HinduMantavya
Loading...

यजुर्वेद- अध्याय 24, (yajurved Adhyay 24)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

अध्याय 24

  
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 1
अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव ऽ आग्नेयो रराटे पुरस्तात् सारस्वती मेष्य् अधस्ताद्धन्वोर् आश्विनाव् अधोरामौ बाह्वोः सौमपौष्णः श्यामो नाभ्याम्̐ सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर् वायव्यः श्वेतः पुच्छ ऽ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 2
रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्या बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणाः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 3
शुद्धवालः सर्वशुद्धवालो मणिवालस् त ऽ आश्विनाः श्यॆतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा ऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 4
पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽद्ध्यालोहकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिसक्थस् त ऽ ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त ऽ उषस्याः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 5
शिल्पा वैश्वदेव्यो रोहिण्यस् त्र्यवयो वाचे ऽविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 6
कृष्णग्रीवा ऽ आग्नेयाः शितिभ्रवो वसूनाम्̐ रोहिता रुद्राणाम्̐ श्वेता ऽ अवरोकिण ऽ आदित्यानां नभोरूपाः पार्जन्याः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 7
उन्नत ऽ ऋषभो वामनस् त ऽ ऐन्द्रवैष्णवा ऽ उन्नतः शितिबाहुः शितिपृष्ठस् त ऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषा ऽ आग्निमारुताः श्यामाः पौष्णाः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 8
एता ऽ ऐन्द्राग्ना द्विरूपा ऽ अग्नीषोमीया वामना ऽ अनड्वाह ऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यत एन्यो ऽ मैत्र्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 9
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्या ऽ अविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 10
कृष्णा भौमा धूम्रा ऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास् तारकाः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 11
धूम्रान् वसन्ताया लभते श्वेतान् ग्रीष्माय कृष्णान् वर्षाभ्यो ऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 12
त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा ऽ अनुष्टुभे तुर्यवाह ऽ उष्णिहे ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 13
पष्ठवाहो विराज ऽ उक्षाणो बृहत्या ऽ ऋषभाः ककुभे ऽनड्वाहः पङ्क्त्यै धेनवो ऽतिच्छन्दसे ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 14
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्या ऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 15
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास् तूपराः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 16
अग्नये ऽनीकवते प्रथमजान् आ लभते मरुद्भ्यः सांतपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधिभ्यो बष्किहान् मरुद्भ्यः क्रीडिभ्यः सम्̐सृष्टान् मरुद्भ्यः स्वतवद्भ्यो नुसृष्टान् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 17
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 18
धूम्रा बभ्रुनीकाशाः पितॄणाम्̐ सोमवतां बभ्रवो बभ्रुनीकाशाः पितॄणां बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणाम् अग्निष्वात्तानां कृष्णाः पृषन्तस् त्रैयम्बकाः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 19
उक्ताः संचरा ऽ एता शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 20
वसन्ताय कपिञ्जलान् आ लभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 21
समुद्राय शिशुमारान् आलभते पर्जन्याय मण्डूकान् अद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रान् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 22
सोमाय हम्̐सान् आ लभते वायवे बलाका ऽ इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 23
अग्नये कुटरून् आ लभते वनस्पतिभ्य ऽ उलूकान् अग्नीषोमाभ्यां चाषान् अश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 24
सोमाय लबान् आ लभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः कुलीका देवजामिभ्यो ऽग्नये गृहपतये पारुष्णान् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 25
अह्ने पारावतान् आ लभते रात्र्यै सीचापूर् अहोरात्रयोः संधिभ्यो जतूर् मासेभ्यो दात्यौहान्त् संवत्सराय महतः सुपर्णान् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 26
भूम्या ऽ आखून् आ लभते ऽन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकान् अवान्तरदिशाभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 27
वसुभ्य ऽ ऋश्यान् आ लभते रुद्रेभ्यः रुरून् आदित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त् साध्येभ्यः कुलुङ्गान् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 28
ईशानाय परस्वत ऽ आ लभते मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयाम्̐स् त्वष्ट्र ऽ उष्ट्रान् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 29
प्रजापतये पुरुषान् हस्तिन ऽ आ लभते वाचे प्लुषीम्̐श् चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 30
प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिद् ऋषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 31
मयुः प्राजापत्य ऽ उलो हलिक्ष्णो वृषदम्̐शस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस् ते त्वाष्ट्रा वाचे क्रुञ्चः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 32
सोमाय कुलुङ्ग ऽ आरण्यो ऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोर् इन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस् ते ऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 33
सौरी बलाका शार्गः सृजयः शयाण्डकस् ते मैत्राः सरस्वत्यै शारिः पुरुषवाक् श्वाविद् भौमी शार्दूलो वृकः पृदाकुस् ते मन्यवे सरस्वते शुकः पुरुषवाक् ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 34
सुपर्णः पार्जन्य ऽ आतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस् पतये पैङ्गराजो ऽलज ऽ आन्तरिक्षः प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 35
पुरुषमृगश् चन्द्रमसो गोधा कालका दार्वाघाटस् ते वनस्पतीनां कृकवाकुः सावित्रो हम्̐सो वातस्य नाक्रो मकरः कुलीपयस् ते ऽकूपारस्य ह्रियै शल्पकः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 36
एण्य् अह्नो मण्डूको मूषिका तित्तिरिस् ते सर्पाणां लोपाश ऽ आश्विनः कृष्णो रात्र्या ऽ ऋक्षो जतूः सुषिलीका त ऽ इतरजनानां जहका वैष्णवी ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 37
अन्यवापो ऽर्धमासानाम् ऋश्यो मयूरः सुपर्णस् ते गन्धर्वाणाम् अपाम् उद्रो मासां कश्यपो रोहित् कुण्डृणाची गोलत्तिका ते ऽप्सरसां मृत्यवे ऽसितः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 38
वर्षाहूर् ऋतूनाम् आखुः कशो मान्थालस् ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः कपोत ऽ उलूकः शशस् ते निर्ऋत्यै वरुणायारण्यो मेषः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 39
श्वित्र ऽ आदित्यानाम् उष्ट्रो घृणीवान् वार्ध्रीणसस् ते मत्या ऽ अरण्याय सृमरो रुरू रौद्रः क्वयिः कुटरुर् दात्यौहस् ते वाजिनां कामाय पिकः ॥
 
यजुर्वेदः-संहिता | अध्याय 24, मंत्र 40
खड्गो वैश्वदेवः श्वा कृष्णः कर्णो गर्दभस् तरक्षुस् ते रक्षसाम् इन्द्राय सूकरः सिम्̐हो मारुताः कृकलासः पिप्पका शकुनिस् ते शरव्यायै विश्वेषां देवानां पृषतः ॥
 

॥इति यजुर्वेदः चतुर्विंशतितमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *