HinduMantavya
Loading...

सामवेद संहिता- उत्तरार्चिकः पञ्चमप्रपाठकः (Samved Samhita Uttararchik-5)

Google+ Whatsapp

अथ नवमोऽध्यायः

अथ पञ्चमप्रपाठके प्रथमोऽध्यायः

(ऋषि- प्रतर्दनो दैवोदासिः, असितः काश्यपो देवलो वा, उचथ्य आंगिरसः, अमहीयुराङ्गिरसः, निध्रुविः काश्यपः, वसिष्ठो मैत्रावरुणिः, सुकक्ष आंगिरसः, कविर्भार्गवः, देवातिथिः काण्वः, भर्गः प्रागाथः, अम्बरीषो वार्षागिरः ऋजिश्वा भारद्वाजश्च, अग्नये धिष्ण्या ऐश्वराः, उशना काव्यः, नृमेध आंगिरसः, जेता माधुच्छन्दसः, | देवता- पवमानः, सोमः, अग्निः, इन्द्रः, | छन्द-  त्रिष्टुप्, गायत्री जगती, प्रगाथः, अनुष्टुप्, द्विपदा विराट्, उष्णिक्)
 
शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन ।
कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥११७५॥
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनां ।
तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥११७६॥
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् ।
अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥११७७॥
एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् ।
वर्धन्तो अस्य वीर्यं ॥११७८॥

पुनानासश्चमूषदो गच्छन्तो वायुमश्विना ।
ते नो धत्त सुवीर्यं ॥११८१॥
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।
देवानां योनिमासदं ॥११८०॥
मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः ।
अनु विप्रा अमादिषुः ॥११८१॥
देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।
स गोभिर्वासयामसि ॥११८२॥
पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।
परि गव्यान्यव्यत ॥११८३॥
मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।
इन्दो सखायमा विश ॥११८४॥
नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदं ।
भक्षीमहि प्रजामिषं ॥११८५॥
वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।
सहो नः सोम पृत्सु धाः ॥११८६॥
सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।
वायोरिन्द्रस्य निष्कृतं ॥११८७॥
पवमानमवस्यवो विप्रमभि प्र गायत ।
सुष्वाणं देववीतये ॥११८८॥
पवन्ते वाजसातये सोमाः सहस्रपाजसः ।
गृणाना देववीतये ॥११८९॥
उत नो वाजसातये पवस्व बृहतीरिषः ।
द्युमदिन्दो सुवीर्यं ॥११९०॥
अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।
वि वारमव्यमाशवः ॥११९१॥
ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यं ।
सुवाना देवास इन्दवः ॥११९२॥
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः ।
दधन्विरे गभस्त्योः ॥११९३॥
जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।
विश्वा अप द्विषो जहि ॥११९४॥
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।
योनावृतस्य सीदत ॥११९५॥
सोमा असृग्रमिन्दवः सुता ऋतस्य धारया ।
इन्द्राय मधुमत्तमाः ॥११९६॥
अभि विप्रा अनूषत गावो वत्सं न धेनवः ।
इन्द्रं सोमस्य पीतये ॥११९७॥
मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् ।
सोमो गौरी अधि श्रितः ॥११९८॥
दिवो नाभा विचक्षणोऽव्यो वारे महीयते ।
सोमो यः सुक्रतुः कविः ॥११९९॥
यः सोमः कलशेष्वा अन्तः पवित्र आहितः ।
तमिन्दुः परि षस्वजे ॥१२००॥
प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।
जिन्वन्कोशं मधुश्चुतं ॥१२०१॥
नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघां ।
हिन्वानो मानुषा युजा ॥१२०२॥
आ पवमान धारय रयिं सहस्रवर्चसं ।
अस्मे इन्दो स्वाभुवं ॥१२०३॥
अभि प्रिया दिवः कविर्विप्रः स धारया सुतः ।
सोमो हिन्वे परावति ॥१२०४॥
उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः ।
वाणस्य चोदया पविं ॥१२०५॥
प्रसवे त उदीरते तिस्रो वाचो मखस्युवः ।
यदव्य एषि सानवि ॥१२०६॥
अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः ।
पवमानं मधुश्चुतं ॥१२०७॥
आ पवस्व मदिन्तम पवित्रं धारया कवे ।
अर्कस्य योनिमासदं ॥१२०८॥
स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः ।
एन्द्रस्य जठरं विश ॥१२०९॥
अया वीती परि स्रव यस्त इन्दो मदेष्वा ।
अवाहन्नवतीर्नव ॥१२१०॥
पुरः सद्य इत्थाधिये दिवोदासाय शंबरं ।
अध त्यं तुर्वशं यदुं ॥१२ ल्स्दिर्॥
परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् ।
क्षरा सहस्रिणीरिषः ॥१२१२॥
अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।
गच्छन्निन्द्रस्य निष्कृतं ॥१२१३॥
महो नो राय आ भर पवमान जही मृधः ।
रास्वेन्दो वीरवद्यशः ॥१२१४॥
न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् ।
यत्पुनानो मखस्यसे ॥१२१५॥
अया पवस्व धारया यया सूर्यमरोचयः ।
हिन्वानो मानुषीरपः ॥१२१६॥
अयुक्त सूर एतशं पवमानो मनावधि ।
अन्तरिक्षेण यातवे ॥१२१७॥
उत त्या हरितो रथे सूरो अयुक्त यातवे ।
इन्दुरिन्द्र इति ब्रुवन्॥१२१८॥
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वं ।
यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥१२१९॥
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।
आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥१२२०॥
उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।
अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान्॥१२२१॥
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत्॥१२२२॥
इन्द्रः स दामने कृत ओजिष्ठः स बले हितः ।
द्युम्नी श्लोकी स सोम्यः ॥१२२३॥
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
ववक्ष उग्रो अस्तृतः ॥१२२४॥
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।
पुनाहीन्द्राय पातवे ॥१२२५॥
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत ।
पवमानस्य मरुतः ॥१२२६॥
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
सुनोता मधुमत्तमं ॥१२२७॥
धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।
हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा ॥१२२८॥
शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु ।
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥१२२९॥
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।
प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः ॥१२३०॥
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१२३१॥
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥१२३२॥
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत्॥१२३३॥
तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः ।
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥१२३४॥
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥१२३५॥
पवमान नि तोशसे रयिं सोम श्रवाय्यं ।
इन्दो समुद्रमा विश ॥१२३६॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनं ॥१२३७॥
अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥१२३८॥
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥१२३९॥
परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः ।
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥१२४०॥
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥१२४१॥
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥१२४२॥
दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥१२४३॥
प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियं ।
अग्ने रथं न वेद्यं ॥१२४४॥
कविमिव प्रशंस्यं यं देवास इति द्विता ।
नि मर्त्येष्वादधुः ॥१२४५॥
त्वं यविष्ठ दाशुषो न्ऱींपाहि शृणुही गिरः ।
रक्षा तोकमुत त्मना ॥१२४६॥
एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।
गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥१२४७॥
अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥१२४८॥
त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि ।
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥१२४९॥
पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥१२५०॥
त्वं वलस्य गोमतोऽपावरद्रिवो बिलं ।
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥१२५१॥
इन्द्रमीशानमोजसाभि स्तोमैरनूषत ।
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥१२५२॥
इति पञ्चमप्रपाठके प्रथमोऽर्धः | इति नवमोऽध्यायः समाप्तः
 
 

अथ दशमोऽध्यायः

अथ पञ्चमप्रपाठकस्य द्वितीयोऽर्धः

(ऋषि- पराशरः शाक्त्यः, शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः, असितः काश्यपो देवलो वा, राहूगण आंगिरसः, प्रियमेध आंगिरसः, शे॒षास्त्रयः पादाः, प्र॒थम पाद: नृमेध आंगिरसः, शे॒षास्त्रयः पादाः, इध्मवाहो दार्ढच्युतः, पवित्र आंगिरसो वा वसिष्ठो वा उभौ वा, वसिष्ठो मैत्रावरुणिः, वत्सः काण्वः, शतं वैखानसः, सप्तर्षयः, वसुर्भारद्वाजः, भर्गः प्रागाथः, भरद्वाजो बार्हस्पत्यः, मनुराप्सवः, अम्बरीषो वार्षागिरः ऋजिश्वा भारद्वाजश्च, अग्नयो धिष्ण्या ऐश्वराः, अमहीयुरांगिरसः, त्रिशोकः काण्वः, गोतमो राहूगणः, मधुच्छन्दा वैश्वामित्रः, | देवता- पवमानः, सोमः, पवमानाध्येता, इन्द्रः, अग्निः, अग्नीन्द्रौ, | छन्द- त्रिष्टुप्, गायत्री, अनुष्टुप्, प्रगाथः, द्विपदा विराट्, जगती, उष्णिक्)

अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः ।
वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥१२५३॥
मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥१२५४॥
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥१२५५॥
एष देवो अमर्त्यः पर्णवीरिव दीयते ।
अभि द्रोणान्यासदं ॥१२५६॥
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
दधद्रत्नानि दाशुषे ॥१२५७॥
एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
पवमानः सिषासति ॥१२५८॥
एष देवो रथर्यति पवमानो दिशस्यति ।
आविष्कृणोति वग्वनुं ॥१२५९॥
एष देवो विपन्युभिः पवमान ऋतायुभिः ।
हरिर्वाजाय मृज्यते ॥१२६०॥
एष देवो विपा कृतोऽति ह्वरांसि धावति ।
पवमानो अदाभ्यः ॥१२६१॥
एष दिवं वि धावति तिरो रजांसि धारया ।
पवमानः कनिक्रदत्॥१२६२॥
एष दिवं व्यासरत्तिरो रजांस्यस्पृतः ।
पवमानः स्वध्वरः ॥१२६३॥
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
हरिः पवित्रे अर्षति ॥१२६४॥
एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
धारया पवते सुतः ॥१२६५॥
एष धिया यात्यण्व्य शूरो रथेभिराशुभिः ।
गच्छन्निन्द्रस्य निष्कृतं ॥१२६६॥
एष पुरू धियायते बृहते देवतातये ।
यत्रामृतास आशत ॥१२६७॥
एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
प्रचक्राणं महीरिषः ॥१२६८॥
एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा ।
यदी तुञ्जन्ति भूर्णयः ॥१२६९॥
एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः ।
पतिः सिन्धूनां भवन्॥१२७०॥
एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा ।
नृम्णा दधान ओजसा ॥१२७१॥
एष वसूनि पिब्दनः परुषा ययिवां अति ।
अव शादेषु गच्छति ॥१२७२॥
एतमु त्यं दश क्षिपो हरिं हिवन्ति यातवे ।
स्वायुधं मदिन्तमं ॥१२७३॥
एष उ स्य वृषा रथोऽव्या वारेभिरव्यत ।
गच्छन्वाजं सहस्रिणं ॥१२७४॥
एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ॥१२७५॥
एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
गच्छं जारो न योषितं ॥१२७६॥
एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
य इन्दुर्वारमाविशत्॥१२७७॥
एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
क्रन्दन्योनिमभि प्रियं ॥१२७८॥
एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः ।
याभिर्मदाय शुम्भते ॥१२७९॥
एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
अव्यो वारं वि धावति ॥१२८०॥
एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
विश्वा धामान्याविशन्॥१२८१॥
एष देवः शुभायतेऽधि योनावमर्त्यः ।
वृत्रहा देववीतमः ॥१२८२॥
एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
अभि द्रोणानि धावति ॥१२८३॥
एष सूर्यमरोचयत्पवमानो अधि द्यवि ।
पवित्रे मत्सरो मदः ॥१२८४॥
एष सूर्येण हासते संवसानो विवस्वता ।
पतिर्वाचो अदाभ्यः ॥१२८५॥
एष कविरभिष्टुतः पवित्रे अधि तोशते ।
पुनानो घ्नन्नप द्विषः ॥१२८६॥
एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
पवित्रे दक्षसाधनः ॥१२८७॥
एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
सोमो वनेषु विश्ववित्॥१२८८॥
एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
इन्दुः सत्राजिदस्तृतः ॥१२८९॥
एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
पुनान इन्दुरिन्द्रमा ॥१२९०॥
एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
देवावीरघशंसहा ॥१२९१॥
स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
विघ्नन्रक्षांसि देवयुः ॥१२९२॥
स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।
अभि योनिं कनिक्रदत्॥१२९३॥
स वाजी रोचना दिवः पवमानो वि धावति ।
रक्षोहा वारमव्ययं ॥१२९४॥
स त्रितस्याधि सानवि पवमानो अरोचयत् ।
जामिभिः सूर्यं सह ॥१२९५॥
स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
सोमो वाजमिवासरत्॥१२९६॥
स देवः कविनेषितो३ऽभि द्रोणानि धावति ।
इन्दुरिन्द्राय मंहयन्॥१२९७॥
यः पावमानीरध्येत्यृषिभिः सम्भृतं रसं ।
सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥१२९८॥
पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसं ।
तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकं ॥१२९९॥
पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः ।
ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितं ॥१३००॥
पावमानीर्दधन्तु न इमं लोकमथो अमुं ।
कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥१३०१॥
येन देवाः पवित्रेणात्मानं पुनते सदा ।
तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥१३०२॥
पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनं ।
पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ॥१३०३॥
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चं ॥१३०४॥
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥१३०५॥
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१३०६॥
महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव ।
स्तोमैर्वत्सस्य वावृधे ॥१३०७॥
कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनं ।
जामि ब्रुवत आयुधा ॥१३०८॥
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
विप्रा ऋतस्य वाहसा ॥१३०९॥
पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ॥१३१०॥
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ॥१३११॥
पवमान्व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ॥१३१२॥
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥१३१३॥
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ॥१३१४॥
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत्॥१३१६॥
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ॥१३१७॥
कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजं ॥१३१८॥
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥१३१९॥
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्॥१३२०॥
यत इन्द्र भयामहे ततो नो अभ्यं कृधि ।
मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥१३२१॥
त्वं हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता ।
तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥१३२२॥
त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ॥१३२३॥
त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
इन्दुः सत्राजिदस्तृतः ॥१३२४॥
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्मा भर ॥१३२५॥
पवस्व देववीतय इन्दो धाराभिरोजसा ।
आ कलशं मधुमान्त्सोम नः सदः ॥१३२६॥
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
त्वां देवासो अमृताय कं पपुः ॥१३२७॥
आ नः सुतास इन्दवः पुनाना धावता रयिं ।
वृष्टिद्यावो रीत्यापः स्वर्विदः ॥१३२८॥
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥१३२९॥
द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं ।
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ॥१३३०॥
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते वीराय सदनासदे ॥१३३१॥
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥१३३२॥
प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥१३३३॥
शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुं ॥१३३४॥
उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।
इन्दुं देवा अयासिषुः ॥१३३५॥
तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव ।
य इन्द्रस्य हृदंसनिः ॥१३३६॥
अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषं ।
वर्धा समुद्रमुक्थ्यं ॥१३३७॥
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ॥१३३८॥
बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः ।
येषामिन्द्रो युवा सखा ॥१३३९॥
अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
येषामिन्द्रो युवा सखा ॥१३४०॥
य एक इद्विदयते वसु मर्त्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥१३४१॥
यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति ।
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥१३४२॥
कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥१३४३॥
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥१३४४॥
यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वं ।
तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥१३४५॥
युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥१३४६॥
 
 

इति पञ्चमप्रपाठके द्वितीयोऽर्धः | पञ्चमप्रपाठकश्च समाप्तः | इति दशमोऽध्यायः

 
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें 
 
सामवेद संहिता- पूर्वार्चिकः

 
सामवेद संहिता- उत्तरार्चिकः

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *