HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् १४ (Atharvved Kand 14)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥अथ चतुर्दशं काण्डम्॥
 

प्रथमं सूक्तम्» चतु:षष्ट्यृचस्यास्य सूक्तस्य सावित्री सूर्या ऋषि: |  प्रथमादिपञ्चर्चां सोम:  षष्ठ्या: स्वविवाह: २सप्तम्यादिषोडशानां षड्विंश्या अष्टाविंश्यादिसप्तत्रिंशतश्चात्मा  त्रयोविंश्या: सोमार्कौ  चतुर्विंश्याश्चन्द्रमा:  पञ्चविंश्या नृणां विवाहमन्त्राशिषो वधूवास:संस्पर्शमोचनञ्च  सप्तविंश्याश्च वधूवास:संस्पर्शमोचनं देवता: | प्रथमादित्रयोदशानां षोडश्यादितृचस्य द्वाविंश्या: पञ्चविंश्यादिचतसृणां त्रिंशीपञ्चत्रिंशीषट्त्रिंशीनामेकचत्वारिंश्यादिचतसृणामेकपञ्चाशीद्विपञ्चा-शीद्विषष्टीत्रिषष्टीनाञ्चानुष्टुप्  चतुर्दश्या विराट् प्रस्तारपङ्क्ति:  पञ्चदश्या आस्तारपङ्क्ति: एकोनविंशीविंशीचतुर्विंशीद्वात्रिंशीत्रयस्त्रिंशीसप्तत्रिंश्येकोनचत्वारिंशीचत्वारिंशीसप्तचत्वारिंश्येकोनपञ्चाशीपञ्चाशीत्रिपञ्चाशीषट्पञ्चाशीसप्तपञ्चा-शीनां अष्टपञ्चाश्येकोनषष्ट्येकषष्टीनाञ्च त्रिष्टुप् एकविंशीषट्चत्वारिंश्योर्जगती त्रयोविंश्येकत्रिंशीपञ्चचत्वारिंशीनां बृहतीगर्भा त्रिष्टुप् एकोनत्रिंशीपञ्चपञ्चाश्यो: पुरस्ताद्बृहती  चतुस्त्रिंश्या: प्रस्तारपङ्क्ति:  अष्टात्रिंश्या: पुरोबृहती त्रिपदा परोष्णिक्  अष्टचत्वारिंश्या: पथ्यापङ्क्ति: चतुष्पञ्चाशीचतु:षष्ट्योर्भुरिक्त्रिष्टुप्  षष्ट्याश्च परानुष्टुप्त्रिषुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
सत्येनोत्त॑भिता भूमि: सूर्येणोत्त॑भिता द्यौ: ।
ऋतेना॑दित्यास्ति॑ष्ठन्ति दिवि सोमो अधि॑ श्रित: ॥१॥
सोमे॑नादित्या बलिन: सोमे॑न पृथिवी मही ।
अथो नक्ष॑त्राणामेषामुपस्थे सोम आहि॑त: ॥२॥
सोमं॑ मन्यते पपिवान्यत्सं॑पिंषन्त्योष॑धिम् ।
सोमं यं ब्रह्माणो॑ विदुर्न तस्या॑श्नाति पार्थि॑व: ॥३॥
यत्त्वा॑ सोम प्रपिब॑न्ति तत आ प्या॑यसे पुन॑: ।
वायु: सोम॑स्य रक्षिता समा॑नां मास आकृ॑ति: ॥४॥
आच्छद्वि॑धानैर्गुपितो बार्ह॑तै: सोम रक्षित: ।
ग्राव्णामिच्छृण्वन्ति॑ष्ठसि न ते॑ अश्नाति पार्थि॑व: ॥५॥
चित्ति॑रा उपबर्ह॑णं चक्षु॑रा अभ्यञ्ज॑नम् ।
द्यौर्भूमि: कोश॑ आसीद्यदया॑त्सूर्या पति॑म् ॥६॥
रैभ्या॑सीदनुदेयी॑ नाराशंसी न्योच॑नी ।
सूर्याया॑ भद्रमिद्वासो गाथ॑यैति परि॑ष्कृता ॥७॥
स्तोमा॑ आसन्प्रतिधय॑: कुरीरं छन्द॑ ओपश: ।
सूर्याया॑ अश्विना॑ वराग्निरा॑सीत्पुरोगव: ॥८॥
सोमो॑ वधूयुर॑भवदश्विना॑स्तामुभा वरा ।
सूर्यां यत्पत्ये शंस॑न्तीं मन॑सा सविताद॑दात् ॥९॥
मनो॑ अस्या अन॑ आसीद्द्यौरा॑सीदुत च्छदि: ।
शुक्राव॑नड्वाहा॑वास्तां यदया॑त्सूर्या पति॑म् ॥१०॥
ऋक्सामाभ्या॑मभिहि॑तौ गावौ॑ ते सामनावै॑ताम् ।
श्रोत्रे॑ ते चक्रे आ॑स्तां दिवि पन्था॑श्चराचर: ॥११॥
शुची॑ ते चक्रे यात्या व्यानो अक्ष आह॑त: ।
अनो॑ मनस्मयं॑ सूर्यारो॑हत्प्रयती पति॑म् ॥१२॥
सूर्याया॑ वहतु: प्रागा॑त्सविता यमवासृ॑जत् ।
मघासु॑ हन्यन्ते गाव: फल्गु॑नीषु व्युद्गह्यते ॥१३॥
यद॑श्विना पृच्छमा॑नावया॑तं त्रिचक्रेण॑ वहतुं सूर्याया॑: ।
क्वैकं॑ चक्रं वा॑मासीत्क्वद्ग देष्ट्राय॑ तस्थथु: ॥१४॥
यदया॑तं शुभस्पती वरेयं सूर्यामुप॑ ।
विश्वे॑ देवा अनु तद्वा॑मजानन्पुत्र: पितर॑मवृणीत पूषा ॥१५॥
द्वे ते॑ चक्रे सूर्ये॑ ब्रह्माण॑ ऋतुथा वि॑दु: ।
अथैकं॑ चक्रं यद्गुहा तद॑द्धातय इद्विदु: ॥१६॥
अर्यमणं॑ यजामहे सुबन्धुं प॑तिवेद॑नम् ।
उर्वारुकमि॑व बन्ध॑नात्प्रेतो मु॑ञ्चामि नामुत॑: ॥१७॥
प्रेतो मु॑ञ्चामि नामुत॑: सुबद्धाममुत॑स्करम् ।
यथेयमि॑न्द्र मीढ्व: सुपुत्रा सुभगास॑ति ॥१८॥
प्र त्वा॑ मुञ्चामि वरु॑णस्य पाशाद्येन त्वाब॑ध्नात्सविता सुशेवा॑: ।
ऋतस्य योनौ॑ सुकृतस्य॑ लोके स्योनं ते॑ अस्तु सहसं॑भलायै ॥१९॥
भग॑स्त्वेतो न॑यतु हस्तगृह्याश्विना॑ त्वा प्र व॑हतां रथे॑न ।
गृहान्ग॑च्छ गृहप॑त्नी यथासो॑ वशिनी त्वं विदथमा व॑दासि ॥२०॥
इह प्रियं प्रजायै॑ ते समृ॑ध्यतामस्मिन्गृहे गार्ह॑पत्याय जागृहि ।
एना पत्या॑ तन्वं१ सं स्पृ॑शस्वाथ जिर्वि॑र्विदथमा व॑दासि ॥२१॥
इहैव स्तं मा वि यौ॑ष्टं विश्वमायुर्व्यद्गश्नुतम् ।
क्रीड॑न्तौ पुत्रैर्नप्तृ॑भिर्मोद॑मानौ स्वस्तकौ ॥२२॥
पूर्वापरं च॑रतो माययैतौ शिशू क्रीड॑न्तौ परि॑ यातोऽर्णवम् ।
विश्वान्यो भुव॑ना विचष्ट॑ ऋतूंरन्यो विदध॑ज्जायसे नव॑: ॥२३॥
नवो॑नवो भवसि जाय॑मानोऽह्नां॑ केतुरुषसा॑मेष्यग्र॑म् ।
भागं देवेभ्यो वि द॑धास्यायन्प्र च॑न्द्रमस्तिरसे दीर्घमायु॑: ॥२४॥
परा॑ देहि शामुल्यंद्ग ब्रह्मभ्यो वि भ॑जा वसु॑ ।
कृत्यैषा पद्वती॑ भूत्वा जाया वि॑शते पति॑म् ॥२५॥
नीललोहितं भ॑वति कृत्यासक्तिर्व्यद्गज्यते ।
एध॑न्ते अस्या ज्ञातय: पति॑र्बन्धेषु॑ बध्यते ॥२६॥
अश्लीला तनूर्भ॑वति रुश॑ती पापया॑मुया ।
पतिर्यद्वध्वो३ वास॑स: स्वमङ्ग॑मभ्यूर्णुते ॥२७॥
आशस॑नं विशस॑नमथो॑ अधिविकर्त॑नम् ।
सूर्याया॑: पश्य रूपाणि तानि॑ ब्रह्मोत शु॑म्भति ॥२८॥
तृष्टमेतत्कटु॑कमपाष्ठव॑द्विषवन्नैतदत्त॑वे ।
सूर्यां यो ब्रह्मा वेद स इद्वाधू॑यमर्हति ॥२९॥
स इत्तत्स्योनं ह॑रति ब्रह्मा वास॑: सुमङ्गल॑म् ।
प्राय॑श्चित्तिं यो अध्येति येन॑ जाया न रिष्य॑ति ॥३०॥
युवं भगं सं भ॑रतं समृ॑द्धमृतं वद॑न्तावृतोद्ये॑षु ।
ब्रह्म॑णस्पते पति॑मस्यै रो॑चय चारु॑ संभलो व॑दतु वाच॑मेताम् ॥३१॥
इहेद॑साथ न परो ग॑माथेमं गा॑व: प्रजया॑ वर्धयाथ ।
शुभं॑ यतीरुस्रिया: सोम॑वर्चसो विश्वे॑ देवा: क्रन्निह वो मनां॑सि ॥३२॥
इमं गा॑व: प्रजया सं वि॑शाथायं देवानां न मि॑नाति भागम् ।
अस्मै व॑: पूषा मरुत॑श्च सर्वे॑ अस्मै वो॑ धाता स॑विता सु॑वाति ॥३३॥
अनृक्षरा ऋजव॑: सन्तु पन्था॑नो येभि: सखा॑यो यन्ति॑ नो वरेयम् ।
सं भगे॑न सम॑र्यम्णा सं धाता सृ॑जतु वर्च॑सा ॥३४॥
यच्च वर्चो॑ अक्षेषु सुरा॑यां च यदाहि॑तम् ।
यद्गोष्वश्विना वर्चस्तेनेमां वर्च॑सावतम् ॥३५॥
येन॑ महानघ्न्या जघनमश्वि॑ना येन॑ वा सुरा॑ ।
येनाक्षा अभ्यषि॑च्यन्त तेनेमां वर्च॑सावतम् ॥३६॥
यो अ॑निध्मो दीदय॑दप्स्व१न्तर्यं विप्रा॑स ईड॑ते अध्वरेषु॑ ।
अपां॑ नपान्मधु॑मतीरपो दा याभिरिन्द्रो॑ वावृधे वीर्याद्गवान् ॥३७॥
इदमहं रुश॑न्तं ग्राभं त॑नूदूषिमपो॑हामि ।
यो भद्रो रो॑चनस्तमुद॑चामि ॥३८॥
आस्यै॑ ब्राह्मणा: स्नप॑नीर्हरन्त्ववी॑रघ्नीरुद॑जन्त्वाप॑: ।
अर्यम्णो अग्निं पर्ये॑तु पूषन्प्रती॑क्षन्ते श्वशु॑रो देवर॑श्च ॥३९॥
शं ते हिर॑ण्यं शमु॑ सन्त्वाप: शं मेथिर्भ॑वतु शं युगस्य तर्द्म॑ ।
शं त आप॑: शतप॑वित्रा भवन्तु शमु पत्या॑ तन्वं१ सं स्पृ॑शस्व ॥४०॥
खे रथ॑स्य खेऽन॑स: खे युगस्य॑ शतक्रतो ।
अपालामि॑न्द्र त्रिष्पूत्वाकृ॑णो: सूर्य॑त्वचम् ॥४१॥
आशासा॑ना सौमनसं प्रजां सौभा॑ग्यं रयिम् ।
पत्युरनु॑व्रता भूत्वा सं न॑ह्यस्वामृता॑य कम् ॥४२॥
यथा सिन्धु॑र्नदीनां साम्रा॑ज्यं सुषुवे वृषा॑ ।
एवा त्वं सम्राज्ञ्ये॑धि पत्युरस्तं॑ परेत्य॑ ॥४३॥
सम्राज्ञ्ये॑धि श्वशु॑रेषु सम्राज्ञ्युत देवृषु॑ ।
नना॑न्दु: सम्राज्ञ्ये॑धि सम्राज्ञ्युत श्वश्र्वा: ॥४४॥
या अकृ॑न्तन्नव॑यन्याश्च॑ तत्निरे या देवीरन्ताँ॑ अभितोऽद॑दन्त ।
तास्त्वा॑ जरसे सं व्य॑यन्त्वायु॑ष्मतीदं परि॑ धत्स्व वास॑: ॥४५॥
जीवं रु॑दन्ति वि न॑यन्त्यध्वरं दीर्घामनु प्रसि॑तिं दीध्युर्नर॑: ।
वामं पितृभ्यो य इदं स॑मीरिरे मय: पति॑भ्यो जनये॑ परिष्वजे॑ ॥४६॥
स्योनं ध्रुवं प्रजायै॑ धारयामि तेऽश्मा॑नं देव्या: पृ॑थिव्या उपस्थे॑ ।
तमा ति॑ष्ठानुमाद्या॑ सुवर्चा॑ दीर्घं त आयु॑: सविता कृ॑णोतु ॥४७॥
येनाग्निरस्या भूम्या हस्तं॑ जग्राह दक्षि॑णम् ।
तेन॑ गृह्णामि ते हस्तं मा व्य॑थिष्ठा मया॑ सह प्रजया॑ च धने॑न च ॥४८॥
देवस्ते॑ सविता हस्तं॑ गृह्णातु सोमो राजा॑ सुप्रजसं॑ कृणोतु ।
अग्नि: सुभगां॑ जातवे॑दा: पत्ये पत्नीं॑ जरद॑ष्टिं कृणोतु ॥४९॥
गृह्णामि॑ ते सौभगत्वाय हस्तं मया पत्या॑ जरद॑ष्टिर्यथास॑: ।
भगो॑ अर्यमा स॑विता पुरं॑धिर्मह्यं॑ त्वादुर्गार्ह॑पत्याय देवा: ॥५०॥
भग॑स्ते हस्त॑मग्रहीत्सविता हस्त॑मग्रहीत् ।
पत्नी त्वम॑सि धर्म॑णाहं गृहप॑तिस्तव॑ ॥५१॥
ममेयम॑स्तु पोष्या मह्यं॑ त्वादाद्बृहस्पति॑: ।
मया पत्या॑ प्रजावति सं जी॑व शरद॑: शतम् ॥५२॥
त्वष्टा वासो व्यद्गदधाच्छुभे कं बृहस्पते॑: प्रशिषा॑ कवीनाम् ।
तेनेमां नारीं॑ सविता भग॑श्च सूर्यामि॑व परि॑ धत्तां प्रजया॑ ॥५३॥
इन्द्राग्नी द्यावा॑पृथिवी मा॑तरिश्वा॑ मित्रावरु॑णा भगो॑ अश्विनोभा ।
बृहस्पति॑र्मरुतो ब्रह्म सोम॑ इमां नारिं॑ प्रजया॑ वर्धयन्तु ॥५४॥
बृहस्पति॑: प्रथम: सूर्याया॑: शीर्षे केशाँ॑ अकल्पयत् ।
तेनेमाम॑श्विना नारीं पत्ये सं शो॑भयामसि ॥५५॥
इदं तद्रूपं यदव॑स्त योषा॑ जायां जि॑ज्ञासे मन॑सा चर॑न्तीम् ।
तामन्व॑र्तिष्ये सखि॑भिर्नव॑ग्वै: क इमान्विद्वान्वि च॑चर्त पाशा॑न् ॥५६॥
अहं वि ष्या॑मि मयि॑ रूपम॑स्या वेददित्पश्यन्मन॑स: कुलाय॑म् ।
न स्तेय॑मद्मि मनसोद॑मुच्ये स्वयं श्र॑थ्नानो वरु॑णस्य पाशा॑न् ॥५७॥
प्र त्वा॑ मुञ्चामि वरु॑णस्य पाशाद्येन त्वाब॑ध्नात्सविता सुशेवा॑: ।
उरुं लोकं सुगमत्र पन्थां॑ कृणोमि तुभ्यं॑ सहप॑त्न्यै वधु ॥५८॥
उद्य॑च्छध्वमप रक्षो॑ हनाथेमं नारीं॑ सुकृते द॑धात ।
धाता वि॑पश्चित्पति॑मस्यै वि॑वेद भगो राजा॑ पुर ए॑तु प्रजानन् ॥५९॥
भग॑स्ततक्ष चतुर: पादान्भग॑स्ततक्ष चत्वार्युष्प॑लानि ।
त्वष्टा॑ पिपेश मध्यतोऽनु वर्ध्रान्त्सा नो॑ अस्तु सुमङ्गली ॥६०॥
सुकिंशुकं व॑हतुं विश्वरू॑पं हिर॑ण्यवर्णं सुवृतं॑ सुचक्रम् ।
आ रो॑ह सूर्ये अमृत॑स्य लोकं स्योनं पति॑भ्यो वहतुं कृ॑णु त्वम् ॥६१॥
अभ्रा॑तृघ्नीं वरुणाप॑शुघ्नीं बृहस्पते ।
इन्द्राप॑तिघ्नीं पुत्रिणीमास्मभ्यं॑ सवितर्वह ॥६२॥
मा हिं॑सिष्टं कुमार्यं१ स्थूणे॑ देवकृ॑ते पथि ।
शाला॑या देव्या द्वारं॑ स्योनं कृ॑ण्मो वधूपथम् ॥६३॥
ब्रह्माप॑रं युज्यतां ब्रह्म पूर्वं ब्रह्मा॑न्ततो म॑ध्यतो ब्रह्म॑ सर्वत॑: ।
अनाव्याधां दे॑वपुरां प्रपद्य॑ शिवा स्योना प॑तिलोके वि रा॑ज ॥६४॥
 
 
 
द्वितीयं सूक्तम्» पञ्चसप्तत्यृचस्यास्य सूक्तस्य सावित्री सूर्या ऋषि: | प्रथमादिनवर्चां द्वादश्यादिचतुर्विंशते: सप्तत्रिंश्याद्येकोनचत्वारिंशतश्चात्मा  दशम्या यक्ष्मनाशनम्  एकादश्या दम्पत्यो: परिपन्थिनाशनम्  षट्त्रिंश्याश्च देवा देवता: |  प्रथमादिचतसृणां सप्तम्यष्टमीदशम्येकादशीषोडशीनामेकविंश्यादितृचस्य सप्तविंश्यादिचतसृणां पञ्चचत्वारिंशीषट्चत्वारिंश्योस्त्रिपञ्चाश्यादितृचद्वयस्य त्रिषष्ट्यादिपञ्चानां द्विसप्ततितमात्रिसप्ततितमयोश्चानुष्टुप्  पञ्चमीषष्ठीद्वादश्येकत्रिंशीचत्वारिंशीनां जगती नवम्यास्त्र्यवसाना षट्पदा विराडत्यष्टि: त्रयोदशीचतुर्दश्यो: सप्तदश्यादितृचस्यैकचत्वारिंशीद्विचत्वारिंश्येकोनपञ्चाश्येकषष्टीसप्तति-तमाचतु:सप्ततितमापञ्चसप्ततितमानां चतुर्विंशीपञ्चविंशीद्वात्रिंशीचतुस्त्रिंशीषट्त्रिंश्यष्टात्रिंशीनाञ्च त्रिष्टुप् पञ्चदश्येकपञ्चाश्योर्भुरिगनुष्टुप्  विंश्या: पुरस्ताद्बृहती  षड्विंश्या विराडनुष्टुप्  त्रयस्त्रिंश्या विराडास्तारपङ्क्ति:  पञ्चत्रिंश्या: पुरोबृहती त्रिष्टुप् सप्तत्रिंश्येकोनचत्वारिंश्योर्भुरिक्त्रिष्टुप्  त्रिचत्वारिंश्यास्त्रिष्टुब्गर्भा पङ्क्ति:  चतुश्चत्वारिंश्या: प्रस्तारपङ्क्ति:  सप्तचत्वारिंश्या: पथ्याबृहती  अष्टचत्वारिंश्या: सत:पङ्क्ति:  पञ्चाश्या उपरिष्टाद्बृहती  द्विपञ्चाश्या विराट्परोष्णिक्  एकोनषष्टीषष्टीद्विषष्टीनां पथ्यापङ्क्ति: अष्टषष्ट्या: विराट् पुर उष्णिक्  एकोनसप्ततितमायास्त्र्यवसाना षट्पदातिशक्वरी  एकसप्ततितमायाश्च बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
तुभ्यमग्रे पर्य॑वहन्त्सूर्यां व॑हतुना॑ सह ।
स न: पति॑भ्यो जायां दा अग्ने॑ प्रजया॑ सह ॥१॥
पुन: पत्नी॑मग्निर॑दादायु॑षा सह वर्च॑सा ।
दीर्घायु॑रस्या य: पतिर्जीवा॑ति शरद॑: शतम् ॥२॥
सोम॑स्य जाया प्र॑थमं ग॑न्धर्वस्तेऽप॑र: पति॑: ।
तृतीयो॑ अग्निष्टे पति॑स्तुरीय॑स्ते मनुष्यजा: ॥३॥
सोमो॑ ददद्गन्धर्वाय॑ गन्धर्वो द॑ददग्नये॑ ।
रयिं च॑ पुत्रांश्चा॑दादग्निर्मह्यमथो॑ इमाम् ॥४॥
आ वा॑मगन्त्सुमतिर्वा॑जिनीवसू न्यद्गश्विना हृत्सु कामा॑ अरंसत ।
अभू॑तं गोपा मि॑थुना शु॑भस्पती प्रिया अ॑र्यम्णो दुर्याँ॑ अशीमहि ॥५॥
सा म॑न्दसाना मन॑सा शिवेन॑ रयिं धे॑हि सर्व॑वीरं वचस्यद्गम् ।
सुगं तीर्थं सु॑प्रपाणं शु॑भस्पती स्थाणुं पथि॑ष्ठामप॑ दुर्मतिं ह॑तम् ॥६॥
या ओष॑धयो या नद्यो३ यानि क्षेत्रा॑णि या वना॑ ।
तास्त्वा॑ वधु प्रजाव॑तीं पत्ये॑ रक्षन्तु रक्षस॑: ॥७॥
एमं पन्था॑मरुक्षाम सुगं स्व॑स्तिवाह॑नम् ।
यस्मि॑न्वीरो न रिष्य॑त्यन्येषां॑ विन्दते वसु॑ ॥८॥
इदं सु मे॑ नर: शृणुत ययाशिषा दंप॑ती वामम॑श्नुत: ।
ये ग॑न्धर्वा अ॑प्सरस॑श्च देवीरेषु वा॑नस्पत्येषु येऽधि॑ तस्थु: ।
स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥
ये वध्वद्गश्चन्द्रं व॑हतुं यक्ष्मा यन्ति जनाँ अनु॑ ।
पुनस्तान्यज्ञिया॑ देवा नय॑न्तु यत आग॑ता: ॥१०॥
मा वि॑दन्परिपन्थिनो य आसीद॑न्ति दंप॑ती ।
सुगेन॑ दुर्गमती॑तामप॑ द्रान्त्वरा॑तय: ॥११॥
सं का॑शयामि वहतुं ब्रह्म॑णा गृहैरघो॑रेण चक्षु॑षा मित्रिये॑ण ।
पर्याण॑द्धं विश्वरू॑पं यदस्ति॑ स्योनं पति॑भ्य: सविता तत्कृ॑णोतु ॥१२॥
शिवा नारीयमस्तमाग॑न्निमं धाता लोकमस्यै दि॑देश ।
ताम॑र्यमा भगो॑ अश्विनोभा प्रजाप॑ति: प्रजया॑ वर्धयन्तु ॥१३॥
आत्मन्वत्युर्वरा नारीयमागन्तस्यां॑ नरो वपत बीज॑मस्याम् ।
सा व॑: प्रजां ज॑नयद्वक्षणा॑भ्यो बिभ्र॑ती दुग्धमृ॑षभस्य रेत॑: ॥१४॥
प्रति॑ तिष्ठ विराड॑सि विष्णु॑रिवेह स॑रस्वति ।
सिनी॑वालि प्र जा॑यतां भग॑स्य सुमताव॑सत् ॥१५॥
उद्व॑ ऊर्मि: शम्या॑ हन्त्वापो योक्त्रा॑णि मुञ्चत ।
मादु॑ष्कृतौ व्येद्गनसावघ्न्यावशु॑नमार॑ताम् ॥१६॥
अघो॑रचक्षुरप॑तिघ्नी स्योना शग्मा सुशेवा॑ सुयमा॑ गृहेभ्य॑: ।
वीरसूर्देवृका॑मा सं त्वयै॑धिषीमहि सुमनस्यमा॑ना ॥१७॥
अदे॑वृघ्न्यप॑तिघ्नीहैधि॑ शिवा पशुभ्य॑: सुयमा॑ सुवर्चा॑: ।
प्रजाव॑ती वीरसूर्देवृका॑मा स्योनेममग्निं गार्ह॑पत्यं सपर्य ॥१८॥
उत्ति॑ष्ठेत: किमिच्छन्तीदमागा॑ अहं त्वे॑डे अभिभू: स्वाद्गृहात् ।
शून्यैषी नि॑रृते याजगन्थोत्ति॑ष्ठाराते प्र प॑त मेह रं॑स्था: ॥१९॥
यदा गार्ह॑पत्यमस॑पर्यैत्पूर्व॑मग्निं वधूरियम् ।
अधा सर॑स्वत्यै नारि पितृभ्य॑श्च नम॑स्कुरु ॥२०॥
शर्म वर्मैतदा ह॑रास्यै नार्या॑ उपस्तिरे॑ ।
सिनी॑वालि प्र जा॑यतां भग॑स्य सुमताव॑सत् ॥२१॥
यं बल्ब॑जं न्यस्य॑थ चर्म॑ चोपस्तृणीथन॑ ।
तदा रो॑हतु सुप्रजा या कन्याद्ग विन्दते पति॑म् ॥२२॥
उप॑ स्तृणीहि बल्ब॑जमधि चर्म॑णि रोहि॑ते ।
तत्रो॑पविश्य॑ सुप्रजा इममग्निं स॑पर्यतु ॥२३॥
आ रो॑ह चर्मोप॑ सीदाग्निमेष देवो ह॑न्ति रक्षां॑सि सर्वा॑ ।
इह प्रजां ज॑नय पत्ये॑ अस्मै सु॑ज्यैष्ठ्यो भ॑वत्पुत्रस्त॑ एष: ॥२४॥
वि ति॑ष्ठन्तां मातुरस्या उपस्थान्नाना॑रूपा: पशवो जाय॑माना: ।
सुमङ्गल्युप॑ सीदेममग्निं संप॑त्नी प्रति॑ भूषेह देवान् ॥२५॥
सुमङ्गली प्रतर॑णी गृहाणां॑ सुशेवा पत्ये श्वशु॑राय शंभू: ।
स्योना श्वश्र्वै प्र गृहान्वि॑शेमान् ॥२६॥
स्योना भ॑व श्वशु॑रेभ्य: स्योना पत्ये॑ गृहेभ्य॑: ।
स्योनास्यै सर्व॑स्यै विशे स्योना पुष्टायै॑षां भव ॥२७॥
सुमङ्गलीरियं वधूरिमां समेत पश्य॑त ।
सौभा॑ग्यमस्यै दत्त्वा दौर्भा॑ग्यैर्विपरे॑तन ॥२८॥
या दुर्हार्दो॑ युवतयो याश्चेह ज॑रतीरपि॑ ।
वर्चो न्व१स्यै सं दत्ताथास्तं॑ विपरे॑तन ॥२९॥
रुक्मप्र॑स्तरणं वह्यं विश्वा॑ रूपाणि बिभ्र॑तम् ।
आरो॑हत्सूर्या सा॑वित्री बृ॑हते सौभ॑गाय कम् ॥३०॥
आ रो॑ह तल्पं॑ सुमनस्यमा॑नेह प्रजां ज॑नय पत्ये॑ अस्मै ।
इन्द्राणीव॑ सुबुधा बुध्य॑माना ज्योति॑रग्रा उषस: प्रति॑ जागरासि ॥३१॥
देवा अग्रे न्यद्गपद्यन्त पत्नी: सम॑स्पृशन्त तन्वद्गस्तनूभि॑: ।
सूर्येव॑ नारि विश्वरू॑पा महित्वा प्रजाव॑ती पत्या सं भ॑वेह ॥३२॥
उत्ति॑ष्ठेतो वि॑श्वावसो नम॑सेडामहे त्वा ।
जामिमि॑च्छ पितृषदं न्यद्गक्तां स ते॑ भागो जनुषा तस्य॑ विद्धि ॥३३॥
अप्सरस॑: सधमादं॑ मदन्ति हविर्धान॑मन्तरा सूर्यं॑ च ।
तास्ते॑ जनित्र॑मभि ता: परे॑हि नम॑स्ते गन्धर्वर्तुना॑ कृणोमि ॥३४॥
नमो॑ गन्धर्वस्य नम॑से नमो भामा॑य चक्षु॑षे च कृण्म: ।
विश्वा॑वसो ब्रह्म॑णा ते नमोऽभि जाया अ॑प्सरस: परे॑हि ॥३५॥
राया वयं सुमन॑स: स्यामोदितो ग॑न्धर्वमावी॑वृताम ।
अगन्त्स देव: प॑रमं सधस्थमग॑न्म यत्र॑ प्रतिरन्त आयु॑: ॥३६॥
सं पि॑तरावृत्वि॑ये सृजेथां माता पिता च रेत॑सो भवाथ: ।
मर्य॑ इव योषामधि॑रोहयैनां प्रजां कृ॑ण्वाथामिह पु॑ष्यतं रयिम् ॥३७॥
तां पूषं॑ छिवत॑मामेर॑यस्व यस्यां बीजं॑ मनुष्या३ वप॑न्ति ।
या न॑ ऊरू उ॑शती विश्रया॑ति यस्या॑मुशन्त॑: प्रहरे॑म शेप॑: ॥३८॥
आ रो॑होरुमुप॑ धत्स्व हस्तं परि॑ ष्वजस्व जायां सु॑मनस्यमा॑न: ।
प्रजां कृ॑ण्वाथामिह मोद॑मानौ दीर्घं वामायु॑: सविता कृ॑णोतु ॥३९॥
आ वां॑ प्रजां ज॑नयतु प्रजाप॑तिरहोरात्राभ्यां सम॑नक्त्वर्यमा ।
अदु॑र्मङ्गली पतिलोकमा वि॑शेमं शं नो॑ भव द्विपदे शं चतु॑ष्पदे ॥४०॥
देवैर्दत्तं मनु॑ना साकमेतद्वाधू॑यं वासो॑ वध्वद्गश्च वस्त्र॑म् ।
यो ब्रह्मणे॑ चिकितुषे ददा॑ति स इद्रक्षां॑सि तल्पा॑नि हन्ति ॥४१॥
यं मे॑ दत्तो ब्र॑ह्मभागं व॑धूयोर्वाधू॑यं वासो॑ वध्वद्गश्च वस्त्र॑म् ।
युवं ब्रह्मणे॑ऽनुमन्य॑मानौ बृह॑स्पते साकमिन्द्र॑श्च दत्तम् ॥४२॥
स्योनाद्योनेरधि बध्य॑मानौ हसामुदौ मह॑सा मोद॑मानौ ।
सुगू सु॑पुत्रौ सु॑गृहौ त॑राथो जीवावुषसो॑ विभाती: ॥४३॥
नवं वसा॑न: सुरभि: सुवासा॑ उदागां॑ जीव उषसो॑ विभाती: ।
आण्डात्प॑तत्रीवा॑मुक्षि विश्व॑स्मादेन॑सस्परि॑ ॥४४॥
शुम्भ॑नी द्यावा॑पृथिवी अन्ति॑सुम्ने महि॑व्रते ।
आप॑: सप्त सु॑स्रुवुर्देवीस्ता नो॑ मुञ्चन्त्वंह॑स: ॥४५॥
सूर्यायै॑ देवेभ्यो॑ मित्राय वरु॑णाय च ।
ये भूतस्य प्रचे॑तसस्तेभ्य॑ इदम॑करं नम॑: ॥४६॥
य ऋते चि॑दभिश्रिष॑: पुरा जत्रुभ्य॑ आतृद॑: ।
संधा॑ता संधिं मघवा॑ पुरूवसुर्निष्क॑र्ता विह्रु॑तं पुन॑: ॥४७॥
अपास्मत्तम॑ उच्छतु नीलं॑ पिशङ्ग॑मुत लोहि॑तं यत् ।
निर्दहनी या पृ॑षातक्य१स्मिन्तां स्थाणावध्या स॑जामि ॥४८॥
याव॑ती: कृत्या उ॑पवास॑ने याव॑न्तो राज्ञो वरु॑णस्य पाशा॑: ।
व्यृद्गद्धयो या अस॑मृद्धयो या अस्मिन्ता स्थाणावधि॑ सादयामि ॥४९॥
या मे॑ प्रियत॑मा तनू: सा मे॑ बिभाय वास॑स: ।
तस्याग्रे त्वं व॑नस्पते नीविं कृ॑णुष्व मा वयं रि॑षाम ॥५०॥
ये अन्ता याव॑ती: सिचो य ओत॑वो ये च तन्त॑व: ।
वासो यत्पत्नी॑भिरुतं तन्न॑: स्योनमुप॑ स्पृशात् ॥५१॥
उशती: कन्यला॑ इमा: पि॑तृलोकात्पतिं॑ यती: ।
अव॑ दीक्षाम॑सृक्षत स्वाहा॑ ॥५२॥
बृहस्पतिनाव॑सृष्टां विश्वे॑ देवा अ॑धारयन् ।
वर्चो गोषु प्रवि॑ष्टं यत्तेनेमां सं सृ॑जामसि ॥५३॥
बृहस्पतिनाव॑सृष्टां विश्वे॑ देवा अ॑धारयन् ।
तेजो गोषु प्रवि॑ष्टं यत्तेनेमां सं सृ॑जामसि ॥५४॥
बृहस्पतिनाव॑सृष्टां विश्वे॑ देवा अ॑धारयन् ।
भगो गोषु प्रवि॑ष्टो यस्तेनेमां सं सृ॑जामसि ॥५५॥
बृहस्पतिनाव॑सृष्टां विश्वे॑ देवा अ॑धारयन् ।
यशो गोषु प्रवि॑ष्टंयत्तेनेमां सं सृ॑जामसि ॥५६॥
बृहस्पतिनाव॑सृष्टां विश्वे॑ देवा अ॑धारयन् ।
पयो गोषु प्रवि॑ष्टं यत्तेनेमां सं सृ॑जामसि ॥५७॥
बृहस्पतिनाव॑सृष्टां विश्वे॑ देवा अ॑धारयन् ।
रसो गोषु प्रवि॑ष्टो यस्तेनेमां सं सृ॑जामसि ॥५८॥
यदीमे केशिनो जना॑ गृहे ते॑ समन॑र्तिषू रोदे॑न कृण्वन्तो३ऽघम् ।
अग्निष्ट्वा तस्मादेन॑स: सविता च प्र मु॑ञ्चताम् ॥५९॥
यदीयं दु॑हिता तव॑ विकेश्यरु॑दद्गृहे रोदे॑न कृण्वत्य१घम् ।
अग्निष्ट्वा तस्मादेन॑स: सविता च प्र मु॑ञ्चताम् ॥६०॥
यज्जामयो यद्यु॑वतयो॑ गृहे ते॑ समन॑र्तिषू रोदे॑न कृण्वतीरघम् ।
अग्निष्ट्वा तस्मादेन॑स: सविता च प्र मु॑ञ्चताम् ॥६१॥
यत्ते॑ प्रजायां॑ पशुषु यद्वा॑ गृहेषु निष्ठि॑तमघकृद्भि॑रघं कृतम् ।
अग्निष्ट्वा तस्मादेन॑स: सविता च प्र मु॑ञ्चताम् ॥६२॥
इयं नार्युप॑ ब्रूते पूल्या॑न्यावपन्तिका ।
दीर्घायु॑रस्तु मे पतिर्जीवा॑ति शरद॑: शतम् ॥६३॥
इहेमावि॑न्द्र सं नु॑द चक्रवाकेव दंप॑ती ।
प्रजयै॑नौ स्वस्तकौ विश्वमायुर्व्यद्गश्नुताम् ॥६४॥
यदा॑सन्द्यामु॑पधाने यद्वो॑पवास॑ने कृतम् ।
विवाहे कृत्यां यां चक्रुरास्नाने तां नि द॑ध्मसि ॥६५॥
यद्दु॑ष्कृतं यच्छम॑लं विवाहे व॑हतौ च यत् ।
तत्सं॑भलस्य॑ कम्बले मृज्महे॑ दुरितं वयम् ॥६६॥
संभले मलं॑ सादयित्वा क॑म्बले दु॑रितं वयम् ।
अभू॑म यज्ञिया॑: शुद्धा: प्र ण आयूं॑षि तारिषत् ॥६७॥
कृत्रिम: कङ्क॑त: शतदन्य एष: ।
अपास्या: केश्यं मलमप॑ शीर्षण्यंद्ग लिखात् ॥६८॥
अङ्गा॑दङ्गाद्वयमस्या अप यक्ष्मं नि द॑ध्मसि ।
तन्मा प्राप॑त्पृथिवीं मोत देवान्दिवं मा प्राप॑दुर्व१न्तरि॑क्षम् ।
अपो मा प्रापन्मल॑मेतद॑ग्ने यमं मा प्राप॑त्पितॄंश्च सर्वा॑न् ॥६९॥
सं त्वा॑ नह्यामि पय॑सा पृथिव्या: सं त्वा॑ नह्यामि पयसौष॑धीनाम् ।
सं त्वा॑ नह्यामि प्रजया धने॑न सा संन॑द्धा सनुहि वाजमेमम् ॥७०॥
अमोऽहम॑स्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृ॑थिवी त्वम् ।
ताविह सं भ॑वाव प्रजामा ज॑नयावहै ॥७१॥
जनियन्ति॑ नावग्र॑व: पुत्रियन्ति॑ सुदान॑व: ।
अरि॑ष्टासू सचेवहि बृहते वाज॑सातये ॥७२॥
ये पितरो॑ वधूदर्शा इमं व॑हतुमाग॑मन् ।
ते अस्यै वध्वै संप॑त्न्यै प्रजावच्छर्म॑ यच्छन्तु ॥७३॥
येदं पूर्वाग॑न्रशनायमा॑ना प्रजामस्यै द्रवि॑णं चेह दत्त्वा ।
तां व॑हन्त्वग॑तस्यानु पन्थां॑ विराडियं सु॑प्रजा अत्य॑जैषीत् ॥७४॥
प्र बु॑ध्यस्व सुबुधा बुध्य॑माना दीर्घायुत्वाय॑ शतशा॑रदाय ।
गृहान्ग॑च्छ गृहप॑त्नी यथासो॑ दीर्घं त आयु॑: सविता कृ॑णोतु ॥७५॥
 
॥इति चतुर्दशं काण्डम्॥
 
 

अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *