HinduMantavya
Loading...

सामवेद संहिता- पूर्वार्चिकः षष्ठप्रपाठकः (Samved Samhita Purvarchik-6)

Google+ Whatsapp

अथ षष्ठप्रपाठकस्य प्रथमोऽर्धः

 

॥प्रथमा दशतिः॥

(ऋषि- अमहीयुरांगिरसः, बृहन्मतिराङ्गिरसः, जमदग्निर्भार्गवः, प्रभूवसुरांगिरसः ॥५॥ मेध्यातिथिः काण्वः, निध्रुविः काश्यपः, उचथ्य आंगिरसः, | देवता- पवमानः, सोमः | छन्द- गायत्री)
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम्
इन्दुं देवा अयासिषुः ॥१॥
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः
शुम्भन्ति विप्रं धीतिभिः ॥२॥
आविशन्कलशद्ग सुतो विश्वा अर्षन्नभि श्रियः
इन्दुरिन्द्राय धीयते ॥३॥
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः
कार्ष्मन्वाजी न्यक्रमीत् ॥४॥
प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः
घ्नन्तः कृष्णामप त्वचम् ॥५॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः
नुदस्वादेवयुं जनम् ॥६॥
अया पवस्व धारया यया सूर्यमरोचयः
हिन्वानो मानुषीरपः ॥७॥
स पवस्व य आविथेन्द्रं वृत्राय हन्तवे
वव्रिवाद्गसं महीरपः ॥८॥
अया वीती परि स्रव यस्त इन्दो मदेष्वा
अवाहन्नवतीर्नव ॥९॥
परि द्युक्षद्ग सनद्रयिं भरद्वाजं नो अन्धसा
स्वानो अर्ष पवित्र आ ॥१०॥
इति प्रथमा दशतिः | तृतीयः खण्डः

 
 
 

॥द्वितीया दशतिः॥

(ऋषि- मेधातिथिः काण्वः, भृगुर्वारुणिर्जमदग्निर्भार्गवो वा, उचथ्य आङ्गिरसः, अवत्सारः काश्यप, निध्रुविः काश्यपः, असितः काश्यपो देवलो वा, कश्यपो मारीचः, कविर्भार्गवः, जमदग्निर्भार्गवः, अयास्य आंगिरसः, अमहीयुरांगिरसः, | देवता- पवमानः, सोमः | छन्द- गायत्री)
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः
सद्ग सूर्येण दिद्युते ॥१॥
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे
पान्तमा पुरुस्पृहम् ॥२॥
अध्वर्यो अद्रिभिः सुतद्ग सोमं पवित्र आ नय
पुनाहीन्द्राय पातवे ॥३॥
तरत्स मन्दी धावति धारा सुतस्यान्धसः
तरत्स मन्दी धावति ॥४॥
आ पवस्व सहस्रिणद्ग रयिद्ग सोम सुवीर्यम्
अस्मे श्रवाद्गसि धारय ॥५॥
अनु प्रत्नास आयवः पदं नवीयो अक्रमुः
रुचे जनन्त सूर्यम् ॥६॥
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत्
सीदन्योनौ वनेष्वा ॥७॥
वृषा सोम द्युमाद्ग असि वृषा देव वृषव्रतः
वृषा धर्माणि दध्रिषे ॥८॥
इषे पवस्व धारया मृज्यमानो मनीषिभिः
इन्दो रुचाभि गा इहि ॥९॥
मन्द्रया सोम धारया वृषा पवस्व देवयुः
अव्यो वारेभिरस्मयुः ॥१०॥
अया सोम सुकृत्यया महान्त्सन्नभ्यवर्धथाः
मन्दान इद्वृषायसे ॥११॥
अयं विचर्षणिर्हितः पवमानः स चेतति
हिन्वान आप्यं बृहत् ॥१२॥
प्र न इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि
अभि देवाद्ग अयास्यः ॥१३॥
अपघ्नन्पवते मृधोऽप सोमो अराव्णः
गच्छन्निन्द्रस्य निष्कृतम् ॥१४॥
इति द्वितीया दशतिः | चतुर्थः खण्डः | इति गायत्र्यः

 
 
 

॥तृतीया दशतिः॥

(ऋषि- सप्तर्षयः | देवता- पवमानः, सोमः | छन्द- बृहती)
पुनानः सोम धारयापो वसानो अर्षसि
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥१॥
परीतो षिञ्चता सुतद्ग सोमो य उत्तमद्ग हविः
दधन्वाद्ग यो नर्यो अप्स्वा॥३॥न्तरा सुषाव सोममद्रिभिः ॥२॥
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया
जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥३॥
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा
अद्गशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥४॥
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम्
अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥५॥
तवाहद्ग सोम रारण सख्य इन्दो दिवेदिवे
पुरूणि बभ्रो नि चरन्ति मामव परिधीद्गरति ताद्ग इहि ॥६॥
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥७॥
अभि सोमास आयवः पवन्ते मद्यं मदम्
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥८॥
पुनानः सोम जागृविरव्या वारैः परि प्रियः
त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥९॥
इन्द्राय पवते मदः सोमो मरुत्वते सुतः
सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥१०॥
पवस्व वाजसातमोऽभि विश्वानि वार्या
त्वद्ग समुद्रः प्रथमे विधर्मं देवेभ्यं सोम मत्सरः ॥११॥
पवमाना असृक्षत पवित्रमति धारया
मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयाद्गसि च ॥१२॥
इति तृतीया दशतिः | पञ्चमः खण्डः | इति बृहत्यः
 
 
 

॥चतुर्थी दशतिः॥

(ऋषि- उशना काव्यः, बृषगणो वासिष्ठः, पराशरः शाक्त्यः, वसिष्ठो मैत्रावरुणिः, प्रतर्दनो दैवोदासिः, | देवता- पवमानः, सोमः | छन्द- त्रिष्टुप्)
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष
अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥१॥
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥२॥
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम्
गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥३॥
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम्
सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥४॥
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥५॥
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः
वना वसानो वरुणो न सिन्धुर्वि रत्नधा दयते वार्याणि ॥६॥
अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः
वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥७॥
कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः
नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥८॥
एष स्य ते मधुमाद्ग इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः
सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥९॥
पवस्व सोम मधुमाद्ग ऋतावापो वसानो अधि सानो अव्ये
अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः ॥१०॥
इति चतुर्थी दशतिः | षष्ठः खण्डः

 
 

॥पञ्चमी दशतिः॥

(ऋषि- प्रतर्दनो दैवोदासिः, पराशरः शाक्त्यः, इन्द्रप्रमतिर्वासिष्ठः, वसिष्ठो मैत्रावरुणिः, कर्णश्रुद्वासिष्ठः, नोधा गौतमः, कण्वो घौरः, मन्युर्वासिष्ठः, कुत्स आङ्गिरसः, कश्यपो मारीचः, प्रस्कण्वः काण्वः, | देवता- पवमानः, सोमः | छन्द- त्रिष्टुप्)
प्र सेनानीः शूरो अग्ने रथानां गव्यन्नेति हर्षते अस्य सेना
भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥१॥
प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम्
पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ॥२॥
प्र गायताभ्यर्चाम देवान्त्सोमद्ग हिनोत महते धनाय
स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः ॥३॥
प्र हिन्वानो जनिता रोदस्यो रथो न वाजद्ग सनिषन्नयासीत्
इन्द्रं गच्छन्नायुधा सद्गशिशानो विश्वा वसु हस्तयोरादधानः ॥४॥
तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके
आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥५॥
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः
हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥६॥
अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः
अपो वृणानः पवते कवीयान्व्रजं न पशुवर्धनाय मन्म ॥७॥
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय
हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥८॥
अया पवा पवस्वैना वसूनि माद्गश्चत्व इन्द्रो सरसि प्र धन्व
ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥९॥
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान्
अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥१०॥
असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीषा
दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निद्ग सदनेष्वच्छ ॥११॥
अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ
नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तम् ॥१२॥
इति पञ्चमी दशतिः | सप्तमः खण्डः | इति त्रिष्टुभः | इति षष्ठप्रपाठकस्य प्रथमोऽर्धः
 
 
 

अथ षष्ठप्रपाठकस्य द्वितीयोऽर्धः

॥षष्ठी दशतिः॥

(ऋषि- अन्भीगुः श्यावाश्विः, नहुशो मानवः, यथात्रिर्नाहुषः, मनुः सांवरणः, अम्बरीषो वार्षागिरः ऋजिष्वा भारद्वाजश्च, रेभसूनू काश्यपौ, प्रजापतिर्वैश्वामित्रो वाच्यो वा, | देवता- पवमानः, सोमः | छन्द- अनुष्टुप्, बृहती)

पुरोजिती वो अन्धसः सुताय मादयित्नवे
अप श्वानद्ग श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥१॥
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥२॥
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः
पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥३॥
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः
मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥४॥
अभी नो वाजसातमद्ग रयिमर्ष शतस्पृहम्
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥५॥
अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम्
वत्सं न पूर्व आयुनि जातद्ग रिहन्ति मातरः ॥६॥
आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौद्गस्यम्
शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः ॥७॥
परि त्यद्ग हर्यतद्ग हरिं बभ्रुं पुनन्ति वारेण
यो देवान्विश्वाद्ग इत्परि मदेन सह गच्छति ॥८॥
प्र सुन्वानायान्धसो मर्तो न वष्ट तद्वचः
अप श्वानमराधसद्ग हता मखं न भृगवः ॥९॥
इति षष्ठी दशतिः | अष्टमः खण्डः | इत्यनुष्टुभः
 
 
 

॥सप्तमी दशतिः॥

(ऋषि- कविर्भार्गवः, सिकता निवावरी, रेणुर्वैश्वामित्रः, वेनो भार्गवः, वसुर्भारद्वाजः वत्सप्रिर्भालन्दः, गृत्समदः शौनकः, पवित्र आङ्गिरसः, | देवता- पवमानः, सोमः | छन्द- जगती)
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते
आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥१॥
अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः
वि चिदश्नाना इषयो अरातयोऽर्यो नः सन्तु सनिषन्तु नो धियः ॥२॥
एष प्र कोशे मधुमाद्ग अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः
अभ्यॄ॥३॥तस्य सुदुश्चा घृतश्चुतो वाश्रा अर्षन्ति पयसा च धेनवः ॥३॥
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतद्ग सखा सख्युर्न प्र मिनाति सङ्गिरम्
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥४॥
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः
हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजाद्गसि कृणुषे नदीष्वा ॥५॥
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसाद्ग दिवः
प्राणा सिन्धूनाद्ग कलशाद्ग अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥६॥
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि
चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥७॥
इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह
मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥८॥
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत्
पुनानो वारमत्येष्यव्ययद्ग श्येनो न योनिं घृतवन्तमासदत् ॥९॥
प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः
बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥१०॥
अञ्जते व्यञ्जते समञ्जते क्रतुद्ग रिहन्ति मध्वाभ्यञ्जते
सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणद्ग हिरण्यपावाः पशुमप्सु गृभ्णते ॥११॥
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥१२॥
इति सप्तमी दशतिः | नवमः खण्डः | इति जगत्यः
 
 
 

॥अष्टमी दशतिः॥

(ऋषि- अग्निश्चाक्षुषः, चक्षुर्मानवः, पर्वतनारदौ काण्वौ, त्रित आप्त्यः, मनुराप्सवः, द्वित आप्त्यः | देवता- पवमानः, सोमः | छन्द- उष्णिक्)
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः
श्रुष्टे जातास इन्दवः स्वर्विदः ॥१॥
प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव
द्युमन्तद्ग शुष्ममा भर स्वर्विदम् ॥२॥
सखाय आ नि षीदत पुनानाय प्र गायत
शिशुं न यज्ञैः परि भूषत श्रिये ॥३॥
तं वः सखायो मदाय पुनानमभि गायत
शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥४॥
प्राणा शिशुर्महीनाद्ग हिन्वन्नृतस्य दीधितिम्
विश्वा परि प्रिया भुवदध द्विता ॥५॥
पवस्व देववीतय इन्दो धाराभिरोजसा
आ कलशं मधुमान्त्सोम नः सदः ॥६॥
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति
अग्रे वाचः पवमानः कनिक्रदत् ॥७॥
प्र पुनानाय वेधसे सोमाय वच उच्यते
भृतिं न भरा मतिभिर्जुजोषते ॥८॥
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव
शुचिं च वर्णमधि गोषु धारय ॥९॥
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत
गोभिष्टे वर्णमभि वासयामसि ॥१०॥
पवते हर्यतो हरिरति ह्वराद्गसि रद्गह्या
अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥११॥
परि कोशं मधुश्चुतद्ग सोमः पुनानो अर्षति
अभि वाणीरृषीणाद्ग सप्ता नूषत ॥१२॥
इत्यष्टमी दशतिः | दशमः खण्डः
 
 
 

॥नवमी दशतिः॥

(ऋषि- गौरवीतिः शाक्त्यः, उर्ध्वसद्मा आङ्गिरसः, ऋजिश्वा भारद्वाजः, कृतयशा आंगिरसः, ऋणंचयो राजर्षिः, शक्तिर्वासिष्ठः, ऊरुरांगिरसः, | देवता- पवमानः, सोमः | छन्द- ककुप्, यवमध्या, गायत्री)
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः
महि द्युक्षतमो मदः ॥१॥
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम्
वि कोशं मध्यमं युव ॥२॥
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरद्ग रजस्तुरम्
वनप्रक्षमुदप्रुतम् ॥३॥
एतमु त्यं मदच्युतद्ग सहस्रधारं वृषभं दिवोदुहम्
विश्वा वसूनि बिभ्रतम् ॥४॥
स सुन्वे यो वसूनां यो रायामानेता य इडानाम्
सोमो यः सुक्षितीनाम् ॥५॥
त्वं ह्या॥३॥ङ्ग दैव्यं पवमान जनिमानि द्युमत्तमः
अमृतत्वाय घोषयन् ॥६॥
एष स्य धारया सुतोऽव्या वारेभिः पवते मदिन्तमः
क्रीडन्नूर्मिरपामिव ॥७॥
य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा ।
अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ।
ॐ वर्मीव धृष्णवा रुज ॥८॥
इति नवमी दशतिः | एकादशः खण्डः | इत्युष्णिक्ककुभः | इति षष्ठप्रपाठकस्य द्वितीयोऽर्धः षष्ठप्रपाठकश्च समाप्तः | इति पञ्चमोऽध्या |इति छन्दोगप्रकृतिऋक् समाप्ता | इति सौम्यं पावमानं काण्डं पर्व वा समाप्तम् ॥
इति पूर्वार्चिकः समाप्तः॥

 
 

आरण्य आर्चिकः

अथ षष्ठोऽध्यायः (अथ आरण्यं काण्डम्)

॥प्रथमा दशतिः॥

(ऋषि- शंयुर्बार्हस्पत्यः, वसिष्ठो मैत्रावरुणिः, वामदेवो गौतमः, शुनःशेप आजीगर्तिः कृत्रिमो देवरातो वैश्वामित्रो वा, कुत्स आंगिरसः, अमहीयुरांगिरसः, आत्मा, | देवता- इन्द्रः, वरुणः, पवमानः, सोमः, विश्वे देवाः, अन्नम्, | छन्द- बृहती, त्रिष्टुप्, गायत्री, एकपाज्जगती)
 
इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः।
यद्दिधृक्षेम वज्रहस्त रोदसी उभे सुशिप्र पप्राः ॥१॥
इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य
ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् ॥२॥
यस्येदमा रजोयुजस्तुजे जने वनद्ग स्वः
इन्द्रस्य रन्त्यं बृहत् ॥३॥
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमद्ग श्रथाय
अथादित्य व्रते वयं तवानागसो अदितये स्याम ॥४॥
त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत्
तन्नो मित्रो वरुणो मामहन्ता मदितिः सिन्धुः पृथिवी उत द्यौः ॥५॥
इमं वृषणं कृणुतैकमिन्माम् ॥६॥
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः
वरिवोवित्परिस्रव ॥७॥
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम्
सिषासन्तो वनामहे ॥८॥
अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम
यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥९॥
इति प्रथमा दशतिः ॥१॥ प्रथमः खण्डः ॥१॥
 
 
 
 

॥द्वितीया दशतिः॥

(ऋषि- श्रुतकक्ष आङ्गिरसः, पवित्र आङ्गिरसः, मधुच्छन्दा वैश्वामित्रः, प्रथो वासिष्ठः, गृत्समदः शौनकः, नृमेधपुरुमेधावांगिरसौ, | देवता- इन्द्रः, पवमानः, सोमः, विश्वे देवाः, वायुः | छन्द- गायत्री, जगती, त्रिष्टुप्, अनुष्टुप्)
 
त्वमेतदधारयः कृष्णासु रोहिणीषु च
परुष्णीषु रुशत्पयः ॥१॥
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः ॥२॥
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा
इन्द्रो वज्री हिरण्ययः ॥३॥
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च
उग्र उग्राभिरूतिभिः ॥४॥
प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत्
धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥५॥
नियुत्वान्वायवा गह्ययद्ग शुक्रो अयामि ते
गन्तासि सुन्वतो गृहम् ॥६॥
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय
तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥७॥
इति द्वितीया दशतिः | द्वितीयः खण्डः
 
 
 

॥तृतीया दशतिः॥

(ऋषि- वामदेवो गौतमः, गोतमो राहूगणः, मधुच्छन्दा वैश्वामित्रः, गृत्समदः शौनकः, भरद्वाजो बार्हस्पत्यः, ऋजिश्वा भारद्वाजः, हिरण्यस्तूप आंगिरसः, विश्वामित्रो गाथिनः, | देवता- प्रजापतिः, सोमः, अग्निः, अपांनपात्, रात्रिः, विश्वेदेवाः, लिंगोक्ता, | देवता- इन्द्रः, आत्मा, अग्निर्वा, | छन्द- त्रिष्टुप्, अनुष्टुप्, गायत्री, जगती, महापंक्तिः)
मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः
परमेष्ठी प्रजापतिर्दिवि द्यामिव दृद्गहतु ॥१॥
सं ते पयाद्गसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः
आप्यायमानो अमृताय सोम दिवि श्रवाद्गस्युत्तमानि धिष्व ॥२॥
त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः
त्वमातनोरुर्वा॥३॥न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥३॥
अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम्
होतारद्ग रत्नधातमम् ॥४॥
ते मन्वत प्रथमं नाम गोनां त्रिः सप्त परमं नाम जनान्
ता जानतीरभ्यनूषत क्षा आविर्भुवन्नरुणीर्यशसा गावः ॥५॥
समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति
तमू शुचिद्ग शुचयो दीदिवाद्गसमपान्नपातमुप यन्त्यापः ॥६॥
आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति
अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री ॥७॥
प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे
वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये ॥८॥
विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म
मा वो वचाद्गसि परिचक्ष्याणि वोचद्ग सुम्नेष्विद्वो अन्तमा मदेम ॥९॥
यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती
यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम्
यशसा॥३॥स्याः सद्ग सदोऽहं प्रवदिता स्याम् ॥१०॥
इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री
अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥११॥
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन्
त्रिधातुरर्को रजसो विमानोऽजस्रं ज्योतिर्हविरस्मि सर्वम् ॥१२॥
पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणद्ग सूर्यस्य
पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥१३॥
इति तृतीया दशतिः, तृतीयः खण्डः
 
 

॥चतुर्थी दशतिः॥

(ऋषि- वामदेवो गौतमः, | देवता- नारायणः, अग्निः, पुरुषः, द्यावापृथिवी, इन्द्रः, गावः, | छन्द- अनुष्टुप्, पंक्तिः, त्रिष्टुप्)
भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि
स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशेऽदाः ॥१॥
वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः
वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥२॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
स भूमिद्ग सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥३॥
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः
तथा विष्वङ् व्यक्रामदशनानशने अभि ॥४॥
पुरुष एवेदद्ग सर्वं यद्भूतं यच्च भाव्यम्
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥५॥
तावानस्य महिमा ततो ज्यायाद्गश्च पूरुषः
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥६॥
ततो विराडजायत विराजो अधि पूरुषः
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥७॥
मन्ये वं द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनम्
द्यावापृथिवी भवतद्ग स्योने ते नो मुञ्चतमद्गहसः ॥८॥
हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरी
तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः ॥९॥
यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत
सत्यस्य ब्रह्मणो वर्चस्तेन मा सद्ग सृजामसि ॥१०॥
सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन्
क्रतुं न नृम्णद्ग स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ॥११॥
सहर्षभाः सहवत्सा उदेत विश्वा रूपाणी बिभ्रतीर्द्व्यूध्नीः
उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त ॥१२॥
इति चतुर्थी दशतिः | चतुर्थः खण्डः
 
 
 

॥पञ्चमी दशतिः॥

(ऋषि- शतं वैखनसाः, विभ्राट् सौर्यः, कुत्स आङ्गिरसः, सार्पराज्ञी, प्रस्कण्वः काण्वः, | देवता- सूर्यः, अग्निः, पवमानः, आत्मा वा, |छन्द- गायत्री, जगती, त्रिष्टुप्)
अग्न आयूद्गषि पवस आसुवोर्जमिषं च नः
आरे बाधस्व दुच्छुनाम् ॥१॥
विभ्राङ्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम्
वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥२॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः
आप्रा द्यावापृथिवी अन्तरिक्षद्ग सूर्य आत्मा जगतस्तस्थुषश्च ॥३॥
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः
पितरं च प्रयन्त्स्वः ॥४॥
अन्तश्चरति रोचनास्य प्राणादपानती
व्यख्यन्महिषो दिवम् ॥५॥
त्रिद्गषद्धाम वि राजति वाक्पतङ्गाय धीयते
प्रति वस्तोरह द्युभिः ॥६॥
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः
सूराय विश्वचक्षसे ॥७॥
अदृश्रन्नस्य केतवो वि रश्मयो जनाद्ग अनु
भ्राजन्तो अग्नयो यथा ॥८॥
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य
विश्वमाभासि रोचनम् ॥९॥
प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान्
प्रत्यङ् विश्वद्ग स्वर्दृशे ॥१०॥
येना पावक चक्षसा भुरण्यन्तं जनाद्ग अनु
त्वं वरुण पश्यसि ॥११॥
उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः
पश्यञ्जन्मानि सूर्य ॥१२॥
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः
ताभिर्याति स्वयुक्तिभिः ॥१३॥
सप्त त्वा हरितो रथे वहन्ति देव सूर्य
शोचिष्केशं विचक्षण ॥१४॥
इति पञ्चमी दशतिः | पञ्चमः खण्डः | इति षष्ठोऽध्यायः | इति सामवेदसंहितायामारण्यं काण्डं पर्व वा समाप्तम्

 

अथ महानाम्न्यार्चिकः

(प्रजापतिः | इन्द्रस्त्रैलोक्यात्मा | त्रिकं)
 
विदा मघवन् विदा गातुमनुशद्गसिषो दिशः
शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥१॥
आभिष्ट्वमभिष्टिभिः स्वाऽ॥३॥र्न्नाद्गशुः
प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ॥२॥
एवा हि शक्रो राये वाजाय वज्रिवः
शविष्ठ वज्रिन्नृञ्जसे मद्गहिष्ठ वज्रिन्नृञ्जस
आ याहि पिब मत्स्व ॥३॥
विदा राये सुवीर्यं भवो वाजानां पतिर्वशाद्ग अनु
मद्गहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ॥४॥
यो मद्गहिष्ठो मघोनामद्गजुर्न्न शोचिः
चिकित्वो अभि नो नयेन्द्रो विदे तमु स्तुहि ॥५॥
ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम्
स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥६॥
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम्
स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥७॥
पूर्वस्य यत्ते अद्रिवोद्गऽशुर्मदाय
सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते
वशी हि शक्रो नूनं तन्नव्यद्ग संन्यसे ॥८॥
प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै
शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः ॥९॥
अथ पञ्च पुरीषपदानि
एवाह्योऽ३ऽ३ऽ३वा । एवा ह्यग्ने । एवाहीन्द्र
एवा हि पूषन् । एवा हि देवाः ओं एवाहि देवाः ॥१०॥
इति पञ्च पुरीषपदानि

इति महानाम्न्यार्चिकः समाप्तः

 
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें 
 
सामवेद संहिता- पूर्वार्चिकः

 
सामवेद संहिता- उत्तरार्चिकः

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *