HinduMantavya
Loading...

सामवेद संहिता- पूर्वार्चिकः तृतीयप्रपाठकः (Samved Samhita Purvarchik-3)

Google+ Whatsapp

अथ तृतीय प्रपाठके प्रथमोऽर्धः

 

॥प्रथमा दशतिः॥

(ॠषि- प्रगाथः काण्वः, विश्वामित्रो गाथिनः, वामदेवो गौतमः, श्रुतकक्षः आङ्गिरसः, मधुच्छन्दा वैश्वामित्रः, गृत्समदः शौनकः, भरद्वाजः बार्हस्पत्यः, | देवता- इन्द्रः | छन्द- गायत्री)
उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः
अव ब्रह्मद्विषो जहि ॥१॥
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे
इन्द्र त्वादातमिद्यशः ॥२॥
सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन्
न देवो वृतः शूर इन्द्रः ॥३॥
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः
न त्वामिन्द्राति रिच्यते ॥४॥
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः
इन्द्रं वाणीरनूषत ॥५॥
इन्द्र इषे ददातु न ऋभुक्षणमृभुद्ग रयिम्
वाजी ददातु वाजिनम् ॥६॥
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्
स हि स्थिरो विचर्षणिः ॥७॥
इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः
गावो वत्सं न धेनवः ॥८॥
इन्द्रा नु पूषणा वयद्ग सख्याय स्वस्तये
हुवेम वाजसातये ॥९॥
न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन्
न क्येवं यथा त्वम् ॥१०॥
इति प्रथमा दशतिः | नवमः खण्डः

 
 
 

॥द्वितीया दशतिः॥

(ॠषि- त्रिशोकः काण्वः, मधुच्छन्दा वैर्शामित्रः, वत्सः काण्वः, सुकक्ष आङ्गिरसः, वामदेवो गौतमः, विश्वामित्रो गाथिनः, गोषूक्त्यश्वसूक्तिनौ काण्वायनौ, श्रुतकक्षः सुकक्षो वा आङ्गिरसः, | देवता- इन्द्रः | छन्द- गायत्री)
तरणिं वो जनानां त्रदं वाजस्य गोमतः
समानमु प्र शद्गसिषम् ॥१॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत
सजोषा वृषभं पतिम् ॥२॥
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा
मित्रास्पान्त्यद्रुहः ॥३॥
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम्
वसु स्पार्हं तदा भर ॥४॥
श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम्
आशिषे राधसे महे ॥५॥
अरं त इन्द्र श्रवसे गमेम शूर त्वावतः
अरद्ग शक्र परेमणि ॥६॥
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्
इन्द्र प्रातर्जुषस्व नः ॥७॥
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः
विश्वा यदजय स्पृधः ॥८॥
इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः
तेषां मत्स्व प्रभूवसो ॥९॥
तुभ्यद्ग सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो
स्तोतृभ्य इन्द्र मृडय ॥१०॥
इति द्वितीया दशतिः | दशमः खण्डः
 
 
 

॥तृतीया दशतिः॥

(ऋषि- शुनःशेप आजीगर्तिः, श्रुतकक्ष आंगिरसः, त्रिशोकः काण्वः, मेधातिथिः काण्वः, गोतमो राहूगणः, ब्रह्मातिथिः काण्वः, विश्वामित्रो गाथिनो जमदग्निर्वा, प्रस्कण्वः काण्वः, मेधातिथिः काण्वः, | देवता- इन्द्रः, अश्विनौ मित्रावरुणौ, मरुतः, विष्णुः, | छन्द- गायत्री)
आ व इन्द्रं कृविं यथा वाजयन्तः शतक्रतुम्
मद्गहिष्ठद्ग सिञ्च इन्दुभिः ॥१॥
अतश्चिदिन्द्र न उपा याहि शतवाजया
इषा सहस्रवाजया ॥२॥
आ बुन्दं वृत्रहा ददे जातः पृच्छाद्वि मातरम्
क उग्राः के ह शृण्विरे ॥३॥
बृबदुक्थद्ग हवामहे सृप्रकरस्नमूतये
साधः कृण्वन्तमवसे ॥४॥
ऋजुनीती नो वरुणो मित्रो नयति विद्वान्
अर्यमा देवैः सजोषाः ॥५॥
दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत्
वि भानुं विश्वथातनत् ॥६॥
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्
मध्वा रजाद्गसि सुक्रतू ॥७॥
उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत
वाश्रा अभिज्ञु यातवे ॥८॥
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्
समूढमस्य पाद्गसुले ॥९॥
इति तृतीया दशतिः ॥३॥ एकादशः खण्डः ॥११॥
 
 
 

॥चतुर्थी दशतिः॥

(ॠषि- मेधातिथिः काण्वः, वामदेवो गौतमः, मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः, विश्वामित्रो गाथिनः, दुर्मित्रः कौत्सः, विश्वामित्रो गाथिनोऽभीपाद् उदलो वा, श्रुतकक्षः आंगिरसः, | देवता- इन्द्रः | छन्द- गायत्री)
अतीहि मन्युषाविणद्ग सुषुवाद्गसमुपेरय
अस्य रातौ सुतं पिब ॥१॥
कदु प्रचेतसे महे वचो देवाय शस्यते
तदिध्यस्य वर्धनम् ॥२॥
उक्थं च न शस्यमानं नागो रयिरा चिकेत
न गायत्रं गीयमानम् ॥३॥
इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः
हरिवान्त्सुतानाद्ग सखा ॥४॥
आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः
महाद्ग इव युवजानिः ॥५॥
कदा वसो स्तोत्रद्ग हर्यत आ अव श्मशा रुधद्वाः
दीर्घद्ग सुतं वाताप्याय ॥६॥
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूद्ग रनु
तवेदद्ग सख्यमस्तृतम् ॥७॥
वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः
त्वं नो जिन्व सोमपाः ॥८॥
एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः
सत्राजिदुग्र पौद्गस्यम् ॥९॥
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः
एवा ते राध्यं मनः ॥१०॥
इति चतुर्थी दशतिः ॥४॥ द्वादशः खण्डः ॥१२॥
इति द्वितीयोऽध्यायः ॥२॥
इत्येकसाग्नि समाप्तम्
 

 

॥पञ्चमी दशतिः॥

(ॠषि- वसिष्ठो मैत्रावरुणिः, भरद्वाजः बार्हस्पत्यः, प्रस्कण्वः काण्वः, नोधा गौतमः, कलिः प्रागाथः, मेधातिथिः काण्वः, भर्गः प्रागाथः, प्रगाथो घौरः काण्वः, | देवता- इन्द्रः, मरुतः | छन्द- बृहती)
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥
त्वामिद्धि हवामहे सातौ वाजस्य कारवः
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥२॥
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥३॥
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥४॥
तरोभिर्वो विदद्वसुमिन्द्रद्ग सबाध ऊतये
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥५॥
तरणिरित्सिषासति वाजं पुरन्ध्या युजा
आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥६॥
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः
आपिर्नो बोधि सधमाद्ये वृधे॥३॥ऽस्माद्ग अवन्तु ते धियः ॥७॥
त्वद्ग ह्येहि चेरवे विदा भगं वसुत्तये
उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥८॥
न हि वश्चरमं च न वसिष्ठः परिमद्गसते
अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः ॥९॥
मा चिदन्यद्वि शद्गसत सखायो मा रिषण्यत
इन्द्रमित्स्तोता वृषणद्ग सचा सुते मुहुरुक्था च शद्गसत ॥१०॥
इति पञ्चमी दशतिः | प्रथमः खण्डः
इति तृतीय प्रपाठके प्रथमोऽर्धः
 
 

॥षष्ठी दशतिः॥

(ॠषि- पुरुहन्मा आंगिरसः, मेधातिथि-मेध्यातिथी काण्वौ, विश्वामित्रो गाथिनः, गोतमो राहूगणः, नृमेधपुरुमेधावांगिरसौ, मेधातिथिर्मेध्यातिथिर्वा काण्वः, देवातिथिः काण्वः, | देवता- इन्द्रः | छन्द- बृहती)
न किष्टं कर्मणा नशद्यश्चकार सदावृधम्
इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥१॥
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः
सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥२॥
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये
ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥३॥
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः
मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताद्ग इहि ॥४॥
त्वमङ्ग प्र शद्गसिषो देवः शविष्ठ मर्त्यम्
न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥५॥
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः
त्वं वृत्राणि हद्गस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥६॥
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे
इन्द्रद्ग समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥७॥
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम
पावकवर्णाः शुचयो विपश्चितोऽभिस्तोमैरनूषत ॥८॥
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥९॥
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम्
आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥१०॥
इति षष्ठी दशतिः | द्वितीयः खण्डः

 
 

॥सप्तमी दशतिः॥

(ॠषि- भर्गः प्रागाथः, रेभः काश्यपः, जमदग्निर्भार्गवः, मेधातिथिः काण्वः, नृमेधपुरुमेधावांगिरसौ, वसिष्ठो मैत्रावरुणिः, भरद्वाजः बार्हस्पत्यः, | देवता- इन्द्रः, मित्रावरुणादित्याः | छन्द- बृहती)
शग्ध्यू॥३॥षु शचीपत इन्द्र विश्वाभिरूतिभिः
भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१॥
या इन्द्र भुज आभरः स्वर्वाद्ग असुरेभ्यः
स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥
प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो
वरूथ्ये॥३॥ वरुणे छन्द्यं वचः स्तोत्रद्ग राजसु गायत ॥३॥
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः
समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥४॥
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत
वृत्रद्ग हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥५॥
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम्
येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥६॥
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा
शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥७॥
मा न इन्द्र परा वृणग्भवा नः सधमाद्ये
त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परावृणक् ॥८॥
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥९॥
यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु
यद्वा पञ्चक्षितीनां द्युम्नमा भर सत्रा विश्वानि पौद्गस्या ॥१०॥
इति सप्तमी दशतिः | तृतीयः खण्डः
 
 
 

॥अष्टमी दशतिः॥

(ॠषि- मेधातिथिः काण्वः, रेभः काश्यपः, वत्सः, भरद्वाजः बार्हस्पत्यः, नृमेध आंगिरसः, पुरुहन्मा आंगिरसः, नृमेध-पुरुमेधावांगिरसौ, वसिष्ठो मैत्रावरुणिः, मेधातिथि-मेध्यातिथी काण्वौ, कलिः प्रागाथः, | देवता- इन्द्रः | छन्द- बृहती)
 
सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता
वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥१॥
यच्छक्रासि परावति यदर्वावति वृत्रहन्
अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाद्ग आ विवासति ॥२॥
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम्
इन्द्रं नाम श्रुत्यद्ग शाकिनं वचो यथा ॥३॥
इन्द्र त्रिधातु शरणं त्रिवरूथद्ग स्वस्तये
छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥४॥
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥५॥
न सीमदेव आप तदिषं दीर्घायो मर्त्यः
एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते ॥६॥
आ नो विश्वासु हव्यमिन्द्रद्ग समत्सु भूषत
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥७॥
तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम्
सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ॥८॥
क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः
अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥९॥
वयमेनमिदा ह्योपीपेमेह वज्रिणम्
तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥१०॥
इति अष्टमी दशतिः | चतुर्थः खण्डः
 
 
 

॥नवमी दशतिः॥

(ॠषि- पुरुहन्मा आंगिरसः, भर्गः प्रागाथः, इरिम्बिठिः काण्वः, जमदग्निर्भार्गवः, देवातिथिः काण्वः, वसिष्ठो मैत्रावरुणिः, भरद्वाजो बार्हस्पत्यः, मेध्यः काण्वः, | देवता- इन्द्रः | छन्द- बृहती)
यो राजा चर्षणीनां याता रथेभिरध्रिगुः
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥१॥
यत इन्द्र भयामहे ततो नो अभयं कृधि
मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥२॥
वास्तोष्पते ध्रुवा स्थूणाद्ग सत्रद्ग सोम्यानाम्
द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनाद्ग सखा ॥३॥
बण्महाद्ग असि सूर्य बडादित्य महाद्ग असि
महस्ते सतो महिमा पनिष्टम मह्ना देव महाद्ग असि ॥४॥
अश्वी रथी सुरूप इद्गोमाद्ग यदिन्द्र ते सखा
श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप ॥५॥
यद्द्याव इन्द्र ते शतद्ग शतं भूमीरुत स्युः
न त्वा वज्रिन्त्सहस्रद्ग सूर्या अनु न जातमष्ट रोदसी ॥६॥
यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥७॥
कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति
श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजद्ग सिषासति ॥८॥
इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः
हित्वा शिरो जिह्वया रारपच्चरत्त्रिद्गशत्पदा न्यक्रमीत् ॥९॥
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः
आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥१०॥
इति नवमी दशतिः | इति पञ्चमः खण्डः
 
 
 

॥दशमी दशतिः॥

(ॠषि- नृमेध आंगिरसः, वसिष्ठो मैत्रावरुणिः, भरद्वाजः बार्हस्पत्यः, परुच्छेपो दैवोदासिः, वामदेवो गौतमः, मेध्यातिथिः काण्वः, भर्गः प्रागाथः, मेधातिथिः मेध्यातिथी काण्वौ, | देवता- इन्द्रः |छन्द- बृहती)
इत ऊती वो अजरं प्रहेतारमप्रहितम्
आशुं जेतारद्ग हेतारद्ग रथीतममतूर्तं तुग्रियावृधम् ॥१॥
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन्
आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥२॥
सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे
पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥३॥
यः सत्राहा विचर्षणिरिन्द्रं तद्ग हूमहे वयम्
सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥४॥
शचीभिर्नः शचीवसू दिवा नक्तं दिशस्यतम्
मा वाद्ग रातिरुपदसत्कदाचनास्मद्रातिः कदाचन ॥५॥
यदा कदा च मीढुषे स्तोता जरेत मर्त्यः
आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानाम् ॥६॥
पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे
यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ॥७॥
उभयद्ग शृणवच्च न इन्द्रो अर्वागिदं वचः
सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥८॥
महे च न त्वाद्रिवः परा शुल्काय दीयसे
न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥९॥
वस्याद्ग इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः
माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥१०॥
इति दशमी दशतिः | षष्ठः खण्डः
 

इति तृतीयप्रपाठके द्वितीयोऽर्धः तृतीयः प्रपाठकश्च समाप्तः

 
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें 
 
सामवेद संहिता- पूर्वार्चिकः

 
सामवेद संहिता- उत्तरार्चिकः

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *