HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् २ (Atharvved Kand 2)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥ अथ द्वितीयं काण्डम् ॥

 
प्रथमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य वेन ऋषि: | ब्रह्मात्मा देवता: |  प्रथमाद्वितीयाचतुर्थीपञ्चमीनामृचां त्रिष्टुप्  तृतीयायाश्च जगती छन्दसी॥ (www.hindumantavya.blogspot.in)

 
वेनस्तत्प॑श्यत्परमं गुहा यद्यत्र विश्वं भवत्येक॑रूपम् ।
इदं पृश्नि॑रदुहत्तय॑माना: स्वर्विदो॑ अभ्यद्गनूषत व्रा: ॥१॥
प्र तद्वो॑चेदमृत॑स्य विद्वान्ग॑न्धर्वो धाम॑ परमं गुहा यत् ।
त्रीणि॑ पदानि निहि॑ता गुहा॑स्य यस्तानि वेद स पितुष्पितास॑त् ॥२॥
स न॑: पिता ज॑निता स उत बन्धुर्धामा॑नि वेद भुव॑नानि विश्वा॑ ।
यो देवानां॑ नामध एक॑ एव तं सं॑प्रश्नं भुव॑ना यन्ति सर्वा॑ ॥३॥
परि द्यावा॑पृथिवी सद्य आ॑यमुपा॑तिष्ठे प्रथमजामृतस्य॑ ।
वाच॑मिव वक्तरि॑ भुवनेष्ठा धास्युरेष नन्वे३षो अग्नि: ॥४॥
परि विश्वा भुव॑नान्यायमृतस्य तन्तुं वित॑तं दृशे कम् ।
यत्र॑ देवा अमृत॑मानशाना: स॑माने योनावध्यैर॑यन्त ॥५॥
 
 
 
द्वितीयं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य मातृनामा ऋषि: | गन्धर्वाप्सरसो देवता: | प्रथमर्चो विराड् जगती  द्वितीयातृतीययोस्त्रिष्टुप् चतुर्थ्या विराड्गायत्री  पञ्चम्याश्च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


दिव्यो ग॑न्धर्वो भुव॑नस्य यस्पतिरेक॑ एव न॑मस्योद्ग विक्ष्वीड्य॑: ।
तं त्वा॑ यौमि ब्रह्म॑णा दिव्य देव नम॑स्ते अस्तु दिवि ते॑ सधस्थ॑म् ॥१॥
दिवि स्पृष्टो य॑जत: सूर्य॑त्वगवयाता हर॑सो दैव्य॑स्य ।
मृडाद्ग॑न्धर्वो भुव॑नस्य यस्पतिरेक॑ एव न॑मस्यद्ग: सुशेवा॑: ॥२॥
अनवद्याभि: समु॑ जग्म आभिरप्सरास्वपि॑ गन्धर्व आ॑सीत् ।
समुद्र आ॑सां सद॑नं म आहुर्यत॑: सद्य आ च परा॑ च यन्ति॑ ॥३॥
अभ्रि॑ये दिद्युन्नक्ष॑त्रिये या विश्वाव॑सुं गन्धर्वं सच॑ध्वे ।
ताभ्यो॑ वो देवीर्नम इत्कृ॑णोमि ॥४॥
या: क्लन्दास्तमि॑षीचयोऽक्षका॑मा मनोमुह॑: ।
ताभ्यो॑ गन्धर्वप॑त्नीभ्योऽप्सराभ्यो॑ऽकरं नम॑: ॥५॥
 
 
 
तृतीयं सूक्तम्» षडृचस्यास्य सूक्तस्याङ्गिरा ऋषि: | भैषज्यायुर्धन्वन्तरयो देवता: | प्रथमादिपञ्चर्चामनुष्टुप्  षष्ठ्याश्च त्रिपात् स्वराड् उपरिष्टान्महाबृहती छन्दसी॥ (www.hindumantavya.blogspot.in)

 
अदो यद॑वधाव॑त्यवत्कमधि पर्व॑तात् ।
तत्ते॑ कृणोमि भेषजं सुभे॑षजं यथास॑सि ॥१॥
आदङ्गा कुविदङ्ग शतं या भे॑षजानि॑ ते ।
तेषा॑मसि त्वमु॑त्तमम॑नास्रावमरो॑गणम् ॥२॥
नीचै: ख॑नन्त्यसु॑रा अरुस्राण॑मिदं महत् ।
तदा॑स्रावस्य॑ भेषजं तदु रोग॑मनीनशत् ॥३॥
उपजीका उद्भ॑रन्ति समुद्रादधि॑ भेषजम् ।
तदा॑स्रावस्य॑ भेषजं तदु रोग॑मशीशमत् ॥४॥
अरुस्राण॑मिदं महत्पृ॑थिव्या अध्युद्भृ॑तम् ।
तदा॑स्रावस्य॑ भेषजं तदु रोग॑मनीनशत् ॥५॥
शं नो॑ भवन्त्वप ओष॑धय: शिवा: ।
इन्द्र॑स्य वज्रो अप॑ हन्तु रक्षस॑ आराद्विसृ॑ष्टा इष॑व: पतन्तु रक्षसा॑म् ॥६॥
 
 
 
चतुर्थं सूक्तम्» षडृचस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा जङ्गिडो वा देवता: | प्रथमर्चो विराट् प्रस्तारपङ्क्ति:  द्वितीयादिपञ्चानाञ्चानुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)


दीर्घायुत्वाय॑ बृहतं रणायारि॑ष्यन्तो दक्ष॑माणा: सदैव ।
मणिं वि॑ष्कन्धदूष॑णं जङ्गिडं बि॑भृमो वयम् ॥१॥
जङ्गिडो जम्भाद्वि॑शराद्विष्क॑न्धादभिशोच॑नात् ।
मणि: सहस्र॑वीर्य: परि॑ ण: पातु विश्वत॑: ॥२॥
अयं विष्क॑न्धं सहतेऽयं बा॑धते अत्त्रिण॑: ।
अयं नो॑ विश्वभे॑षजो जङ्गिड: पात्वंह॑स: ॥३॥
देवैर्दत्तेन॑ मणिना॑ जङ्गिडेन॑ मयोभुवा॑ ।
विष्क॑न्धं सर्वा रक्षां॑सि व्यायामे स॑हामहे ॥४॥
शणश्च॑ मा जङ्गिडश्च विष्क॑न्धादभि र॑क्षताम् ।
अर॑ण्यादन्य आभृ॑त: कृष्या अन्यो रसे॑भ्य: ॥५॥
कृत्यादूषि॑रयं मणिरथो॑ अरातिदूषि॑: ।
अथो सह॑स्वान्जङ्गिड: प्र ण आयुं॑षि तारिषत् ॥६॥
 
 
पञ्चमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्याथर्वणो भृगुरृषि: । इन्द्रो देवता: | प्रथमर्चो निचृदुपरिष्टाद्बृहती  द्वितीयाया विराडुपरिष्टाद्बृहती तृतीयाया विराट् पथ्याबृहती  चतुर्थ्या पुरोविराड् जगती पञ्चम्यादितृचस्य च त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


इन्द्र॑ जुषस्व प्र वहा या॑हि शूर हरि॑भ्याम् ।
पिबा॑ सुतस्य॑ मतेरिह मधो॑श्चकानश्चारुर्मदा॑य ॥१॥
इन्द्र॑ जठरं॑ नव्यो न पृणस्व मधो॑र्दिवो न ।
अ॑स्य सुतस्य स्वर्णोप॑ त्वा मदा॑: सुवाचो॑ अगु: ॥२॥
इन्द्र॑स्तुराषाण्मित्रो वृत्रं यो जघान॑ यतीर्न ।
बिभेद॑ वलं भृगुर्न स॑सहे शत्रून्मदे सोम॑स्य ॥३॥
आ त्वा॑ विशन्तु सुतास॑ इन्द्र पृणस्व॑ कुक्षी विड्ढि श॑क्र धियेह्या न॑: ।
श्रुधी हवं गिरो॑ मे जुषस्वेन्द्र॑ स्वयुग्भिर्मत्स्वेह महे रणा॑य ॥४॥
इन्द्र॑स्य नु प्र वो॑चं वीर्याद्गणि यानि॑ चकार॑ प्रथमानि॑ वज्री ।
अहन्नहिमन्वपस्त॑तर्द प्र वक्षणा॑ अभिनत्पर्व॑तानाम् ॥५॥
अहन्नहिं पर्व॑ते शिश्रियाणं त्वष्टा॑स्मै वज्रं॑ स्वर्यंद्ग ततक्ष ।
वाश्रा इ॑व धेनव: स्यन्द॑माना अञ्ज॑: समुद्रमव॑ जग्मुराप॑: ॥६॥
वृषायमा॑णो अवृणीत सोमं त्रिक॑द्रुकेष्वपिबत्सुतस्य॑ ।
आ साय॑कं मघवा॑दत्त वज्रमह॑न्नेनं प्रथमजामही॑नाम् ॥७॥
 
 
षष्ठं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य शौनक ऋषि: | अग्निर्देवता: |  प्रथमादितृचस्य त्रिष्टुप्  चतुर्थ्याश्चतुष्पदार्षी पङ्क्ति:  पञ्चम्याश्च विराट् प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
समा॑स्त्वाग्न ऋतवो॑ वर्धयन्तु संवत्सरा ऋष॑यो यानि॑ सत्या ।
सं दिव्येन॑ दीदिहि रोचनेन विश्वा आ भा॑हि प्रदिशश्चत॑स्र: ॥१॥
सं चेध्यस्वा॑ग्ने प्र च॑ वर्धयेममुच्च॑ तिष्ठ महते सौभ॑गाय ।
मा ते॑ रिषन्नुपसत्तारो॑ अग्ने ब्रह्माण॑स्ते यशस॑: सन्तु मान्ये ॥२॥
त्वाम॑ग्ने वृणते ब्राह्मणा इमे शिवो अ॑ग्ने संवर॑णे भवा न: ।
सपत्नहाग्ने॑ अभिमातिजिद्भ॑व स्वे गये॑ जागृह्यप्र॑युछन् ॥३॥
क्षत्रेणा॑ग्ने स्वेन सं र॑भस्व मित्रेणा॑ग्ने मित्रधा य॑तस्व ।
सजातानां॑ मध्यमेष्ठा राज्ञा॑मग्ने विहव्यो॑ दीदिहीह ॥४॥
अति निहो अति सृधोऽत्यचि॑त्तीरति द्विष॑: ।
विश्वा ह्यद्गग्ने दुरिता त॑र त्वमथास्मभ्यं॑ सहवी॑रं रयिं दा॑: ॥५॥
 
 

सप्तमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | भैषज्यायुर्वनस्पतयो देवता: | प्रथमर्चो भुरिगनुष्टुप्   द्वितीयातृतीयापञ्चमीनामनुष्टुप् चतुर्थ्याश्च विराडुपरिष्टाद्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
अघद्वि॑ष्टा देवजा॑ता वीरुच्छ॑पथयोप॑नी ।
आपो मल॑मिव प्राणै॑क्षीत्सर्वान्मच्छपथाँ अधि॑ ॥१॥
यश्च॑ सापत्न: शपथो॑ जाम्या: शपथ॑श्च य: ।
ब्रह्मा यन्म॑न्युत: शपात्सर्वं तन्नो॑ अधस्पदम् ॥२॥
दिवो मूलमव॑ततं पृथिव्या अध्युत्त॑तम् ।
तेन॑ सहस्र॑काण्डेन परि॑ ण: पाहि विश्वत॑: ॥३॥
परि मां परि॑ मे प्रजां परि॑ ण: पाहि यद्धन॑म् ।
अरा॑तिर्नो मा ता॑रीन्मा न॑स्तारिशुरभिमा॑तय: ॥४॥
शप्तार॑मेतु शपथो य: सुहार्त्तेन॑ न: सह ।
चक्षु॑र्मन्त्रस्य दुर्हार्द॑: पृष्टीरपि॑ शृणीमसि ॥५॥
 
 

अष्टमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | वनस्पतिर्यक्ष्मनाशनञ्च देवता: | प्रथमाद्वितीययोरनुष्टुप्  तृतीयाया: पथ्यापङ्क्ति: चतुर्थ्या विराडनुष्टुप्  पञ्चम्याश्च निचृत्पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


उद॑गातां भग॑वती विचृतौ नाम तार॑के ।
वि क्षे॑त्रियस्य॑ मुञ्चतामधमं पाश॑मुत्तमम् ॥१॥
अपेयं रात्र्यु॑च्छत्वपो॑छन्त्वभिकृत्व॑री: ।
वीरुत्क्षे॑त्रियनाशन्यप॑ क्षेत्रियमु॑छतु ॥२॥
बभ्रोरर्जु॑नकाण्डस्य यव॑स्य ते पलाल्या तिल॑स्य तिलपिञ्ज्या ।
वीरुत्क्षे॑त्रियनाशन्यप॑ क्षेत्रियमु॑छतु ॥३॥
नम॑स्ते लाङ्ग॑लेभ्यो नम॑ ईषायुगेभ्य॑: ।
वीरुत्क्षे॑त्रियनाशन्यप॑ क्षेत्रियमु॑छतु ॥४॥
नम॑: सनिस्रसाक्षेभ्यो नम॑: संदेश्येद्गभ्य: ।
नम: क्षेत्र॑स्य पत॑ये वीरुत्क्षे॑त्रियनाशन्यप॑ क्षेत्रियमु॑छतु ॥५॥
 
 
 
नवमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | यक्ष्मनाशनो वनस्पतिर्देवता: | प्रथमर्चो विराट् प्रस्तारपङ्क्ति:२ द्वितीयादिचतसृणाञ्चानुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)


दश॑वृक्ष मुञ्चेमं रक्ष॑सो ग्राह्या अधि यैनं॑ जग्राह पर्व॑सु ।
अथो॑ एनम्वनस्पते जीवानां॑ लोकमुन्न॑य ॥१॥
आगादुद॑गादयं जीवानां व्रातमप्य॑गात् ।
अभू॑दु पुत्राणां॑ पिता नृणां च भग॑वत्तम: ॥२॥
अधी॑तीरध्य॑गादयमधि॑ जीवपुरा अ॑गान् ।
शतं ह्य॑स्य भिषज॑: सहस्र॑मुत वीरुध॑: ॥३॥
देवास्ते॑ चीतिम॑विदन्ब्रह्माण॑ उत वीरुध॑: ।
चीतिं ते विश्वे॑ देवा अवि॑दन्भूम्यामधि॑ ॥४॥
यश्चकार स निष्क॑रत्स एव सुभि॑षक्तम: ।
स एव तुभ्यं॑ भेषजानि॑ कृणव॑द्भिषजा शुचि॑: ॥५॥
 
 
 
दशमं सूक्तम्» अष्टर्चस्यास्य सूक्तस्यस् भृग्वङ्गिरा ऋषि: |  प्रथमर्चो ब्रह्मणा सह निरृति:  द्वितीयादिसप्तानाञ्च द्यावापृथिव्यौ तत्रापि द्वितीयाया: पूर्वपादस्याद्भि: सहाग्नि: उत्तरस्य च ओषधिभि: सह सोम: तृतीयाया: पूर्वपादस्य वात उत्तरस्य च चतस्रो दिश: चतुर्थ्यादिपञ्चानाञ्च वातपत्न्य: सूर्यो यक्ष्मा निरृतिप्रसृतयश्च देवता: | प्रथमायास्त्रिष्टुप्  द्वितीयाया: सप्तपादष्टि: तृतीयादितृचस्य सप्तम्यष्टम्योश्च सप्तपदा धृति:  षष्ठ्याश्च सप्तपदात्यष्टिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


क्षेत्रियात्त्वा निरृ॑त्या जामिशंसाद्द्रुहो मु॑ञ्चामि वरु॑णस्य पाशा॑त् ।
अनागसं ब्रह्म॑णा त्वा कृणोमि शिवे ते द्यावा॑पृथिवी उभे स्ता॑म् ॥१॥
शं ते॑ अग्नि: सहाद्भिर॑स्तु शं सोम॑: सहौष॑धीभि: ।
एवाहं त्वां क्षे॑त्रियान्निरृ॑त्या जामिशंसाद्द्रुहो मु॑ञ्चामि वरु॑णस्य पाशा॑त् ।
अनागसं ब्रह्म॑णा त्वा कृणोमि शिवे ते द्यावा॑पृथिवी उभे स्ता॑म् ॥२॥
शं ते वातो॑ अन्तरि॑क्षे वयो॑ धाच्छं ते॑ भवन्तु प्रदिशश्चत॑स्र: ।
एवाहं त्वां क्षे॑त्रियान्निरृ॑त्या जामिशंसाद्द्रुहो मु॑ञ्चामि वरु॑णस्य पाशा॑त् ।
अनागसं ब्रह्म॑णा त्वा कृणोमि शिवे ते द्यावा॑पृथिवी उभे स्ता॑म् ॥३॥
इमा या देवी: प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे ।
एवाहं त्वां क्षे॑त्रियान्निरृ॑त्या जामिशंसाद्द्रुहो मु॑ञ्चामि वरु॑णस्य पाशा॑त् ।
अनागसं ब्रह्म॑णा त्वा कृनोमि शिवे ते द्यावा॑पृथिवी उभे स्ता॑म् ॥४॥
तासु॑ त्वान्तर्जरस्या द॑धामि प्र यक्ष्म॑ एतु निरृ॑ति: पराचै: ।
एवाहं त्वां क्षे॑त्रियान्निरृ॑त्या जामिशंसाद्द्रुहो मु॑ञ्चामि वरु॑णस्य पाशा॑त् ।
अनागसं ब्रह्म॑णा त्वा कृणोमि शिवे ते द्यावा॑पृथिवी उभे स्ता॑म् ॥५॥
अमु॑क्था यक्ष्मा॑द्दुरिताद॑वद्याद्द्रुह: पाशाद्ग्राह्याश्चोद॑मुक्था: ।
एवाहं त्वां क्षे॑त्रियान्निरृ॑त्या जामिशंसाद्द्रुहो मु॑ञ्चामि वरु॑णस्य पाशा॑त् ।
अनागसं ब्रह्म॑णा त्वा कृणोमि शिवे ते द्यावा॑पृथिवी उभे स्ता॑म् ॥६॥
अहा अरा॑तिमवि॑द: स्योनमप्य॑भूर्भद्रे सु॑कृतस्य॑ लोके ।
एवाहं त्वां क्षे॑त्रियान्निरृ॑त्या जामिशंसाद्द्रुहो मु॑ञ्चामि वरु॑णस्य पाशा॑त् ।
अनागसं ब्रह्म॑णा त्वा कृणोमि शिवे ते द्यावा॑पृथिवी उभे स्ता॑म् ॥७॥
सूर्य॑मृतं तम॑सो ग्राह्या अधि॑ देवा मुञ्चन्तो॑ असृजन्निरेण॑स: ।
एवाहम्त्वां क्षे॑त्रियान्निरृ॑त्या जामिशंसाद्द्रुहो मु॑ञ्चामि वरु॑णस्य पाशा॑त् ।
अनागसं ब्रह्म॑णा त्वा कृणोमि शिवे ते द्यावा॑पृथिवी उभे स्ता॑म् ॥८॥
 
 

एकादशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य शुक्र ऋषि: | कृत्यादूषणं देवता: | प्रथमायाश्चतुष्पदा विराड्गायत्री  द्वितीयादिचतसृणाञ्च त्रिपदा परोष्णिक् तत्रापि  चतुर्थ्या: पिपीलिकमध्या निचृच्छन्दांसि॥ (www.hindumantavya.blogspot.in)


दूष्या दूषि॑रसि हेत्या हेतिर॑सि मेन्या मेनिर॑सि ।
आप्नुहि श्रेयां॑समति॑ समं क्रा॑म ॥१॥
स्रक्त्योद्गऽसि प्रतिसरोद्गऽसि प्रत्यभिचर॑णोऽसि ।
आप्नुहि श्रेयां॑समति॑ समं क्रा॑म ॥२॥
प्रति तमभि च॑र यो२ऽस्मान्द्वेष्टि यं वयं द्विष्म: ।
आप्नुहि श्रेयां॑समति॑ समं क्रा॑म ॥३॥
सूरिर॑सि वर्चोधा अ॑सि तनूपानो॑ऽसि ।
आप्नुहि श्रेयां॑समति॑ समं क्रा॑म ॥४॥
शुक्रोद्गऽसि भ्राजोद्गऽसि स्वद्गरसि ज्योति॑रसि ।
आप्नुहि श्रेयां॑समति॑ समं क्रा॑म ॥५॥
 
 
 
द्वादशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य भरद्वाज ऋषि: | द्यावापृथिव्यादिबह्वयो देवता: | प्रथमर्चसृतीयादिचतसृणाञ्च त्रिष्टुप्  द्वितीयायाजगती  सप्तम्यष्टम्योश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


द्यावा॑पृथिवी उर्वन्तरि॑क्षं क्षेत्र॑स्य पत्न्यु॑रुगायोऽद्भु॑त: ।
उतान्तरि॑क्षमुरु वात॑गोपं त इह त॑प्यन्तां मयि तप्यमा॑ने ॥१॥
इदं दे॑वा: शृणुत ये यज्ञिया स्थ भरद्वा॑जो मह्य॑मुक्थानि॑ शंसति ।
पाशे स बद्धो दु॑रिते नि यु॑ज्यतां यो अस्माकं मन॑ इदं हिनस्ति॑ ॥२॥
इदमि॑न्द्र शृणुहि सोमप यत्त्वा॑ हृदा शोच॑ता जोह॑वीमि ।
वृश्चामि तं कुलि॑शेनेव वृक्षं यो अस्माकं मन॑ इदं हिनस्ति॑ ॥३॥
अशीतिभि॑स्तिसृभि॑: सामगेभि॑रादित्येभिर्वसु॑भिरङ्गि॑रोभि: ।
इष्टापूर्तम॑वतु न: पितॄणामामुं द॑दे हर॑सा दैव्ये॑न ॥४॥
द्यावा॑पृथिवी अनु मा दी॑धीथां विश्वे॑ देवासो अनु मा र॑भध्वम् ।
अङ्गि॑रस: पित॑र: सोम्या॑स: पापमार्छ॑त्वपकामस्य॑ कर्ता ॥५॥
अती॑व यो म॑रुतो मन्य॑ते नो ब्रह्म॑ वा यो निन्दि॑षत्क्रियमा॑णम् ।
तपूं॑षि तस्मै॑ वृजिनानि॑ सन्तु ब्रह्मद्विषं द्यौर॑भिसंत॑पाति ॥६॥
सप्त प्राणानष्टौ मन्यस्तांस्ते॑ वृश्चामि ब्रह्म॑णा ।
अया॑ यमस्य साद॑नमग्निदू॑तो अरं॑कृत: ॥७॥
आ द॑धामि ते पदं समि॑द्धे जातवे॑दसि ।
अग्नि: शरी॑रं वेवेष्ट्वसुं वागपि॑ गछतु ॥८॥
 
 
त्रयोदशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्विश्वे देवा वा देवता: |  प्रथमादितृचस्य त्रिष्टुप्  चतुर्थ्या अनुष्टुप्  पञ्चम्याश्च विराड्जगती छन्दांसि॥ (www.hindumantavya.blogspot.in)


आयुर्दा अ॑ग्ने जरसं॑ वृणानो घृतप्र॑तीको घृतपृ॑ष्ठो अग्ने ।
घृतं पीत्वा मधु चारु गव्यं॑ पितेव॑ पुत्रानभि र॑क्षतादिमम् ॥१॥
परि॑ धत्त धत्त नो वर्च॑सेमम्जरामृ॑त्युं कृणुत दीर्घमायु॑: ।
बृहस्पति: प्राय॑च्छद्वास॑ एतत्सोमा॑य राज्ञे परि॑धातवा उ॑ ॥२॥
परीदं वासो॑ अधिथा: स्वस्तयेऽभू॑र्गृष्टीनाम॑भिशस्तिपा उ॑ ।
शतं च जीव॑ शरद॑: पुरूची रायश्च पोष॑मुपसंव्य॑यस्व ॥३॥
एह्यश्मा॑नमा तिष्ठाश्मा॑ भवतु ते तनू: ।
कृण्वन्तु विश्वे॑ देवा आयु॑ष्टे शरद॑: शतम् ॥४॥
यस्य॑ ते वास॑: प्रथमवास्यं॑ हरा॑मस्तं त्वा विश्वे॑ऽवन्तु देवा: ।
तं त्वा भ्रात॑र: सुवृधा वर्ध॑मानमनु॑ जायन्तां बहव: सुजा॑तम् ॥५॥
 
 
 
चतुर्दशं सूक्तम्» षडृचस्यास्य सूक्तस्य चातन ऋषि: | शालाग्निर्मन्त्रोक्ता वा देवता: |   प्रथमातृतीयापञ्चमीषष्ठीनामृचामनुष्टुप्  द्वितीयाया भुरिगनुष्टुप् चतुर्थ्याश्चोपरिष्टाद्विराड्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


नि:सालां धृष्णुं धिषण॑मेकवाद्याम्जि॑घत्स्वद्गम् ।
सर्वाश्चण्ड॑स्य नप्त्योद्ग नाशया॑म: सदान्वा॑: ॥१॥
निर्वो॑ गोष्ठाद॑जामसि निरक्षान्निरु॑पानशात् ।
निर्वो॑ मगुन्द्या दुहितरो गृहेभ्य॑श्चातयामहे ॥२॥
असौ यो अ॑धराद्गृहस्तत्र॑ सन्त्वराय्यद्ग: ।
तत्र॑ सेदिर्न्युद्गच्यतु सर्वा॑श्च यातुधान्यद्ग: ॥३॥
भूतपतिर्निरजत्विन्द्र॑श्चेत: सदान्वा॑: ।
गृहस्य॑ बुध्न आसी॑नास्ता इन्द्रो वज्रेणाधि॑ तिष्ठतु ॥४॥
यदि स्थ क्षे॑त्रियाणां यदि॑ वा पुरु॑षेषिता: ।
यदि स्थ दस्यु॑भ्यो जाता नश्य॑तेत: सदान्वा॑: ॥५॥
परि धामा॑न्यासामाशुर्गाष्ठा॑मिवासरम् ।
अजै॑षं सर्वा॑नाजीन्वो नश्य॑तेत: सदान्वा॑: ॥६॥
 
 

पञ्चदशं सूक्तम्» षडृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | प्राणापानायूंषि देवता: | त्रिपाद्गायत्री छन्द:॥ (www.hindumantavya.blogspot.in)


यथा द्यौश्च॑ पृथिवी च न बि॑भीतो न रिष्य॑त: ।
एवा मे॑ प्राण मा बि॑भे: ॥१॥
यथाह॑श्च रात्री॑ च न बि॑भीतो न रिष्य॑त: ।
एवा मे॑ प्राण मा बि॑भे: ॥२॥
यथा सूर्य॑श्च चन्द्रश्च न बि॑भीतो न रिष्य॑त: ।
एवा मे॑ प्राण मा बि॑भे: ॥३॥
यथा ब्रह्म॑ च क्षत्रं च न बि॑भीतो न रिष्य॑त: ।
एवा मे॑ प्राण मा बि॑भे: ॥४॥
यथा॑ सत्यं चानृ॑तं च न बि॑भीतो न रिष्य॑त: ।
एवा मे॑ प्राण मा बि॑भे: ॥५॥
यथा॑ भूतं च भव्यं॑ च न बि॑भीतो न रिष्य॑त: ।
एवा मे॑ प्राण मा बि॑भे: ॥६॥
 
 
 
षोडशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | प्राणापानायूंषि देवता: | प्रथमातृतीययोरृचोरेकपदासुरी त्रिष्टुप्  द्वितीयाया एकपदासुर्युष्णिक्  चतुर्थीपञ्चम्योश्च द्विपदासुरी गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्राणा॑पानौ मृत्योर्मा॑ पातं स्वाहा॑ ॥१॥
द्यावा॑पृथिवी उप॑श्रुत्या मा पातं स्वाहा॑ ॥२॥
सूर्य चक्षु॑षा मा पाहि स्वाहा॑ ॥३॥
अग्ने॑ वैश्वानर विश्वै॑र्मा देवै: पा॑हि स्वाहा॑ ॥४॥
विश्व॑म्भर विश्वे॑न मा भर॑सा पाहि स्वाहा॑ ॥५॥
 
 

सप्तदशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | प्राणापानायूंषि देवता: | प्रथमादिषडृचामेकपदासुरी त्रिष्टुप्  सप्तम्याश्चासुर्युष्णिक् छन्दसी॥ (www.hindumantavya.blogspot.in)

 
 
ओजोऽस्योजो॑ मे दा: स्वाहा॑ ॥१॥
सहो॑सि सहो॑ मे दा: स्वाहा॑ ॥२॥
बल॑मसि बलं॑ दा: स्वाहा॑ ॥३॥
आयु॑रस्यायु॑र्मे दा: स्वाह॑ ॥४॥
श्रोत्र॑मसि श्रोत्रं॑ मे दा: स्वाहा॑ ॥५॥
चक्षु॑रसि चक्षु॑र्मे दा: स्वाहा॑ ॥६॥
परिपाण॑मसि परिपाणं॑ मे दा: स्वाहा॑ ॥७॥
 
 

अष्टादशं सूक्तम्»» पञ्चर्चस्यास्य सूक्तस्य चातन ऋषि: | अग्निर्देवता: | द्विपदा साम्नी बृहती छन्द:॥ (www.hindumantavya.blogspot.in)


भ्रातृव्यक्षय॑णमसि भ्रातृव्यचात॑नं मे दा: स्वाहा॑ ॥१॥
सपत्नक्षय॑णमसि सपत्नचात॑नं मे दा: स्वाहा॑ ॥२॥
अरायक्षय॑णमस्यरायचात॑नं मे दा: स्वाहा॑ ॥३॥
पिशाचक्षय॑णमसि पिशाचचात॑नं मे दा: स्वाहा॑ ॥४॥
सदान्वाक्षय॑णमसि सदान्वाचात॑नं मे दा: स्वाहा॑ ॥५॥
 
 

एकोनविंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | अग्निर्देवता: |  प्रथमादिचतसृणामेकावसाना निचृद्विषमा त्रिपदा गायत्री पञ्चम्याश्चैकावसाना भुरिग्विषमा त्रिपदा गायत्री छन्दसी॥ (www.hindumantavya.blogspot.in)


अग्ने यत्ते तपस्तेन तं प्रति॑ तप यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥१॥
अग्ने यत्ते हरस्तेन तं प्रति॑ हर यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥२॥
अग्ने यत्तेर्चिस्तेन तं प्रत्य॑र्च यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥३॥
अग्ने यत्ते॑ शोचिस्तेन तं प्रति॑ शोच यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥४॥
अग्ने यत्ते तेजस्तेन तम॑तेजसं॑ कृणु यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥५॥
 
 
 
विंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमादिचतसृणामृचामेकावसाना निचृद्विषमा त्रिपदा गायत्री  पञ्चम्याश्चैकावसाना भुरिग्विषमा त्रिपदा गायत्री छन्दसी॥ (www.hindumantavya.blogspot.in)


वायो यत्ते तपस्तेन तं प्रति॑ तप यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥१॥
वायो यत्ते हरस्तेन तं प्रति॑ हर यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥२॥
वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥३॥
वायो यत्ते॑ शोचिस्तेन तं प्रति॑ शोच यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥४॥
वायो यत्ते तेजस्तेन तम॑तेजसं॑ कृणु यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥५॥
 
 
 

एकविंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | सूर्यो देवता: | प्रथमादिचतसृणामृचामेकावसाना निचृद्विषमा त्रिपदा गायत्री पञ्चम्याश्चैकावसाना भुरिग्विषमा त्रिपदा गायत्री छन्दसी॥ (www.hindumantavya.blogspot.in)


सूर्य यत्ते तपस्तेन तं प्रति॑ तप यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥१॥
सूर्य यत्ते हरस्तेन तं प्रति॑ हर यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥२॥
सूर्य यत्तेऽर्चिस्तेन तं प्रत्य॑र्च यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥३॥
सूर्य यत्ते॑ शोचिस्तेन तं प्रति॑ शोच यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥४॥
सूर्य यत्ते तेजस्तेन तम॑तेजसं॑ कृणु यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥५॥
 
 
 

द्वाविंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | चन्द्रमा देवता: | प्रथमादिचतसृणामृचामेकावसाना निचृद्विषमा त्रिपदा गायत्री पञ्चम्याश्चैकावसाना भुरिग्विषमा त्रिपदा गायत्री छन्दसी॥ (www.hindumantavya.blogspot.in)

 
चन्द्र यत्ते तपस्तेन तं प्रति॑ तप यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥१॥
चन्द्र यत्ते हरस्तेन तं प्रति॑ हर यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥२॥
चन्द्र यत्तेऽर्चिस्तेन तं प्रत्य॑र्च यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥३॥
चन्द्र यत्ते॑ शोचिस्तेन तं प्रति॑ शोच यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥४॥
चन्द्र यत्ते तेजस्तेन तम॑तेजसं॑ कृणु यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥५॥
 
 

त्रयोविंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: | आपो देवता: | प्रथमादिचतसृणामृचामेकावसाना समविषमा त्रिपदा गायत्री पञ्चम्याश्च स्वराड्विषमा त्रिपदा गायत्री छन्दसी॥ (www.hindumantavya.blogspot.in)

 
 
आपो यद्वस्तपस्तेन तं प्रति॑ तपत यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥१॥
आपो यद्वो हरस्तेन तं प्रति॑ हरत यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥२॥
आपो यद्वोऽर्चिस्तेन तं प्रत्य॑र्चत यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥३॥
आपो यद्व॑: शोचिस्तेन तं प्रति॑ शोचत यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥४॥
आपो यद्वस्तेजस्तेन तम॑तेजसं॑ कृणुत यो३ऽस्मान्द्वेष्टि यं वयं द्विष्म: ॥५॥
 
 
 
चतुर्विंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | आयुर्देवता: | प्रथमादिचतसृणामृचां वैराजपरा पञ्चपदा पथ्यापङ्क्ति: तत्रापि प्रथमाद्वितीययो: भुरिक् पुर उष्णिक् तृतीयाचतुर्थ्यो: निचृत् पुरोदेवत्या पङ्क्ति:  पञ्चम्याश्चतुष्पदा बृहती षष्ठ्यादितृचस्य च चतुष्पदा भुरिग्बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)


शेर॑भक शेर॑भ पुन॑र्वो यन्तु यातव: पुन॑र्हेति: कि॑मीदिन: ।
यस्य स्थ तम॑त्त यो व: प्राहैत्तम॑त्त स्वा मांसान्य॑त्त ॥१॥
शेवृ॑धक शेवृ॑ध पुन॑र्वो यन्तु यातव: पुन॑र्हेति: कि॑मीदिन: ।
यस्य स्थ तम॑त्त यो व: प्राहैत्तम॑त्त स्वा मांसान्य॑त्त ॥२॥
म्रोकानु॑म्रोक पुन॑र्वो यन्तु यातव: पुन॑र्हेति: कि॑मीदिन: ।
यस्य स्थ तम॑त्त यो व: प्राहैत्तम॑त्त स्वा मांसान्य॑त्त ॥३॥
सर्पानु॑सर्प पुन॑र्वो यन्तु यातव: पुन॑र्हेति: कि॑मीदिन: ।
यस्य स्थ तम॑त्त यो व: प्राहैत्तम॑त्त स्वा मांसान्य॑त्त ॥४॥
जूर्णि पुन॑र्वो यन्तु यातव: पुन॑र्हेति: कि॑मीदिन: ।
यस्य स्थ तम॑त्त यो व: प्राहैत्तम॑त्त स्वा मांसान्य॑त्त ॥५॥
उप॑ब्दे पुन॑र्वो यन्तु यातव: पुन॑र्हेति: कि॑मीदिन: ।
यस्य स्थ तम॑त्त यो व: प्राहैत्तम॑त्त स्वा मांसान्य॑त्त ॥६॥
अर्जु॑नि पुन॑र्वो यन्तु यातव: पुन॑र्हेति: कि॑मीदिन: ।
यस्य स्थ तम॑त्त यो व: प्राहैत्तम॑त्त स्वा मांसान्य॑त्त ॥७॥
भरू॑जि पुन॑र्वो यन्तु यातव: पुन॑र्हेति: कि॑मीदिन: ।
यस्य स्थ तम॑त्त यो व: प्राहैत्तम॑त्त स्वा मांसान्य॑त्त ॥८॥
 
 
पञ्चविंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य चातन ऋषि: | पृश्निपर्ण्यौषधिर्देवता: | प्रथमादितृचस्य पञ्चम्या ऋचश्चानुष्टुप्  चतुर्थ्याश्च भुरिग्गनुष्टुप् छन्दसी॥ (www.hindumantavya.blogspot.in)

 
शं नो॑ देवी पृ॑श्निपर्ण्यशं निरृ॑त्या अक: ।
उग्रा हि क॑ण्वजम्भ॑नी ताम॑भक्षि सह॑स्वतीम् ॥१॥
सह॑मानेयं प्र॑थमा पृ॑श्निपर्ण्यद्गजायत ।
तयाहं दुर्णाम्नां शिरो॑ वृश्चामि॑ शकुने॑रिव ॥२॥
अराय॑मसृक्पावा॑नं यश्च॑ स्फातिं जिही॑र्षति ।
गर्भादं कण्वं॑ नाशय पृश्नि॑पर्णि सह॑स्व च ॥३॥
गिरिमे॑नाँ आ वे॑शय कण्वा॑ञ्जीवितयोप॑नान् ।
तांस्त्वं दे॑वि पृश्निपर्ण्यग्निरि॑वानुदह॑न्निहि ॥४॥
परा॑च एनान्प्र णु॑द कण्वा॑ञ्जीवितयोप॑नान् ।
तमां॑सि यत्र गच्छ॑न्ति तत्क्रव्यादो॑ अजीगमम् ॥५॥
 
 
 
षड्विंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य सविता ऋषि: | पशवो देवता: | प्रथमाद्वितीययोस्त्रिष्टुप्  तृतीयाया उपरिष्टाद्विराड्बृहती चतुर्थ्या भुरिगनुष्टुप्  पञ्चम्याश्चानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


एह य॑न्तु पशवो ये प॑रेयुर्वायुर्येषां॑ सहचारं जुजोष॑ ।
त्वष्टा येषां॑ रूपधेया॑नि वेदास्मिन्तान्गोष्ठे स॑विता नि य॑च्छतु ॥१॥
इमं गोष्ठं पशव: सं स्र॑वन्तु बृहस्पतिरा न॑यतु प्रजानन् ।
सिनीवाली न॑यत्वाग्र॑मेषामाजग्मुषो॑ अनुमते नि य॑च्छ ॥२॥
सं सं स्र॑वन्तु पशव: समश्वा: समु पूरु॑षा: ।
सं धान्यद्गस्य या स्फाति: सं॑स्राव्येद्गण हविषा॑ जुहोमि ॥३॥
सं सि॑ञ्चामि गवां॑ क्षीरं समाज्ये॑न बलं रस॑म् ।
संसि॑क्ता अस्माकं॑ वीरा ध्रुवा गावो मयि गोप॑तौ ॥४॥
आ ह॑रामि गवां॑ क्षीरमाहा॑र्षं धान्यं१ रस॑म् ।
आहृ॑ता अस्माकं॑ वीरा आ पत्नी॑रिदमस्त॑कम् ॥५॥
 
 
 
सप्तविंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य कपिञ्जल ऋषि: |  प्रथमादिपञ्चर्चामोषधि: षष्ठ्या रुद्र:  सप्तम्याश्चेन्द्रो देवता: | अनुष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


नेच्छत्रु: प्राशं॑ जयाति सह॑मानाभिभूर॑सि ।
प्राशं प्रति॑प्राशो जह्यरसान्कृ॑न्वोषधे ॥१॥
सुपर्णस्त्वान्व॑विन्दत्सूकरस्त्वा॑खनन्नसा ।
प्राशं प्रति॑प्राशो जह्यरसान्कृ॑ण्वोषधे ॥२॥
इन्द्रो॑ ह चक्रे त्वा बाहावसु॑रेभ्य स्तरी॑तवे ।
प्राशं प्रति॑प्राशो जह्यरसान्कृ॑ण्वोषधे ॥३॥
पाटामिन्द्रो व्याद्गश्नादसु॑रेभ्य स्तरी॑तवे ।
प्राशं प्रति॑प्राशो जह्यरसान्कृ॑ण्वोषधे ॥४॥
तयाहं शत्रू॑न्त्साक्ष इन्द्र॑: सालावृकाँ इ॑व ।
प्राशं प्रति॑प्राशो जह्यरसान्कृ॑ण्वोषधे ॥५॥
रुद्र जला॑षभेषज नील॑शिखण्ड कर्म॑कृत् ।
प्राशं प्रति॑प्राशो जह्यरसान्कृ॑ण्वोषधे ॥६॥
तस्य प्राशं त्वं ज॑हि यो न॑ इन्द्राभिदास॑ति ।
अधि॑ नो ब्रूहि शक्ति॑भि: प्राशि मामुत्त॑रं कृधि ॥७॥
 
 
 
अष्टाविंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य शम्भुरृषि: ।  प्रथमर्चो जरिमा आयुश्च द्वितीयाया मित्रावरुणौ  तृतीयाया जरिमा चतुर्थीपञ्चम्योर्द्यावापृथिव्यादय आयुश्च देवता: |  प्रथमाया जगती  द्वितीयादितृचस्य त्रिष्टुप्  पञ्चम्याश्च भुरिक्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)
 


तुभ्य॑मेव ज॑रिमन्वर्धतामयं मेममन्ये मृत्यवो॑ हिंसिषु: शतं ये ।
मातेव॑ पुत्रं प्रम॑ना उपस्थे॑ मित्र ए॑नं मित्रिया॑त्पात्वंह॑स: ॥१॥
मित्र ए॑नं वरु॑णो वा रिशादा॑ जरामृ॑त्युं कृणुतां संविदानौ ।
तदग्निर्होता॑ वयुना॑नि विद्वान्विश्वा॑ देवानां जनि॑मा विवक्ति ॥२॥
त्वमी॑शिषे पशूनां पार्थि॑वानां ये जाता उत वा ये जनित्रा॑: ।
मेमं प्राणो हा॑सीन्मो अ॑पानो मेमं मित्रा व॑धिषुर्मो अमित्रा॑: ॥३॥
द्यौष्ट्वा॑ पिता पृ॑थिवी माता जरामृ॑त्युं कृणुतां संविदाने ।
यथा जीवा अदि॑तेरुपस्थे॑ प्राणापानाभ्यां॑ गुपित: शतं हिमा॑: ॥४॥
इमम॑ग्न आयु॑षे वर्च॑से नय प्रियं रेतो॑ वरुण मित्र राजन् ।
मातेवा॑स्मा अदिते शर्म॑ यच्छ विश्वे॑ देवा जरद॑ष्टिर्यथास॑त् ॥५॥
 
 
 
एकोनत्रिंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्याथर्वा ऋषि: | बह्व्यो देवता: |  प्रथमाया अनुष्टुप् - द्वितीयातृतीययो: पञ्चम्यादितृचस्य च त्रिष्टुप् चतुर्थ्याश्च पराबृहती निचृत्प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


पार्थि॑वस्य रसे॑ देवा भग॑स्य तन्वो३ बले॑ ।
आयुष्यद्गमस्मा अग्नि: सूर्यो वर्च आ धाद्बृहस्पति॑: ॥१॥
आयु॑रस्मै धे॑हि जातवेद: प्रजां त्व॑ष्टरधिनिधे॑ह्यस्मै ।
रायस्पोषं॑ सवितरा सु॑वास्मै शतं जी॑वाति शरदस्तवायम् ॥२॥
आशीर्ण ऊर्ज॑मुत सौ॑प्रजास्त्वं दक्षं॑ धत्तं द्रवि॑णं सचे॑तसौ ।
जयं क्षेत्रा॑णि सह॑सायमि॑न्द्र कृण्वानो अन्यानध॑रान्त्सपत्ना॑न् ॥३॥
इन्द्रे॑ण दत्तो वरु॑णेन शिष्टो मरुद्भि॑रुग्र: प्रहि॑तो न आग॑न् ।
एष वां॑ द्यावापृथिवी उपस्थे मा क्षु॑धन्मा तृ॑षत् ॥४॥
ऊर्ज॑मस्मा ऊर्जस्वती धत्तं पयो॑ अस्मै पयस्वती धत्तम् ।
ऊर्ज॑मस्मै द्यावा॑पृथिवी अ॑धातां विश्वे॑ देवा मरुत ऊर्जमाप॑: ॥५॥
शिवाभि॑ष्टे हृद॑यं तर्पयाम्यनमीवो मो॑दिषीष्ठा: सुवर्चा॑: ।
सवासिनौ॑ पिबतां मन्थमेतमश्विनो॑ रूपं प॑रिधाय॑ मायाम् ॥६॥
इन्द्र॑ एतां स॑सृजे विद्धो अग्र॑ ऊर्जां स्वधामजरां सा त॑ एषा ।
तया त्वं जी॑व शरद॑: सुवर्चा मा त आ सु॑स्रोद्भिषज॑स्ते अक्रन् ॥७॥
 
 
 
त्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य प्रजापतिरृषि: । अश्विनौ देवता: | प्रथमाया: पथ्यापङ्क्ति:  द्वितीयाचतुर्थीपञ्चमीनामनुष्टुप् तृतीयायाश्च भुरिगनुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


यथेदं भूम्या अधि तृणं वातो॑ मथायति॑ ।
एवा म॑थ्नामि ते मनो यथा मां कामिन्यसो यथा मन्नाप॑गा अस॑: ॥१॥
सं चेन्नया॑थो अश्विना कामिना सं च वक्ष॑थ: ।
सं वां भगा॑सो अग्मत सं चित्तानि समु॑ व्रता ॥२॥
यत्सु॑पर्णा वि॑वक्षवो॑ अनमीवा वि॑वक्षव॑: ।
तत्र॑ मे गछताद्धवं॑ शल्य इ॑व कुल्म॑लं यथा॑ ॥३॥
यदन्त॑रं तद्बाह्यं यद्बाह्यं तदन्त॑रम् ।
कन्याद्गनां विश्वरू॑पाणां मनो॑ गृभायौषधे ॥४॥
एयम॑गन्पति॑कामा जनि॑कामोऽहमाग॑मम् ।
अश्व: कनि॑क्रदद्यथा भगे॑नाहं सहाग॑मम् ॥५॥
 
 
 
एकत्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य काण्व ऋषि: | मही चन्द्रमा वा देवता: | प्रथमाया अनुष्टुप्   द्वितीयाचतुर्थ्योरुपरिष्टाद्विराड्बृहती  तृतीयापञ्चम्योश्चार्षी त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


इन्द्र॑स्य या मही दृषत्क्रिमेर्विश्व॑स्य तर्ह॑णी ।
तया॑ पिनष्मि सं क्रिमी॑न्दृषदा खल्वाँ॑ इव ॥१॥
दृष्टमदृष्ट॑मतृहमथो॑ कुरूरु॑मतृहम् ।
अल्गण्डून्त्सर्वा॑न्छलुनान्क्रिमीन्वच॑सा जम्भयामसि ॥२॥
अल्गण्डू॑न्हन्मि महता वधेन॑ दूना अदू॑ना अरसा अ॑भूवन् ।
शिष्टानशि॑ष्टान्नि ति॑रामि वाचा यथा क्रिमी॑णां नकि॑रुछिषा॑तै ॥३॥
अन्वा॑न्त्र्यं शीर्षण्य१मथो पार्ष्टे॑यं क्रिमी॑न् ।
अवस्कवं व्य॑ध्वरं क्रिमीन्वच॑सा जम्भयामसि ॥४॥
ये क्रिम॑य: पर्व॑तेशु वनेष्वोष॑धीषु पशुष्वप्स्व१न्त ।
ये अस्माकं॑ तन्वद्गमाविविशु: सर्वं तद्ध॑न्मि जनि॑म क्रिमी॑णाम् ॥५॥
 
 
 
द्वात्रिंशं सूक्तम्» षडृचस्यास्य सूक्तस्य काण्व ऋषि: | आदित्यो देवता: | प्रथमर्चस्त्रिपाद्भुरिग्गायत्री  द्वितीयादिचतसृणामनुष्टुप् पथ्याश्च चतुष्पान्निचृदुष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)


उद्यन्ना॑दित्य: क्रिमी॑न्हन्तु निम्रोच॑न्हन्तु रश्मिभि॑: ।
ये अन्त: क्रिम॑यो गवि॑ ॥१॥
विश्वरू॑पं चतुरक्षं क्रिमिं॑ सारङ्गमर्जु॑नम् ।
शृणाम्य॑स्य पृष्टीरपि॑ वृश्चामि यच्छिर॑: ॥२॥
अत्रिवद्व॑: क्रिमयो हन्मि कण्ववज्ज॑मदग्निवत् ।
अगस्त्य॑स्य ब्रह्म॑णा सं पि॑नष्म्यहं क्रिमी॑न् ॥३॥
हतो राजा क्रिमी॑णामुतैषां॑ स्थपति॑र्हत: ।
हतो हतमा॑ता क्रिमि॑र्हतभ्रा॑ता हतस्व॑सा ॥४॥
हतासो॑ अस्य वेशसो॑ हतास: परि॑वेशस: ।
अथो ये क्षु॑ल्लका इ॑व सर्वे॑ ते क्रिम॑यो हता: ॥५॥
प्र ते॑ शृणामि शृङ्गे याभ्यां॑ वितुदायसि॑ ।
भिनाद्मि॑ ते कुषुम्भं यस्ते॑ विषधान॑: ॥६॥
 
 
 
त्रयस्त्रिंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य ब्रह्मा ऋषि: | यक्ष्मविबर्हणं देवता: | प्रथमाद्वितीययोरृचोरनुष्टुप्  तृतीयाया ककुमत्यनुष्टुप् चतुर्थ्याश्चतुष्पाद्भुरिगुष्णिक्  पञ्चम्या उपरिष्टाद्विराड्बृहती षष्ठ्या उष्णिग्गर्भा निचृदनुष्टुप्  सप्तम्याश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)


अक्षीभ्यां॑ ते नासि॑काभ्यां कर्णा॑भ्यां छुबु॑कादधि॑ ।
यक्ष्मं॑ शीर्षण्यंद्ग मस्तिष्का॑ज्जिह्वाया वि वृ॑हामि ते ॥१॥
ग्रीवाभ्य॑स्त उष्णिहा॑भ्य: कीक॑साभ्यो अनूक्याद्गत् ।
यक्ष्मं॑ दोषन्य१मंसा॑भ्यां बाहुभ्यां वि वृ॑हामि ते ॥२॥
हृद॑यात्ते परि॑ क्लोम्नो हली॑क्ष्णात्पार्श्वाभ्या॑म् ।
यक्ष्मं मत॑स्नाभ्यां प्लीह्नो यक्नस्ते वि वृ॑हामसि ॥३॥
आन्त्रेभ्य॑स्ते गुदा॑भ्यो वनिष्ठोरुदरादधि॑ ।
यक्ष्मं॑ कुक्षिभ्यां॑ प्लाशेर्नाभ्या वि वृ॑हामि ते ॥४॥
ऊरुभ्यां॑ ते अष्ठीवद्भ्यां पार्ष्णि॑भ्यां प्रप॑दाभ्याम् ।
यक्ष्मं॑ भसद्यं१ श्रोणि॑भ्यां भास॑दं भंस॑सो वि वृ॑हामि ते ॥५॥
अस्थिभ्य॑स्ते मज्जभ्य: स्नाव॑भ्यो धमनि॑भ्य: ।
यक्ष्मं॑ पाणिभ्या॑मङ्गुलि॑भ्यो नखेभ्यो वि वृ॑हामि ते ॥६॥
अङ्गे॑अङ्गे लोम्नि॑लोम्नि यस्ते पर्व॑णिपर्वणि ।
यक्ष्मं॑ त्वचस्यंद्ग ते वयं कश्यप॑स्य वीबर्हेण विष्व॑ञ्चं वि वृ॑हामसि ॥७॥
 
 
 
चतुस्त्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याथर्वा ऋषि: |  प्रथमर्च: पशुपति: द्वितीयाया देवा:  तृतीयाया अग्निर्विश्वकर्मा च चतुर्थ्या वायु: प्रजापतिश्च  पञ्चम्याश्चाशीर्देवता: | त्रिष्टुप् छन्द:॥ (www.hindumantavya.blogspot.in)


य ईशे॑ पशुपति॑: पशूनां चतु॑ष्पदामुत यो द्विपदा॑म् ।
निष्क्री॑त: स यज्ञियं॑ भागमे॑तु रायस्पोषा यज॑मानं सचन्ताम् ॥१॥
प्रमुञ्चन्तो भुव॑नस्य रेतो॑ गातुं ध॑त्त यज॑मानाय देवा: ।
उपाकृ॑तं शशमानं यदस्था॑त्प्रियं देवानामप्ये॑तु पाथ॑: ॥२॥
ये बध्यमा॑नमनु दीध्या॑ना अन्वैक्ष॑न्त मन॑सा चक्षु॑षा च ।
अग्निष्टानग्रे प्र मु॑मोक्तु देवो विश्वक॑र्मा प्रजया॑ संरराण: ॥३॥
ये ग्राम्या: पशवो॑ विश्वरू॑पा विरू॑पा: सन्तो॑ बहुधैक॑रूपा: ।
वायुष्टानग्रे प्र मु॑मोक्तु देव: प्रजाप॑ति: प्रजया॑ संरराण: ॥४॥
प्रजानन्त: प्रति॑ गृह्णन्तु पूर्वे॑ प्राणमङ्गे॑भ्य: पर्याचर॑न्तम् ।
दिवं॑ गच्छ प्रति॑ तिष्ठा शरी॑रै: स्वर्गं या॑हि पथिभि॑र्देवयानै॑: ॥५॥
 
 

पञ्चत्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्याङ्गिरा ऋषि: | विश्वकर्मा देवता: | प्रथमर्चओ बृहतीगर्भा त्रिष्टुप्  द्वितीयातृतीययोस्त्रिष्टुप् चतुर्थीपञ्चम्योश्च भुरिक् त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


ये भक्षय॑न्तो न वसू॑न्यानृधुर्यानग्नयो॑ अन्वत॑प्यन्त धिष्ण्या॑: ।
या तेषा॑मवया दुरि॑ष्टि: स्विद्गष्टिं नस्तान्कृ॑णवद्विश्वक॑र्मा ॥१॥
यज्ञप॑तिमृष॑य एन॑साहुर्निर्भ॑क्तं प्रजा अ॑नुतप्यमा॑नम् ।
मथव्याद्गन्त्स्तोकानप यान्रराध सं नष्टेभि॑: सृजतु विश्वक॑र्मा ॥२॥
अदान्यान्त्सो॑मपान्मन्य॑मानो यज्ञस्य॑ विद्वान्त्स॑मये न धीर॑: ।
यदेन॑श्चकृवान्बद्ध एष तं वि॑श्वकर्मन्प्र मु॑ञ्चा स्वस्तये॑ ॥३॥
घोरा ऋष॑यो नमो॑ अस्त्वेभ्यश्चक्षुर्यदे॑षां मन॑सश्च सत्यम् ।
बृहस्पत॑ये महिष द्युमन्न्नमो विश्व॑कर्मन्नम॑स्ते पाह्यस्मान् ॥४॥
यज्ञस्य चक्षु: प्रभृ॑तिर्मुखं॑ च वाचा श्रोत्रे॑ण मन॑सा जुहोमि ।
इमं यज्ञं वित॑तं विश्वक॑र्मणा देवा य॑न्तु सुमनस्यमा॑ना: ॥५॥
 
 
 
षट्त्रिंशं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य पतिवेदन ऋषि: |  प्रथमर्चोऽग्नि:  द्वितीयाया सोमादय:  तृतीयाया अग्नीषोमौ  चतुर्थ्या इन्द्र:  पञ्चम्या: सूर्य: षष्ठ्या धनपति:  सप्तम्या हिरण्यं भगश्च  अष्टम्याश्चौषधिर्देवता: | प्रथमाया भुरिगनुष्टुप्  द्वितीयाया: पञ्चम्यादितृचस्य चानुष्टुप् तृतीयाचतुर्थ्योस्त्रिष्टुप्  अष्टम्याश्च निचृत्पुरउष्णिक् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
आ नो॑ अग्ने सुमतिं सं॑भलो ग॑मेदिमां कु॑मारीं सह नो भगे॑न ।
जुष्टा वरेषु सम॑नेषु वल्गुरोषं पत्या सौभ॑गमस्त्वस्यै ॥१॥
सोम॑जुष्टं ब्रह्म॑जुष्टमर्यम्ना संभृ॑तं भग॑म् ।
धातुर्देवस्य॑ सत्येन॑ कृणोमि॑ पतिवेद॑नम् ॥२॥
इयम॑ग्ने नारी पतिं॑ विदेष्ट सोमो हि राजा॑ सुभगां॑ कृणोति॑ ।
सुवा॑ना पुत्रान्महि॑षी भवाति गत्वा पतिं॑ सुभगा वि रा॑जतु ॥३॥
यथा॑खरो म॑घवंश्चारु॑रेष प्रियो मृगाणां॑ सुषदा॑ बभूव॑ ।
एवा भग॑स्य जुष्टेयम॑स्तु नारी संप्रि॑या पत्यावि॑राधयन्ती ॥४॥
भग॑स्य नावमा रो॑ह पूर्णामनु॑पदस्वतीम् ।
तयो॑पप्रता॑रय यो वर: प्र॑तिकाम्यद्ग: ॥५॥
आ क्र॑न्दय धनपते वरमाम॑नसं कृणु ।
सर्वं॑ प्रदक्षिणं कृ॑णु यो वर: प्र॑तिकाम्यद्ग: ॥६॥
इदं हिर॑ण्यं गुल्गु॑ल्वयमौक्षो अथो भग॑: ।
एते पति॑भ्यस्त्वाम॑दु: प्रतिकामाय वेत्त॑वे ॥७
आ ते॑ नयतु सविता न॑यतु पतिर्य: प्र॑तिकाम्यद्ग: ।
त्वम॑स्यै धेहि ओषधे ॥८॥
 
 

॥ इति द्वितीयं काण्डम् ॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *