HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् ११ (Atharvved Kand 11)

Google+ Whatsapp

अथर्ववेद संहिता

 

॥अथ एकादशं काण्डम्॥
 

 
प्रथमं सूक्तम्» सप्तत्रिंशदृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ब्रह्मौदनो देवता: | प्रथमर्चोनुष्टुब्गर्भा भुरिक्पङ्क्ति:   द्वितीयापञ्चम्योर्बृहतीगर्भा विराट्त्रिष्टुप् तृतीयायाश्चतुष्पदा शाक्वरगर्भा जगती चतुर्थीपञ्चदशीषोडश्येकत्रिंशीनां भुरिक्त्रिष्टुप् षष्ठ्या उष्णिक्  सप्तम्या द्वादश्यादितृचस्यैकोनविंशीद्वाविंशीत्रयोविंश्यष्टाविंशीत्रिंशीनां द्वात्रिंश्यादितृचस्य च त्रिष्टुप्  अष्टम्या विराड्गायत्री  नवम्या: शाक्वरातिजागतगर्भा जगती  दशम्या: पुरोऽतिजगती विराड्जगती  एकादश्या जगती सप्तदश्येकविंश्योश्चतुर्विंश्यादितृचस्य सप्तत्रिंश्याश्च विराड्जगती  अष्टादश्या अतिजागतगर्भा परातिजागता विराडतिजगती  विंश्या अतिजागतगर्भा परशाक्वरा चतुष्पदा भुरिग्जगती  सप्तविंश्या अतिजागतगर्भा जगती एकोनत्रिंश्या भुरिग्विराड्जगती  पञ्चत्रिंश्याश्चतुष्पदा ककुम्मत्युष्णिक् षट्त्रिंश्याश्च पुरोविराट्त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


अग्ने जायस्वादि॑तिर्नाथितेयं ब्र॑ह्मौदनं प॑चति पुत्रका॑मा ।
सप्तऋषयो॑ भूतकृतस्ते त्वा॑ मन्थन्तु प्रजया॑ सहेह ॥१॥
कृणुत धूमं वृ॑षण: सखायोऽद्रो॑घाविता वाचमच्छ॑ ।
अयमग्नि: पृ॑तनाषाट् सुवीरो येन॑ देवा अस॑हन्त दस्यू॑न् ॥२॥
अग्नेऽज॑निष्ठा महते वीर्याद्गय ब्रह्मौदनाय पक्त॑वे जातवेद: ।
सप्तऋषयो॑ भूतकृतस्ते त्वा॑जीजनन्नस्यै रयिं सर्व॑वीरं नि य॑च्छ ॥३॥
समि॑द्धो अग्ने समिधा समि॑ध्यस्व विद्वान्देवान्यज्ञियाँ एह व॑क्ष: ।
तेभ्यो॑ हवि: श्रपयं॑ जातवेद उत्तमं नाकमधि॑ रोहयेमम् ॥४॥
त्रेधा भागो निहि॑तो य: पुरा वो॑ देवानां॑ पितॄणां मर्त्या॑नाम् ।
अंशा॑ञ्जानीध्वं वि भ॑जामि तान्वो यो देवानां स इमां पा॑रयाति ॥५॥
अग्ने सह॑स्वानभिभूरभीद॑सि नीचो न्युद्गब्ज द्विषत: सपत्ना॑न् ।
इयं मात्रा॑ मीयमा॑ना मिता च॑ सजातांस्ते॑ बलिहृत॑: कृणोतु ॥६॥
साकं स॑जातै: पय॑सा सहैध्युदु॑ब्जैनां महते वीर्याद्गय ।
ऊर्ध्वो नाकस्याधि॑ रोह विष्टपं॑ स्वर्गो लोक इति यं वद॑न्ति ॥७॥
इयं मही प्रति॑ गृह्णातु चर्म॑ पृथिवी देवी सु॑मनस्यमा॑ना ।
अथ॑ गच्छेम सुकृतस्य॑ लोकम् ॥८॥
एतौ ग्रावा॑णौ सयुजा॑ युङ्ग्धि चर्म॑णि निर्बि॑न्ध्यंशून्यज॑मानाय साधु ।
अवघ्नती नि ज॑हि य इमां पृ॑तन्यव॑ ऊर्ध्वं प्रजामुद्भरन्त्युदू॑ह ॥९॥
गृहाण ग्रावा॑णौ सकृतौ॑ वीर हस्त आ ते॑ देवा यज्ञिया॑ यज्ञम॑गु: ।
त्रयो वरा॑ यतमांस्त्वं वृ॑णीषे तास्ते समृ॑द्धीरिह रा॑धयामि ॥१०॥
इयं ते॑ धीतिरिदमु॑ ते जनित्रं॑ गृह्णातु त्वामदि॑ति: शूर॑पुत्रा ।
परा॑ पुनीहि य इमां पृ॑तन्यवोऽस्यै रयिं सर्व॑वीरं नि य॑च्छ ॥११॥
उपश्वसे द्रुवये॑ सीदता यूयं वि वि॑च्यध्वं यज्ञियासस्तुषै॑: ।
श्रिया स॑मानानति सर्वा॑न्त्स्यामाधस्पदं द्वि॑षतस्पा॑दयामि ॥१२॥
परे॑हि नारि पुनरेहि॑ क्षिप्रमपां त्वा॑ गोष्ठोऽध्य॑रुक्षद्भरा॑य ।
तासां॑ गृह्णीताद्यतमा यज्ञिया अस॑न्विभाज्य॑ धीरीत॑रा जहीतात् ॥१३॥
एमा अ॑गुर्योषित: शुम्भ॑माना उत्ति॑ष्ठ नारि तवसं॑ रभस्व ।
सुपत्नी पत्या॑ प्रजया॑ प्रजावत्या त्वा॑गन्यज्ञ: प्रति॑ कुम्भं गृ॑भाय ॥१४॥
ऊर्जो भागो निहि॑तो य: पुरा व ऋषि॑प्रशिष्टाप आ भ॑रैता: ।
अयं यजो गा॑तुविन्ना॑थवित्प्र॑जाविदुग्र: प॑शुविद्वी॑रविद्वो॑ अस्तु ॥१५॥
अग्ने॑ चरुर्यज्ञियस्त्वाध्य॑रुक्षच्छुचिस्तपि॑ष्ठस्तप॑सा तपैनम् ।
आर्षेया दैवा अ॑भिसंगत्य॑ भागमिमं तपि॑ष्ठा ऋतुभि॑स्तपन्तु ॥१६॥
शुद्धा: पूता योषितो॑ यज्ञिया॑ इमा आप॑श्चरुमव॑ सर्पन्तु शुभ्रा: ।
अदु॑: प्रजां ब॑हुलान्पशून्न॑: पक्तौदनस्य॑ सुकृता॑मेतु लोकम् ॥१७॥
ब्रह्म॑णा शुद्धा उत पूता घृतेन सोम॑स्यांशव॑स्तण्डुला यज्ञिया॑ इमे ।
अप: प्र वि॑शत प्रति॑ गृह्णातु वश्चरुरिमं पक्त्वा सुकृता॑मेत लोकम् ॥१८॥
उरु: प्र॑थस्व महता म॑हिम्ना सहस्र॑पृष्ठ: सुकृतस्य॑ लोके ।
पितामहा: पितर॑: प्रजोपजाहं पक्ता प॑ञ्चदशस्ते॑ अस्मि ॥१९॥
सहस्र॑पृष्ठ: शतधा॑रो अक्षि॑तो ब्रह्मौदनो दे॑वयान॑: स्वर्ग: ।
अमूंस्त आ द॑धामि प्रजया॑ रेषयैनान्बलिहाराय॑ मृडतान्मह्य॑मेव ॥२०॥
उदेहि वेदिं॑ प्रजया॑ वर्धयैनां नुदस्व रक्ष॑: प्रतरं धे॑ह्येनाम् ।
श्रिया स॑मानानति सर्वा॑न्त्स्यामाधस्पदं द्वि॑षतस्पा॑दयामि ॥२१॥
अभ्याव॑र्तस्व पशुभि॑: सहैनां॑ प्रत्यङे॑नां देवता॑भि: सहैधि॑ ।
मा त्वा प्राप॑च्छपथो माभि॑चार: स्वे क्षेत्रे॑ अनमीवा वि रा॑ज ॥२२॥
ऋतेन॑ तष्टा मन॑सा हितैषा ब्र॑ह्मौदनस्य विहि॑ता वेदिरग्रे॑ ।
अंसद्रीं शुद्धामुप॑ धेहि नारि तत्रौ॑दनं सा॑दय दैवाना॑म् ॥२३॥
अदि॑तेर्हस्तां स्रुच॑मेतां द्वितीयां॑ सप्तऋषयो॑ भूतकृतो यामकृ॑ण्वन् ।
सा गात्रा॑णि विदुष्यो॑दनस्य दर्विर्वेद्यामध्ये॑नं चिनोतु ॥२४॥
शृतं त्वा॑ हव्यमुप॑ सीदन्तु दैवा नि:सृप्याग्ने: पुन॑रेनान्प्र सी॑द ।
सोमे॑न पूतो जठरे॑ सीद ब्रह्मणा॑मार्षेयास्ते मा रि॑षन्प्राशितार॑: ॥२५॥
सोम॑ राजन्त्संज्ञानमा व॑पैभ्य: सुब्रा॑ह्मणा यतमे त्वो॑पसीदा॑न् ।
ऋषी॑नार्षेयांस्तपसोऽधि॑ जातान्ब्र॑ह्मौदने सुहवा॑ जोहवीमि ॥२६॥
शुद्धा: पूता योषितो॑ यज्ञिया॑ इमा ब्रह्मणां हस्ते॑षु प्रपृथक्सा॑दयामि ।
यत्का॑म इदम॑भिषिञ्चामि॑ वोऽहमिन्द्रो॑ मरुत्वान्त्स द॑दादिदं मे॑ ॥२७॥
इदं मे ज्योति॑रमृतं हिर॑ण्यं पक्वं क्षेत्रा॑त्कामदुघा॑ म एषा ।
इदं धनं नि द॑धे ब्राह्मणेषु॑ कृण्वे पन्थां॑ पितृषु य: स्वर्ग: ॥२८॥
अग्नौ तुषाना व॑प जातवे॑दसि पर: कम्बूकाँ अप॑ मृड्ढि दूरम् ।
एतं शु॑श्रुम गृहराजस्य॑ भागमथो॑ विद्म निरृ॑तेर्भागधेय॑म् ॥२९॥
श्राम्य॑त: पच॑तो विद्धि सुन्वत: पन्थां॑ स्वर्गमधि॑ रोहयैनम् ।
येन रोहात्पर॑मापद्य यद्वय॑ उत्तमं नाकं॑ परमं व्योद्गम ॥३०॥
बभ्रेर॑ध्वर्यो मुख॑मेतद्वि मृड्ढ्याज्या॑य लोकं कृ॑णुहि प्रविद्वान् ।
घृतेन गात्रानु सर्वा वि मृ॑ड्ढि कृण्वे पन्थां॑ पितृषु य: स्वर्ग: ॥३१॥
बभ्रे रक्ष॑: समदमा व॑पैभ्योऽब्रा॑ह्मणा यतमे त्वो॑पसीदा॑न् ।
पुरीषिण: प्रथ॑माना: पुरस्ता॑दार्षेयास्ते मा रि॑षन्प्राशितार॑: ॥३२॥
आर्षेयेषु नि द॑ध ओदन त्वा नाना॑र्षेयाणामप्यस्त्यत्र॑ ।
अग्निर्मे॑ गोप्ता मरुत॑श्च सर्वे विश्वे॑ देवा अभि र॑क्षन्तु पक्वम् ॥३३॥
यज्ञं दुहा॑नं सदमित्प्रपी॑नं पुमां॑सं धेनुं सद॑नं रयीणाम् ।
प्रजामृतत्वमुत दीर्घमायू॑ रायश्च पोषैरुप॑ त्वा सदेम ॥३४॥
वृषभोद्गऽसि स्वर्ग ऋषी॑नार्षेयान्ग॑च्छ ।
सुकृतां॑ लोके सी॑द तत्र॑ नौ संस्कृतम् ॥३५॥
समाचि॑नुष्वानुसंप्रया॑ह्यग्ने पथ: क॑ल्पय देवयाना॑न् ।
एतै: सु॑कृतैरनु॑ गच्छेम यज्ञं नाके तिष्ठ॑न्तमधि॑ सप्तर॑श्मौ ॥३६॥
येन॑ देवा ज्योति॑षा द्यामुदाय॑न्ब्रह्मौदनं पक्त्वा सु॑कृतस्य॑ लोकम् ।
तेन॑ गेष्म सुकृतस्य॑ लोकं स्वद्गरारोह॑न्तो अभि नाक॑मुत्तमम् ॥३७॥
 
 
 

द्वितीयं सूक्तम्» एकत्रिंशदृचस्यास्य सूक्तस्याथर्वा ऋषि: | मन्त्रोक्तरुद्रादयो देवता: |  प्रथमर्च: परातिजागता विराड्जगती  द्वितीयाया अनुष्टुब्गर्भा पञ्चपदा विराड्जगती  तृतीयायाश्चतुष्पदा स्वराडुष्णिक् चतुर्थीपञ्चमीसप्तमीत्रयोदशीपञ्चदशीषोडश्येकविंशीनामनुष्टुप्  षष्ठ्या आर्षी गायत्री  अष्टम्या महाबृहती  नवम्या आर्षी त्रिष्टुप्  दशम्या: पुर:कृतिस्त्रिपदा विराट्त्रिष्टुप्  एकादश्या: पञ्चपदा विराड्जगतीगर्भा शक्वरी  द्वादश्या भुरिक्त्रिष्टुप् चतुर्दश्या: सप्तदश्यादितृचस्य त्रयोविंशीषड्विंशीसप्तविंशीनाञ्च विराड्गायत्री  विंश्या भुरिग्गायात्री  द्वाविंश्यास्त्रिपदा विषमपादलक्ष्मा महाबृहती चतुर्विंश्येकोनत्रिंश्योर्जगती  पञ्चविंश्या: पञ्चपदातिशक्वरी  अष्टाविंश्यास्त्रिष्टुप्  त्रिंश्याश्चतुष्पदोष्णिक्  एकत्रिंश्याश्च त्र्यवसाना षट्पदा विपरीतपादलक्ष्मा त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


भवा॑शर्वौ मृडतं माभि या॑तं भूत॑पती पशु॑पती नमो॑ वाम् ।
प्रति॑हितामाय॑तां मा वि स्रा॑ष्टं मा नो॑ हिंसिष्टं द्विपदो मा चतु॑ष्पद: ॥१॥
शुने॑ क्रोष्ट्रे मा शरी॑राणि कर्त॑मलिक्ल॑वेभ्यो गृध्रे॑भ्यो ये च॑ कृष्णा अ॑विष्यव॑: ।
मक्षि॑कास्ते पशुपते वयां॑सि ते विघसे मा वि॑दन्त ॥२॥
क्रन्दा॑य ते प्राणाय याश्च॑ ते भव रोप॑य: ।
नम॑स्ते रुद्र कृण्म: सहस्राक्षाया॑मर्त्य ॥३॥
पुरस्ता॑त्ते नम॑: कृण्म उत्तराद॑धरादुत ।
अभीवर्गाद्दिवस्पर्यन्तरि॑क्षाय ते नम॑: ॥४॥
मुखा॑य ते पशुपते यानि चक्षूं॑षि ते भव ।
त्वचे रूपाय॑ संदृशे॑ प्रतीचीना॑य ते नम॑: ॥५॥
अङ्गे॑भ्यस्त उदरा॑य जिह्वाया॑ आस्याद्गय ते ।
दद्भ्यो गन्धाय॑ ते नम॑: ॥६॥
अस्त्रा नील॑शिखण्डेन सहस्राक्षेण॑ वाजिना॑ ।
रुद्रेणा॑र्धकघातिना तेन मा सम॑रामहि ॥७॥
स नो॑ भव: परि॑ वृणक्तु विश्वत आप॑ इवाग्नि: परि॑ वृणक्तु नो भव: ।
मा नोऽभि मां॑स्त नमो॑ अस्त्वस्मै ॥८॥
चतुर्नमो॑ अष्टकृत्वो॑ भवाय दश कृत्व॑: पशुपते नम॑स्ते ।
तवेमे पञ्च॑ पशवो विभ॑क्ता गावो अश्वा: पुरु॑षा अजावय॑: ॥९॥
तव चत॑स्र: प्रदिशस्तव द्यौस्तव॑ पृथिवी तवेदमु॑ग्रोर्व१न्तरि॑क्षम् ।
तवेदं सर्व॑मात्मन्वद्यत्प्राणत्पृ॑थिवीमनु॑ ॥१०
उरु: कोशो॑ वसुधानस्तवायं यस्मि॑न्निमा विश्वा भुव॑नान्यन्त: ।
स नो॑ मृड पशुपते नम॑स्ते पर: क्रोष्टारो॑ अभिभा: श्वान॑: परो य॑न्त्वघरुदो॑ विकेश्यद्ग: ॥११॥
धनु॑र्बिभर्षि हरि॑तं हिरण्ययं॑ सहस्रघ्नि शतव॑धं शिखण्डिन् ।
रुद्रस्येषु॑श्चरति देवहेतिस्तस्यै नमो॑ यतमस्यां॑ दिशी३त ॥१२॥
यो३ऽभिया॑तो निलय॑ते त्वां रु॑द्र निचिकी॑र्षति ।
पश्चाद॑नुप्रयु॑ङ्क्षे तं विद्धस्य॑ पदनीरि॑व ॥१३॥
भवारुद्रौ सयुजा॑ संविदानावुभावुग्रौ च॑रतो वीर्याद्गय ।
तभ्यां नमो॑ यतमस्यां॑ दिशी३त ॥१४॥
नम॑स्तेऽस्त्वायते नमो॑ अस्तु परायते ।
नम॑स्ते रुद्र तिष्ठ॑त आसी॑नायोत ते नम॑: ॥१५॥
नम॑: सायं नम॑: प्रातर्नमो रात्र्या नमो दिवा॑ ।
भवाय॑ च शर्वाय॑ चोभाभ्या॑मकरं नम॑: ॥१६॥
सहस्राक्षम॑तिपश्यं पुरस्ता॑द्रुद्रमस्य॑न्तं बहुधा वि॑पश्चित॑म् ।
मोपा॑राम जिह्वयेय॑मानम् ॥१७॥
श्यावाश्वं॑ कृष्णमसि॑तं मृणन्तं॑ भीमं रथं॑ केशिन॑: पादय॑न्तम् ।
पूर्वे प्रती॑मो नमो॑ अस्त्वस्मै ॥१८॥
मा नोऽभि स्रा॑ मत्यंद्ग देवहेतिं मा न॑: क्रुध: पशुपते नम॑स्ते ।
अन्यत्रास्मद्दिव्यां शाखां वि धू॑नु ॥१९॥
मा नो॑ हिंसीरधि॑ नो ब्रूहि परि॑ णो वृङ्ग्धि मा क्रु॑ध: ।
मा त्वया सम॑रामहि ॥२०॥
मा नो गोषु पुरु॑षेषु मा गृ॑धो नो अजाविषु॑ ।
अन्यत्रो॑ग्र वि व॑र्तय पिया॑रूणां प्रजां ज॑हि ॥२१॥
यस्य॑ तक्मा कासि॑का हेतिरेकमश्व॑स्येव वृष॑ण: क्रन्द एति॑ ।
अभिपूर्वं निर्णय॑ते नमो॑ अस्त्वस्मै ॥२२॥
यो३ऽन्तरि॑क्षे तिष्ठ॑ति विष्ट॑भितोऽय॑ज्वन: प्रमृणन्दे॑वपीयून् ।
तस्मै नमो॑ दशभि: शक्व॑रीभि: ॥२३॥
तुभ्य॑मारण्या: पशवो॑ मृगा वने॑ हिता हंसा: सु॑पर्णा: श॑कुना वयां॑सि ।
तव॑ यक्षं प॑शुपते अप्स्व१न्तस्तुभ्यं॑ क्षरन्ति दिव्या आपो॑ वृधे ॥२४॥
शिंशुमारा॑ अजगरा: पु॑रीकया॑ जषा मत्स्या॑ रजसा येभ्यो अस्य॑सि ।
न ते॑ दूरं न प॑रिष्ठास्ति॑ ते भव सद्य: सर्वान्परि॑ पश्यसि भूमिं पूर्व॑स्माद्धंस्युत्त॑रस्मिन्समुद्रे ॥२५॥
मा नो॑ रुद्र तक्मना मा विसेण मा न: सं स्रा॑ दिव्येनाग्निना॑ ।
अन्यत्रास्मद्विद्युतं॑ पातयैताम् ॥२६॥
भवो दिवो भव ई॑शे पृथिव्या भव आ प॑प्र उर्व१न्तरि॑क्षम् ।
तस्मै नमो॑ यतमस्यां॑ दिशी३त ॥२७॥
भव॑ राजन्यज॑मानाय मृड पशूनां हि प॑शुपति॑र्बभूथ॑ ।
य: श्रद्दधा॑ति सन्ति॑ देवा इति चतु॑ष्पदे द्विपदे॑ऽस्य मृड ॥२८॥
मा नो॑ महान्त॑मुत मा नो॑ अर्भकं मा नो वह॑न्तमुत मा नो॑ वक्ष्यत: ।
मा नो॑ हिंसी: पितरं॑ मातरं॑ च स्वां तन्वंद्ग रुद्र मा री॑रिसो न: ॥२९॥
रुद्रस्यै॑लबकारेभ्यो॑ऽसंसूक्तगिलेभ्य॑: ।
इदं महास्ये॑भ्य: श्वभ्यो॑ अकरं नम॑: ॥३०॥
नम॑स्ते घोषिणी॑भ्यो नम॑स्ते केशिनी॑भ्य: ।
नमो नम॑स्कृताभ्यो नम॑: संभुञ्जतीभ्य॑: ।
नम॑स्ते देव सेना॑भ्य: स्वस्ति नो अभ॑यं च न: ॥३१॥
 
 
तृतीयं सूक्तम्» । प्रथम: पर्याय:» एकत्रिंशदृचस्यास्य पर्यायस्याथर्वा ऋषि: | बार्हस्पत्यौदनो देवता: | प्रथमाचतुर्दश्योरृचोरासुरी गायत्री  द्वितीयायास्त्रिपदा समविषमा गायत्री  तृतीयाषष्ठीदशमीनामासुरी पङ्क्ति:   चतुर्थ्यष्टम्यो: साम्न्यनुष्टुप्  पञ्चमीत्रयोदशीपञ्चदशीपञ्चविंशीनां साम्न्युष्णिक् सप्तम्या एकोनविंश्यादिचतसृणाञ्च प्राजापत्यानुष्टुप्  नवमीसप्तदश्यष्टादशीनामासुर्यनुष्टुप्  एकादश्या भुरिगार्च्यनुष्टुप्  द्वादश्या याजुषी जगती षोडशीत्रयोविंश्योरासुरी बृहती  चतुर्विंश्यास्त्रिपदा प्राजापत्या बृहती  षड्विंश्या आर्च्युष्णिक्  सप्तविंश्या: साम्नी गायत्री  अष्टाविंश्या: साम्नी बृहती  एकोनत्रिंश्या भुरिक्साम्नी बृहती त्रिंश्या याजुषी त्रिष्टुप्  एकत्रिंश्याश्चाल्पशो याजुषी वा पङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
तस्यौ॑दनस्य बृहस्पति: शिरो ब्रह्म मुख॑म् ॥१॥
द्यावा॑पृथिवी श्रोत्रे॑ सूर्याचन्द्रमसावक्षि॑णी सप्तऋषय॑: प्राणापाना: ॥२॥
चक्षुर्मुस॑लं काम॑ उलूख॑लम् ॥३॥
दिति: शूर्पमदि॑ति: शूर्पग्राही वातोऽपा॑विनक् ॥४॥
अश्वा: कणा गाव॑स्तण्डुला मशकास्तुषा॑: ॥५॥
कब्रु॑ फलीकर॑णा: शरोऽभ्रम् ॥६॥
श्याममयो॑ऽस्य मांसानि लोहि॑तमस्य लोहि॑तम् ॥७॥
त्रपु भस्म हरि॑तं वर्ण: पुष्क॑रमस्य गन्ध: ॥८॥
खल: पात्रं स्फ्यावंसा॑वीषे अ॑नूक्येद्ग ॥९॥
आन्त्राणि॑ जत्रवो गुदा॑ वरत्रा: ॥१०॥
इयमेव पृ॑थिवी कुम्भी भ॑वति राध्य॑मानस्यौदनस्य द्यौर॑पिधान॑म् ॥११॥
सीता: पर्श॑व: सिक॑ता ऊब॑ध्यम् ॥१२॥
ऋतं ह॑स्तावनेज॑नं कुल्योद्गपसेच॑नम् ॥१३॥
ऋचा कुम्भ्यधि॑हितार्त्वि॑ज्येन प्रेषि॑ता ॥१४॥
ब्रह्म॑णा परि॑गृहीता साम्ना पर्यू॑ढा ॥१५॥
बृहदायव॑नं रथन्तरं दर्वि॑: ॥१६॥
ऋतव॑: पक्तार॑ आर्तवा: समि॑न्धते ॥१७॥
चरुं पञ्च॑बिलमुखं घर्मो३ऽभी॑न्धे ॥१८॥
ओदनेन॑ यज्ञवच: सर्वे॑ लोका: स॑माप्याद्ग: ॥१९॥
यस्मि॑न्त्समुद्रो द्यौर्भूमिस्त्रयो॑ऽवरपरं श्रिता: ॥२०॥
यस्य॑ देवा अक॑ल्पन्तोच्छि॑ष्टे षड॑शीतय॑: ॥२१॥
तं त्वौ॑दनस्य॑ पृच्छामि यो अ॑स्य महिमा महान् ॥२२॥
स य ओ॑दनस्य॑ महिमानं॑ विद्यात् ॥२३॥
नाल्प इति॑ ब्रूयान्नानु॑पसेचन इति नेदं च किं चेति॑ ॥२४॥
याव॑द्दाताभि॑मनस्येत तन्नाति॑ वदेत् ॥२५॥
ब्रह्मवादिनो॑ वदन्ति परा॑ञ्चमोदनं प्राशी३: प्रत्यञ्चा३मिति॑ ॥२६॥
त्वमो॑दनं प्राशी३स्त्वामो॑दना३ इति॑ ॥२७॥
परा॑ञ्चं चैनं प्राशी॑: प्राणास्त्वा॑ हास्यन्तीत्ये॑नमाह ॥२८॥
प्रत्यञ्चं॑ चैनं प्राशी॑रपानास्त्वा॑ हास्यन्तीत्ये॑नमाह ॥२९॥
नैवाहमो॑दनं न मामो॑दन: ॥३०॥
ओदन एवौदनं प्राशी॑त् ॥३१॥
 
 
 

द्वितीय: पर्याय:» अष्टादशगणस्यास्य पर्यायस्य  प्रथमसप्तमदशमगणानां प्रथमानामवसानर्चां प्रथमाद्यष्टादशानाञ्च सप्तमीना साम्नी त्रिष्टुप् प्रथमचतुर्थैकादशानां द्वितीयानां॑ प्रथमाद्यष्टादशानां तृतीयानां॑ द्वितीयतृतीययोस्त्रयोदशादिपञ्चानाञ्च पञ्चमीनामेकपदासुरी गायत्री॑ प्रथमदशमद्वादशषोडशानाञ्चतुर्थीनां दैवी जगती द्वितीयत्रयोदशयोश्चतुर्थ्योरासुरी बृहती सप्तमत्रयोदशपञ्चदशानां द्वितीयानां॑ प्रथमस्य चतुर्थादिनवानामष्टादशस्य च पञ्चमीनामेकपदासुर्यनुष्टुप्  प्रथमाद्यष्टादशानां षष्ठीनां साम्न्यनुष्टुप् द्वितीयादिचतुर्णामष्टमनवमयोरेकादशाद्यष्टानाञ्च प्रथमानामार्च्यनुष्टुप्  षष्ठस्य प्रथमाया: साम्नी पङ्क्ति: द्वितीयपञ्चमनवमषोडशसप्तदशानां द्वितीयानामासुरी जगती तृतीयषष्ठदशमद्वादशचतुर्दशानां द्वितीयानामासुरी पङ्क्ति:  तृतीयस्य चतुर्थ्या आसुरी त्रिष्टुप्  १चतुर्थपञ्चदशसप्तदशानां चतुर्थीनां याजुषी गायत्री  पञ्चमषष्ठनवमानां चतुर्थीनां दैवी पङ्क्ति: सप्तमाष्टमयोश्चतुर्थ्यो: प्राजापत्या गायत्री  अष्टमस्य द्वितीयाया आसुर्युष्णिक् एकादशचतुर्दशाष्टादशानां चतुर्थीनां दैवी त्रिष्टुप् अष्टादशस्य च द्वितीयाया एकपदा भुरिक् साम्नी बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

तत॑श्चैनमन्येन॑ शीर्ष्णा प्राशीर्येन॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
ज्येष्ठतस्ते॑ प्रजा म॑रिष्यतीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
बृहस्पति॑ना शीर्ष्णा ।
तेनै॑नं प्राशि॑षं तेनै॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥१॥
तत॑श्चैनमन्याभ्यां श्रोत्रा॑भ्यां प्राशीर्याभ्यां॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
बधिरो भ॑विष्यसीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
द्यावा॑पृथिवीभ्यां श्रोत्रा॑भ्याम् ।
ताभ्या॑मेनं प्राशि॑षं ताभ्या॑मेनमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥२॥
तत॑श्चैनमन्याभ्या॑मक्षीभ्यां प्राशीर्याभ्यां॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
अन्धो भ॑विष्यसीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
सूर्याचन्द्रमसाभ्या॑मक्षीभ्या॑म् ।
ताभ्या॑मेनं प्राशि॑षं ताभ्या॑मेनमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥३॥
तत॑श्चैनमन्येन मुखे॑न प्राशीर्येन॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
मुखतस्ते॑ प्रजा म॑रिष्यतीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
ब्रह्म॑णा मुखे॑न ।
तेनै॑नं प्राशि॑षं तेनै॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥४॥
तत॑श्चैनमन्यया॑ जिह्वया प्राशीर्यया॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
जिह्वा ते॑ मरिष्यतीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
अग्नेर्जिह्वया॑ ।
तेनै॑नं प्राशि॑षं तेनै॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥५॥
तत॑श्चैनमन्यैर्दन्तै: प्राशीर्यैश्चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
दन्ता॑स्ते शत्स्यन्तीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
ऋतुभिर्दन्तै॑: ।
तैरे॑नं प्राशि॑षं तैरे॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥६॥
तत॑श्चैनमन्यै: प्रा॑णापानै: प्राशीर्यैश्चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
प्राणापानास्त्वा॑ हास्यन्तीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
सप्तर्षिभि॑: प्राणापानै: ।
तैरे॑नं प्राशि॑षं तैरे॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥७॥
तत॑श्चैनमन्येन व्यच॑सा प्राशीर्येन॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
राजयक्ष्मस्त्वा॑ हनिष्यतीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
अन्तरि॑क्षेण व्यच॑सा ।
तैरे॑नं प्राशि॑षं तैरे॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥८॥
तत॑श्चैनमन्येन॑ पृष्ठेन प्राशीर्येन॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
विद्युत्त्वा॑ हनिष्यतीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
दिवा पृष्ठेन॑ ।
तैरे॑नं प्राशि॑षं तैरे॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥९॥
तत॑श्चैनमन्येनोर॑सा प्राशीर्येन॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
कृष्या न रा॑त्स्यसीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
पृथिव्योर॑सा ।
तैरे॑नं प्राशि॑षं तैरे॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥१०॥
तत॑श्चैनमन्येनोदरे॑ण प्राशीर्येन॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
उदरदारस्त्वा॑ हनिष्यतीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
सत्येनोदरे॑ण ।
तैरे॑नं प्राशि॑षं तैरे॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥११॥
तत॑श्चैनमन्येन॑ वस्तिना प्राशीर्येन॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
अप्सु म॑रिष्यसीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
समुद्रेण॑ वस्तिना॑ ।
तैरे॑नं प्राशि॑षं तैरे॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥१२॥
तत॑श्चैनमन्याभ्या॑मूरुभ्यां प्राशीर्याभ्यां॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
ऊरू ते॑ मरिष्यत इत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
मित्रावरु॑णयोरूरुभ्या॑म् ।
ताभ्या॑मेनं प्राशि॑षं ताभ्या॑मेनमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥१३॥
तत॑श्चैनमन्याभ्या॑मष्ठीवद्भ्यां प्राशीर्याभ्यां॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
स्रामो भ॑विष्यसीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
त्वष्टु॑रष्ठीवद्भ्या॑म् ।
ताभ्या॑मेनं प्राशि॑षं ताभ्या॑मेनमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥१४॥
तत॑श्चैनमन्याभ्यां पादा॑भ्यां प्राशीर्याभ्यां॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
बहुचारी भ॑विष्यसीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
अश्विनो: पादा॑भ्याम् ।
ताभ्या॑मेनं प्राशि॑षं ताभ्या॑मेनमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥१५॥
तत॑श्चैनमन्याभ्यां प्रप॑दाभ्यां प्राशीर्याभ्यां॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
सर्पस्त्वा॑ हनिष्यतीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
सवितु: प्रप॑दाभ्याम् ।
ताभ्या॑मेनं प्राशि॑षं ताभ्या॑मेनमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥१६॥
तत॑श्चैनमन्याभ्यां हस्ता॑भ्यां प्राशीर्याभ्यां॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
ब्राह्मणं ह॑निष्यसीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
ऋतस्य हस्ता॑भ्याम् ।
ताभ्या॑मेनं प्राशि॑षं ताभ्या॑मेनमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥१७॥
तत॑श्चैनमन्यया॑ प्रतिष्ठया प्राशीर्यया॑ चैतं पूर्व ऋष॑य: प्राश्न॑न् ।
अप्रतिष्ठानोद्गऽनायतनो म॑रिष्यसीत्ये॑नमाह ।
तं वा अहं नार्वाञ्चं न परा॑ञ्चं न प्रत्यञ्च॑म् ।
सत्ये प्र॑तिष्ठाय॑ ।
तयै॑नं प्राशि॑षं तयै॑नमजीगमम् ।
एष वा ओ॑दन: सर्वा॑ङ्ग: सर्व॑परु: सर्व॑तनू: ।
सर्वा॑ङ्ग एव सर्व॑परु: सर्व॑तनू: सं भ॑वति य एवं वेद॑ ॥१८॥
 
 
तृतीय: पर्याय:» सप्तर्चस्यास्य पर्यायस्याथर्वा ऋषि: | मन्त्रोक्ता देवता: |  प्रथमर्च आसुर्यनुष्टुप्  द्वितीयाया आर्च्युष्णिक्  तृतीयायास्त्रिपदा भुरिक्साम्नी त्रिष्टुप्  चतुर्थ्या आसुरी बृहती  पञ्चम्या द्विपदा भुरिक्साम्नी बृहती षष्ठ्या: साम्न्युष्णिक्  सप्तम्याश्च प्राजापत्या बृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

एतद्वै ब्रध्नस्य॑ विष्टपं यदो॑दन: ॥१॥
ब्रध्नलो॑को भवति ब्रध्नस्य॑ विष्टपि॑ श्रयते य एवं वेद॑ ॥२॥
एतस्माद्वा ओ॑दनात्त्रय॑स्त्रिंशतं लोकान्निर॑मिमीत प्रजाप॑ति: ॥३॥
तेषां॑ प्रज्ञाना॑य यज्ञम॑सृजत ॥४॥
स य एवं विदुष॑ उपद्रष्टा भ॑वति प्राणं रु॑णद्धि ॥५॥
न च॑ प्रानं रुणद्धि॑ सर्वज्यानिं जी॑यते ॥६॥
न च॑ सर्वज्यानिं जीयते॑ पुरैनं॑ जरस॑: प्राणो ज॑हाति ॥७॥
 
 
 
चतुर्थं सूक्तम्» षड्विंशत्यृचस्यास्य सूक्तस्य वैदर्भिर्भार्गव ऋषि: | प्राणो देवता: | प्रथमर्च: शङ्कुमत्यनुष्टुप्  द्वितीयादिषण्णां नवम्यादिपञ्चानां षोडश्यादिचतसृणां त्रयोविंश्यादितृचस्य चानुष्टुप् अष्टम्या: पथ्यापङ्क्ति:  चतुर्दश्या निचृदनुष्टुप्  पञ्चदश्या भुरिगनुष्टुप् विंश्या अनुष्टुब्गर्भा त्रिष्टुप्  एकविंश्या मध्येज्योतिर्जगती  द्वाविंश्यास्त्रिष्टुप्  षड्विंश्याश्च बृहतीगर्भानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)


प्राणाय नमो यस्य सर्व॑मिदं वशे॑ ।
यो भूत: सर्व॑स्येश्वरो यस्मिन्त्सर्वं प्रति॑ष्ठितम् ॥१॥
नम॑स्ते प्राण क्रन्दा॑य नम॑स्ते स्तनयित्नवे॑ ।
नम॑स्ते प्राण विद्युते नम॑स्ते प्राण वर्ष॑ते ॥२॥
यत्प्राण स्त॑नयित्नुना॑भिक्रन्दत्योष॑धी: ।
प्र वी॑यन्ते गर्भा॑न्दधतेऽथो॑ बह्वीर्वि जा॑यन्ते ॥३॥
यत्प्राण ऋतावाग॑तेऽभिक्रन्दत्योष॑धी: ।
सर्वं॑ तदा प्र मो॑दते यत्किं च भूम्यामधि॑ ॥४॥
यदा प्राणो अभ्यव॑र्षीद्वर्षेण॑ पृथिवीं महीम् ।
पशवस्तत्प्र मो॑दन्ते महो वै नो॑ भविष्यति ॥५॥
अभिवृ॑ष्टा ओष॑धय: प्राणेन सम॑वादिरन् ।
आयुर्वै न: प्राती॑तर: सर्वा॑ न: सुरभीर॑क: ॥६॥
नम॑स्ते अस्त्वायते नमो॑ अस्तु परायते ।
नम॑स्ते प्राण तिष्ठ॑त आसी॑नायोत ते नम॑: ॥७॥
नम॑स्ते प्राण प्राणते नमो॑ अस्त्वपानते ।
पराचीना॑य ते नम॑: प्रतीचीना॑य ते नम: सर्व॑स्मै त इदं नम॑: ॥८॥
या ते॑ प्राण प्रिया तनूर्यो ते॑ प्राण प्रेय॑सी ।
अथो यद्भे॑षजं तव तस्य॑ नो धेहि जीवसे॑ ॥९॥
प्राण: प्रजा अनु॑ वस्ते पिता पुत्रमि॑व प्रियम् ।
प्राणो ह सर्व॑स्येश्वरो यच्च॑ प्राणति यच्च न ॥१०॥
प्राणो मृत्यु: प्राणस्तक्मा प्राणं देवा उपा॑सते ।
प्राणो ह॑ सत्यवादिन॑मुत्तमे लोक आ द॑धत् ॥११॥
प्राणो विराट् प्राणो देष्ट्री॑ प्राणं सर्व उपा॑सते ।
प्राणो ह सूर्य॑श्चन्द्रमा॑: प्राणमा॑हु: प्रजाप॑तिम् ॥१२॥
प्राणापानौ व्री॑हियवाव॑नड्वान्प्राण उ॑च्यते ।
यवे॑ ह प्राण आहि॑तोऽपानो व्रीहिरु॑च्यते ॥१३॥
अपा॑नति प्राण॑ति पुरु॑षो गर्भे॑ अन्तरा ।
यदा त्वं प्रा॑ण जिन्वस्यथ स जा॑यते पुन॑: ॥१४॥
प्राणमा॑हुर्मातरिश्वा॑नं वातो॑ ह प्राण उ॑च्यते ।
प्राणे ह॑ भूतं भव्यं॑ च प्राणे सर्वं प्रति॑ष्ठितम् ॥१५॥
आथर्वणीरा॑ङ्गिरसीर्दैवी॑र्मनुष्यजा उत ।
ओष॑धय: प्र जा॑यन्ते यदा त्वं प्रा॑ण जिन्व॑सि ॥१६॥
यदा प्राणो अभ्यव॑र्षीद्वर्षेण॑ पृथिवीं महीम् ।
ओष॑धय: प्र जा॑यन्तेऽथो या: काश्च॑ वीरुध॑: ॥१७॥
यस्ते॑ प्राणेदं वेद यस्मिंश्चासि प्रति॑ष्ठित: ।
सर्वे तस्मै॑ बलिं ह॑रानमुष्मिँ॑ल्लोक उ॑त्तमे ॥१८॥
यथा॑ प्राण बलिहृतस्तुभ्यं सर्वा॑: प्रजा इमा: ।
एवा तस्मै॑ बलिं ह॑रान्यस्त्वा॑ शृणव॑त्सुश्रव: ॥१९॥
अन्तर्गर्भ॑श्चरति देवतास्वाभू॑तो भूत: स उ॑ जायते पुन॑: ।
स भूतो भव्यं॑ भविष्यत्पिता पुत्रं प्र वि॑वेशा शची॑भि: ॥२०॥
एकं पादं नोत्खि॑दति सलिलाद्धंस उच्चर॑न् ।
यदङ्ग स तमु॑त्खिदेन्नैवाद्य न श्व: स्यान्न रात्री नाह॑: स्यान्न व्युद्गच्छेत्कदा चन ॥२१॥
अष्टाच॑क्रं वर्तत एक॑नेमि सहस्रा॑क्षरं प्र पुरो नि पश्चा ।
अर्धेन विश्वं भुव॑नं जजान यद॑स्यार्धं क॑तम: स केतु: ॥२२॥
यो अस्य विश्वज॑न्मन ईशे विश्व॑स्य चेष्ट॑त: ।
अन्ये॑षु क्षिप्रध॑न्वने तस्मै॑ प्राण नमो॑ऽस्तु ते ॥२३॥
यो अस्य सर्वज॑न्मन ईशे सर्व॑स्य चेष्ट॑त: ।
अत॑न्द्रो ब्रह्म॑णा धीर॑: प्राणो मानु॑ तिष्ठातु ॥२४॥
ऊर्ध्व: सुप्तेषु॑ जागार ननु तिर्यङ्नि प॑द्यते ।
न सुप्तम॑स्य सुप्तेष्वनु॑ शुश्राव कश्चन ॥२५॥
प्राण मा म॑त्पर्यावृ॑तो न मदन्यो भ॑विष्यसि ।
अपां गर्भ॑मिव जीवसे प्राण॑ बध्नामि॑ त्वा मयि॑ ॥२६॥
 

पञ्चमं सूक्तम्» षड्विंशत्यृचस्यास्य सूक्तस्य ब्रह्मा ऋषि: | ब्रह्मचारी देवता: |  प्रथमर्च: पुरोतिजागतविराड्गर्भा त्रिष्टुप्  द्वितीयाया: पञ्चपदा बृहतीगर्भा विराट् शक्वरी  तृतीयाया उरोबृहती  चतुर्थीपञ्चम्योश्चतुर्विंश्याश्च त्रिष्टुप्  षष्ठ्या: शाक्वरगर्भा चतुष्पदा जगती  सप्तम्या विराड्गर्भा त्रिष्टुप्  अष्टम्या: पुरोतिजागता विराड्जगती  नवम्या बृहतीगर्भा त्रिष्टुप्  दशम्या भुरिक्त्रिष्टुप्  एकादशीत्रयोदश्योर्जगती  द्वादश्या: शाक्वरगर्भा चतुष्पदा विराडतिजगती चतुर्दश्या: षोडश्यादिसप्तानाञ्चानुष्टुप् पञ्चदश्या: पुरस्ताज्ज्योतिस्त्रिष्टुप्  त्रयोविंश्या: पुरोबार्हतातिजागतगर्भा त्रिष्टुप्  पञ्चविंश्या एकावसानार्च्युष्णिक् षड्विंश्याश्च मध्येज्योतिरुष्णिग्गर्भा त्रिष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 
 
ब्रह्मचारीष्णंश्च॑रति रोद॑सी उभे तस्मि॑न्देवा: संम॑नसो भवन्ति ।
स दा॑धार पृथिवीं दिवं॑ च स आ॑चार्यं१ तप॑सा पिपर्ति ॥१॥
ब्रह्मचारिणं॑ पितरो॑ देवजना: पृथ॑ग्देवा अ॑नुसंय॑न्ति सर्वे॑ ।
गन्धर्वा ए॑नमन्वा॑यन्त्रय॑स्त्रिंशत्त्रिशता: ष॑ट्सहस्रा: सर्वान्त्स देवांस्तप॑सा पिपर्ति ॥२॥
आचार्यद्ग उपनय॑मानो ब्रह्मचारिणं॑ कृणुते गर्भ॑मन्त: ।
तम्रात्री॑स्तिस्र उदरे॑ बिभर्ति तं जातं द्रष्टु॑मभिसंय॑न्ति देवा: ॥३॥
इयं समित्पृ॑थिवी द्यौर्द्वितीयोतान्तरि॑क्षं समिधा॑ पृणाति ।
ब्रह्मचारी समिधा मेख॑लया श्रमे॑ण लोकांस्तप॑सा पिपर्ति ॥४॥
पूर्वो॑ जातो ब्रह्म॑णो ब्रह्मचारी घर्मं वसा॑नस्तपसोद॑तिष्ठत् ।
तस्मा॑ज्जातं ब्राह्म॑णं ब्रह्म॑ ज्येष्ठं देवाश्च सर्वे॑ अमृते॑न साकम् ॥५॥
ब्रह्मचार्येद्गति समिधा समि॑द्ध: कार्ष्णं वसा॑नो दीक्षितो दीर्घश्म॑श्रु: ।
स सद्य ए॑ति पूर्व॑स्मादुत्त॑रं समुद्रं लोकान्त्संगृभ्य मुहु॑राचरि॑क्रत् ॥६॥
ब्रह्मचारी जनयन्ब्रह्मापो लोकं प्रजाप॑तिं परमेष्ठिनं॑ विराज॑म् ।
गर्भो॑ भूत्वामृत॑स्य योनाविन्द्रो॑ ह भूत्वासु॑रांस्ततर्ह ॥७॥
आचार्यद्गस्ततक्ष नभ॑सी उभे इमे उर्वी ग॑म्भीरे पृ॑थिवीं दिवं॑ च ।
ते र॑क्षति तप॑सा ब्रह्मचारी तस्मि॑न्देवा: संम॑नसो भवन्ति ॥८॥
इमां भूमिं॑ पृथिवीं ब्र॑ह्मचारी भिक्षामा ज॑भार प्रथमो दिवं॑ च ।
ते कृत्वा समिधावुपा॑स्ते तयोरार्पि॑ता भुव॑नानि विश्वा॑ ॥९॥
अर्वागन्य: परो अन्यो दिवस्पृष्ठाद्गुहा॑ निधी निहि॑तौ ब्राह्म॑णस्य ।
तौ र॑क्षति तप॑सा ब्रह्मचारी तत्केव॑लं कृणुते ब्रह्म॑ विद्वान् ॥१०॥
अर्वागन्य इतो अन्य: पृ॑थिव्या अग्नी समेतो नभ॑सी अन्तरेमे ।
तयो॑: श्रयन्ते रश्मयोऽधि॑ दृढास्ताना ति॑ष्ठति तप॑सा ब्रह्मचारी ॥११॥
अभिक्रन्द॑न्स्तनय॑न्नरुण: शि॑तिङ्गो बृहच्छेपोऽनु भूमौ॑ जभार ।
ब्रह्मचारी सि॑ञ्चति सानौ रेत॑: पृथिव्यां तेन॑ जीवन्ति प्रदिशश्चत॑स्र: ॥१२॥
अग्नौ सूर्ये॑ चन्द्रम॑सि मातरिश्व॑न्ब्रह्मचार्य१प्सु समिधमा द॑धाति ।
तासा॑मर्चीषि पृथ॑गभ्रे च॑रन्ति तासामाज्यं पुरु॑षो वर्षमाप॑: ॥१३॥
आचार्योद्ग मृत्युर्वरु॑ण: सोम ओष॑धय: पय॑: ।
जीभूता॑ आसन्त्सत्वा॑नस्तैरिदं स्व१राभृ॑तम् ॥१४॥
अमा घृतं कृ॑णुते केव॑लमाचार्योद्ग भूत्वा वरु॑णो यद्यदैच्छ॑त्प्रजाप॑तौ ।
तद्ब्र॑ह्मचारी प्राय॑च्छत्स्वान्मित्रो अध्यात्मन॑: ॥१५॥
आचार्योद्ग ब्रह्मचारी ब्र॑ह्मचारी प्रजाप॑ति: ।
प्रजाप॑तिर्वि रा॑जति विराडिन्द्रो॑ऽभवद्वशी ॥१६॥
ब्रह्मचर्ये॑ण तप॑सा राजा॑ राष्ट्रं वि र॑क्षति ।
आचार्योद्ग ब्रह्मचर्ये॑ण ब्रह्मचारिण॑मिच्छते ॥१७॥
ब्रह्मचर्ये॑ण कन्या३ युवा॑नं विन्दते पति॑म् ।
अनड्वान्ब्र॑ह्मचर्येणाश्वो॑ घासं जि॑गीषति ॥१८॥
ब्रह्मचर्ये॑ण तप॑सा देवा मृत्युमपा॑घ्नत ।
इन्द्रो॑ ह ब्रह्मचर्ये॑ण देवेभ्य: स्व१राभ॑रत् ॥१९॥
ओष॑धयो भूतभव्यम॑होरात्रे वनस्पति॑: ।
संवत्सर: सहर्तुभिस्ते जाता ब्र॑ह्मचारिण॑: ॥२०॥
पार्थि॑वा दिव्या: पशव॑ आरण्या ग्राम्याश्च ये ।
अपक्षा: पक्षिण॑श्च ये ते जाता ब्र॑ह्मचारिण॑: ॥२१॥
पृथक्सर्वे॑ प्राजापत्या: प्राणानात्मसु॑ बिभ्रति ।
तान्त्सर्वान्ब्रह्म॑ रक्षति ब्रह्मचारिण्याभृ॑तम् ॥२२॥
देवाना॑मेतत्प॑रिषूतमन॑भ्यारूढं चरति रोच॑मानम् ।
तस्मा॑ज्जातं ब्राह्म॑णं ब्रह्म॑ ज्येष्ठं देवाश्च सर्वे॑ अमृते॑न साकम् ॥२३॥
ब्रह्मचारी ब्रह्म भ्राज॑द्बिभर्ति तस्मि॑न्देवा अधि विश्वे॑ समोता॑: ।
प्राणापानौ जनयन्नाद्व्यानं वाचं मनो हृद॑यं ब्रह्म॑ मेधाम् ॥२४॥
चक्षु: श्रोत्रं यशो॑ अस्मासु॑ धेह्यन्नं रेतो लोहि॑तमुदर॑म् ॥२५॥
तानि कल्प॑न्ब्रह्मचारी स॑लिलस्य॑ पृष्ठे तपो॑ऽतिष्ठत्तप्यमा॑न: समुद्रे ।
स स्नातो बभ्रु: पि॑ङ्गल: पृ॑थिव्यां बहु रो॑चते ॥२६॥
 
 

षष्ठं सूक्तम्» त्रयोविंशत्यृचस्यास्य सूक्तस्य शन्तातिरृषि: । चन्द्रमा मन्त्रोक्ता वा देवता: |  प्रथमादिद्वाविंशत्यृचामनुष्टुप्  त्रयोविंश्याश्च बृहतीगर्भानुष्टुप् छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

अग्निं ब्रू॑मो वनस्पतीनोष॑धीरुत वीरुध॑: ।
इन्द्रं बृहस्पतिं सूर्यं ते नो॑ मुञ्चन्त्वंह॑स: ॥१॥
ब्रूमो राजा॑नं वरु॑णं मित्रं विष्णुमथो भग॑म् ।
अंशं विव॑स्वन्तं ब्रूमस्ते नो॑ मुञ्चन्त्वंह॑स: ॥२॥
ब्रूमो देवं स॑वितारं॑ धातार॑मुत पूषण॑म् ।
त्वष्टा॑रमग्रियं ब्रू॑मस्ते नो॑ मुञ्चन्त्वंह॑स: ॥३॥
गन्धर्वाप्सरसो॑ ब्रूमो अश्विना ब्रह्म॑णस्पति॑म् ।
अर्यमा नाम यो देवस्ते नो॑ मुञ्चन्त्वंह॑स: ॥४॥
अहोरात्रे इदं ब्रू॑म: सूर्याचन्द्रमसा॑वुभा ।
विश्वा॑नादित्यान्ब्रू॑मस्ते नो॑ मुञ्चन्त्वंह॑स: ॥५॥
वातं॑ ब्रूम: पर्जन्य॑मन्तरि॑क्षमथो दिश॑: ।
आशा॑श्च सर्वा॑ ब्रूमस्ते नो॑ मुञ्चन्त्वंह॑स: ॥६॥
मुञ्चन्तु॑ मा शपथ्याद्गदहोरात्रे अथो॑ उषा: ।
सोमो॑ मा देवो मु॑ञ्चतु यमाहुश्चन्द्रमा इति॑ ॥७॥
पार्थि॑वा दिव्य: पशव॑ आरण्या उत ये मृगा: ।
शकुन्ता॑न्पक्षिणो॑ ब्रूमस्ते नो॑ मुञ्चन्त्वंह॑स: ॥८॥
भवाशर्वाविदं ब्रू॑मो रुद्रं प॑शुपति॑श्च य: ।
इषूर्या ए॑षां संविद्म ता न॑: सन्तु सदा॑ शिवा: ॥९॥
दिवं॑ ब्रूमो नक्ष॑त्राणि भूमिं॑ यक्षाणि पर्व॑तान् ।
समुद्रा नद्योद्ग वेशन्तास्ते नो॑ मुञ्चन्त्वंह॑स: ॥१०॥
सप्तर्षीन्वा इदं ब्रू॑मोऽपो देवी: प्रजाप॑तिम् ।
पितॄन्यमश्रे॑ष्ठान्ब्रूमस्ते नो॑ मुञ्चन्त्वंह॑स: ॥११॥
ये देवा दि॑विषदो॑ अन्तरिक्षसद॑श्च ये ।
पृथिव्यां शक्रा ये श्रितास्ते नो॑ मुञ्चन्त्वंह॑स: ॥१२॥
आदित्या रुद्रा वस॑वो दिवि देवा अथ॑र्वान: ।
अङ्गि॑रसो मनीषिणस्ते नो॑ मुञ्चन्त्वंह॑स: ॥१३॥
यज्ञं ब्रू॑मो यज॑मानमृच: सामा॑नि भेषजा ।
यजूं॑षि होत्रा॑ ब्रूमस्ते नो॑ मुञ्चन्त्वंह॑स: ॥१४॥
पञ्च॑ राज्यानि॑ वीरुधां सोम॑श्रेष्ठानि ब्रूम: ।
दर्भो भङ्गो यव: सहस्ते नो॑ मुञ्चन्त्वंह॑स: ॥१५॥
अराया॑न्ब्रूमो रक्षां॑सि सर्पान्पु॑ण्यजनान्पितॄन् ।
मृत्यूनेक॑शतं ब्रूमस्ते नो॑ मुञ्चन्त्वंह॑स: ॥१६॥
ऋतून्ब्रू॑म ऋतुपती॑नार्तवानुत हा॑यनान् ।
समा॑: संवत्सरान्मासांस्ते नो॑ मुञ्चन्त्वंह॑स: ॥१७॥
एत॑ देवा दक्षिणत: पश्चात्प्राञ्च॑ उदेत॑ ।
पुरस्ता॑दुत्तराच्छक्रा विश्वे॑ देवा: समेत्य ते नो॑ मुञ्चन्त्वंह॑स: ॥१८॥
विश्वा॑न्देवानिदं ब्रू॑म: सत्यसं॑धानृतावृध॑: ।
विश्वा॑भि: पत्नी॑भि: सह ते नो॑ मुञ्चन्त्वंह॑स: ॥१९॥
सर्वा॑न्देवानिदं ब्रू॑म: सत्यसं॑धानृतावृध॑: ।
सर्वा॑भि: पत्नी॑भि: सह ते नो॑ मुञ्चन्त्वंह॑स: ॥२०॥
भूतं ब्रू॑मो भूतपतिं॑ भूताना॑मुत यो वशी ।
भूतानि सर्वा॑ संगत्य ते नो॑ मुञ्चन्त्वंह॑स: ॥२१॥
या देवी: पञ्च॑ प्रदिशो ये देवा द्वाद॑शर्तव॑: ।
संवत्सरस्य ये दंष्ट्रास्ते न॑: सन्तु सदा॑ शिवा: ॥२२॥
यन्मात॑ली रथक्रीतममृतं वेद॑ भेषजम् ।
तदिन्द्रो॑ अप्सु प्रावे॑शयत्तदापो॑ दत्त भेषजम् ॥२३॥
 
 
 
सप्तमं सूक्तम्» सप्तविंशत्यृचस्यास्य सूक्तस्याथर्वा ऋषि: | उच्छिष्टोऽध्यात्मञ्चदेवता: | प्रथमादिपञ्चर्चां सप्तम्यादिचतुर्दशानां त्रयोविंश्यादिपञ्चानाञ्चानुष्टुप्  षष्ठ्या बार्हतपरा पुर उष्णिगनुष्टुप् एकविंश्या: स्वराडनुष्टुप्  द्वाविंश्याश्च विराट्पथ्याबृहती छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

उच्छि॑ष्टे नाम॑ रूपं चोच्छि॑ष्टे लोक आहि॑त: ।
उच्छि॑ष्टे इन्द्र॑श्चाग्निश्च विश्व॑मन्त: समाहि॑तम् ॥१॥
उच्छि॑ष्टे द्यावा॑पृथिवी विश्वं॑ भूतं समाहि॑तम् ।
आप॑: समुद्र उच्छि॑ष्टे चन्द्रमा वात आहि॑त: ॥२॥
सन्नुच्छि॑ष्टे असं॑श्चोभौ मृत्युर्वाज॑: प्रजाप॑ति: ।
लौक्या उच्छि॑ष्ट आय॑त्ता व्रश्च द्रश्चापि श्रीर्मयि॑ ॥३॥
दृढो दृं॑हस्थिरो न्यो ब्रह्म॑ विश्वसृजो दश॑ ।
नाभि॑मिव सर्वत॑श्चक्रमुच्छि॑ष्टे देवता॑: श्रिता: ॥४॥
ऋक्साम यजुरुच्छि॑ष्ट उद्गीथ: प्रस्तु॑तं स्तुतम् ।
हिङ्कार उच्छि॑ष्टे स्वर: साम्नो॑ मेदिश्च तन्मयि॑ ॥५॥
ऐन्द्राग्नं पा॑वमानं महाना॑म्नीर्महाव्रतम् ।
उच्छि॑ष्टे यज्ञस्याङ्गा॑न्यन्तर्गर्भ॑ इव मातरि॑ ॥६॥
राजसूयं॑ वाजपेय॑मग्निष्टोमस्तद॑ध्वर: ।
अर्काश्वमेधावुच्छि॑ष्टे जीवब॑र्हिर्मदिन्त॑म: ॥७॥
अग्न्याधेयमथो॑ दीक्षा का॑मप्रश्छन्द॑सा सह ।
उत्स॑न्ना यज्ञा: सत्राण्युच्छिष्टेऽधि॑ समाहि॑ता: ॥८॥
अग्निहोत्रं च॑ श्रद्धा च॑ वषट्कारो व्रतं तप॑: ।
दक्षि॑णेष्टं पूर्तं चोच्छिष्टेऽधि॑ समाहि॑ता: ॥९॥
एकरात्रो द्वि॑रात्र: स॑द्य:क्री: प्रक्रीरुक्थ्यद्ग: ।
ओतं निहि॑तमुच्छि॑ष्टे यज्ञस्याणूनि॑ विद्यया॑ ॥१०॥
चतूरात्र: प॑ञ्चरात्र: ष॑ड्रात्रश्चोभय॑: सह ।
षोडशी स॑प्तरात्रश्चोच्छि॑ष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते॑ हिता: ॥११॥
प्रतीहारो निधनं॑ विश्वजिच्चा॑भिजिच्च य: ।
साह्नातिरात्रावुच्छि॑ष्टे द्वादशाहोऽपि तन्मयि॑ ॥१२॥
सूनृता संन॑ति: क्षेम॑: स्वधोर्जामृतं सह॑: ।
उच्छि॑ष्टे सर्वे॑ प्रत्यञ्च: कामा: कामे॑न ततृपु: ॥१३॥
नव भूमी॑: समुद्रा उच्छिष्टेधि॑ श्रिता दिव॑: ।
आ सूर्यो॑ भात्युच्छि॑ष्टेऽहोरात्रे अपि तन्मयि॑ ॥१४॥
उपहव्यं॑ विषूवन्तं ये च॑ यज्ञा गुहा॑ हिता: ।
बिभ॑र्ति भर्ता विश्वस्योच्छि॑ष्टो जनितु: पिता ॥१५॥
पिता ज॑नितुरुच्छिष्टोऽसो: पौत्र॑: पितामह: ।
स क्षि॑यति विश्वस्येशा॑नो वृषा भूम्या॑मतिघ्न्यद्ग: ॥१६॥
ऋतं सत्यं तपो॑ राष्ट्रं श्रमो धर्म॑श्च कर्म॑ च ।
भूतं भ॑विष्यदुच्छि॑ष्टे वीर्यंद्ग लक्ष्मीर्बलं बले॑ ॥१७॥
समृ॑द्धिरोज आकू॑ति: क्षत्रं राष्ट्रं षडुर्व्यद्ग: ।
संवत्सरोऽध्युच्छि॑ष्ट इडा॑ प्रैषा ग्रहा॑ हवि: ॥१८॥
चतु॑र्होतार आप्रिय॑श्चातुर्मास्यानि॑ नीविद॑: ।
उच्छि॑ष्टे यज्ञा: होत्रा॑: पशुबन्धास्तदिष्ट॑य: ॥१९॥
अर्धमासाश्च मासा॑श्चार्तवा ऋतुभि॑: सह ।
उच्छि॑ष्टे घोषिणीराप॑: स्तनयित्नु: श्रुति॑र्मही ॥२०॥
शर्क॑रा: सिक॑ता अश्मा॑न ओष॑धयो वीरुधस्तृणा॑ ।
अभ्राणि॑ विद्युतो॑ वर्षमुच्छि॑ष्टे संश्रि॑ता श्रिता ॥२१॥
राद्धि: प्राप्ति: समा॑प्तिर्व्याद्गप्तिर्मह॑ एधतु: ।
अत्या॑प्तिरुच्छि॑ष्टे भूतिश्चाहि॑ता निहि॑ता हिता ॥२२॥
यच्च॑ प्राणति॑ प्राणेन यच्च पश्य॑ति चक्षु॑षा ।
उच्छि॑ष्टाज्जज्ञिरे सर्वे॑ दिवि देवा दि॑विश्रित॑: ॥२३॥
ऋच: सामा॑नि च्छन्दां॑सि पुराणं यजु॑षा सह ।
उच्छि॑ष्टाज्जज्ञिरे सर्वे॑ दिवि देवा दि॑विश्रित॑: ॥२४॥
प्राणापानौ चक्षु: श्रोत्रमक्षि॑तिश्च क्षिति॑श्च या ।
उच्छि॑ष्टाज्जज्ञिरे सर्वे॑ दिवि देवा दि॑विश्रित॑: ॥२५॥
आनन्दा मोदा॑: प्रमुदो॑ऽभिमोदमुद॑श्च ये ।
उच्छि॑ष्टाज्जज्ञिरे सर्वे॑ दिवि देवा दि॑विश्रित॑: ॥२६॥
देवा: पितरो॑ मनुष्याद्ग गन्धर्वाप्सरस॑श्च ये ।
उच्छि॑ष्टाज्जज्ञिरे सर्वे॑ दिवि देवा दि॑विश्रित॑: ॥२७॥
 
 
 

अष्टमं सूक्तम्» चतुस्त्रिंशदृचस्यास्य सूक्तस्य कौरुपथिरृषि: । अध्यात्मं मन्युश्चदेवता: | प्रथमादिद्वात्रिंशदृचां चतुस्त्रिंश्याश्चानुष्टुप् त्रयस्त्रिंश्याश्च पथ्यापङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

यन्मन्युर्जायामाव॑हत्संकल्पस्य॑ गृहादधि॑ ।
क आ॑सं जन्या: के वरा: क उ॑ ज्येष्ठवरोद्गऽभवत् ॥१॥
तप॑श्चैवास्तां कर्म॑ चान्तर्म॑हत्यद्गर्णवे ।
त आ॑सं जन्यास्ते वरा ब्रह्म॑ ज्येष्ठवरोद्गऽभवत् ॥२॥
दश॑ साकम॑जायन्त देवा देवेभ्य॑: पुरा ।
यो वै तान्विद्यात्प्रत्यक्षं स वा अद्य महद्व॑देत् ॥३॥
प्राणापानौ चक्षु: श्रोत्रमक्षि॑तिश्च क्षिति॑श्च या ।
व्यानोदानौ वाङ्मनस्ते वा आकू॑तिमाव॑हन् ॥४॥
अजा॑ता आसन्नृतवोऽथो॑ धाता बृहस्पति॑: ।
इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपा॑सत ॥५॥
तप॑श्चैवास्तां कर्म॑ चान्तर्म॑हत्यद्गर्णवे ।
तपो॑ ह जज्ञे कर्म॑णस्तत्ते ज्येष्ठमुपा॑सत ॥६॥
येत आसीद्भूमि: पूर्वा याम॑द्धातय इद्विदु: ।
य: वै तां विद्यान्नामथा स म॑न्येत पुराणवित् ॥७॥
कुत इन्द्र: कुत: सोम: कुतो॑ अग्निर॑जायत ।
कुतस्त्वष्टा सम॑भवत्कुतो॑ धाताजा॑यत ॥८॥
इन्द्रादिन्द्र: सोमात्सोमो॑ अग्नेरग्निर॑जायत ।
त्वष्टा॑ ह जज्ञे त्वष्टु॑र्धातुर्धाताजा॑यत ॥९॥
ये त आसन्दश॑ जाता देवा देवेभ्य॑: पुरा ।
पुत्रेभ्यो॑ लोकं दत्त्वा कस्मिंस्ते लोक आ॑सते ॥१०॥
यदा केशानस्थि स्नाव॑ मांसं मज्जानमाभ॑रत् ।
शरी॑रं कृत्वा पाद॑वत्कं लोकमनु प्रावि॑शत् ॥११॥
कुत: केशान्कुत: स्नाव कुतो अस्थीन्याभ॑रत् ।
अङ्गा पर्वा॑णि मज्जानं को मांसं कुत आभ॑रत् ॥१२॥
संसिचो नाम ते देवा ये सं॑भारान्त्समभ॑रन् ।
सर्वं॑ संसिच्य मर्त्यं॑ देवा: पुरु॑षमावि॑शन् ॥१३॥
ऊरू पादा॑वष्ठीवन्तौ शिरो हस्तावथो मुख॑म् ।
पृष्टीर्ब॑र्जह्येद्ग पार्श्वे कस्तत्सम॑दधादृषि॑: ॥१४॥
शिरो हस्तावथो मुखं॑ जिह्वां ग्रीवाश्च कीक॑सा: ।
त्वचा प्रावृत्य सर्वं तत्संधा सम॑दधान्मही ॥१५॥
यत्तच्छरी॑रमश॑यत्संधया संहि॑तं महत् ।
येनेदमद्य रोच॑ते को अ॑स्मिन्वर्णमाभ॑रत् ॥१६॥
सर्वे॑ देवा उपा॑शिक्षन्तद॑जानाद्वधू: सती ।
ईशा वश॑स्य या जाया सास्मिन्वर्णमाभ॑रत् ॥१७॥
यदा त्वष्टा व्यतृ॑णत्पिता त्वष्टुर्य उत्त॑र: ।
गृहं कृत्वा मर्त्यं॑ देवा: पुरु॑षमावि॑शन् ॥१८॥
स्वप्नो वै तन्द्रीर्निरृ॑ति: पाप्मानो नाम॑ देवता॑: ।
जरा खाल॑त्यं पालि॑त्यं शरी॑रमनु प्रावि॑शन् ॥१९॥
स्तेयं॑ दुष्कृतं वृ॑जिनं सत्यं यज्ञो यशो॑ बृहत् ।
बलं॑ च क्षत्रमोज॑श्च शरी॑रमनु प्रावि॑शन् ॥२०॥
भूति॑श्च वा अभू॑तिश्च रातयोऽरा॑तयश्च या: ।
क्षुध॑श्च सर्वास्तृष्णा॑श्च शरी॑रमनु प्रावि॑शन् ॥२१॥
निन्दाश्च वा अनि॑न्दाश्च यच्च हन्तेति नेति॑ च ।
शरी॑रं श्रद्धा दक्षिणाश्रद्धा चानु प्रावि॑शन् ॥२२॥
विद्याश्च वा अवि॑द्याश्च यच्चान्यदु॑पदेश्यद्गम् ।
शरी॑रं ब्रह्म प्रावि॑शदृच: सामाथो यजु॑: ॥२३॥
आनन्दा मोदा॑: प्रमुदो॑ऽभिमोदमुद॑श्च ये ।
हसो नरिष्टा॑ नृत्तानि शरी॑रमनु प्रावि॑शन् ॥२४॥
आलापाश्च॑ प्रलापाश्चा॑भिलापलप॑श्च ये ।
शरी॑रं सर्वें प्रावि॑शन्नायुज॑: प्रयुजो युज॑: ॥२५॥
प्राणापानौ चक्षु: श्रोत्रमक्षि॑तिश्च क्षिति॑श्च या ।
व्यानोदानौ वाङ्मन: शरी॑रेण त ई॑यन्ते ॥२६॥
आशिष॑श्च प्रशिष॑श्च संशिषो॑ विशिष॑श्च या: ।
चित्तानि सर्वे॑ संकल्पा: शरी॑रमनु प्रावि॑शन् ॥२७॥
आस्ने॑यीश्च वास्ते॑यीश्च त्वरणा: कृ॑पणाश्च या: ।
गुह्या॑: शुक्रा स्थूला अपस्ता बी॑भत्साव॑सादयन् ॥२८॥
अस्थि॑ कृत्वा समिधं तदष्टापो॑ असादयन् ।
रेत॑: कृत्वाज्यं॑ देवा: पुरु॑षमावि॑शन् ॥२९॥
या आपो याश्च॑ देवता या विराड् ब्रह्म॑णा सह ।
शरी॑रं ब्रह्म प्रावि॑शच्छरीरेऽधि॑ प्रजाप॑ति: ॥३०॥
सूर्यश्चक्षुर्वात॑: प्राणं पुरु॑षस्य वि भे॑जिरे ।
अथास्येत॑रमात्मानं॑ देवा: प्राय॑च्छन्नग्नये॑ ॥३१॥
तस्माद्वै विद्वान्पुरु॑षमिदं ब्रह्मेति॑ मन्यते ।
सर्वा ह्यद्गस्मिन्देवता गावो॑ गोष्ठ इवास॑ते ॥३२॥
प्रथमेन॑ प्रमारेण॑ त्रेधा विष्वङ्वि ग॑च्छति ।
अद एके॑न गच्छ॑त्यद एके॑न गच्छतीहैके॑न नि षे॑वते ॥३३॥
अप्सु स्तीमासु॑ वृद्धासु शरी॑रमन्तरा हितम् ।
तस्मिञ्छवोध्य॑न्तरा तस्माच्छवोध्यु॑च्यते ॥३४॥
 
 
 
नवमं सूक्तम्» षड्विंशत्यृचस्यास्य सूक्तस्य काङ्कायन ऋषि: | अर्बुदिर्देवता: | प्रथमर्चस्त्र्यवसाना सप्तपदा विराट् शक्वरी द्वितीयाया: पञ्चम्यादिचतसृणां दशमीद्वादशीत्रयोदशीनामष्टादश्यादिचतसृणाञ्चानुष्टुप् तृतीयाया: परोष्णिक् चतुर्थ्यास्त्र्यवसानोष्णिग्बृहतीगर्भा परात्रिष्टुप् षट्पदातिजगती नवम्येकादशीचतुर्दशीत्रयोविंशीषड्विंशीनां पथ्यापङ्क्ति: पञ्चदशीद्वाविंशीचतुर्विंशीपञ्चविंशीनां त्र्यवसाना सप्तपदा शक्वरी षोडश्यास्त्र्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप् सप्तदश्याश्च त्रिपदा गायत्री छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

ये बाहवो या इष॑वो धन्व॑नां वीर्याद्गणि च ।
असीन्प॑रशूनायु॑धं चित्ताकूतं च यद्धृदि ।
सर्वं तद॑र्बुदे त्वममित्रे॑भ्यो दृशे कु॑रूदारांश्च प्र द॑र्शय ॥१॥
उत्ति॑ष्ठत सं न॑ह्यध्वं मित्रा देव॑जना यूयम् ।
संदृ॑ष्टा गुप्ता व॑: सन्तु या नो॑ मित्राण्य॑र्बुदे ॥२॥
उत्ति॑ष्ठतमा र॑भेतामादानसंदानाभ्या॑म् ।
अमित्रा॑णां सेना॑ अभि ध॑त्तमर्बुदे ॥३॥
अर्बु॑दिर्नाम यो देव ईशा॑नश्च न्यद्गर्बुदि: ।
याभ्या॑मन्तरि॑क्षमावृ॑तमियं च॑ पृथिवी मही ।
ताभ्यामिन्द्र॑मेदिभ्यामहं जितमन्वे॑मि सेन॑या ॥४॥
उत्ति॑ष्ठ त्वं दे॑वजनार्बु॑दे सेन॑या सह ।
भञ्जन्नमित्रा॑णां सेनां॑ भोगेभि: परि॑ वारय ॥५॥
सप्त जातान्न्यद्गर्बुद उदाराणां॑ समीक्षय॑न् ।
तेभिष्ट्वमाज्ये॑ हुते सर्वैरुत्ति॑ष्ठ सेन॑या ॥६॥
प्रतिघ्नानाश्रु॑मुखी कृ॑धुकर्णी च॑ क्रोशतु ।
विकेशी पुरु॑षे हते र॑दिते अ॑र्बुदे तव॑ ॥७॥
संकर्ष॑न्ती करूक॑रं मन॑सा पुत्रमिच्छन्ती॑ ।
पतिं भ्रात॑रमात्स्वान्र॑दिते अ॑र्बुदे तव॑ ॥८॥
अलिक्ल॑वा जाष्कमदा गृध्रा॑: श्येना: प॑तत्रिण॑: ।
ध्वाङ्क्षा॑: शकुन॑यस्तृप्यन्त्वमित्रे॑षु समीक्षय॑न्रदिते अ॑र्बुदे तव॑ ॥९॥
अथो सर्वं श्वाप॑दं मक्षि॑का तृप्यतु क्रिमि॑: ।
पौरु॑षेयेऽधि कुण॑पे रदिते अ॑र्बुदे तव॑ ॥१०॥
आ गृ॑ह्णीतं सं बृ॑हतं प्राणापानान्न्य॑र्बुदे ।
निवाशा घोषा: सं य॑न्त्वमित्रे॑षु समीक्षय॑न्रदिते अ॑र्बुदे तव॑ ॥११॥
उद्वे॑पय सं वि॑जन्तां भियामित्रान्त्सं सृ॑ज ।
उरुग्राहैर्बा॑ह्वङ्कैर्विध्यामित्रा॑न्न्यर्बुदे ॥१२॥
मुह्य॑न्त्वेषां बाहव॑श्चित्ताकूतं च यद्धृदि ।
मैषामुच्छे॑षि किं चन र॑दिते अ॑र्बुदे तव॑ ॥१३॥
प्रतिघ्नाना: सं धा॑वन्तूर॑: पटौरावा॑घ्नाना: ।
अघारिणी॑र्विकेश्योद्ग रुदत्य१ पुरु॑षे हते र॑दिते अ॑र्बुदे तव॑ ॥१४॥
श्वद्गन्वतीरप्सरसो रूप॑का उतार्बु॑दे ।
अन्त:पात्रे रेरि॑हतीं रिशां दु॑र्णिहितैषिणी॑म् ।
सर्वास्ता अ॑र्बुदे त्वममित्रे॑भ्यो दृशे कु॑रूदारांश्च प्र द॑र्शय ॥१५॥
खदूरे॑ऽधिचङ्क्रमां खर्वि॑कां खर्ववासिनी॑म् ।
य उ॑दारा अन्तर्हि॑ता गन्धर्वाप्सरस॑श्च ये ।
सर्पा इ॑तरजना रक्षां॑सि ॥१६॥
चतु॑र्दंष्ट्राञ्छ्यावद॑त: कुम्भमु॑ष्काँ असृ॑ङ्मुखान् ।
स्वभ्यसा ये चो॑द्भ्यसा: ॥१७॥
उद्वे॑पय त्वम॑र्बुदेऽमित्रा॑णाममू: सिच॑: ।
जयां॑श्च जिष्णुश्चामित्राँ जय॑तामिन्द्र॑मेदिनौ ॥१८॥
प्रब्ली॑नो मृदित: श॑यां हतो३ऽमित्रो॑ न्यर्बुदे ।
अग्निजिह्वा धू॑मशिखा जय॑न्तीर्यन्तु सेन॑या ॥१९॥
तया॑र्बुदे प्रणु॑त्तानामिन्द्रो॑ हन्तु वरं॑वरम् ।
अमित्रा॑णां शचीपतिर्मामीषां॑ मोचि कश्चन ॥२०॥
उत्क॑सन्तु हृद॑यान्यूर्ध्व: प्राण उदी॑षतु ।
शौष्कास्यमनु॑ वर्तताममित्रान्मोत मित्रिण॑: ॥२१॥
ये च धीरा ये चाधी॑रा: परा॑ञ्चो बधिराश्च ये ।
तमसा ये च॑ तूपरा अथो॑ बस्ताभिवासिन॑: ।
सर्वांस्ताँ अ॑र्बुदे त्वममित्रे॑भ्यो दृशे कु॑रूदारांश्च प्रद॑र्शय ॥२२॥
अर्बु॑दिश्च त्रिष॑न्धिश्चामित्रा॑न्नो वि वि॑ध्यताम् ।
यथै॑षामिन्द्र वृत्रहन्हना॑म शचीपतेऽमित्रा॑णां सहस्रश: ॥२३॥
वनस्पती॑न्वानस्पत्यानोष॑धीरुत वीरुध॑: ।
गन्धर्वाप्सरस॑: सर्पान्देवान्पु॑ण्यजनान्पितॄन् ।
सर्वांस्ताँ अ॑र्बुदे त्वममित्रे॑भ्यो दृशे कु॑रूदारांश्च प्रद॑र्शय ॥२४॥
ईशां वो॑ मरुतो॑ देव आ॑दित्यो ब्रह्म॑णस्पति॑: ।
ईशां व इन्द्र॑श्चाग्निश्च॑ धाता मित्र: प्रजाप॑ति: ।
ईशां व ऋष॑यश्चक्रुरमित्रे॑षु समीक्षय॑न्रदिते अ॑र्बुदे तव॑ ॥२५॥
तेषां सर्वे॑षामीशा॑ना उत्ति॑ष्ठत सं न॑ह्यध्वं मित्रा देव॑जना यूयम् ।
इमं सं॑ग्रामं संजित्य॑ यथालोकं वि ति॑ष्ठध्वम् ॥२६॥
 
 
दशमं सूक्तम्» सप्तविंशत्यृचस्यास्य सूक्तस्य भृग्वङ्गिरा ऋषि: | त्रिषन्धिर्देवता: |  प्रथमर्चो विराट्पथ्याबृहती  द्वितीयायास्त्र्यवसाना षट्पदा त्रिष्टुब्गर्भातिजगती  तृतीयाया विराडास्तारपङ्क्ति:  चतुर्थ्या विराडनुष्टुप् पञ्चम्यादितृचस्य दशम्येकादशीचतुर्दशीपञ्चदशीनामष्टादश्यादितृचस्य त्रयोविंशीचतुर्विंशीसप्तविंशीनाञ्चानुष्टुप्  अष्टम्या विराट्त्रिष्टुप्  नवम्या: पुरोविराट् पुरस्ताज्ज्योतिस्त्रिष्टुप्  द्वादश्या: पञ्चपदा पथ्यापङ्क्ति:  त्रयोदश्या: षट्पदा जगती  षोडश्यास्त्र्यवसाना षट्पदा ककुम्मत्यनुष्टुप्त्रिष्टुब्गर्भा शक्वरी  सप्तदश्या: पथ्यापङ्क्ति:  एकविंश्यास्त्रिपदा गायत्री  द्वाविंश्या विराट् पुरस्ताद्बृहती  पञ्चविंश्या: ककुप्  षड्विंश्याश्च प्रस्तारपङ्क्तिश्छन्दांसि॥ (www.hindumantavya.blogspot.in)

 

उत्ति॑ष्ठत सं न॑ह्यध्वमुदा॑रा: केतुभि॑: सह ।
सर्पा इत॑रजना रक्षां॑स्यमित्राननु॑ धावत ॥१॥
ईशां वो॑ वेद राज्यं त्रिष॑न्धे अरुणै: केतुभि॑: सह ।
ये अन्तरि॑क्षे ये दिवि पृ॑थिव्यां ये च॑ मानवा: ।
त्रिष॑न्धेस्ते चेत॑सि दुर्णामा॑न उपा॑सताम् ॥२॥
अयो॑मुखा: सूचीमु॑खा अथो॑ विकङ्कतीमु॑खा: ।
क्रव्यादो वात॑रंहस आ स॑जन्त्वमित्रान्वज्रे॑ण त्रिष॑न्धिना ॥३॥
अन्तर्धे॑हि जातवेद आदि॑त्य कुण॑पं बहु ।
त्रिष॑न्धेरियं सेना सुहि॑तास्तु मे वशे॑ ॥४॥
उत्ति॑ष्ठ त्वं दे॑वजनार्बु॑दे सेन॑या सह ।
अयं बलिर्व आहु॑तस्त्रिष॑न्धेराहु॑ति: प्रिया ॥५॥
शितिपदी सं द्य॑तु शरव्ये३यं चतु॑ष्पदी ।
कृत्येऽमित्रे॑भ्यो भव त्रिष॑न्धे: सह सेन॑या ॥६॥
धूमाक्षी सं प॑ततु कृधुकर्नी च॑ क्रोशतु ।
त्रिष॑न्धे: सेन॑या जिते अ॑रुणा: स॑न्तु केतव॑: ॥७॥
अवा॑यन्तां पक्षिणो ये वयां॑स्यन्तरि॑क्षे दिवि ये चर॑न्ति ।
श्वाप॑दो मक्षि॑का: सं र॑भन्तामामादो गृध्रा: कुण॑पे रदन्ताम् ॥८॥
यामिन्द्रे॑ण संधां समध॑त्था ब्रह्म॑णा च बृहस्पते ।
तयाहमि॑न्द्रसंधया सर्वा॑न्देवानिह हु॑व इतो ज॑यत मामुत॑: ॥९॥
बृहस्पति॑राङ्गिरस ऋष॑यो ब्रह्म॑संशिता: ।
असुरक्षय॑णं वधं त्रिषं॑धिं दिव्याश्र॑यन् ॥१०॥
येनासौ गुप्त आ॑दित्य उभाविन्द्र॑श्च तिष्ठ॑त: ।
त्रिष॑न्धिं देवा अ॑भजन्तौज॑से च बला॑य च ॥११॥
सर्वां॑ल्लोकान्त्सम॑जयन्देवा आहु॑त्यानया॑ ।
बृहस्पति॑राङ्गिरसो वज्रं यमसि॑ञ्चतासुरक्षय॑णं वधम् ॥१२॥
बृहस्पति॑राङ्गिरसो वज्रं यमसि॑ञ्चतासुरक्षय॑णं वधम् ।
तेनाहममूं सेनां नि लि॑म्पामि बृहस्पतेऽमित्रा॑न्हन्म्योज॑सा ॥१३॥
सर्वे॑ देवा अत्याय॑न्ति ये अश्नन्ति वष॑ट्कृतम् ।
इमां जु॑षध्वमाहु॑तिमितो ज॑यत मामुत॑: ॥१४॥
सर्वे॑ देवा अत्याय॑न्तु त्रिष॑न्धेराहु॑ति: प्रिया ।
संधां म॑हतीं र॑क्षत ययाग्रे असु॑रा जिता: ॥१५॥
वायुरमित्रा॑णामिष्वग्राण्याञ्च॑तु ।
इन्द्र॑ एषां बाहून्प्रति॑ भनक्तु मा श॑कन्प्रतिधामिषु॑म् ।
आदित्य ए॑षामस्त्रं वि ना॑शयतु चन्द्रमा॑ युतामग॑तस्य पन्था॑म् ॥१६॥
यदि॑ प्रेयुर्दे॑वपुरा ब्रह्म वर्मा॑णि चक्रिरे ।
तनूपानं॑ परिपाणं॑ कृण्वाना यदु॑पोचिरे सर्वं तद॑रसं कृ॑धि ॥१७॥
क्रव्यादा॑नुवर्तय॑न्मृत्युना॑ च पुरोहि॑तम् ।
त्रिष॑न्धे प्रेहि सेन॑या जयामित्रान्प्र प॑द्यस्व ॥१८॥
त्रिष॑न्धे तम॑सा त्वममित्रान्परि॑ वारय ।
पृषदाज्यप्र॑णुत्तानां मामीषां॑ मोचि कश्चन ॥१९॥
शितिपदी सं प॑तत्वमित्रा॑णाममू: शिच॑: ।
मुह्य॑न्त्वद्यामू: सेना॑ अमित्रा॑णां न्यर्बुदे ॥२०॥
मूढा अमित्रा॑ न्यर्बुदे जह्येद्गषां वरं॑वरम् ।
अनया॑ जहि सेन॑या ॥२१॥
यश्च॑ कवची यश्चा॑कवचो३ऽमित्रो यश्चाज्म॑नि ।
ज्यापाशै: क॑वचपाशैरज्म॑नाभिह॑त: शयाम्॥२२॥
ये वर्मिणो येऽवर्माणो॑ अमित्रा ये च॑ वर्मिण॑: ।
सर्वांस्ताँ अ॑र्बुदे हताञ्छ्वानो॑ऽदन्तु भूम्या॑म्॥२३॥
ये रथिनो ये अ॑रथा अ॑सादा ये च॑ सादिन॑: ।
सर्वा॑नदन्तु तान्हतान्गृध्रा॑: श्येना: प॑तत्रिण॑: ॥२४॥
सहस्र॑कुणपा शेतामामित्री सेना॑ समरे वधाना॑म् ।
विवि॑द्धा ककजाकृ॑ता ॥२५॥
मर्माविधं रोरु॑वतं सुपर्णैरदन्तु॑ दुश्चितं॑ मृदितं शया॑नम् ।
य इमां प्रतीचीमाहु॑तिममित्रो॑ नो युयु॑त्सति ॥२६॥
यां देवा अ॑नुतिष्ठ॑न्ति यस्या नास्ति॑ विराध॑नम् ।
तयेन्द्रो॑ हन्तु वृत्रहा वज्रे॑ण त्रिष॑धिना ॥२७॥
 

॥इति एकादशं काण्डम्॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *