयाय॑ कृण्मसि ॥४॥
विजेषकृदिन्द्र॑ इवानवब्रवो३ऽस्माकं॑ मन्यो अधिपा भ॑वेह ।
प्रियं ते नाम॑ सहुरे गृणीमसि विद्मा तमुत्सं यत॑ आबभूथ॑ ॥५॥
आभू॑त्या सहजा व॑ज्र सायक सहो॑ बिभर्षि सहभूत उत्त॑रम् ।
क्रत्वा॑ नो मन्यो सह मेद्येद्गधि महाधनस्य॑ पुरुहूत संसृजि॑ ॥६॥
संसृ॑ष्टं धन॑मुभयं॑ समाकृ॑तमस्मभ्यं॑ धत्तां वरु॑णश्च मन्यु: ।
भियो दधा॑ना हृद॑येषु शत्र॑व: परा॑जितासो अप नि ल॑यन्ताम् ॥७॥
 
 
 
द्वात्रिंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य ब्रह्मास्कन्द ऋषि: | मन्युर्देवता: |  प्रथमर्चो जगती  द्वितीयादिषण्णाञ्च त्रिष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)
 


यस्ते॑ मन्योऽवि॑धद्वज्र सायक सह ओज: पुष्य॑ति विश्व॑मानुषक् ।
साह्याम दासमार्यं त्वया॑ युजा वयं सह॑स्कृतेन सह॑सा सह॑स्वता ॥१॥
मन्युरिन्द्रो॑ मन्युरेवास॑ देवो मन्युर्होता वरु॑णो जातवे॑दा: ।
मन्युर्विश॑ ईडते मानु॑षीर्या: पाहि नो॑ मन्यो तप॑स सजोषा॑: ॥२॥
अभीद्गहि मन्यो तवसस्तवी॑यान्तप॑सा युजा वि ज॑हि शत्रू॑न् ।
अमित्रहा वृ॑त्रहा द॑स्युहा च विश्वा वसून्या भ॑रा त्वं न॑: ॥३॥
त्वं हि म॑न्यो अभिभू॑त्योजा: स्वयंभूर्भामो॑ अभिमातिषाह: ।
विश्वच॑र्षणि: सहु॑रि: सही॑यानस्मास्वोज: पृत॑नासु धेहि ॥४॥
अभाग: सन्नप परे॑तो अस्मि तव क्रत्वा॑ तविषस्य॑ प्रचेत: ।
तं त्वा॑ मन्यो अक्रतुर्जि॑हीडाहं स्वा तनूर्ब॑लदावा॑ न एहि॑ ॥५॥
अयं ते॑ अस्म्युप॑ न एह्यर्वाङ् प्र॑तीचीन: स॑हुरे विश्वदावन् ।
मन्यो॑ वज्रिन्नभि न आ व॑वृत्स्व हना॑व दस्यूं॑रुत बो॑ध्यापे: ॥६॥
अभि प्रेहि॑ दक्षिणतो भ॑वा नोऽधा॑ वृत्राणि॑ जङ्घनाव भूरि॑ ।
जुहोमि॑ ते धरुणं मध्वो अग्र॑मुभावु॑पांशु प्र॑थमा पि॑बाव ॥७॥
 
 
 
त्रयस्त्रिंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | अग्निर्देवता: | गायत्री छन्द:॥ (www.hindumantavya.blogspot.in)


अप॑ न: शोशु॑चदघमग्ने॑ शुशुग्ध्या रयिम् ।
अप॑ न: शोशु॑चदघम् ॥१॥
सुक्षेत्रिया सु॑गातुया व॑सूया च॑ यजामहे ।
अप॑ न: शोशु॑चदघम् ॥२॥
प्र यद्भन्दि॑ष्ठ एषां प्रास्माका॑सश्च सूरय॑: ।
अप॑ न: शोशु॑चदघम् ॥३॥
प्र यत्ते॑ अग्ने सूरयो जाये॑महि प्र ते॑ वयम् ।
अप॑ न: शोशुचदघम् ॥४॥
प्र यदग्ने: सह॑स्वतो विश्वतो यन्ति॑ भानव॑: ।
अप॑ न: शोशु॑चदघम् ॥५॥
त्वं हि वि॑श्वतोमुख विश्वत॑: परिभूरसि॑ ।
अप॑ न: शोशुचदघम् ॥६॥
द्विषो॑ नो विश्वतोमुखाति॑ नावेव॑ पारय ।
अप॑ न: शोशु॑चदघम् ॥७॥
स न: सिन्धु॑मिव नावाति॑ पर्षा स्वस्तये॑ ।
अप॑ न: शोशु॑चदघम् ॥८॥
 
 

चतुस्त्रिंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्याथर्वा ऋषि: | ब्रह्मौदनं देवता: |  प्रथमादितृचस्य त्रिष्टुप्  चतुर्थ्या भुरिक्त्रिष्टुप्  पञ्चम्या: सप्तपदा कृति: षष्ठ्या: पञ्चपदातिशक्वरी  सप्तम्या: पञ्चपदा भुरिक्शक्वरी अष्टम्याश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


ब्रह्मा॑स्य शीर्षं बृहद॑स्य पृष्ठं वा॑मदेव्यमुदर॑मोदनस्य॑ ।
छन्दां॑सि पक्षौ मुख॑मस्य सत्यं वि॑ष्टारी जातस्तपसोऽधि॑ यज्ञ: ॥१॥
अनस्था: पूता: पव॑नेन शुद्धा: शुच॑य: शुचिमपि॑ यन्ति लोकम् ।
नैषां॑ शिश्नं प्र द॑हति जातवे॑दा: स्वर्गे लोके बहु स्त्रैण॑मेषाम् ॥२॥
विष्टारिण॑मोदनं ये पच॑न्ति नैनानव॑र्ति: सचते कदा चन ।
आस्ते॑ यम उप॑ याति देवान्त्सं ग॑न्धर्वैर्म॑दते सोम्येभि॑: ॥३॥
विष्टारिण॑मोदनं ये पच॑न्ति नैना॑न्यम: परि॑ मुष्णाति रेत॑: ।
रथी ह॑ भूत्वा र॑थयान॑ ईयते पक्षी ह॑ भूत्वाति दिव: समे॑ति ॥४॥
एष यज्ञानां वित॑तो वहि॑ष्ठो विष्टारिणं॑ पक्त्वा दिवमा वि॑वेश ।
आण्डीकं कुमु॑दं सं त॑नोति बिसं॑ शालूकं शफ॑को मुलाली ।
एतास्त्वा धारा उप॑ यन्तु सर्वा॑: स्वर्गे लोके मधु॑मत्पिन्व॑माना उप॑ त्वा तिष्ठन्तु पुष्करिणी: सम॑न्ता: ॥५॥
घृतह्र॑दा मधु॑कूला: सुरो॑दका: क्षीरेण॑ पूर्णा उ॑दकेन॑ दध्ना ।
एतास्त्वा धारा उप॑ यन्तु सर्वा॑: स्वर्गे लोके मधु॑मत्पिन्व॑माना उप॑ त्वा तिष्ठन्तु पुष्करिणी: सम॑न्ता: ॥६॥
चतुर॑: कुम्भांश्च॑तुर्धा द॑दामि क्षीरेण॑ पूर्नाँ उ॑दकेन॑ दध्ना ।
एतास्त्वा धारा उप॑ यन्तु सर्वा॑: स्वर्गे लोके मधु॑मत्पिन्व॑माना उप॑ त्वा तिष्ठन्तु पुष्करिणी: सम॑न्ता: ॥७॥
इममो॑दनं नि द॑धे ब्राह्मणेषु॑ विष्टारिणं॑ लोकजितं॑ स्वर्गम् ।
स मे मा क्षे॑ष्ट स्वधया पिन्व॑मानो विश्वरू॑पा धेनु: का॑मदुघा॑ मे अस्तु ॥८॥
 
 

पञ्चत्रिंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य प्रजापतिरृषि: । अतिमृत्युर्देवता: |  प्रथमाद्वितीययोरृचो: पञ्चम्यादितृचस्य च त्रिष्टुप् तृतीयाया भुरिक्त्रिष्टुप् चतुर्थ्याश्च जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


यमो॑दनं प्र॑थमजा ऋतस्य॑ प्रजाप॑तिस्तप॑सा ब्रह्मणेऽप॑चत् ।
यो लोकानां विधृ॑तिर्नाभिरेषात्तेनौ॑दनेनाति॑ तराणि मृत्युम् ॥१॥
येनात॑रन्भूतकृतोऽति॑ मृत्युं यमन्ववि॑न्दन्तप॑सा श्रमे॑ण ।
यं पपाच॑ ब्रह्मणे ब्रह्म पूर्वं तेनौ॑दनेनाति॑ तराणि मृत्युम् ॥२॥
यो दाधार॑ पृथिवीं विश्वभो॑जसं यो अन्तरि॑क्षमापृ॑णाद्रसे॑न ।
यो अस्त॑भ्नाद्दिव॑मूर्ध्वो म॑हिम्ना तेनौ॑दनेनाति॑ तराणि मृत्युम् ॥३॥
यस्मान्मासा निर्मि॑तास्त्रिंशद॑रा: संवत्सरो यस्मान्निर्मि॑तो द्वाद॑शार: ।
अहोरात्रा यं प॑रियन्तो नापुस्तेनौ॑दनेनाति॑ तराणि मृत्युम् ॥४॥
य: प्रा॑णद: प्रा॑णदवा॑न्बभूव यस्मै॑ लोका घृतव॑न्त: क्षर॑न्ति ।
ज्योति॑ष्मती: प्रदिशो यस्य सर्वास्तेनौ॑दनेनाति॑ तराणि मृत्युम् ॥५॥
यस्मा॑त्पक्वादमृतं॑ संबभूव यो गा॑यत्र्या अधि॑पतिर्बभूव॑ ।
यस्मिन्वेदा निहि॑ता विश्वरू॑पास्तेनौ॑दनेनाति॑ तराणि मृत्युम् ॥६॥
अव॑ बाधे द्विषन्तं॑ देवपीयुं सपत्ना ये मेऽप ते भ॑वन्तु ।
ब्रह्मौदनं वि॑श्वजितं॑ पचामि शृण्वन्तु॑ मे श्रद्दधा॑नस्य देवा: ॥७॥
 
 
षट्त्रिंशं सूक्तम्» दशर्चस्यास्य सूक्तस्य चातन ऋषि: | सत्यौजा अग्निर्देवता: | प्रथमाद्यष्टानां दशम्याश्चानुष्टुप्  नवम्याश्च भुरिगनुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)


तान्त्सत्यौजा: प्र द॑हत्वग्निर्वै॑श्वानरो वृषा॑ ।
यो नो॑ दुरस्याद्दिप्साच्चाथो यो नो॑ अरातियात् ॥१॥
यो नो दिप्साददि॑प्सतो दिप्स॑तो यश्च दिप्स॑ति ।
वैश्वानरस्य दंष्ट्र॑योरग्नेरपि॑ दधामि तम् ॥२॥
य आ॑गरे मृगय॑न्ते प्रतिक्रोशेद्गऽमावास्येद्ग ।
क्रव्यादो॑ अन्यान्दिप्स॑त: सर्वांस्तान्त्सह॑सा सहे ॥३॥
सहे॑ पिशाचान्त्सह॑सैषां द्रवि॑णं ददे ।
सर्वा॑न्दुरस्यतो ह॑न्मि सं म आकू॑तिरृद्यताम् ॥४॥
ये देवास्तेन हास॑न्ते सूर्ये॑ण मिमते जवम् ।
नदीषु पर्व॑तेषु ये सं तै: पशुभि॑र्विदे ॥५॥
तप॑नो अस्मि पिशाचानां॑ व्याघ्रो गोम॑तामिव ।
श्वान॑: सिंहमि॑व दृष्ट्वा ते न वि॑न्दन्ते न्यञ्च॑नम् ॥६॥
न पि॑शाचै: सं श॑क्नोमि न स्तेनैर्न व॑नर्गुभि॑: ।
पिशाचास्तस्मा॑न्नश्यन्ति यमहं ग्राम॑माविशे ॥७॥
यं ग्राम॑माविशत॑ इदमुग्रं सहो मम॑ ।
पिशाचास्तस्मा॑न्नश्यन्ति न पापमुप॑ जानते ॥८॥
ये मा॑ क्रोधय॑न्ति लपिता हस्तिनं॑ मशका॑ इव ।
तानहं म॑न्ये दुर्हि॑ताञ्जने अल्प॑शयूनिव ॥९॥
अभि तं निरृ॑तिर्धत्तामश्व॑मिवाश्वाभिधान्या॑ ।
मल्वो यो मह्यं क्रुध्य॑ति स उ पाशान्न मु॑च्यते ॥१०॥
 
 
सप्तत्रिंशं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्य बादरायणिरृषि: ।  प्रथमाद्वितीयाषष्ठीनामृचामजशृङ्ग्योषधि:  तृतीयादितृचस्याप्सरस: सप्तम्यादिषण्णाश्च गन्धर्वाप्सरयोषधयो देवता: |  प्रथमाद्वितीयाचतुर्थीषष्ठीनामष्टम्यादितृचस्य चानुष्टुप्  तृतीयायास्त्र्यवसाना षट्पदा त्रिष्टुप्  पञ्चम्या: प्रस्तारपङ्क्ति:  सप्तम्या: परोष्णिक् एकादश्या: षट्पदा जगती  द्वादश्याश्च निचृदनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


त्वया पूर्वमथ॑र्वाणो जघ्नू रक्षां॑स्योषधे ।
त्वया॑ जघान कश्यपस्त्वया कण्वो॑ अगस्त्य॑: ॥१॥
त्वया॑ वयम॑प्सरसो॑ गन्धर्वांश्चा॑तयामहे ।
अज॑शृङ्ग्यज रक्ष: सर्वा॑न्गन्धेन॑ नाशय ॥२॥
नदीं य॑न्त्वप्सरसोऽपां तारम॑वश्वसम् ।
गुल्गुलू: पीला॑ नलद्यौ३क्षग॑न्धि: प्रमन्दनी ।
तत्परे॑ताप्सरस: प्रति॑बुद्धा अभूतन ॥३॥
यत्रा॑श्वत्था न्यग्रोधा॑ महावृक्षा: शि॑खण्डिन॑: ।
तत्परे॑ताप्सरस: प्रति॑बुद्धा अभूतन ॥४॥
यत्र॑ व: प्रेङ्खा हरि॑ता अर्जु॑ना उत यत्रा॑घाता: क॑र्कर्यद्ग: संवद॑न्ति ।
तत्परे॑ताप्सरस: प्रति॑बुद्धा अभूतन ॥५॥
एयम॑गन्नोष॑धीनां वीरुधां वीर्याद्गवती ।
अजशृङ्ग्यद्गराटकी ती॑क्ष्णशृङ्गी व्यृद्गषतु ॥६॥
आनृत्य॑त: शिखण्डिनो॑ गन्धर्वस्या॑प्सरापते: ।
भिनद्मि॑ मुष्कावपि॑ यामि शेप॑: ॥७॥
भीमा इन्द्र॑स्य हेतय॑: शतमृष्टीर॑यस्मयी॑: ।
ताभि॑र्हविरदान्ग॑न्धर्वान॑वकादान्व्यृद्गषतु ॥८॥
भीमा इन्द्र॑स्य हेतय॑: शतमृष्टीर्हि॑रण्ययी॑: ।
ताभि॑र्हविरदान्ग॑न्धर्वान॑वकादान्व्यृद्गषतु ॥९॥
अवकादान॑भिशोचानप्सु ज्यो॑तय मामकान् ।
पिशाचान्त्सर्वा॑नोषधे प्र मृ॑णीहि सह॑स्व च ॥१०॥
श्वेवैक॑: कपिरिवैक॑: कुमार: स॑र्वकेशक: ।
प्रियो दृश इ॑व भूत्वा ग॑न्धर्व: स॑चते स्त्रियस्तमितो ना॑शयामसि ब्रह्म॑णा वीर्याद्गवता ॥११॥
जाया इद्वो॑ अप्सरसो गन्ध॑र्वा: पत॑यो यूयम् ।
अप॑ धावतामर्त्या मर्त्यान्मा स॑चध्वम् ॥१२॥
 
 

अष्टात्रिंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य बादरायणिरृषि: ।  प्रथमादिचतुरृचामप्सरा:  पञ्चम्यादितृचस्य च वाजिनीवानृषभो देवता: | प्रथमाद्वितीयाचतुर्थीनामनुष्टुप्  तृतीयायास्त्र्यवसाना षट्पदा जगती पञ्चम्या भुरिगत्यष्टि:  षष्ठ्यास्त्रिष्टुप्  सप्तम्याश्च त्र्यवसानापञ्चपदानुष्टुब्गर्भा पुर उपरिष्टाज्ज्योतिष्मती जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


उद्भिन्दतीं संजय॑न्तीमप्सरां सा॑धुदेविनी॑म् ।
ग्लहे॑ कृतानि॑ कृण्वानाम॑प्सरां तामिह हु॑वे ॥१॥
विचिन्वतीमा॑किरन्ती॑मप्सरां सा॑धुदेविनी॑म् ।
ग्लहे॑ कृतानि॑ गृह्णानाम॑प्सरां तामिह हु॑वे ॥२॥
यायै॑: परिनृत्य॑त्याददा॑ना कृतं ग्लहा॑त् ।
सा न॑: कृतानि॑ सीषती प्रहामा॑प्नोतु मायया॑ ।
सा न: पय॑स्वत्यैतु मा नो॑ जैषुरिदं धन॑म् ॥३॥
या अक्षेषु॑ प्रमोद॑न्ते शुचं क्रोधं॑ च बिभ्र॑ती ।
आनन्दिनीं॑ प्रमोदिनी॑मप्सरां तामिह हु॑वे ॥४॥
सूर्य॑स्य रश्मीननु या: संचर॑न्ति मरी॑चीर्वा या अ॑नुसंचर॑न्ति ।
यासा॑मृषभो दू॑रतो वाजिनी॑वान्त्सद्य: सर्वा॑ल्लोकान्पर्येति रक्ष॑न् ।
स न ऐतु होम॑मिमं जु॑षाणो३ऽन्तरि॑क्षेण सह वाजिनी॑वान् ॥५॥
अन्तरि॑क्षेण सह वा॑जिनीवन्कर्की वत्सामिह र॑क्ष वाजिन् ।
इमे ते॑ स्तोका ब॑हुला एह्यर्वाङियं ते॑ कर्कीह ते मनो॑ऽस्तु ॥६॥
अन्तरि॑क्षेण सह वा॑जिनीवन्कर्कीं वत्सामिह र॑क्ष वाजिन् ।
अयं घासो अयं व्रज इह वत्सां नि ब॑ध्नीम: ।
यथानाम व॑ ईश्महे स्वाहा॑ ॥७॥
 
 
 
एकोनचत्वारिंशं सूक्तम्» दशर्चस्यास्य सूक्तस्याङ्गिरा ऋषि: |  प्रथमाद्वितीययो: पृथिव्यग्नी  तृतीयाचतुर्थ्योर्वाय्वन्तरिक्षे  पञ्चमीषष्ठयोर्दिवादित्यौ सप्तम्यष्टम्योर्दिक्चन्द्रमस:  नवमीदशम्योश्च जातवेदा अग्निर्देवता: |  प्रथमातृतीयापञ्चमीसप्तमीनां त्रिपदा महाबृहती द्वितीयाचतुर्थीषष्ठ्यष्टमीनां संस्तारपङ्क्ति: नवमीदशम्योश्च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


पृथिव्यामग्नये सम॑नमन्त्स आ॑र्ध्नोत् ।
यथा॑ पृथिव्यामग्नये॑ समन॑मन्नेवा मह्यं॑ संनम: सं न॑मन्तु ॥१॥
पृथिवी धेनुस्तस्या॑ अग्निर्वत्स: ।
सा मेऽग्निना॑ वत्सेनेषमूर्जं कामं॑ दुहाम् ।
आयु॑: प्रथमं प्रजां पोषं॑ रयिं स्वाहा॑ ॥२॥
अन्तरि॑क्षे वायवे सम॑नमन्त्स आ॑र्ध्नोत् ।
यथान्तरि॑क्षे वायवे॑ समन॑मन्नेवा मह्यं॑ संनम: सं न॑मन्तु ॥३॥
अन्तरि॑क्षं धेनुस्तस्या॑ वायुर्वत्स: ।
सा मे॑ वायुना॑ वत्सेनेषमूर्जं कामं॑ दुहाम् ।
आयु॑: प्रथमं प्रजां पोषं॑ रयिं स्वाहा॑ ॥४॥
दिव्याद्गदित्याय सम॑नमन्त्स आ॑र्ध्नोत् ।
यथा॑ दिव्याद्गदित्याय॑ समन॑मन्नेवा मह्यं॑ संनम: सं न॑मन्तु ॥५॥
द्यौर्धेनुस्तस्या॑ आदित्यो वत्स: ।
सा म॑ आदित्येन॑ वत्सेनेषमूर्जं कामं॑ दुहाम् ।
आयु॑: प्रथमं प्रजां पोषं॑ रयिं स्वाहा॑ ॥६॥
दिक्षु चन्द्राय सम॑नमन्त्स आ॑र्ध्नोत् ।
यथा॑ दिक्षु चन्द्राय॑ समन॑मन्नेवा मह्यं॑ संनम: सं न॑मन्तु ॥७॥
दिशो॑ धेनवस्तासां॑ चन्द्रो वत्स: ।
ता मे॑ चन्द्रेण॑ वत्सेनेषमूर्जं कामं॑ दुहाम् ।
आयु॑: प्रथमं प्रजां पोषं॑ रयिं स्वाहा॑ ॥८॥
अग्नावग्निश्च॑रति प्रवि॑ष्ट ऋषी॑णां पुत्रो अ॑भिशस्तिपा उ॑ ।
नमस्कारेण नम॑सा ते जुहोमि मा देवानां॑ मिथुया क॑र्म भागम् ॥९॥
हृदा पूतं मन॑सा जातवेदो विश्वा॑नि देव वयुना॑नि विद्वान् ।
सप्तास्या॑नि तव॑ जातवेदस्तेभ्यो॑ जुहोमि स जु॑षस्व हव्यम् ॥१०॥
 
 

चत्वारिंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य शुक्र ऋषि: | सामान्यत: सर्वासामृचाञ्जातवेदा: विशेषतश्च  प्रथमर्चोऽग्नि:  द्वितीयाया यम:  तृतीयाया वरुण: चतुर्थ्या: सोम:  पञ्चम्या भूमि:  षष्ठ्या वायु:  सप्तम्या: सूर्य:  अष्टम्याश्च ब्रह्म देवता: |  ३ प्रथमायास्तृतीयादिपञ्चानाञ्च त्रिष्टुप् द्वितीयाया जगती  अष्टम्याश्च पुरोऽतिशक्वरीपादयुग्जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


ये पुरस्ताज्जुह्व॑ति जातवेद: प्राच्या॑ दिशोद्गऽभिदास॑न्त्यस्मान् ।
अग्निमृत्वा ते परा॑ञ्चो व्यथन्तां प्रत्यगे॑नान्प्रतिसरेण॑ हन्मि ॥१॥
ये द॑क्षिणतो जुह्व॑ति जातवेदो दक्षि॑णाया दिशोद्गऽभिदास॑न्त्यस्मान् ।
यममृत्वा ते परा॑ञ्चो व्यथन्तां प्रत्यगे॑नान्प्रतिसरेण॑ हन्मि ॥२॥
ये पश्चाज्जुह्व॑ति जातवेद: प्रतीच्या॑ दिशोद्गऽभिदास॑न्त्यस्मान् ।
वरु॑णमृत्वा ते परा॑ञ्चो व्यथन्तां प्रत्यगे॑नान्प्रतिसरेण॑ हन्मि ॥३॥
य उ॑त्तरतो जुह्व॑ति जातवेद उदी॑च्या दिशोद्गऽभिदास॑न्त्यस्मान् ।
सोम॑मृत्वा ते परा॑ञ्चो व्यथन्तां प्रत्यगे॑नान्प्रतिसरेण॑ हन्मि ॥४॥
ये३ऽधस्ताज्जुह्व॑ति जातवेद ध्रुवाया॑ दिशोद्गऽभिदास॑न्त्यस्मान् ।
भूमि॑मृत्वा ते परा॑ञ्चो व्यथन्तां प्रत्यगे॑नान्प्रतिसरेण॑ हन्मि ॥५॥
ये३ऽन्तरि॑क्षाज्जुह्व॑ति जातवेदो व्यध्वाया॑ दिशोद्गऽभिदास॑न्त्यस्मान् ।
वायुमृत्वा ते परा॑ञ्चो व्यथन्तां प्रत्यगे॑नान्प्रतिसरेण॑ हन्मि ॥६॥
य उपरि॑ष्टाज्जुह्व॑ति जातवेद ऊर्ध्वाया॑ दिशोद्गऽभिदास॑न्त्यस्मान् ।
सूर्य॑मृत्वा ते परा॑ञ्चो व्यथन्तां प्रत्यगे॑नान्प्रतिसरेण॑ हन्मि ॥७॥
ये दिशाम॑न्तर्देशेभ्यो जुह्व॑ति जातवेद: सर्वा॑भ्यो दिग्भ्योद्गऽभिदास॑न्त्यस्मान् ।
ब्रह्मर्त्वा ते परा॑ञ्चो व्यथन्तां प्रत्यगे॑नान्प्रतिसरेण॑ हन्मि ॥८॥
 

॥ इति चतुर्थं काण्डम् ॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *