HinduMantavya
Loading...

अथर्ववेद संहिता- काण्डम् २० (Atharvved Kand 20)

Google+ Whatsapp

अथर्ववेद संहिता


॥ अथ विंशं काण्डम् ॥
 

प्रथमं सूक्तम्» तृचस्यास्य सूक्तस्य क्रमेण विश्वामित्रो गोतमो विरूपश्च ऋषय: । इन्द्रो मरुतोऽग्निश्च क्रमेण देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


इन्द्र॑ त्वा वृषभं वयं सुते सोमे॑ हवामहे ।
स पा॑हि मध्वो अन्ध॑स: ॥१॥
मरु॑तो यस्य हि क्षये॑ पाथा दिवो वि॑महस: ।
स सु॑गोपात॑मो जन॑: ॥२॥
उक्षान्ना॑य वशान्ना॑य सोम॑पृष्ठाय वेधसे॑ ।
स्तोमै॑र्विधेमाग्नये॑ ॥३॥
 

द्वितीयं सूक्तम्» चतुरृचस्यास्य सूक्तस्य गृत्समदो मेधातिथिर्वा ऋषि: | मरुदादयो देवता: |  प्रथमाद्वितीययोरृचोरेकावसाना विराड्गायत्री  तृतीयाया एकावसानार्च्युष्णिक्  चतुर्थ्याश्चैकावसाना साम्नी त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


मरुत॑: पोत्रात्सुष्टुभ॑: स्वर्कादृतुना सोमं॑ पिबन्तु ॥१॥
अग्निराग्नी॑ध्रात्सुष्टुभ॑: स्वर्कादृतुना सोमं॑ पिबतु ॥२॥
इन्द्रो॑ ब्रह्मा ब्राह्म॑णात्सुष्टुभ॑: स्वर्कादृतुना सोमं॑ पिबतु ॥३॥
देवो द्र॑विणोदा: पोत्रात्सुष्टुभ॑: स्वर्कादृतुना सोमं॑ पिबतु ॥४॥
 
 
तृतीयं सूक्तम्» तृचस्यास्य सूक्तस्येरिम्बिठिरृषि: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


आ या॑हि सुषुमा हि त इन्द्र सोमं पिबा॑ इमम् ।
एदं बर्हि: स॑दो मम॑ ॥१॥
आ त्वा॑ ब्रह्मयुजा हरी वह॑तामिन्द्र केशिना॑ ।
उप ब्रह्मा॑णि न: शृणु ॥२॥
ब्रह्माण॑स्त्वा वयं युजा सो॑मपामि॑न्द्र सोमिन॑: ।
सुताव॑न्तो हवामहे ॥३॥
 
 
चतुर्थं सूक्तम्» तृचस्यास्य सूक्तस्य इरिम्बिठिरृषि: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


आ नो॑ याहि सुताव॑तोऽस्माकं॑ सुष्टुतीरुप॑ ।
पिबा सु शि॑प्रिन्नन्ध॑स: ॥१॥
आ ते॑ सिञ्चामि कुक्ष्योरनु गात्रा वि धा॑वतु ।
गृभाय जिह्वया मधु॑ ॥२॥
स्वादुष्टे॑ अस्तु संसुदे मधु॑मान्तन्वे३ तव॑ ।
सोम: शम॑स्तु ते हृदे ॥३॥
 
 
पञ्चमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्येरिम्बिठिरृषि: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


अयमु॑ त्वा विचर्षणे जनी॑रिवाभि संवृ॑त: ।
प्र सोम॑ इन्द्र सर्पतु ॥१॥
तुविग्रीवो॑ वपोद॑र: सुबाहुरन्ध॑सो सदे॑ ।
इन्द्रो॑ वृत्राणि॑ जिघ्नते ॥२॥
इन्द्र प्रेहि॑ पुरस्त्वं विश्वस्येशा॑न ओज॑सा ।
वृत्राणि॑ वृत्रहं जहि ॥३॥
दीर्घस्ते॑ अस्त्वङ्कुशो येना वसु॑ प्रयच्छ॑सि ।
यज॑मानाय सुन्वते ॥४॥
अयं त॑ इन्द्र सोमो निपू॑तो अधि॑ बर्हिषि॑ ।
एही॑मस्य द्रवा पिब॑ ॥५॥
शाचि॑गो शाचि॑पूजनायं रणा॑य ते सुत: ।
आख॑ण्डल प्र हू॑यसे ॥६॥
यस्ते॑ शृङ्गवृषो नपात्प्रण॑पात्कुण्डपाय्य॑: ।
न्यद्गस्मिन्दध्र आ मन॑: ॥७॥
 

षष्ठं सूक्तम्» नवर्चस्यास्य सूक्तस्य विश्वामित्र ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


इन्द्र॑ त्वा वृषभं वयं सुते सोमे॑ हवामहे ।
स पा॑हि मध्वो अन्ध॑स: ॥१॥
इन्द्र॑ क्रतुविदं॑ सुतं सोमं॑ हर्य पुरुष्टुत ।
पिबा वृ॑षस्व तातृ॑पिम् ॥२॥
इन्द्र प्र णो॑ धितावा॑नं यज्ञं विश्वे॑भिर्देवेभि॑: ।
तिर स्त॑वान विश्पते ॥३॥
इन्द्र सोमा॑: सुता इमे तव प्र य॑न्ति सत्पते ।
क्षयं॑ चन्द्रास इन्द॑व: ॥४॥
दधिष्वा जठरे॑ सुतं सोम॑मिन्द्र वरे॑ण्यम् ।
तव॑ द्युक्षास इन्द॑व: ॥५॥
गिर्व॑ण: पाहि न॑: सुतं मधोर्धारा॑भिरज्यसे ।
इन्द्र त्वादा॑तमिद्यश॑: ॥६॥
अभि द्युम्नानि॑ वनिन इन्द्रं॑ सचन्ते अक्षि॑ता ।
पीत्वी सोम॑स्य वावृधे ॥७॥
अर्वावतो॑ न आ ग॑हि परावत॑श्च वृत्रहन् ।
इमा जु॑षस्व नो गिर॑: ॥८॥
यद॑न्तरा प॑रावत॑मर्वावतं॑ च हूयसे॑ ।
इन्द्रेह तत आ ग॑हि ॥९॥
 
 
सप्तमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य  प्रथमादितृचस्य सुकक्ष: चतुर्थ्या ऋचश्च विश्वामित्र ऋषी । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


उद्घेदभि श्रुताम॑घं वृषभं नर्या॑पसम् ।
अस्ता॑रमेषि सूर्य ॥१॥
नव यो न॑वतिं पुरो॑ बिभेद॑ बाह्वोद्गजसा ।
अहिं॑ च वृत्रहाव॑धीत् ॥२॥
स न इन्द्र॑: शिव: सखाश्वा॑वद्गोमद्यव॑मत् ।
उरुधा॑रेव दोहते ॥३॥
इन्द्र॑ क्रतुविदं॑ सुतं सोमं॑ हर्य पुरुष्टुत ।
पिबा वृ॑षस्व तातृ॑पिम् ॥४॥
 
 
अष्टमं सूक्तम्» तृचस्यास्य सूक्तस्य प्रत्यृचं क्रमेण भरद्वाजकुत्सविश्वामित्रा ऋषय: । इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


एवा पा॑हि प्रत्नथा मन्द॑तु त्वा श्रुधि ब्रह्म॑ वावृधस्वोत गीर्भि: ।
आवि: सूर्यं॑ कृणुहि पी॑पिहीषो॑ जहि शत्रूँ॑रभि गा इ॑न्द्र तृन्धि ॥१॥
अर्वाङेहि सोम॑कामं त्वाहुरयं सुतस्तस्य॑ पिबा मदा॑य ।
उरुव्यचा॑ जठर आ वृ॑षस्व पितेव॑ न: शृणुहि हूयमा॑न: ॥२॥
आपू॑र्णो अस्य कलश: स्वाहा सेक्ते॑व कोशं॑ सिषिचे पिब॑ध्यै ।
समु॑ प्रिया आव॑वृत्रन्मदा॑य प्रदक्षिणिदभि सोमा॑स इन्द्र॑म् ॥३॥
 
 
नवमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य  प्रथमाद्वितीययोरृचोर्नोधा:  तृतीयाचतुर्थ्योश्च मेध्यातिथिरृषी । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


तं वो॑ दस्ममृ॑तीषहं वसो॑र्मन्दानमन्ध॑स: ।
अभि वत्सं न स्वस॑रेषु धेनव इन्द्रं॑ गीर्भिर्न॑वामहे ॥१॥
द्युक्षं सुदानुं तवि॑षीभिरावृ॑तं गिरिं न पु॑रुभोज॑सम् ।
क्षुमन्तं वाजं॑ शतिनं॑ सहस्रिणं॑ मक्षू गोम॑न्तमीमहे ॥२॥
तत्त्वा॑ यामि सुवीर्यं तद्ब्रह्म॑ पूर्वचि॑त्तये ।
येना यति॑भ्यो भृग॑वे धने॑ हिते येन प्रस्क॑ण्वमावि॑थ ॥३॥
येना॑ समुद्रमसृ॑जो महीरपस्तदि॑न्द्र वृष्णि॑ ते शव॑: ।
सद्य: सो अ॑स्य महिमा न संनशे यं क्षोणीर॑नुचक्रदे ॥४॥
 
 
दशमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य मेध्यातिथिरृषि: । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)

 
 
उदु त्ये मधु॑मत्तमा गिर स्तोमा॑स ईरते ।
सत्राजितो॑ धनसा अक्षि॑तोतयो वाजयन्तो रथा॑ इव ॥१॥
कण्वा॑ इव भृग॑व: सूर्या॑ इव विश्वमिद्धीतमा॑नशु: ।
इन्द्रं स्तोमे॑भिर्महय॑न्त आयव॑: प्रियमे॑धासो अस्वरन् ॥२॥
 
 
एकादशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य विश्वामित्र ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


इन्द्र॑: पूर्भिदाति॑रद्दास॑मर्कैर्विदद्व॑सुर्दय॑मानो वि शत्रू॑न् ।
ब्रह्म॑जूतस्तन्वाद्ग वावृधानो भूरि॑दात्र आपृ॑णद्रोद॑सी उभे ॥१॥
मखस्य॑ ते तविषस्य प्र जूतिमिय॑र्मि वाच॑ममृता॑य भूष॑न् ।
इन्द्र॑ क्षितीनाम॑सि मानु॑षीणां विशां दैवी॑नामुत पू॑र्वयावा॑ ॥२॥
इन्द्रो॑ वृत्रम॑वृणोच्छर्ध॑नीति: प्र मायिना॑ममिनाद्वर्प॑णीति: ।
अहन्व्यंद्गसमुशधग्वने॑ष्वाविर्धेना॑ अकृणोद्राम्याणा॑म् ॥३॥
इन्द्र॑: स्वर्षा जनयन्नहा॑नि जिगायोशिग्भि: पृत॑ना अभिष्टि: ।
प्रारो॑चयन्मन॑वे केतुमह्नामवि॑न्दज्ज्योति॑र्बृहते रणा॑य ॥४॥
इन्द्रस्तुजो॑ बर्हणा आ वि॑वेश नृवद्दधा॑नो नर्या॑ पुरूणि॑ ।
अचे॑तयद्धिय॑ इमा ज॑रित्रे प्रेमं वर्ण॑मतिरच्छुक्रमा॑साम् ॥५॥
महो महानि॑ पनयन्त्यस्येन्द्र॑स्य कर्म सुकृ॑ता पुरूणि॑ ।
वृजने॑न वृजिनान्त्सं पि॑पेष मायाभिर्दस्यूँ॑रभिभू॑त्योजा: ॥६॥
युधेन्द्रो॑ मह्ना वरि॑वश्चकार देवेभ्य: सत्प॑तिश्चर्षणिप्रा: ।
विवस्व॑त: सद॑ने अस्य तानि विप्रा॑ उक्थेभि॑: कवयो॑ गृणन्ति ॥७॥
सत्रासाहं वरे॑ण्यं सहोदां स॑सवांसं स्वद्गरपश्च॑ देवी: ।
ससान य: पृ॑थिवीं द्यामुतेमामिन्द्रं॑ मदन्त्यनु धीर॑णास: ॥८॥
ससानात्याँ॑ उत सूर्यं॑ ससानेन्द्र॑: ससान पुरुभोज॑सं गाम् ।
हिरण्यय॑मुत भोगं॑ ससान हत्वी दस्यून्प्रार्यं वर्ण॑मावत् ॥९॥
इन्द्र ओष॑धीरसनोदहा॑नि वनस्पतीँ॑रसनोदन्तरि॑क्षम् ।
बिभेद॑ वलं नु॑नुदे विवाचोऽथा॑भवद्दमिताभिक्र॑तूनाम् ॥१०॥
शुनं हु॑वेम मघवा॑नमिन्द्र॑मस्मिन्भरे नृत॑मं वाज॑सातौ ।
शृण्वन्त॑मुग्रमूतये॑ समत्सु घ्नन्तं॑ वृत्राणि॑ संजितं धना॑नाम् ॥११॥
 
 
द्वादशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य  प्रथमादिषडृचां वसिष्ठ: सप्तम्याश्चात्रिरृषी । इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


उदु ब्रह्मा॑ण्यैरत श्रवस्येन्द्रं॑ समर्ये म॑हया वसिष्ठ ।
आ यो विश्वा॑नि शव॑सा ततानो॑पश्रोता म ईव॑तो वचां॑सि ॥१॥
अया॑मि घोष॑ इन्द्र देवजा॑मिरिरज्यन्त यच्छुरुधो विवा॑चि ।
नहि स्वमायु॑श्चिकिते जने॑षु तानीदंहांस्यति॑ पर्ष्यस्मान् ॥२॥
युजे रथं॑ गवेष॑णं हरि॑भ्यामुप ब्रह्मा॑णि जुजुषाणम॑स्थु: ।
वि बा॑धिष्ट स्य रोद॑सी महित्वेन्द्रो॑ वृत्राण्य॑प्रती ज॑घन्वान् ॥३॥
आप॑श्चित्पिप्यु स्तर्यो३ न गावो नक्ष॑न्नृतं ज॑रितार॑स्त इन्द्र ।
याहि वायुर्न नियुतो॑ नो अच्छा त्वं हि धीभिर्दय॑से वि वाजा॑न् ॥४॥
ते त्वा मदा॑ इन्द्र मादयन्तु शुष्मिणं॑ तुविराध॑सं जरित्रे ।
एको॑ देवत्रा दय॑से हि मर्ता॑नस्मिन्छू॑र सव॑ने मादयस्व ॥५॥
एवेदिन्द्रं वृष॑णं वज्र॑बाहुं वसि॑ष्ठासो अभ्यद्गर्चन्त्यर्कै: ।
स न॑ स्तुतो वीरव॑द्धातु गोम॑द्यूयं पा॑त स्वस्तिभि: सदा॑ न: ॥६॥
ऋजीषी वज्री वृ॑षभस्तु॑राषाट्छुष्मी राजा॑ वृत्रहा सो॑मपावा॑ ।
युक्त्वा हरि॑भ्यामुप॑ यासदर्वाङ्माध्यं॑दिने सव॑ने मत्सदिन्द्र॑: ॥७॥
 
 
त्रयोदशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य प्रत्यृचं क्रमेण वामदेवगोतमकुत्सविश्वामित्रा ऋषय: ।  प्रथमर्च इन्द्राबृहस्पती  द्वितीयाया मरुत: तृतीयाचतुर्थ्योश्चाग्निर्देवता: | प्रथमादितृचस्य जगती  चतुर्थ्याश्च त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


इन्द्र॑श्च सोमं॑ पिबतं बृहस्पतेऽस्मिन्यज्ञे म॑न्दसाना वृ॑षण्वसू ।
आ वां॑ विशन्त्विन्द॑व: स्वाभुवोऽस्मे रयिं सर्व॑वीरं नि य॑च्छतम् ॥१॥
आ वो॑ वहन्तु सप्त॑यो रघुष्यदो॑ रघुपत्वा॑न: प्र जि॑गात बाहुभि॑: ।
सीदता बर्हिरुरु व: सद॑स्कृतं मादय॑ध्वं मरुतो मध्वो अन्ध॑स: ॥२॥
इमं स्तोममर्ह॑ते जातवे॑दसे रथ॑मिव सं म॑हेमा मनीषया॑ ।
भद्रा हि न: प्रम॑तिरस्य संसद्यग्ने॑ सख्ये मा रि॑षामा वयं तव॑ ॥३॥
ऐभि॑रग्ने सरथं॑ याह्यर्वाङ्ना॑नारथं वा॑ विभवो ह्यश्वा॑: ।
पत्नी॑वतस्त्रिंशतं त्रींश्च॑ देवान॑नुष्वधमा व॑ह मादय॑स्व ॥४॥
 
 
चतुर्दशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य सौभरिरृषि: । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


वयमु त्वाम॑पूर्व्य स्थूरं न कच्चिद्भर॑न्तोऽवस्यव॑: ।
वाजे॑ चित्रं ह॑वामहे ॥१॥
उप॑ त्वा कर्म॑न्नूतये स नो युवोग्रश्च॑क्राम यो धृषत् ।
त्वामिद्ध्य॑वितारं॑ ववृमहे सखा॑य इन्द्र सानसिम् ॥२॥
यो न॑ इदमि॑दं पुरा प्र वस्य॑ आनिनाय तमु॑ व स्तुषे ।
सखा॑य इन्द्र॑मूतये॑ ॥३॥
हर्य॑श्वं सत्प॑तिं चर्षणीसहं स हि ष्मा यो अम॑न्दत ।
आ तु न: स व॑यति गव्यमश्व्यं॑ स्तोतृभ्यो॑ मघवा॑ शतम् ॥४॥
 
 
पञ्चदशं सूक्तम्» षडृचस्यास्य सूक्तस्य गोतम ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 
प्र मंहि॑ष्ठाय बृहते बृहद्र॑ये सत्यशु॑ष्माय तवसे॑ मतिं भ॑रे ।
अपामि॑व प्रवणे यस्य॑ दुर्धरं राधो॑ विश्वायु शव॑से अपा॑वृतम् ॥१॥
अध॑ ते विश्वमनु॑ हासदिष्टय आपो॑ निम्नेव सव॑ना हविष्म॑त: ।
यत्पर्व॑ते न समशी॑त हर्यत इन्द्र॑स्य वज्र: श्नथि॑ता हिरण्यय॑: ॥२॥
अस्मै भीमाय नम॑सा सम॑ध्वर उषो न शु॑भ्र आ भ॑रा पनी॑यसे ।
यस्य धाम श्रव॑से नामे॑न्द्रियं ज्योतिरका॑रि हरितो नाय॑से ॥३॥
इमे त॑ इन्द्र ते वयं पु॑रुष्टुत ये त्वारभ्य चरा॑मसि प्रभूवसो ।
नहि त्वदन्यो गि॑र्वणो गिर: सध॑त्क्षोणीरि॑व प्रति॑ नो हर्य तद्वच॑: ॥४॥
भूरि॑ त इन्द्र वीर्यं१ तव॑ स्मस्यस्य स्तोतुर्म॑घवन्काममा पृ॑ण ।
अनु॑ ते द्यौर्बृ॑हती वीर्यंद्ग मम इयं च॑ ते पृथिवी ने॑म ओज॑से ॥५॥
त्वं तमि॑न्द्र पर्व॑तं महामुरुं वज्रे॑ण वज्रिन्पर्वशश्च॑कर्तिथ ।
अवा॑सृजो निवृ॑ता: सर्तवा अप: सत्रा विश्वं॑ दधिषे केव॑लं सह॑: ॥६॥
 
 
षोडशं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्यायास्य ऋषि: | बृहस्पतिर्देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


उदप्रुतो न वयो रक्ष॑माणा वाव॑दतो अभ्रिय॑स्येव घोषा॑: ।
गिरिभ्रजो नोर्मयो मद॑न्तो बृहस्पति॑मभ्य१र्का अ॑नावन् ॥१॥
सं गोभि॑रङ्गिरसो नक्ष॑माणो भग॑ इवेद॑र्यमणं॑ निनाय ।
जने॑ मित्रो न दम्प॑ती अनक्ति बृह॑स्पते वाजयाशूँरि॑वाजौ ॥२॥
साध्वर्या अ॑तिथिनी॑रिषिरा स्पार्हा: सुवर्णा॑ अनवद्यरू॑पा: ।
बृहस्पति: पर्व॑तेभ्यो वितूर्या निर्गा ऊ॑पे यव॑मिव स्थिविभ्य॑: ॥३॥
आप्रुषायन्मधु॑ना ऋतस्य योनि॑मवक्षिपन्नर्क उल्कामि॑व द्यो: ।
बृहस्पति॑रुद्धरन्नश्म॑नो गा भूम्या॑ उद्नेव वि त्वचं॑ बिभेद ॥४॥
अप ज्योति॑षा तमो॑ अन्तरि॑क्षदुद्न: शीपा॑लमिव वात॑ आजत् ।
बृहस्पति॑रनुमृश्या॑ वलस्याभ्रमि॑व वात आ च॑क्र आ गा: ॥५॥
यदा वलस्य पीय॑तो जसुं भेद्बृहस्पति॑रग्नितपो॑भिरर्कै: ।
दद्भिर्न जिह्वा परि॑विष्टमाद॑दाविर्निधीँर॑कृणोदुस्रिया॑णाम् ॥६॥
बृहस्पतिरम॑त हि त्यदा॑सां नाम॑ स्वरीणां सद॑ने गुहा यत् ।
आण्डेव॑ भित्वा श॑कुनस्य गर्भमुदुस्रिया: पर्व॑तस्य त्मना॑जत् ॥७॥
अश्नापि॑नद्धं मधु पर्य॑पश्यन्मत्स्यं न दीन उदनि॑ क्षियन्त॑म् ।
निष्टज्ज॑भार चमसं न वृक्षाद्बृहस्पति॑र्विरवेणा॑ विकृत्य॑ ॥८॥
सोषाम॑विन्दत्स स्व१ सो अग्निं सो अर्केण वि ब॑बाधे तमां॑सि ।
बृहस्पतिर्गोव॑पुषो वलस्य निर्मज्जानं न पर्व॑णो जभार ॥९॥
हिमेव॑ पर्णा मु॑षिता वना॑नि बृहस्पति॑नाकृपयद्वलो गा: ।
अनानुकृत्यम॑पुनश्च॑कार यात्सूर्यामासा॑ मिथ उच्चरा॑त: ॥१०॥
अभि श्यावं न कृश॑नेभिरश्वं नक्ष॑त्रेभि: पितरो द्याम॑पिंशन् ।
रात्र्यां तमो अद॑धुर्ज्योतिरहन्बृहस्पति॑र्भिनदद्रिं॑ विदद्गा: ॥११॥
इदम॑कर्म नमो॑ अभ्रियाय य: पूर्वीरन्वानोन॑वीति ।
बृहस्पति: स हि गोभि: सो अश्वै: स वीरेभि: स नृभि॑र्नो वयो॑ धात् ॥१२॥
 
 
सप्तदशं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्य कृष्ण ऋषि: | इन्द्रो देवता: | प्रथमादिदशर्चां जगती एकादशीद्वादश्योश्च त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


अच्छा॑ म इन्द्रं॑ मतय॑: स्वर्विद॑: सध्रीचीर्विश्वा॑ उशतीर॑नूषत ।
परि॑ ष्वजन्ते जन॑यो यथा पतिं मर्यं न शुन्ध्युं मघवा॑नमूतये॑ ॥१॥
न घा॑ त्वद्रिगप॑ वेति मे मनस्त्वे इत्कामं॑ पुरुहूत शिश्रय ।
राजे॑व दस्म नि षदोऽधि॑ बर्हिष्यस्मिन्त्सु सोमे॑ऽवपान॑मस्तु ते ॥२॥
विषूवृदिन्द्रो अम॑तेरुत क्षुध: स इद्रायो मघवा वस्व॑ ईशते ।
तस्येदिमे प्र॑वणे सप्त सिन्ध॑वो वयो॑ वर्धन्ति वृषभस्य॑ शुष्मिण॑: ॥३॥
वयो न वृक्षं सु॑पलाशमास॑दन्त्सोमा॑स इन्द्रं॑ मन्दिन॑श्चमूषद॑: ।
प्रैषामनी॑कं शव॑सा दवि॑द्युतद्विदत्स्व१र्मन॑वे ज्योतिरार्य॑म् ॥४॥
कृतं न श्वघ्नी वि चि॑नोति देव॑ने संवर्गं यन्मघवा सूर्यं जय॑त् ।
न तत्ते॑ अन्यो अनु॑ वीर्यंद्ग शकन्न पु॑राणो म॑घवन्नोत नूत॑न: ॥५॥
विशं॑विशं मघवा पर्य॑शायत जना॑नां धेना॑ अवचाक॑शद्वृषा॑ ।
यस्याह॑ शक्र: सव॑नेषु रण्य॑ति स तीव्रै: सोमै॑: सहते पृतन्यत: ॥६॥
आपो न सिन्धु॑मभि यत्समक्ष॑रन्त्सोमा॑स इन्द्रं॑ कुल्या इ॑व ह्रदम् ।
वर्ध॑न्ति विप्रा महो॑ अस्य साद॑ने यवं न वृष्टिर्दिव्येन दानु॑ना ॥७॥
वृषा न क्रुद्ध: प॑तयद्रज:स्वा यो अर्यप॑त्नीरकृ॑णोदिमा अप: ।
स सु॑न्वते मघवा॑ जीरदा॑नवेऽवि॑न्दज्ज्योतिर्मन॑वे हविष्म॑ते ॥८॥
उज्जा॑यतां परशुर्ज्योति॑षा सह भूया ऋतस्य॑ सुदुघा॑ पुराणवत् ।
वि रो॑चतामरुषो भानुना शुचि: स्व१र्ण शुक्रं शु॑शुचीत सत्प॑ति: ॥९॥
गोभि॑ष्टरेमाम॑तिं दुरेवां यवे॑न क्षुधं॑ पुरुहूत विश्वा॑म् ।
वयं राज॑भि: प्रथमा धना॑न्यस्माके॑न वृजने॑ना जयेम ॥१०॥
बृहस्पति॑र्न: परि॑ पातु पश्चादुतोत्त॑रस्मादध॑रादघायो: ।
इन्द्र॑: पुरस्ता॑दुत म॑ध्यतो न: सखा सखि॑भ्यो वरि॑व: कृणोतु ॥११॥
बृह॑स्पते युवमिन्द्र॑श्च वस्वो॑ दिव्यस्ये॑शाथे उत पार्थि॑वस्य ।
धत्तं रयिं स्तु॑वते कीरये॑ चिद्यूयं पा॑त स्वस्तिभि: सदा॑ न: ॥१२॥
 
 
अष्टादशं सूक्तम्» षडृचस्यास्य सूक्तस्य  प्रथमादितृचस्य मेध्यातिथिप्रियमेधौ चतुर्थ्यादितृचस्य च वसिष्ठ ऋषय: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


वयमु॑ त्वा तदिद॑र्था इन्द्र॑ त्वायन्त: सखा॑य: ।
कण्वा॑ उक्थेभि॑र्जरन्ते ॥१॥
न घे॑मन्यदा प॑पन वज्रि॑न्नपसो नवि॑ष्टौ ।
तवेदु स्तोमं॑ चिकेत ॥२॥
इच्छन्ति॑ देवा: सुन्वन्तं न स्वप्ना॑य स्पृहयन्ति ।
यन्ति॑ प्रमादमत॑न्द्रा: ॥३॥
वयमि॑न्द्र त्वायवोऽभि प्र णो॑नुमो वृषन् ।
विद्धि त्व१स्य नो॑ वसो ॥४॥
मा नो॑ निदे च वक्त॑वेऽर्यो र॑न्धीररा॑व्णे ।
त्वे अपि क्रतुर्मम॑ ॥५॥
त्वं वर्मा॑सि सप्रथ॑: पुरोयोधश्च॑ वृत्रहन् ।
त्वया प्रति॑ ब्रुवे युजा ॥६॥
 
 
एकोनविंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य विश्वामित्र ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


वार्त्र॑हत्याय शव॑से पृतनाषाह्या॑य च ।
इन्द्र त्वा व॑र्तयामसि ॥१॥
अर्वाचीनं सु ते मन॑ उत चक्षु॑: शतक्रतो ।
इन्द्र॑ कृण्वन्तु॑ वाघत॑: ॥२॥
नामा॑नि ते शतक्रतो विश्वा॑भिर्गीर्भिरी॑महे ।
इन्द्रा॑भिमातिषाह्ये॑ ॥३॥
पुरुष्टुतस्य धाम॑भि: शतेन॑ महयामसि ।
इन्द्र॑स्य चर्षणीधृत॑: ॥४॥
इन्द्रं॑ वृत्राय हन्त॑वे पुरुहूतमुप॑ ब्रुवे ।
भरे॑षु वाज॑सातये ॥५॥
वाजे॑षु सासहिर्भ॑व त्वामी॑महे शतक्रतो ।
इन्द्र॑ वृत्राय हन्त॑वे ॥६॥
द्युम्नेषु॑ पृतनाज्ये॑ पृत्सुतूर्षु श्रव॑:सु च ।
इन्द्र साक्ष्वाभिमा॑तिषु ॥७॥
 

विंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य  प्रथमादिचतुरृचां विश्वामित्र: पञ्चम्यादितृचस्य च गृत्समद ऋषी । प्रथमादितृचस्य पञ्चम्यादितृचस्य च गायत्री  चतुर्थ्याश्चानुष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


शुष्मिन्त॑मं न ऊतये॑ द्युम्निनं॑ पाहि जागृ॑विम् ।
इन्द्र सोमं॑ शतक्रतो ॥१॥
इन्द्रियाणि॑ शतक्रतो या ते जने॑षु पञ्चसु॑ ।
इन्द्र तानि॑ त आ वृ॑णे ॥२॥
अग॑न्निन्द्र श्रवो॑ बृहद्द्युम्नं द॑धिष्व दुष्टर॑म् ।
उत्ते शुष्मं॑ तिरामसि ॥३॥
अर्वावतो॑ न आ गह्यथो॑ शक्र परावत॑: ।
उ लोको यस्ते॑ अद्रिव इन्द्रेह तत आ ग॑हि ॥४॥
इन्द्रो॑ अङ्गं महद्भयमभि षदप॑ चुच्यवत् ।
स हि स्थिरो विच॑र्षणि: ॥५॥
इन्द्र॑श्च मृलया॑ति नो न न॑: पश्चादघं न॑शत् ।
भद्रं भ॑वाति न: पुर: ॥६॥
इन्द्र आशा॑भ्यस्परि सर्वा॑भ्यो अभ॑यं करत् ।
जेता शत्रून्विच॑र्षणि: ॥७॥
 
 
एकविंशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य सव्य ऋषि: | इन्द्रो देवता: | प्रथमादिनवर्चां जगती  दशम्येकादश्योश्च त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


न्यू३षु वाचं प्र महे भ॑रामहे गिर इन्द्रा॑य सद॑ने विवस्व॑त: ।
नू चिद्धि रत्नं॑ ससतामिवावि॑दन्न दु॑ष्टुतिर्द्र॑विणोदेषु॑ शस्यते ॥१॥
दुरो अश्व॑स्य दुर इ॑न्द्र गोर॑सि दुरो यव॑स्य वसु॑न इनस्पति॑: ।
शिक्षानर: प्रदिवो अका॑मकर्शन: सखा सखि॑भ्यस्तमिदं गृ॑णीमसि ॥२॥
शची॑व इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभित॑श्चेकिते वसु॑ ।
अत॑: संगृभ्या॑भिभूत आ भ॑र मा त्वा॑यतो ज॑रितु: काम॑मूनयी: ॥३॥
एभिर्द्युभि॑: सुमना॑ एभिरिन्दु॑भिर्निरुन्धानो अम॑तिं गोभि॑रश्विना॑ ।
इन्द्रे॑ण दस्युं॑ दरय॑न्त इन्दु॑भिर्युतद्वे॑षस: समिषा र॑भेमहि ॥४॥
समि॑न्द्र राया समिषा र॑भेमहि सं वाजे॑भि: पुरुश्चन्द्रैरभिद्यु॑भि: ।
सं देव्या प्रम॑त्या वीरशु॑ष्मया गोअ॑ग्रयाश्वा॑वत्या रभेमहि ॥५॥
ते त्वा मदा॑ अमदन्तानि वृष्ण्या ते सोमा॑सो वृत्रहत्ये॑षु सत्पते ।
यत्कारवे दश॑ वृत्राण्य॑प्रति बर्हिष्म॑ते नि सहस्रा॑णि बर्हय॑: ॥६॥
युधा युधमुप घेदे॑षि धृष्णुया पुरा पुरं समिदं हंस्योज॑सा ।
नम्या यदि॑न्द्र सख्या॑ परावति॑ निबर्हयो नमु॑चिं नाम॑ मायिन॑म् ॥७॥
त्वं कर॑ञ्जमुत पर्णयं॑ वधीस्तेजि॑ष्ठयातिथिग्वस्य॑ वर्तनी ।
त्वं शता वङ्गृ॑दस्याभिनत्पुरो॑ऽनानुद: परि॑षूता ऋजिश्व॑ना ॥८॥
त्वमेतां ज॑नराज्ञो द्विर्दशा॑बन्धुना॑ सुश्रव॑सोपजग्मुष॑: ।
षष्टिं सहस्रा॑ नवतिं नव॑ श्रुतो नि चक्रेण रथ्या॑ दुष्पदा॑वृणक् ॥९॥
त्वमा॑विथ सुश्रव॑सं तवोतिभिस्तव त्राम॑भिरिन्द्र तूर्व॑याणम् ।
त्वम॑स्मै कुत्स॑मतिथिग्वमायुं महे राज्ञे यूने॑ अरन्धनाय: ॥१०॥
य उदृची॑न्द्र देवगो॑पा: सखा॑यस्ते शिवत॑मा असा॑म ।
त्वां स्तो॑षाम त्वया॑ सुवीरा द्राघी॑य आयु॑: प्रतरं दधा॑ना: ॥११॥
 
 
 
द्वाविंशं सूक्तम्» षडृचस्यास्य सूक्तस्य  प्रथमादितृचस्य त्रिशोक: चतुर्थ्यादितृचस्य च प्रियमेध ऋषी । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)

 

अभि त्वा॑ वृषभा सुते सुतं सृ॑जामि पीतये॑ ।
तृम्पा व्यद्गश्नुही मद॑म् ॥१॥
मा त्वा॑ मूरा अ॑विष्यवो मोपहस्वा॑न आ द॑भन् ।
माकीं॑ ब्रह्मद्विषो॑ वन: ॥२॥
इह त्वा गोप॑रीणसा महे म॑न्दन्तु राध॑से ।
सरो॑ गौरो यथा॑ पिब ॥३॥
अभि प्र गोप॑तिं गिरेन्द्र॑मर्च यथा॑ विदे ।
सूनुं सत्यस्य सत्प॑तिम् ॥४॥
आ हर॑य: ससृज्रिरेऽरु॑षीरधि॑ बर्हिषि॑ ।
यत्राभि संनवा॑महे ॥५॥
इन्द्रा॑य गाव॑ आशिरं॑ दुदुह्रे वज्रिणे मधु॑ ।
यत्सी॑मुपह्वरे विदत् ॥६॥
 

त्रयोविंशं सूक्तम्» नवर्चस्यास्य सुक्तस्य विश्वामित्र ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


आ तू न॑ इन्द्र मद्र्यद्गग्घुवान: सोम॑पीतये ।
हरि॑भ्यां याह्यद्रिव: ॥१॥
सत्तो होता॑ न ऋत्विय॑स्तिस्तिरे बर्हिरा॑नुषक् ।
अयु॑ज्रन्प्रातरद्र॑य: ॥२॥
इमा ब्रह्म॑ ब्रह्मवाह: क्रियन्त आ बर्हि: सी॑द ।
वीहि शू॑र पुरोलाश॑म् ॥३॥
रारन्धि सव॑नेषु ण एषु स्तोमे॑षु वृत्रहन् ।
उक्थेष्वि॑न्द्र गिर्वण: ॥४॥
मतय॑: सोमपामुरुं रिहन्ति शव॑सस्पति॑म् ।
इन्द्रं॑ वत्सं न मातर॑: ॥५॥
स म॑न्दस्वा ह्यन्ध॑सो राध॑से तन्वाद्ग महे ।
न स्तोतारं॑ निदे क॑र: ॥६॥
वयमि॑न्द्र त्वायवो॑ हविष्म॑न्तो जरामहे ।
उत त्वम॑स्मयुर्व॑सो ॥७॥
मारे अस्मद्वि मु॑मुचो हरि॑प्रियार्वाङ् या॑हि ।
इन्द्र॑ स्वधावो मत्स्वेह ॥८॥
अर्वाञ्चं॑ त्वा सुखे रथे वह॑तामिन्द्र केशिना॑ ।
घृतस्नू॑ बर्हिरासदे॑ ॥९॥
 
 
 चतुर्विंशं सूक्तम्»  नवर्चस्यास्य सूक्तस्य विश्वामित्र ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)

 

उप॑ न: सुतमा ग॑हि सोम॑मिन्द्र गवा॑शिरम् ।
हरि॑भ्यां यस्ते॑ अस्मयु: ॥१॥
तमि॑न्द्र मदमा ग॑हि बर्हिष्ठां ग्राव॑भि: सुतम् ।
कुविन्न्वद्गस्य तृप्णव॑: ॥२॥
इन्द्र॑मित्था गिरो ममाच्छा॑गुरिषिता इत: ।
आवृते सोम॑पीतये ॥३॥
इन्द्रं सोम॑स्य पीतये स्तोमै॑रिह ह॑वामहे ।
उक्थेभि॑: कुविदागम॑त् ॥४॥
इन्द्र सोमा॑: सुता इमे तान्द॑धिष्व शतक्रतो ।
जठरे॑ वाजिनीवसो ॥५॥
विद्मा हि त्वा॑ धनंजयं वाजे॑षु दधृषं क॑वे ।
अधा॑ ते सुम्नमी॑महे ॥६॥
इममि॑न्द्र गवा॑शिरं यवा॑शिरं च न: पिब ।
आगत्या वृष॑भि: सुतम् ॥७॥
तुभ्येदि॑न्द्र स्व ओक्ये३ सोमं॑ चोदामि पीतये॑ ।
एष रा॑रन्तु ते हृदि ॥८॥
त्वां सुतस्य॑ पीतये॑ प्रत्नमि॑न्द्र हवामहे ।
कुशिकासो॑ अवस्यव॑: ॥९॥
 

पञ्चविंशं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य  प्रथमादितृचद्वयस्य गोतम: सप्तम्या ऋचश्चाष्टक ऋषी । इन्द्रो देवता: | प्रथमादितृचद्वयस्य जगती  सप्तम्याश्च त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


अश्वा॑वति प्रथमो गोषु॑ गच्छति सुप्रावीरि॑न्द्र मर्त्यस्तवोतिभि॑: ।
तमित्पृ॑णक्षि वसु॑ना भवी॑यसा सिन्धुमापो यथाभितो विचे॑तस: ॥१॥
आपो न देवीरुप॑ यन्ति होत्रिय॑मव: प॑श्यन्ति वित॑तं यथा रज॑: ।
प्राचैर्देवास: प्र ण॑यन्ति देवयुं ब्र॑ह्मप्रियं॑ जोषयन्ते वरा इ॑व ॥२॥
अधि द्वयो॑रदधा उक्थ्यं१ वचो॑ यतस्रु॑चा मिथुना या स॑पर्यत॑: ।
असं॑यत्तो व्रते ते॑ क्षेति पुष्य॑ति भद्रा शक्तिर्यज॑मानाय सुन्वते ॥३॥
आदङ्गि॑रा: प्रथमं द॑धिरे वय॑ इद्धाग्न॑य: शम्या ये सु॑कृत्यया॑ ।
सर्वं॑ पणे: सम॑विन्दन्त भोज॑नमश्वा॑वन्तं गोम॑न्तमा पशुं नर॑: ॥४॥
यज्ञैरथ॑र्वा प्रथम: पथस्त॑ते तत: सूर्यो॑ व्रतपा वेन आज॑नि ।
आ गा आ॑जदुशना॑ काव्य: सचा॑ यमस्य॑ जातममृतं॑ यजामहे ॥५॥
बर्हिर्वा यत्स्व॑पत्याय॑ वृज्यतेऽर्को वा श्लोक॑माघोष॑ते दिवि ।
ग्रावा यत्र वद॑ति कारुरुक्थ्य१स्तस्येदिन्द्रो॑ अभिपित्वेषु॑ रण्यति ॥६॥
प्रोग्रां पीतिं वृष्ण॑ इयर्मि सत्यां प्रयै सुतस्य॑ हर्यश्व तुभ्य॑म् ।
इन्द्र धेना॑भिरिह मा॑दयस्व धीभिर्विश्वा॑भि: शच्या॑ गृणान: ॥७॥
 
 
षड्विंशं सूक्तम्» षडृचस्यास्य सूक्तस्य  प्रथमादितृचस्य शुन:शेप: चतुर्थ्यादितृचस्य च मधुच्छन्दा ऋषी । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


योगे॑योगे तवस्त॑रं वाजे॑वाजे हवामहे ।
सखा॑य इन्द्र॑मूतये॑ ॥१॥
आ घा॑ गमद्यदि श्रव॑त्सहस्रिणी॑भिरूतिभि॑: ।
वाजे॑भिरुप॑ नो हव॑म् ॥२॥
अनु॑ प्रत्नस्यौक॑सो हुवे तु॑विप्रतिं नर॑म् ।
यं ते पूर्वं॑ पिता हुवे ॥३॥
युञ्जन्ति॑ ब्रध्नम॑रुषं चर॑न्तं परि॑ तस्थुष॑: ।
रोच॑न्ते रोचना दिवि ॥४॥
युञ्जन्त्य॑स्य काम्या हरी विप॑क्षसा रथे॑ ।
शोणा॑ धृष्णू नृवाह॑सा ॥५॥
केतुं कृण्वन्न॑केतवे पेशो॑ मर्या अपेशसे॑ ।
समुषद्भि॑रजायथा: ॥६॥
 
 
सप्तविंशं सूक्तम्» षडृचस्यास्य सूक्तस्य गोषूक्त्यश्वसूक्तिनावृषी । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


यदि॑न्द्राहं यथा त्वमीशी॑य वस्व एक इत् ।
स्तोता मे गोष॑खा स्यात् ॥१॥
शिक्षे॑यमस्मै दित्से॑यं शची॑पते मनीषिणे॑ ।
यदहं गोप॑ति: स्याम् ॥२॥
धेनुष्ट॑ इन्द्र सूनृता यज॑मानाय सुन्वते ।
गामश्वं॑ पिप्युषी॑ दुहे ॥३॥
न ते॑ वर्तास्ति राध॑स इन्द्र॑ देवो न मर्त्य॑: ।
यद्दित्स॑सि स्तुतो मघम् ॥४॥
यज्ञ इन्द्र॑मवर्धयद्यद्भूमिं व्यव॑र्तयत् ।
चक्राण ओ॑पशं दिवि ॥५॥
वावृधानस्य॑ ते वयं विश्वा धना॑नि जिग्युष॑: ।
ऊतिमिन्द्रा वृ॑णीमहे ॥६॥
 

अष्टाविंशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य गोषूक्त्यश्वसूक्तिनावृषी । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


व्य१न्तरि॑क्षमतिरन्मदे सोम॑स्य रोचना ।
इन्द्रो यदभि॑नद्वलम् ॥१॥
उद्गा आ॑जदङ्गि॑रोभ्य आविष्कृण्वन्गुहा॑ सती: ।
अर्वाञ्चं॑ नुनुदे वलम् ॥२॥
इन्द्रे॑ण रोचना दिवो दृळ्हानि॑ दृंहितानि॑ च ।
स्थिराणि न प॑राणुदे॑ ॥३॥
अपामूर्मिर्मद॑न्निव स्तोम॑ इन्द्राजिरायते ।
वि ते मदा॑ अराजिषु: ॥४॥
 
 

एकोनत्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य गोषूक्त्यश्वसूक्तिनावृषी । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


त्वं हि स्तो॑मवर्ध॑न इन्द्रास्यु॑क्थवर्ध॑न: ।
स्तोतॄणामुत भ॑द्रकृत् ॥१॥
इन्द्रमित्केशिना हरी॑ सोमपेया॑य वक्षत: ।
उप॑ यज्ञं सुराध॑सम् ॥२॥
अपां फेने॑न नमु॑चे: शिर॑ इन्द्रोद॑वर्तय: ।
विश्वा यदज॑य स्पृध॑: ॥३॥
मायाभि॑रुत्सिसृ॑प्सत इन्द्र द्यामारुरु॑क्षत: ।
अव दस्यूँ॑रधूनुथा: ॥४॥
असुन्वामि॑न्द्र संसदं विषू॑चीं व्यद्गनाशय: ।
सोमपा उत्त॑रो भव॑न् ॥५॥
 

त्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य वरु: सर्वहरिर्वा ऋषि: | हरिर्देवता: | जगती छन्द:॥ (hindumantavya.blogspot.in)


प्र ते॑ महे विदथे॑ शंसिषं हरी प्र ते॑ वन्वे वनुषो॑ हर्यतं मद॑म् ।
घृतं न यो हरि॑भिश्चारु सेच॑त आ त्वा॑ विशन्तु हरि॑वर्पसं गिर॑: ॥१॥
हरिं हि योनि॑मभि ये समस्व॑रन्हिन्वन्तो हरी॑ दिव्यं यथा सद॑: ।
आ यं पृणन्ति हरि॑भिर्न धेनव इन्द्रा॑य शूषं हरि॑वन्तमर्चत ॥२॥
सो अ॑स्य वज्रो हरि॑तो य आ॑यसो हरिर्निका॑मो हरिरा गभ॑स्त्यो: ।
द्युम्नी सु॑शिप्रो हरि॑मन्युसायक इन्द्रे नि रूपा हरि॑ता मिमिक्षिरे ॥३॥
दिवि न केतुरधि॑ धायि हर्यतो विव्यचद्वज्रो हरि॑तो न रंह्या॑ ।
तुददहिं हरि॑शिप्रो य आ॑यस: सहस्र॑शोका अभवद्धरिंभर: ॥४॥
त्वंत्व॑महर्यथा उप॑स्तुत: पूर्वे॑भिरिन्द्र हरिकेश यज्व॑भि: ।
त्वं ह॑र्यसि तव विश्व॑मुक्थ्य१मसा॑मि राधो॑ हरिजात हर्यतम् ॥५॥
 
 
एकत्रिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य वरु: सर्वहरिर्वा ऋषि: | हरिर्देवता: | जगती छन्द:॥ (hindumantavya.blogspot.in)


ता वज्रिणं॑ मन्दिनं स्तोम्यं मद इन्द्रं रथे॑ वहतो हर्यता हरी॑ ।
पुरूण्य॑स्मै सव॑नानि हर्य॑त इन्द्रा॑य सोमा हर॑यो दधन्विरे ॥१॥
अरं कामा॑य हर॑यो दधन्विरे स्थिराय॑ हिन्वन्हर॑यो हरी॑ तुरा ।
अर्व॑द्भिर्यो हरि॑भिर्जोषमीय॑ते सो अ॑स्य कामं हरि॑वन्तमानशे ॥२॥
हरि॑श्मशारुर्हरि॑केश आयसस्तु॑रस्पेये यो ह॑रिपा अव॑र्धत ।
अर्व॑द्भिर्यो हरि॑भिर्वाजिनी॑वसुरति विश्वा॑ दुरिता पारि॑षद्धरी॑ ॥३॥
स्रुवे॑व यस्य हरि॑णी विपेततु: शिप्रे वाजा॑य हरि॑णी दवि॑ध्वत: ।
प्र यत्कृते च॑मसे मर्मृ॑जद्धरी॑ पीत्वा मद॑स्य हर्यतस्यान्ध॑स: ॥४॥
उत स्म सद्म॑ हर्यतस्य॑ पस्त्यो३रत्यो न वाजं हरि॑वाँ अचिक्रदत् ।
मही चिद्धि धिषणाह॑र्यदोज॑सा बृहद्वयो॑ दधिषे हर्यतश्चिदा ॥५॥
 
 
द्वात्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्य वरु: सर्वहरिर्वा ऋषि: | हरिर्देवता: | प्रथमर्चो जगती  द्वितीयातृतीययोश्च त्रिष्टुप्छन्दांसि॥ (hindumantavya.blogspot.in)


आ रोद॑सी हर्य॑माणो महित्वा नव्यं॑नव्यं हर्यसि मन्म नु प्रियम् ।
प्र पस्त्यद्गमसुर हर्यतं गोराविष्कृ॑धि हर॑ये सूर्या॑य ॥१॥
आ त्वा॑ हर्यन्तं॑ प्रयुजो जना॑नां रथे॑ वहन्तु हरि॑शिप्रमिन्द्र ।
पिबा यथा प्रति॑भृतस्य मध्वो हर्य॑न्यज्ञं स॑धमादे दशो॑णिम् ॥२॥
अपा: पूर्वे॑षां हरिव: सुतानामथो॑ इदं सव॑नं केव॑लं ते ।
ममद्धि सोमं मधु॑मन्तमिन्द्र सत्रा वृ॑षं जठर आ वृ॑षस्व ॥३॥
 
 
त्रयस्त्रिंशं सूक्तम्» तृचस्यास्य सूक्तस्याष्टक ऋषि: | हरिर्देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


अप्सु धूतस्य॑ हरिव: पिबेह नृभि॑: सुतस्य॑ जठरं॑ पृणस्व ।
मिमिक्षुर्यमद्र॑य इन्द्र तुभ्यं तेभि॑र्वर्धस्व मद॑मुक्थवाह: ॥१॥
प्रोग्रां पीतिं वृष्ण॑ इयर्मि सत्यां प्रयै सुतस्य॑ हर्यश्व तुभ्य॑म् ।
इन्द्र धेना॑भिरिह मा॑दयस्व धीभिर्विश्वा॑भि: शच्या॑ गृणान: ॥२॥
ऊती श॑चीवस्तव॑ वीर्येद्गण वयो दधा॑ना उशिज॑ ऋतज्ञा: ।
प्रजाव॑दिन्द्र मनु॑षो दुरोणे तस्थुर्गृणन्त॑: सधमाद्या॑स: ॥३॥
 
 
चतुस्त्रिंशं सूक्तम्» अष्टादशर्चस्यास्य सूक्तस्य गृत्समद ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


यो जात एव प्र॑थमो मन॑स्वान्देवो देवान्क्रतु॑ना पर्यभू॑षत् ।
यस्य शुष्माद्रोद॑सी अभ्य॑सेतां नृम्णस्य॑ मह्ना स ज॑नास इन्द्र॑: ॥१॥
य: पृ॑थिवीं व्यथ॑मानामदृं॑हद्य: पर्व॑तान्प्रकु॑पिताँ अर॑म्णात् ।
यो अन्तरि॑क्षं विममे वरी॑यो यो द्यामस्त॑भ्नात्स ज॑नास इन्द्र॑: ॥२॥
यो हत्वाहिमरि॑णात्सप्त सिन्धून्यो गा उदाज॑दपधा वलस्य॑ ।
यो अश्म॑नोरन्तरग्निं जजान॑ संवृक्समत्सु स ज॑नास इन्द्र॑: ॥३॥
येनेमा विश्वा च्यव॑ना कृतानि यो दासं वर्णमध॑रं गुहाक॑: ।
श्वघ्नीव यो जि॑गीवां लक्षमाद॑दर्य: पुष्टानि स ज॑नास इन्द्र॑: ॥४॥
यं स्मा॑ पृच्छन्ति कुह सेति॑ घोरमुतेमा॑हुर्नैषो अस्तीत्ये॑नम् ।
सो अर्य: पुष्टीर्विज॑ इवा मि॑नाति श्रद॑स्मै धत्त स ज॑नास इन्द्र॑: ॥५॥
यो रध्रस्य॑ चोदिता य: कृशस्य यो ब्रह्मणो नाध॑मानस्य कीरे: ।
युक्तग्रा॑व्णो योद्गऽविता सु॑शिप्र: सुतसो॑मस्य स ज॑नास इन्द्र॑: ॥६॥
यस्याश्वा॑स: प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथा॑स: ।
य: सूर्यं य उषसं॑ जजान यो अपां नेता स ज॑नास इन्द्र॑: ॥७॥
यं क्रन्द॑सी संयती विह्वये॑ते परेऽव॑रे उभया॑ अमित्रा॑: ।
समानं चिद्रथ॑मातस्थिवांसा नाना॑ हवेते स ज॑नास इन्द्र॑: ॥८॥
यस्मान्न ऋते विजय॑न्ते जना॑सो यं युध्य॑माना अव॑से हव॑न्ते ।
यो विश्व॑स्य प्रतिमानं॑ बभूव यो अ॑च्युतच्युत्स ज॑नास इन्द्र॑: ॥९॥
य: शश्व॑तो मह्येनो दधा॑नानम॑न्यमानाञ्छर्वा॑ जघान॑ ।
य: शर्ध॑ते नानुददा॑ति शृध्यां यो दस्यो॑र्हन्ता स ज॑नास इन्द्र॑: ॥१०॥
य: शम्ब॑रं पर्व॑तेषु क्षियन्तं॑ चत्वारिंश्यां शरद्यन्ववि॑न्दत् ।
ओजायमा॑नं यो अहिं॑ जघान दानुं शया॑नं स ज॑नास इन्द्र॑: ॥११॥
य: शम्ब॑रं पर्यत॑रत्कसी॑भिर्योऽचा॑रुकास्नापि॑बत्सुतस्य॑ ।
अन्तर्गिरौ यज॑मानं बहुं जनं यस्मिन्नामू॑र्छत्स ज॑नास इन्द्र॑: ॥१२॥
य: सप्तर॑श्मिर्वृषभस्तुवि॑ष्मानवासृ॑जत्सर्त॑वे सप्त सिन्धू॑न् ।
यो रौ॑हिणमस्फु॑रद्वज्र॑बाहुर्द्यामारोह॑न्तं स ज॑नास इन्द्र॑: ॥१३॥
द्यावा॑ चिदस्मै पृथिवी न॑मेते शुष्मा॑च्चिदस्य पर्व॑ता भयन्ते ।
य: सो॑मपा नि॑चितो वज्र॑बाहुर्यो वज्र॑हस्त: स ज॑नास इन्द्र॑: ॥१४॥
य: सुन्वन्तमव॑ति य: पच॑न्तं य: शंस॑न्तं य: श॑शमानमूती ।
यस्य ब्रह्म वर्ध॑नं यस्य सोमो यस्येदं राध: स ज॑नास इन्द्र॑: ॥१५॥
जातो व्यद्गख्यत्पित्रोरुपस्थे भुवो न वे॑द जनितु: पर॑स्य ।
स्तविष्यमा॑णो नो यो अस्मद्व्रता देवानां स ज॑नास इन्द्र॑: ॥१६॥
य: सोम॑कामो हर्य॑श्व: सूरिर्यस्माद्रेज॑न्ते भुव॑नानि विश्वा॑ ।
यो जघान शम्ब॑रं यश्च शुष्णं य ए॑कवीर: स ज॑नास इन्द्र॑: ॥१७॥
य: सु॑न्वते पच॑ते दुध्र आ चिद्वाजं दर्द॑र्षि स किला॑सि सत्य: ।
वयं त॑ इन्द्र विश्वह॑ प्रियास॑: सुवीरा॑सो विदथमा व॑देम ॥१८॥
 
 

पञ्चत्रिंशं सूक्तम्» षोडशर्चस्यास्य सूक्तस्य नोधा ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)

 
 
अस्मा इदु प्र तवसे॑ तुराय प्रयो न ह॑र्मि स्तोमं माहि॑नाय ।
ऋची॑षमायाध्रि॑गव ओहमिन्द्रा॑य ब्रह्मा॑णि रातत॑मा ॥१॥
अस्मा इदु प्रय॑ इव प्र यं॑सि भरा॑म्यान्गूषं बाधे॑ सुवृक्ति ।
इन्द्रा॑य हृदा मन॑सा मनीषा प्रत्नाय पत्ये धियो॑ मर्जयन्त ॥२॥
अस्मा इदु त्यमु॑पमं स्वर्षां भरा॑म्याङ्गूषमास्येद्गन ।
मंहि॑ष्ठमच्छो॑क्तिभिर्मतीनां सु॑वृक्तिभि॑: सूरिं वा॑वृधध्यै॑ ॥३॥
अस्मा इदु स्तोमं सं हि॑नोमि रथं न तष्टे॑व तत्सि॑नाय ।
गिर॑श्च गिर्वा॑हसे सुवृक्तीन्द्रा॑य विश्वमिन्वं मेधि॑राय ॥४॥
अस्मा इदु सप्ति॑मिव श्रवस्येन्द्रा॑यार्कं जुह्वा३ सम॑ञ्जे ।
वीरं दानौक॑सं वन्दध्यै॑ पुरां गूर्तश्र॑वसं दर्माण॑म् ॥५॥
अस्मा इदु त्वष्टा॑ तक्षद्वज्रं स्वप॑स्तमं स्वर्यं१ रणा॑य ।
वृत्रस्य॑ चिद्विदद्येन मर्म॑ तुजन्नीशा॑नस्तुजता कि॑येधा: ॥६॥
अस्येदु॑ मातु: सव॑नेषु सद्यो मह: पितुं प॑पिवां चार्वन्ना॑ ।
मुषायद्विष्णु॑: पचतं सही॑यान्विध्य॑द्वराहं तिरो अद्रिमस्ता॑ ॥७॥
अस्मा इदु ग्नाश्चि॑द्देवप॑त्नीरिन्द्रा॑यार्कम॑हिहत्य॑ ऊवु: ।
परि द्यावा॑पृथिवी ज॑भ्र उर्वी नास्य ते म॑हिमानं परि॑ ष्ट: ॥८॥
अस्येदेव प्र रि॑रिचे महित्वं दिवस्पृ॑थिव्या: पर्यन्तरि॑क्षात् ।
स्वराळिन्द्रो दम आ विश्वगू॑र्त: स्वरिरम॑त्रो ववक्षे रणा॑य ॥९॥
अस्येदेव शव॑सा शुशन्तं वि वृ॑श्चद्वज्रे॑ण वृत्रमिन्द्र॑: ।
गा न व्राणा अवनी॑रमुञ्चदभि श्रवो॑ दावने सचे॑ता: ॥१०॥
अस्येदु॑ त्वेषसा॑ रन्त सिन्ध॑व: परि यद्वज्रे॑ण सीमय॑च्छत् ।
ईशानकृद्दाशुषे॑ दशस्यन्तुर्वीत॑ये गाधं तुर्वणि॑: क: ॥११॥
अस्मा इदु प्र भ॑रा तूतु॑जानो वृत्राय वज्रमीशा॑न: कियेधा: ।
गोर्न पर्व वि र॑दा तिरश्चेष्यन्नर्णां॑स्यपां चरध्यै॑ ॥१२॥
अस्येदु प्र ब्रू॑हि पूर्व्याणि॑ तुरस्य कर्मा॑णि नव्य॑ उक्थै: ।
युधे यदि॑ष्णान आयु॑धान्यृघायमा॑णो निरिणाति शत्रू॑न् ॥१३॥
अस्येदु॑ भिया गिरय॑श्च दृळ्हा द्यावा॑ च भूमा॑ जनुष॑स्तुजेते ।
उपो॑ वेनस्य जोगु॑वान ओणिं सद्यो भु॑वद्वीर्याद्गय नोधा: ॥१४॥
अस्मा इदु त्यदनु॑ दाय्येषामेको यद्वव्ने भूरेरीशा॑न: ।
प्रैत॑शं सूर्ये॑ पस्पृधानं सौव॑श्व्ये सुष्वि॑मावदिन्द्र॑: ॥१५॥
एवा ते॑ हारियोजना सुवृक्तीन्द्र ब्रह्मा॑णि गोत॑मासो अक्रन् ।
ऐषु॑ विश्वपे॑शसं धियं॑ धा: प्रातर्मक्षू धियाव॑सुर्जगम्यात् ॥१६॥
 
 
षट्त्रिंशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य भरद्वाज ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


य एक इद्धव्य॑श्चर्षणीनामिन्द्रं तं गीर्भिरभ्यद्गर्च आभि: ।
य: पत्य॑ते वृषभो वृष्ण्या॑वान्त्सत्य: सत्वा॑ पुरुमाय: सह॑स्वान् ॥१॥
तमु॑ न: पूर्वे॑ पितरो नव॑ग्वा: सप्त विप्रा॑सो अभि वाजय॑न्त: ।
नक्षद्दाभं ततु॑रिं पर्वतेष्ठामद्रो॑घवाचं मतिभि: शवि॑ष्ठम् ॥२॥
तमी॑मह इन्द्र॑मस्य राय: पु॑रुवीर॑स्य नृवत॑: पुरुक्षो: ।
यो अस्कृ॑धोयुरजर: स्वद्गर्वान्तमा भ॑र हरिवो मादयध्यै॑ ॥३॥
तन्नो वि वो॑चो यदि॑ ते पुरा चि॑ज्जरितार॑ आनशु: सुम्नमि॑न्द्र ।
कस्ते॑ भाग: किं वयो॑ दुध्र खिद्व: पुरु॑हूत पुरूवसोऽसुरघ्न: ॥४॥
तं पृच्छन्ती वज्र॑हस्तं रथेष्ठामिन्द्रं वेपी वक्व॑री यस्य नू गी: ।
तुविग्राभं तु॑विकूर्मिं र॑भोदां गातुमि॑षे नक्ष॑ते तुम्रमच्छ॑ ॥५॥
अया ह त्यं मायया॑ वावृधानं म॑नोजुवा॑ स्वतव: पर्व॑तेन ।
अच्यु॑ता चिद्वीळिता स्वो॑जो रुजो वि दृळ्हा धृ॑षता वि॑रप्शिन् ॥६॥
तं वो॑ धिया नव्य॑स्या शवि॑ष्ठं प्रत्नं प्र॑त्नवत्प॑रितंसयध्यै॑ ।
स नो॑ वक्षदनिमान: सुवह्नेन्द्रो विश्वान्यति॑ दुर्गहा॑णि ॥७॥
आ जना॑य द्रुह्व॑णे पार्थि॑वानि दिव्यानि॑ दीपयोऽन्तरि॑क्षा ।
तपा॑ वृषन्विश्वत॑: शोचिषा तान्ब्र॑ह्मद्विषे॑ शोचय क्षामपश्च॑ ॥८॥
भुवो जन॑स्य दिव्यस्य राजा पार्थि॑वस्य जग॑तस्त्वेषसंदृक् ।
धिष्व वज्रं दक्षि॑ण इन्द्र हस्ते विश्वा॑ अजुर्य दयसे वि माया: ॥९॥
आ संयत॑मिन्द्र ण: स्वस्तिं श॑त्रुतूर्या॑य बृहतीममृ॑ध्राम् ।
यया दासान्यार्या॑णि वृत्रा करो॑ वज्रिन्त्सुतुका नाहु॑षाणि ॥१०॥
स नो॑ नियुद्भि॑: पुरुहूत वेधो विश्ववा॑राभिरा ग॑हि प्रयज्यो ।
न या अदे॑वो वर॑ते न देव आभि॑र्याहि तूयमा म॑द्र्यद्रिक् ॥११॥
 
 
सप्तत्रिंशं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य वसिष्ठ ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


यस्तिग्मशृ॑ङ्गो वृषभो न भीम: एक॑: कृष्टीश्च्यावय॑ति प्र विश्वा॑: ।
य: शश्व॑तो अदा॑शुषो गय॑स्य प्रयन्तासि सुष्वि॑तराय वेद॑: ॥१॥
त्वं ह त्यदि॑न्द्र कुत्स॑माव: शुश्रू॑षमाणस्तन्वाद्ग समर्ये ।
दासं यच्छुष्णं कुय॑वं न्यद्गस्मा अर॑न्धय आर्जुनेयाय शिक्ष॑न् ॥२॥
त्वं धृ॑ष्णो धृषता वीतह॑व्यं प्रावो विश्वा॑भिरूतिभि॑: सुदास॑म् ।
प्र पौरु॑कुत्सिं त्रसद॑स्युमाव: क्षेत्र॑साता वृत्रहत्ये॑षु पूरुम् ॥३॥
त्वं नृभि॑र्नृमणो देववी॑तौ भूरी॑णि वृत्रा ह॑र्यश्व हंसि ।
त्वं नि दस्युं चुमु॑रिं धुनिं चास्वा॑पयो दभीत॑ये सुहन्तु॑ ॥४॥
तव॑ च्यौत्नानि॑ वज्रहस्त तानि नव यत्पुरो॑ नवतिं च॑ सद्य: ।
निवेश॑ने शततमावि॑वेषीरहं॑ च वृत्रं नमु॑चिमुताह॑न् ॥५॥
सना ता त॑ इन्द्र भोज॑नानि रातह॑व्याय दाशुषे॑ सुदासे॑ ।
वृष्णे॑ ते हरी वृष॑णा युनज्मि व्यन्तु ब्रह्मा॑णि पुरुशाक वाज॑म् ॥६॥
मा ते॑ अस्यां स॑हसावन्परि॑ष्टावघाय॑ भूम हरिव: परादौ ।
त्राय॑स्व नोऽवृकेभिर्वरू॑थैस्तव॑ प्रियास॑: सूरिषु॑ स्याम ॥७॥
प्रियास इत्ते॑ मघवन्नभिष्टौ नरो॑ मदेम शरणे सखा॑य: ।
नि तुर्वशं नि याद्वं॑ शिशीह्यतिथिग्वाय शंस्यं॑ करिष्यन् ॥८॥
सद्यश्चिन्नु ते॑ मघवन्नभिष्टौ नर॑: शंसन्त्युक्थशास॑ उक्था ।
ये ते हवे॑भिर्वि पणीँरदा॑शन्नस्मान्वृ॑णीष्व युज्या॑य तस्मै॑ ॥९॥
एते स्तोमा॑ नरां नृ॑तम तुभ्य॑मस्मद्र्यद्गञ्चो दद॑तो मघानि॑ ।
तेषा॑मिन्द्र वृत्रहत्ये॑ शिवो भू: सखा॑ च शूरो॑ऽविता च॑ नृणाम् ॥१०॥
नू इ॑न्द्र शूर स्तव॑मान ऊती ब्रह्म॑जूतस्तन्वाद्ग वावृधस्व ।
उप॑ नो वाजा॑न्मिमीह्युप स्तीन्यूयं पा॑त स्वस्तिभि: सदा॑ न: ॥११॥
 
 

अष्टात्रिंशं सूक्तम्» षडृचस्यास्य सूक्तस्य  प्रथमादितृचस्य इरिम्बिठि: चतुर्थ्यादितृचस्य च मधुच्छन्दा ऋषी । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


आ या॑हि सुषुमा हि त इन्द्र सोमं पिबा॑ इमम् ।
एदं बर्हि: स॑दो मम॑ ॥१॥
आ त्वा॑ ब्रह्मयुजा हरी वह॑तामिन्द्र केशिना॑ ।
उप ब्रह्मा॑णि न: शृणु ॥२॥
ब्रह्माण॑स्त्वा वयं युजा सो॑मपामि॑न्द्र सोमिन॑: ।
सुताव॑न्तो हवामहे ॥३॥
इन्द्रमिद्गाथिनो॑ बृहदिन्द्र॑मर्केभि॑रर्किण॑: ।
इन्द्रं वाणी॑रनूषत ॥४॥
इन्द्र इद्धर्यो: सचा संमि॑श्ल आ व॑चोयुजा॑ ।
इन्द्रो॑ वज्री हि॑रण्यय॑: ॥५॥
इन्द्रो॑ दीर्घाय चक्ष॑स आ सूर्यं॑ रोहयद्दिवि ।
वि गोभिरद्रि॑मैरयत् ॥६॥
 
 
एकोनचत्वारिंशं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य  प्रथमर्चो मधुच्छन्दा: द्वितीयादिचतसृणाञ्च गोषूक्त्यश्वसूक्तिनावृषय: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


इन्द्रं॑ वो विश्वतस्परि हवा॑महे जने॑भ्य: ।
अस्माक॑मस्तु केव॑ल: ॥१॥
व्य१न्तरि॑क्षमतिरन्मदे सोम॑स्य रोचना ।
इन्द्रो यदभि॑नद्वलम् ॥२॥
उद्गा आ॑जदङ्गि॑रोभ्य आविष्कृण्वन्गुहा॑ सती: ।
अर्वाञ्चं॑ नुनुदे वलम् ॥३॥
इन्द्रे॑ण रोचना दिवो दृळ्हानि॑ दृंहितानि॑ च ।
स्थिराणि न प॑राणुदे॑ ॥४॥
अपामूर्मिर्मद॑न्निव स्तोम॑ इन्द्राजिरायते ।
वि ते मदा॑ अराजिषु: ॥५॥
 
 
चत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य मधुच्छन्दा ऋषि: |  प्रथमाद्वितीययोरृचोरिन्द्र:  तृतीयायाश्च मरुतो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


इन्द्रे॑ण सं हि दृक्ष॑से संजग्मानो अबि॑भ्युषा ।
मन्दू स॑मानव॑र्चसा ॥१॥
अनवद्यैरभिद्यु॑भिर्मख: सह॑स्वदर्चति ।
गणैरिन्द्र॑स्य काम्यै॑: ॥२॥
आदह॑ स्वधामनु पुन॑र्गर्भत्वमे॑रिरे ।
दधा॑ना नाम॑ यज्ञिय॑म् ॥३॥
 
 
एकचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य गोतम ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


इन्द्रो॑ दधीचो अस्थभि॑र्वृत्राण्यप्र॑तिष्कुत: ।
जघान॑ नवतीर्नव॑ ॥१॥
इच्छनश्व॑स्य यच्छिर: पर्व॑तेष्वप॑श्रितम् ।
तद्वि॑दच्छर्यणाव॑ति ॥२॥
अत्राह गोर॑मन्वत नाम त्वष्टु॑रपीच्यद्गम् ।
इत्था चन्द्रम॑सो गृहे ॥३॥
 
 
द्विचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य कुरुसुतिरृषि: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


वाच॑मष्टाप॑दीमहं नव॑स्रक्तिमृतस्पृश॑म् ।
इन्द्रात्परि॑ तन्वंद्ग ममे ॥१॥
अनु॑ त्वा रोद॑सी उभे क्रक्ष॑माणमकृपेताम् ।
इन्द्र यद्द॑स्युहाभ॑व: ॥२॥
उत्तिष्ठन्नोज॑सा सह पीत्वी शिप्रे॑ अवेपय: ।
सोम॑मिन्द्र चमू सुतम् ॥३॥
 
 
त्रिचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य त्रिशोक ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


भिन्धि विश्वा अप द्विष: बाधो॑ जही मृध॑: ।
वसु॑ स्पार्हं तदा भ॑र ॥१॥
यद्वीळावि॑न्द्र यत्स्थिरे यत्पर्शा॑ने परा॑भृतम् ।
वसु॑ स्पार्हं तदा भ॑र ॥२॥
यस्य॑ ते विश्वमा॑नुषो भूरे॑र्दत्तस्य वेद॑ति ।
वसु॑ स्पार्हं तदा भ॑र ॥३॥
 
 
चतुश्चत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य इरिम्बिठिरृषि: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


प्र सम्राजं॑ चर्षणीनामिन्द्रं॑ स्तोता नव्यं॑ गीर्भि: ।
नरं॑ नृषाहं मंहि॑ष्ठम् ॥१॥
यस्मि॑न्नुक्थानि रण्य॑न्ति विश्वा॑नि च श्रवस्याद्ग ।
अपामवो न स॑मुद्रे ॥२॥
तं सु॑ष्टुत्या वि॑वासे ज्येष्ठराजं भरे॑ कृत्नुम् ।
महो वाजिनं॑ सनिभ्य॑: ॥३॥
 
 

पञ्चचत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य शुन:शेप: देवरातापरनामा ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


अयमु॑ ते सम॑तसि कपोत॑ इव गर्भधिम् ।
वचस्तच्चि॑न्न ओहसे ॥१॥
स्तोत्रं रा॑धानां पते गिर्वा॑हो वीर यस्य॑ ते ।
विभू॑तिरस्तु सूनृता॑ ॥२॥
ऊर्ध्वस्ति॑ष्ठा न ऊतयेऽस्मिन्वाजे॑ शतक्रतो ।
समन्येषु॑ ब्रवावहै ॥३॥
 
 
षट्चत्वारिंशं सूक्तम्» तृचस्यास्य सूक्तस्य इरिम्बिठिरृषि: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


प्रणेतारं वस्यो अच्छा कर्ता॑रं ज्योति॑: समत्सु॑ ।
सासह्वांसं॑ युधामित्रा॑न् ॥१॥
स न: पप्रि॑: पारयाति स्वस्ति नावा पु॑रुहूत: ।
इन्द्रो विश्वा अति द्विष॑: ॥२॥
स त्वं न॑ इन्द्र वाजे॑भिर्दशस्या च॑ गातुया च॑ ।
अच्छा॑ च न: सुम्नं ने॑षि ॥३॥
 
 
सप्तचत्वारिंशं सूक्तम्» एकविंशत्यृचस्यास्य सूक्तस्य  प्रथमादितृचस्य सुकक्ष:  चतुर्थ्यादितृचस्य दशम्यादितृचस्य च मधुच्छन्दा:  सप्तम्यादितृचस्य इरिम्बिठि: त्रयोदश्यादिनवानाञ्च प्रस्कण्व ऋषय: ।  प्रथमादिद्वादशर्चामिन्द्र: त्रयोदश्यादिनवानाञ्च सूर्यो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


तमिन्द्रं॑ वाजयामसि महे वृत्राय हन्त॑वे ।
स वृषा॑ वृषभो भु॑वत् ॥१॥
इन्द्र: स दाम॑ने कृत ओजि॑ष्ठ: स मदे॑ हित: ।
द्युम्नी श्लोकी स सोम्य: ॥२॥
गिरा वज्रो न संभृ॑त: सब॑लो अन॑पच्युत: ।
ववक्ष ऋष्वो अस्तृ॑त: ॥३॥
इन्द्रमिद्गाथिनो॑ बृहदिन्द्र॑मर्केभि॑रर्किण॑: ।
इन्द्रं वाणी॑रनूषत ॥४॥
इन्द्र इद्धर्यो: सचा संमि॑श्ल आ व॑चोयुजा॑ ।
इन्द्रो॑ वज्री हि॑रण्यय॑: ॥५॥
इन्द्रो॑ दीर्घाय चक्ष॑स आ सूर्यं॑ रोहयद्दिवि ।
वि गोभिरद्रि॑मैरयत् ॥६॥
आ या॑हि सुषुमा हि त इन्द्र सोमं पिबा॑ इमम् ।
एदं बर्हि: स॑दो मम॑ ॥७॥
आ त्वा॑ ब्रह्मयुजा हरी वह॑तामिन्द्र केशिना॑ ।
उप ब्रह्मा॑णि न: शृणु ॥८॥
ब्रह्माण॑स्त्वा वयं युजा सो॑मपामि॑न्द्र सोमिन॑: ।
सुताव॑न्तो हवामहे ॥९॥
युञ्जन्ति॑ ब्रध्नम॑रुषं चर॑न्तं परि॑ तस्थुष॑: ।
रोच॑न्ते रोचना दिवि ॥१०॥
युञ्जन्त्य॑स्य काम्या हरी विप॑क्षसा रथे॑ ।
शोणा॑ धृष्णू नृवाह॑सा ॥११॥
केतुं कृण्वन्न॑केतवे पेशो॑ मर्या अपेशसे॑ ।
समुषद्भि॑रजायथा: ॥१२॥
उदु त्यं जातवे॑दसं देवं व॑हन्ति केतव॑: ।
दृशे विश्वा॑य सूर्य॑म् ॥१३॥
अप त्ये तायवो॑ यथा नक्ष॑त्रा यन्त्यक्तुभि॑: ।
सूरा॑य विश्वच॑क्षसे ॥१४॥
अदृ॑श्रन्नस्य केतवो वि रश्मयो जनाँ अनु॑ ।
भ्राज॑न्तो अग्नयो॑ यथा ॥१५॥
तरणि॑र्विश्वद॑र्शतो ज्योतिष्कृद॑सि सूर्य ।
विश्वमा भा॑सि रोचन ॥१६॥
प्रत्यङ् देवानां विश॑: प्रत्यङ्ङुदे॑षि मानु॑षी: ।
प्रत्यङ्विश्वं स्वद्गर्दृशे ॥१७॥
येना॑ पावक चक्ष॑सा भुरण्यन्तं जनाँ अनु॑ ।
त्वं व॑रुण पश्य॑सि ॥१८॥
वि द्यामे॑षि रज॑स्पृथ्वहर्मिमा॑नो अक्तुभि॑: ।
पश्यं जन्मा॑नि सूर्य ॥१९॥
सप्त त्वा॑ हरितो रथे वह॑न्ति देव सूर्य ।
शोचिष्के॑शं विचक्षणम् ॥२०॥
अयु॑क्त सप्त शुन्ध्युव: सूरो रथ॑स्य नप्त्यद्ग: ।
ताभि॑र्याति स्वयु॑क्तिभि: ॥२१॥
 
 

अष्टचत्वारिंशं खिलसूक्तम्» षडृचस्यास्य खिलसूक्तस्य  चतुर्थ्यादितृचस्य सार्पराज्ञी ऋषिका ।  चतुर्थ्यादितृचस्यात्मा सूर्यो वा देवता: |  प्रथमादिषडृचां गायत्री छन्द:॥ (hindumantavya.blogspot.in)


अभि त्वा वर्च॑सा गिर: सिञ्च॑न्तीराच॑रण्युव॑: ।
अभि वत्सं न धेनव॑: ॥१॥
ता अ॑र्षन्ति शुभ्रिय: पृञ्च॑तीर्वर्च॑सा प्रिय: ।
जातं जात्रीर्यथा॑ हृदा ॥२॥
वज्रा॑पवसाध्य॑: कीर्तिर्म्रियमा॑णमाव॑हन् ।
मह्यमायु॑र्घृतं पय॑: ॥३॥
आयं गौ: पृश्नि॑रक्रमीदस॑दन्मातरं॑ पुर: ।
पितरं॑ च प्रयन्त्स्वद्ग: ॥४॥
अन्तश्च॑रति रोचना अस्य प्राणाद॑पानत: ।
व्य॑ख्यन्महिष: स्वद्ग: ॥५॥
त्रिंशद्धामा वि रा॑जति वाक्प॑तङ्गो अ॑शिश्रियत् ।
प्रति वस्तोरहर्द्युभि॑: ॥६॥
 
 
एकोनपञ्चाशं खिलसूक्तम्» सप्तर्चस्यास्य खिलसूक्तस्य  चतुर्थ्यादिद्व्यृचस्य नोधा  षष्ठ्यादिद्व्यृचस्य च मेध्यातिथिरृषी ।  चतुर्थ्यादिचतसृणामिन्द्रो देवता: |  प्रथमादितृचस्य गायत्री  चतुर्थ्यादिचतसृणाञ्च प्रगाथश्छन्दांसि॥ (hindumantavya.blogspot.in)


यच्छक्रा वाचमारु॑हन्नन्तरि॑क्षं सिषासथ: ।
सं देवा अ॑मदन्वृषा॑ ॥१॥
शक्रो वाचमधृ॑ष्टायोरु॑वाचो अधृ॑ष्णुहि ।
मंहि॑ष्ठ आ म॑दर्दिवि॑ ॥२॥
शक्रो वाचमधृ॑ष्णुहि धाम॑धर्मन्विरा॑जति ।
विम॑दन्बर्हिरासर॑न् ॥३॥
तं वो॑ दस्ममृ॑तीषहं वसो॑र्मन्दानमन्ध॑स: ।
अभि वत्सं न स्वस॑रेषु धेनव इन्द्रं॑ गीर्भिर्न॑वामहे ॥४॥
द्युक्षं सुदानुं तवि॑षीभिरावृ॑तं गिरिं न पु॑रुभोज॑सम् ।
क्षुमन्तं वाजं॑ शतिनं॑ सहस्रिणं॑ मक्षू गोम॑न्तमीमहे ॥५॥
तत्त्वा॑ यामि सुवीर्यं तद्ब्रह्म॑ पूर्वचि॑त्तये ।
येना यति॑भ्यो भृग॑वे धने॑ हिते येन प्रस्क॑ण्वमावि॑थ ॥६॥
येना॑ समुद्रमसृ॑जो महीरपस्तदि॑न्द्र वृष्णि॑ ते शव॑: ।
सद्य: सो अ॑स्य महिमा न संनशे यं क्षोणीर॑नुचक्रदे ॥७॥
 
 
पञ्चाशं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य मेध्यातिथिरृषि: । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


कन्नव्यो॑ अतसीनां॑ तुरो गृ॑णीत मर्त्य॑: ।
नही न्व॑स्य महिमान॑मिन्द्रियं स्वद्गर्गृणन्त॑ आनशु: ॥१॥
कदु॑ स्तुवन्त॑ ऋतयन्त देवत ऋषि: को विप्र॑ ओहते ।
कदा हवं॑ मघवन्निन्द्र सुन्वत: कदु॑ स्तुवत आ ग॑म: ॥२॥
 
 
एकपञ्चाशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य  प्रथमाद्वितीययोरृचो: प्रस्कण्व:  तृतीयाचतुर्थ्योश्च पुष्टिगुरृषी । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


अभि प्र व॑: सुराध॑समिन्द्र॑मर्च यथा॑ विदे ।
यो ज॑रितृभ्यो॑ मघवा॑ पुरूवसु॑: सहस्रे॑णेव शिक्ष॑ति ॥१॥
शतानी॑केव प्र जि॑गाति धृष्णुया हन्ति॑ वृत्राणि॑ दाशुषे॑ ।
गिरेरि॑व प्र रसा॑ अस्य पिन्विरे दत्रा॑णि पुरुभोज॑स: ॥२॥
प्र सु श्रुतं सुराध॑समर्चा॑ शक्रमभिष्ट॑ये ।
य: सु॑न्वते स्तु॑वते काम्यं वसु॑ सहस्रे॑णेव मंह॑ते ॥३॥
शतानी॑का हेतयो॑ अस्य दुष्टरा इन्द्र॑स्य समिषो॑ मही: ।
गिरिर्न भुज्मा मघव॑त्सु पिन्वते यदीं॑ सुता अम॑न्दिषु: ॥४॥
 
 

द्विपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य मेध्यातिथिरृषि: । इन्द्रो देवता: | बृहती छन्द:॥ (hindumantavya.blogspot.in)


वयं घ॑ त्वा सुताव॑न्त आपो न वृक्तब॑र्हिष: ।
पवित्र॑स्य प्रस्रव॑णेषु वृत्रहन्परि॑ स्तोतार॑ आसते ॥१॥
स्वर॑न्ति त्वा सुते नरो वसो॑ निरेक उक्थिन॑: ।
कदा सुतं तृ॑षाण ओक आ ग॑म इन्द्र॑ स्वब्दीव वंस॑ग: ॥२॥
कण्वे॑भिर्धृष्णवा धृषद्वाजं॑ दर्षि सहस्रिण॑म् ।
पिशङ्ग॑रूपं मघवन्विचर्षणे मक्षू गोम॑न्तमीमहे ॥३॥
 
 

त्रिपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य मेध्यातिथिरृषि: । इन्द्रो देवता: | बृहती छन्द:॥ (hindumantavya.blogspot.in)


क ईं॑ वेद सुते सचा पिब॑न्तं कद्वयो॑ दधे ।
अयं य: पुरो॑ विभिनत्त्योज॑सा मन्दान: शिप्र्यन्ध॑स: ॥१॥
दाना मृगो न वा॑रण: पु॑रुत्रा चरथं॑ दधे ।
नकि॑ष्ट्वा नि य॑मदा सुते ग॑मो महाँश्च॑रस्योज॑सा ॥२॥
य उग्र: सन्ननि॑ष्टृत स्थिरो रणा॑य संस्कृ॑त: ।
यदि॑ स्तोतुर्मघवा॑ शृणवद्धवं नेन्द्रो॑ योषत्या ग॑मत् ॥३॥
 

चतुष्पञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य रेभ ऋषि: | इन्द्रो देवता: | प्रथमर्चोऽतिजगती  द्वितीयातृतीययोश्चोपरिष्टाद्बृहती छन्दांसि॥ (hindumantavya.blogspot.in)


विश्वा: पृत॑ना अभिभूत॑रं नरं॑ सजूस्त॑तक्षुरिन्द्रं॑ जजनुश्च॑ राजसे॑ ।
क्रत्वा वरि॑ष्ठं वर॑ आमुरि॑मुतोग्रमोजि॑ष्ठं तवसं॑ तरस्विन॑म् ॥१॥
समीं॑ रेभासो॑ अस्वरन्निन्द्रं सोम॑स्य पीतये॑ ।
स्वद्गर्पतिं यदीं॑ वृधे धृतव्र॑तो ह्योज॑सा समूतिभि॑: ॥२॥
नेमिं न॑मन्ति चक्ष॑सा मेषं विप्रा॑ अभिस्वरा॑ ।
सुदीतयो॑ वो अद्रुहोऽपि कर्णे॑ तरस्विन: समृक्व॑भि: ॥३॥
 
 

पञ्चपञ्चाशं सूक्तम्» तृचस्यास्य सूक्तस्य रेभ ऋषि: | इन्द्रो देवता: | प्रथमर्चोऽतिजगती  द्वितीयातृतीययोश्च बृहती छन्दांसि॥ (hindumantavya.blogspot.in)


तमिन्द्रं॑ जोहवीमि मघवा॑नमुग्रं सत्रा दधा॑नमप्र॑तिष्कुतं शवां॑सि ।
मंहि॑ष्ठो गीर्भिरा च॑ यज्ञियो॑ ववर्त॑द्राये नो विश्वा॑ सुपथा॑ कृणोतु वज्री ॥१॥
या इ॑न्द्र भुज आभ॑र: स्वद्गर्वाँ असु॑रेभ्य: ।
स्तोतारमिन्म॑घवन्नस्य वर्धय ये च त्वे वृक्तब॑र्हिष: ॥२॥
यमि॑न्द्र दधिषे त्वमश्वं गां भागमव्य॑यम् ।
यज॑माने सुन्वति दक्षि॑णावति तस्मिन्तं धे॑हि मा पणौ ॥३॥
 
 

षट्पञ्चाशं सूक्तम्» षडृचस्यास्य सूक्तस्य गोतम ऋषि: | इन्द्रो देवता: | पङ्क्तिश्छन्द:॥ (hindumantavya.blogspot.in)


इन्द्रो मदा॑य वावृधे शव॑से वृत्रहा नृभि॑: ।
तमिन्महत्स्वाजिषूतेमर्भे॑ हवामहे स वाजे॑षु प्र नो॑ऽविषत् ॥१॥
असि हि वी॑र सेन्योऽसि भूरि॑ पराददि: ।
असि॑ दभ्रस्य॑ चिद्वृधो यज॑मानाय शिक्षसि सुन्वते भूरि॑ ते वसु॑ ॥२॥
यदुदीर॑त आजयो॑ धृष्णवे॑ धीयते धना॑ ।
युक्ष्वा म॑दच्युता हरी कं हन: कं वसौ॑ दधोऽस्माँ इ॑न्द्र वसौ॑ दध: ॥३॥
मदे॑मदे हि नो॑ ददिर्यूथा गवा॑मृजुक्रतु॑: ।
सं गृ॑भाय पुरू शतोभ॑याहस्त्या वसु॑ शिशीहि राय आ भ॑र ॥४॥
मादय॑स्व सुते सचा शव॑से शूर राध॑से ।
विद्मा हि त्वा॑ पुरूवसुमुप कामा॑न्त्ससृज्महेऽथा॑ नोऽविता भ॑व ॥५॥
एते त॑ इन्द्र जन्तवो विश्वं॑ पुष्यन्ति वार्य॑म् ।
अन्तर्हि ख्यो जना॑नामर्यो वेदो अदा॑शुषां तेषां॑ नो वेद आ भ॑र ॥६॥
 
 

सप्तपञ्चाशं सूक्तम्» षोडशर्चस्यास्य सूक्तस्य  प्रथमादितृचस्य मधुच्छन्दा: चतुर्थ्यादिचतसृनामृचां विश्वामित्र:  अष्टम्यादितृचस्य गृत्समद: एकादश्यादिषण्णाञ्च मेध्यातिथिरृषय: । इन्द्रो देवता: | प्रथमादितृचद्वयस्याष्टम्यादितृचस्य च गायत्री  सप्तम्या अनुष्टुप् एकादश्यादिषण्णाञ्च बृहती छन्दांसि॥ (hindumantavya.blogspot.in)


सुरूपकृत्नुमूतये॑ सुदुघा॑मिव गोदुहे॑ ।
जुहूमसि द्यवि॑द्यवि ॥१॥
उप॑ न: सवना ग॑हि सोम॑स्य सोमपा: पिब ।
गोदा इद्रेवतो मद॑: ॥२॥
अथा॑ ते अन्त॑मानां विद्याम॑ सुमतीनाम् ।
मा नो अति॑ ख्य आ ग॑हि ॥३॥
शुष्मिन्त॑मं न ऊतये॑ द्युम्निनं॑ पाहि जागृ॑विम् ।
इन्द्र सोमं॑ शतक्रतो ॥४॥
इन्द्रियाणि॑ शतक्रतो या ते जने॑षु पञ्चसु॑ ।
इन्द्र तानि॑ त आ वृ॑णे ॥५॥
अग॑न्निन्द्र श्रवो॑ बृहद्द्युम्नं द॑धिष्व दुष्टर॑म् ।
उत्ते शुष्मं॑ तिरामसि ॥६॥
अर्वावतो॑ न आ गह्यथो॑ शक्र परावत॑: ।
उ लोको यस्ते॑ अद्रिव इन्द्रेह तत आ ग॑हि ॥७॥
इन्द्रो॑ अङ्ग महद्भयमभी षदप॑ चुच्यवत् ।
स हि स्थिरो विच॑र्षनि: ॥८॥
इन्द्र॑श्च मृळया॑ति नो न न॑: पश्चादघं न॑शत् ।
भद्रं भ॑वाति न: पुर: ॥९॥
इन्द्र आशा॑भ्यस्परि सर्वा॑भ्यो अभ॑यं करत् ।
जेता शत्रून्विच॑र्षणि: ॥१०॥
क ईं॑ वेद सुते सचा पिब॑न्तं कद्वयो॑ दधे ।
अयं य: पुरो॑ विभिनत्त्योज॑सा मन्दान: शिप्र्यन्ध॑स: ॥११॥
दाना मृगो न वा॑रण: पु॑रुत्रा चरथं॑ दधे ।
नकि॑ष्ट्वा नि य॑मदा सुते ग॑मो महाँश्च॑रस्योज॑सा ॥१२॥
य उग्र: सन्ननि॑ष्टृत स्थिरो रणा॑य संस्कृ॑त: ।
यदि॑ स्तोतुर्मघवा॑ शृणवद्धवं नेन्द्रो॑ योषत्या ग॑मत् ॥१३॥
वयं घ॑ त्वा सुताव॑न्त आपो न वृक्तब॑र्हिष: ।
पवित्र॑स्य प्रस्रव॑णेषु वृत्रहन्परि॑ स्तोतार॑ आसते ॥१४॥
स्वर॑न्ति त्वा सुते नरो वसो॑ निरेक उक्थिन॑: ।
कदा सुतं तृ॑षाण ओक आ ग॑म इन्द्र॑ स्वब्दीव वंस॑ग: ॥१५॥
कण्वे॑भिर्धृष्णवा धृषद्वाजं॑ दर्षि सहस्रिण॑म् ।
पिशङ्ग॑रूपं मघवन्विचर्षणे मक्षू गोम॑न्तमीमहे ॥१६॥
 
 

अष्टपञ्चाशं सूक्तम्» चतुरृचस्यास्य सूक्तस्य  प्रथमाद्वितीययोरृचोर्नृमेध: तृतीयाचतुर्थ्योश्च भरद्वाज ऋषी ।  प्रथमाद्वितीययोरिन्द्र: तृतीयाचतुर्थ्योश्च सूर्यो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


श्राय॑न्त इव सूर्यं विश्वेदिन्द्र॑स्य भक्षत ।
वसू॑नि जाते जन॑मान ओज॑सा प्रति॑ भागं न दी॑धिम ॥१॥
अन॑र्शरातिं वसुदामुप॑ स्तुहि भद्रा इन्द्र॑स्य रातय॑: ।
सो अ॑स्य कामं॑ विधतो न रो॑षति मनो॑ दानाय॑ चोदय॑न् ॥२॥
बण्महाँ अ॑सि सूर्य बडा॑दित्य महाँ अ॑सि ।
महस्ते॑ सतो म॑हिमा प॑नस्यतेऽद्धा दे॑व महाँ अ॑सि ॥३॥
बट्सू॑र्य श्रव॑सा महाँ अ॑सि सत्रा दे॑व महाँ अ॑सि ।
मह्ना देवाना॑मसुर्यद्ग: पुरोहि॑तो विभु ज्योतिरदा॑भ्यम् ॥४॥
 
 

एकोनषष्टितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य  प्रथमाद्वितीययोरृचोर्मेध्यातिथि: तृतीयाचतुर्थ्योश्च वसिष्ठ ऋषी । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


उदु त्ये मधु॑मत्तमा गिर स्तोमा॑स ईरते ।
सत्राजितो॑ धनसा अक्षि॑तोतयो वाजयन्तो रथा॑ इव ॥१॥
कण्वा॑ इव भृग॑व: सूर्या॑ इव विश्वमिद्धीतमा॑नशु: ।
इन्द्रं स्तोमे॑भिर्महय॑न्त आयव॑: प्रियमे॑धासो अस्वरन् ॥२॥
उदिन्न्व॑स्य रिच्यतेंशो धनं न जिग्युष॑: ।
य इन्द्रो हरि॑वान्न द॑भन्ति तं रिपो दक्षं॑ दधाति सोमिनि॑ ॥३॥
मन्त्रमख॑र्वं सुधि॑तं सुपेश॑सं दधा॑त यज्ञियेष्वा ।
पूर्वीश्चन प्रसि॑तयस्तरन्ति तं य इन्द्रे कर्म॑णा भुव॑त् ॥४॥
 
 

षष्टितमं सूक्तम्» षडृचस्यास्य सूक्तस्य  प्रथमादितृचस्य सुतकक्ष: सुकक्षो वा चतुर्थ्यादितृचस्य च मधुच्छन्दा ऋषी । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


एवा ह्यसि॑ वीरयुरेवा शूर॑ उत स्थिर: ।
एवा ते राध्यं मन॑: ॥१॥
एवा रातिस्तु॑वीमघ विश्वे॑भिर्धायि धातृभि॑: ।
अधा॑ चिदिन्द्र मे सचा॑ ॥२॥
मो षु ब्रह्मेव॑ तन्द्रयुर्भुवो॑ वाजानां पते ।
मत्स्वा॑ सुतस्य गोम॑त: ॥३॥
एवा ह्य॑स्य सूनृता॑ विरप्शी गोम॑ती मही ।
पक्वा शाखा न दाशुषे॑ ॥४॥
एवा हि ते विभू॑तय ऊतय॑ इन्द्र माव॑ते ।
सद्यश्चित्सन्ति॑ दाशुषे॑ ॥५॥
एवा ह्य॑स्य काम्या स्तोम॑ उक्थं च शंस्या॑ ।
इन्द्रा॑य सोम॑पीतये ॥६॥
 
 

एकषष्टितमं सूक्तम्» षडृचस्यास्य सूक्तस्य गोषूक्त्यश्वसूक्तिनावृषी । इन्द्रो देवता: | उष्णिक् छन्द:॥ (hindumantavya.blogspot.in)


तं ते मदं॑ गृणीमसि वृष॑णं पृत्सु सा॑सहिम् ।
उ लोककृत्नुम॑द्रिवो हरिश्रिय॑म् ॥१॥
येन ज्योतीं॑ष्यायवे मन॑वे च विवेदि॑थ ।
मन्दानो अस्य बर्हिषो वि रा॑जसि ॥२॥
तदद्या चि॑त्त उक्थिनोऽनु॑ ष्टुवन्ति पूर्वथा॑ ।
वृष॑पत्नीरपो ज॑या दिवेदि॑वे ॥३॥
तम्वभि प्र गा॑यत पुरुहूतं पु॑रुष्टुतम् ।
इन्द्रं॑ गीर्भिस्त॑विषमा वि॑वासत ॥४॥
यस्य॑ द्विबर्ह॑सो बृहत्सहो॑ दाधार रोद॑सी ।
गिरीँरज्राँ॑ अप: स्वद्गर्वृषत्वना ॥५॥
स रा॑जसि पुरुष्टुतँ एको॑ वृत्राणि॑ जिघ्नसे ।
इन्द्र जैत्रा॑ श्रवस्याद्ग च यन्त॑वे ॥६॥
 
 

द्विषष्टितमं सूक्तम्» दशर्चस्यास्य सूक्तस्य  प्रथमादिचतुरृचां सौभरि: पञ्चम्यादितृचस्य नृमेध: अष्टम्यादितृचस्य च गोषूक्त्यश्वसूक्तिनावृषय: । इन्द्रो देवता: | क्प्रथमादिचतसृणां प्रगाथ:  पञ्चम्यादिषण्णाञ्चोष्णिक् छन्दांसि॥ (hindumantavya.blogspot.in)


वयमु त्वाम॑पूर्व्य स्थूरं न कच्चिद्भर॑न्तोऽवस्यव॑: ।
वाजे॑ चित्रं ह॑वामहे ॥१॥
उप॑ त्वा कर्म॑न्नूतये स नो युवोग्रश्च॑क्राम यो धृषत् ।
त्वामिद्ध्य॑वितारं॑ ववृमहे सखा॑य इन्द्र सानसिम् ॥२॥
यो न॑ इदमि॑दं पुरा प्र वस्य॑ आनिनाय तमु॑ व स्तुषे ।
सखा॑य इन्द्र॑मूतये॑ ॥३॥
हर्य॑श्वं सत्प॑तिं चर्षणीसहं स हि ष्मा यो अम॑न्दत ।
आ तु न: स व॑यति गव्यमश्व्यं॑ स्तोतृभ्यो॑ मघवा॑ शतम् ॥४॥
इन्द्रा॑य साम॑ गायत विप्रा॑य बृहते बृहत् ।
धर्मकृते॑ विपश्चिते॑ पनस्यवे॑ ॥५॥
त्वमि॑न्द्राभिभूर॑सि त्वं सूर्य॑मरोचय: ।
विश्वक॑र्मा विश्वदे॑वो महाँ अ॑सि ॥६॥
विभ्राजञ्ज्योति॑षा स्व१रग॑च्छो रोचनं दिव: ।
देवास्त॑ इन्द्र सख्याय॑ येमिरे ॥७॥
तम्वभि प्र गा॑यत पुरुहूतं पु॑रुष्टुतम् ।
इन्द्रं॑ गीर्भिस्त॑विषमा वि॑वासत ॥८॥
यस्य॑ द्विबर्ह॑सो बृहत्सहो॑ दाधार रोद॑सी ।
गिरीँरज्राँ॑ अप: स्वद्गर्वृषत्वना ॥९॥
स रा॑जसि पुरुष्टुतँ एको॑ वृत्राणि॑ जिघ्नसे ।
इन्द्र जैत्रा॑ श्रवस्याद्ग च यन्त॑वे ॥१०॥
 
 

त्रिषष्टितमं सूक्तम्» नवर्चस्यास्य सूक्तस्य  प्रथमाद्वितीययोरृचोस्तृतीयापूर्वार्धस्य च भुवन: साधनो वा  तृतीयोत्तरार्धस्य भरद्वाज:  चतुर्थ्यादितृचस्य गोतम:  सप्तम्यादितृचस्य च पर्वत ऋषय: । इन्द्रो देवता: |  प्रथमादितृचस्य त्रिष्टुप्  चतुर्थ्यादिषण्णाञ्चोष्णिक् छन्दांसि॥ (hindumantavya.blogspot.in)


इमा नु कं भुव॑ना सीषधामेन्द्र॑श्च विश्वे॑ च देवा: ।
यज्ञं च॑ नस्तन्वंद्ग च प्रजां चा॑दित्यैरिन्द्र॑: सह ची॑कॢपाति ॥१॥
आदित्यैरिन्द्र: सग॑णो मरुद्भि॑रस्माकं॑ भूत्वविता तनूना॑म् ।
हत्वाय॑ देवा असु॑रान्यदाय॑न्देवा दे॑वत्वम॑भिरक्ष॑माणा: ॥२॥
प्रत्यञ्च॑मर्कम॑नयं छची॑भिरादित्स्वधामि॑षिरां पर्य॑पश्यन् ।
अया वाजं॑ देवहि॑तं सनेम मदे॑म शतहि॑मा: सुवीरा॑: ॥३॥
य एक इद्विदय॑ते वसु मर्ता॑य दाशुषे॑ ।
ईशा॑नो अप्र॑तिष्कुत इन्द्रो॑ अङ्ग ॥४॥
कदा मर्त॑मराधसं॑ पदा क्षुम्प॑मिव स्फुरत् ।
कदा न॑: शुश्रवद्गिर इन्द्रो॑ अङ्ग ॥५॥
यश्चिद्धि त्वा॑ बहुभ्य आ सुतावाँ॑ आविवा॑सति ।
उग्रं तत्प॑त्यते शव इन्द्रो॑ अङ्ग ॥६॥
य इ॑न्द्र सोमपात॑मो मद॑: शविष्ठ चेत॑ति ।
येना हंसि न्य१त्रिणं तमी॑महे ॥७॥
येना दश॑ग्वमध्रि॑गुं वेपय॑न्तं स्वद्गर्णरम् ।
येना॑ समुद्रमावि॑था तमी॑महे ॥८॥
येन सिन्धुं॑ महीरपो रथाँ॑ इव प्रचोदय॑: ।
पन्था॑मृतस्य यात॑वे तमी॑महे ॥९॥
 
 

चतु:षष्टितमं सूक्तम्» षडृचस्यास्य सूक्तस्य  प्रथमादितृचस्य नृमेध: चतुर्थ्यादितृचस्य च विश्वमना ऋषी । इन्द्रो देवता: | उष्णिक् छन्द:॥ (hindumantavya.blogspot.in)


एन्द्र॑ नो गधि प्रिय: स॑त्राजिदगो॑ह्य: ।
गिरिर्न विश्वत॑स्पृथु: पति॑र्दिव: ॥१॥
अभि हि स॑त्य सोमपा उभे बभूथ रोद॑सी ।
इन्द्रासि॑ सुन्वतो वृध: पति॑र्दिव: ॥२॥
त्वं हि शश्व॑तीनामिन्द्र॑ दर्ता पुरामसि॑ ।
हन्ता दस्योर्मनो॑र्वृध: पति॑र्दिव: ॥३॥
एदु मध्वो॑ मदिन्त॑रं सिञ्च वा॑ध्वर्यो अन्ध॑स: ।
एवा हि वीर स्तव॑ते सदावृ॑ध: ॥४॥
इन्द्र॑ स्थातर्हरीणां नकि॑ष्टे पूर्व्यस्तु॑तिम् ।
उदा॑नंश शव॑सा न भन्दना॑ ॥५॥
तं वो वाजा॑नां पतिमहू॑महि श्रवस्यव॑: ।
अप्रा॑युभिर्यज्ञेभि॑र्वावृधेन्य॑म् ॥६॥
 
 

पञ्चषष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्य विश्वमना ऋषि: | इन्द्रो देवता: | उष्णिक् छन्द:॥ (hindumantavya.blogspot.in)


एतो न्विन्द्रं स्तवा॑म सखा॑य स्तोम्यं नर॑म् ।
कृष्टीर्यो विश्वा॑ अभ्यस्त्येक इत् ॥१॥
अगो॑रुधाय गविषे॑ द्युक्षाय दस्म्यं वच॑: ।
घृतात्स्वादी॑यो मधु॑नश्च वोचत ॥२॥
यस्यामि॑तानि वीर्या३ न राध: पर्ये॑तवे ।
ज्योतिर्न विश्व॑मभ्यस्ति दक्षि॑णा ॥३॥
 
 
षट्षष्टितमं सूक्तम्» तृचस्यास्य सूक्तस्य विश्वमना ऋषि: | इन्द्रो देवता: | उष्णिक् छन्द:॥ (hindumantavya.blogspot.in)


स्तुहीन्द्रं॑ व्यश्ववदनू॑र्मिं वाजिनं यम॑म् ।
अर्यो गयं मंह॑मानं वि दाशुषे॑ ॥१॥
एवा नूनमुप॑ स्तुहि वैय॑श्व दशमं नव॑म् ।
सुवि॑द्वांसं चर्कृत्यं॑ चरणी॑नाम् ॥२॥
वेत्था हि निरृ॑तीनां वज्र॑हस्त परिवृज॑म् ।
अह॑रह: शुन्ध्यु: प॑रिपदा॑मिव ॥३॥
 
 
सप्तषष्टितमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य  प्रथमादितृचस्य परुच्छेप: चतुर्थ्यादिचतसृणामृचाञ्च गृत्समद ऋषी ।  प्रथमाया इन्द्र: द्वितीयाया मरुत:  तृतीयाया अग्नि:  चतुर्थ्या मरुत: पञ्चम्या अग्नि:  षष्ठ्या इन्द्र:  सप्तम्याश्च द्रविणोदा देवता: | प्रथमादितृचस्यात्यष्टि:  चतुर्थ्यादिचतसृणाञ्च जगती छन्दांसि॥ (hindumantavya.blogspot.in)


वनोति हि सुन्वन्क्षयं परी॑णस: सुन्वानो हि ष्मा यजत्यव द्विषो॑ देवानामव द्विष॑: ।
सुन्वान इत्सि॑षासति सहस्रा॑ वाज्यवृ॑त: ।
सुन्वानायेन्द्रो॑ ददात्याभुवं॑ रयिं द॑दात्याभुव॑म् ॥१॥
मो षु वो॑ अस्मदभि तानि पौंस्या सना॑ भूवन्द्युम्नानि मोत जा॑रिषुरस्मत्पुरोत जा॑रिषु: ।
यद्व॑श्चित्रं युगेयु॑गे नव्यं घोषादम॑र्त्यम् ।
अस्मासु तन्म॑रुतो यच्च॑ दुष्टरं॑ दिधृता यच्च॑ दुष्टर॑म् ॥२॥
अग्निं होता॑रं मन्ये दास्व॑न्तं वसुं॑ सूनुं सह॑सो जातवे॑दसं विप्रं न जातवे॑दसम् ।
य ऊर्ध्वया॑ स्वध्वरो देवो देवाच्या॑ कृपा ।
घृतस्य विभ्रा॑ष्टिमनु॑ वष्टि शोचिषाजुह्वा॑नस्य सर्पिष॑: ॥३॥
यज्ञै: संमि॑श्ला: पृष॑तीभिरृष्टिभिर्यामं॑ छुभ्रासो॑ अञ्जिषु॑ प्रिया उत ।
आसद्या॑ बर्हिर्भ॑रतस्य सूनव: पोत्रादा सोमं॑ पिबता दिवो नर: ॥४॥
आ व॑क्षि देवाँ इह वि॑प्र यक्षि॑ चोशन्हो॑तर्नि ष॑दा योनि॑षु त्रिषु ।
प्रति॑ वीहि प्रस्थि॑तं सोम्यं मधु पिबाग्नी॑ध्रात्तव॑ भागस्य॑ तृप्णुहि ॥५॥
एष स्य ते॑ तन्वोद्ग नृम्णवर्ध॑न: सह ओज॑: प्रदिवि॑ बाह्वोर्हित: ।
तुभ्यं॑ सुतो म॑घवन्तुभ्यमाभृ॑तस्त्वम॑स्य ब्राह्म॑णादा तृपत्पि॑ब ॥६॥
यमु पूर्वमहु॑वे तमिदं हु॑वे सेदु हव्यो॑ ददिर्यो नाम पत्य॑ते ।
अध्वर्युभि: प्रस्थि॑तं सोम्यं मधु॑ पोत्रात्सोमं॑ द्रविणोद: पिब॑ ऋतुभि॑: ॥७॥
 
 
अष्टषष्टितमं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्य मधुच्छन्दा ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


सुरूपकृत्नुमूतये॑ सुदुघा॑मिव गोदुहे॑ ।
जुहूमसि द्यवि॑द्यवि ॥१॥
उप॑ न: सवना ग॑हि सोम॑स्य सोमपा: पिब ।
गोदा इद्रेवतो मद॑: ॥२॥
अथा॑ ते अन्त॑मानां विद्याम॑ सुमतीनाम् ।
मा नो अति॑ ख्य आ ग॑हि ॥३॥
परे॑हि विग्रमस्तृ॑तमिन्द्रं॑ पृच्छा विपश्चित॑म् ।
यस्ते सखि॑भ्य आ वर॑म् ॥४॥
उत ब्रु॑वन्तु नो निदो निरन्यत॑श्चिदारत ।
दधा॑ना इन्द्र इद्दुव॑: ॥५॥
उत न॑: सुभगाँ॑ अरिर्वोचेयु॑र्दस्म कृष्टय॑: ।
स्यामेदिन्द्र॑स्य शर्म॑णि ॥६॥
एमाशुमाशवे॑ भर यज्ञश्रियं॑ नृमाद॑नम् ।
पतयन्म॑न्दयत्स॑खम् ॥७॥
अस्य पीत्वा श॑तक्रतो घनो वृत्राणा॑मभव: ।
प्रावो वाजे॑षु वाजिन॑म् ॥८॥
तं त्वा वाजे॑षु वाजिनं॑ वाजया॑म: शतक्रतो ।
धना॑नामिन्द्र सातये॑ ॥९॥
यो रायो३ऽवनि॑र्महान्त्सु॑पार: सु॑न्वत: सखा॑ ।
तस्मा इन्द्रा॑य गायत ॥१०॥
आ त्वेता नि षी॑दतेन्द्र॑मभि प्र गा॑यत ।
सखा॑य स्तोम॑वाहस: ॥११॥
पुरूतमं॑ पुरूणामीशा॑नं वार्या॑णाम् ।
इन्द्रं सोमे सचा॑ सुते ॥१२॥
 
 

एकोनसप्ततितमं सूक्तम्» द्वादशर्चस्यास्य सूक्तस्य मधुच्छन्दा ऋषि: | प्रथमाद्येकादशर्चामिन्द्र:  द्वादश्याश्च मरुतो देवता: | गयत्री छन्द:॥ (hindumantavya.blogspot.in)


स घा॑ नो योग आ भु॑वत्स राये स पुरं॑ध्याम् ।
गमद्वाजे॑भिरा स न॑: ॥१॥
यस्य॑ संस्थे न वृण्वते हरी॑ समत्सु शत्र॑व: ।
तस्मा इन्द्रा॑य गायत ॥२॥
सुतपाव्ने॑ सुता इमे शुच॑यो यन्ति वीतये॑ ।
सोमा॑सो दध्या॑शिर: ॥३॥
त्वं सुतस्य॑ पीतये॑ सद्यो वृद्धो अ॑जायथा: ।
इन्द्र ज्यैष्ठ्या॑य सुक्रतो ॥४॥
आ त्वा॑ विशन्त्वाशव: सोमा॑स इन्द्र गिर्वण: ।
शं ते॑ सन्तु प्रचे॑तसे ॥५॥
त्वां स्तोमा॑ अवीवृधन्त्वामुक्था श॑तक्रतो ।
त्वां व॑र्धन्तु नो गिर॑: ॥६॥
अक्षि॑तोति: सनेदिमं वाजमिन्द्र॑: सहस्रिण॑म् ।
यस्मिन्विश्वा॑नि पौंस्या॑ ॥७॥
मा नो मर्ता॑ अभि द्रु॑हन्तनूना॑मिन्द्र गिर्वण: ।
ईशा॑नो यवया वधम् ॥८॥
युञ्जन्ति॑ ब्रध्नम॑रुषं चर॑न्तं परि॑ तस्थुष॑: ।
रोच॑न्ते रोचना दिवि ॥९॥
युञ्जन्त्य॑स्य काम्या हरी विप॑क्षसा रथे॑ ।
शोणा॑ धृष्णू नृवाह॑सा ॥१०॥
केतुं कृण्वन्न॑केतवे पेशो॑ मर्या अपेशसे॑ ।
समुषद्भि॑रजायथा: ॥११॥
आदह॑ स्वधामनु पुन॑र्गर्भत्वमे॑रिरे ।
दधा॑ना नाम॑ यज्ञिय॑म् ॥१२॥
 
 

सप्ततितमं सूक्तम्» विंशत्यृचस्यास्य सूक्तस्य मधुच्छन्दा ऋषि: | प्रथमाद्वितीययोरृचो: षष्ठ्यादिपञ्चदशानाञ्चेन्द्रामरुत: तृतीयादितृचस्य च मरुतो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


वीळु चि॑दारुजत्नुभिर्गुहा॑ चिदिन्द्र वह्नि॑भि: ।
अवि॑न्द उस्रिया अनु॑ ॥१॥
देवयन्तो यथा॑ मतिमच्छा॑ विदद्व॑सुं गिर॑: ।
महाम॑नूषत श्रुतम् ॥२॥
इन्द्रे॑ण सं हि दृक्ष॑से संजग्मानो अबि॑भ्युषा ।
मन्दू स॑मानव॑र्चसा ॥३॥
अनवद्यैरभिद्यु॑भिर्मख: सह॑स्वदर्चति ।
गणैरिन्द्र॑स्य काम्यै॑: ॥४॥
अत॑: परिज्मन्ना ग॑हि दिवो वा॑ रोचनादधि॑ ।
सम॑स्मिन्नृञ्जते गिर॑: ॥५॥
इतो वा॑ सातिमीम॑हे दिवो वा पार्थि॑वादधि॑ ।
इन्द्रं॑ महो वा रज॑स: ॥६॥
इन्द्रमिद्गाथिनो॑ बृहदिन्द्र॑मर्केभि॑रर्किण॑: ।
इन्द्रं वाणी॑रनूषत ॥७॥
इन्द्र इद्धर्यो: सचा संमि॑श्ल आ व॑चोयुजा॑ ।
इन्द्रो॑ वज्री हि॑रण्यय॑: ॥८॥
इन्द्रो॑ दीर्घाय चक्ष॑स आ सूर्यं॑ रोहयद्दिवि ।
वि गोभिरिन्द्र॑मैरयत् ॥९॥
इन्द्र वाजे॑षु नोऽव सहस्र॑प्रधनेषु च ।
उग्र उग्राभि॑रूतिभि॑: ॥१०॥
इन्द्रं॑ वयं म॑हाधन इन्द्रमर्भे॑ हवामहे ।
युजं॑ वृत्रेषु॑ वज्रिण॑म् ॥११॥
स नो॑ वृषन्नमुं चरुं सत्रा॑दावन्नपा॑ वृधि ।
अस्मभ्यमप्र॑तिष्कुत: ॥१२॥
तुञ्जेतु॑ञ्जे य उत्त॑रे स्तोमा इन्द्र॑स्य वज्रिण॑: ।
न वि॑न्धे अस्य सुष्टुतिम् ॥१३॥
वृषा॑ यूथेव वंस॑ग: कृष्टीरि॑यर्त्योज॑सा ।
ईशा॑नो अप्र॑तिष्कुत: ॥१४॥
य एक॑श्चर्षणीनां वसू॑नामिरज्यति॑ ।
इन्द्र: पञ्च॑ क्षितीनाम् ॥१५॥
इन्द्रं॑ वो विश्वतस्परि हवा॑महे जने॑भ्य: ।
अस्माक॑मस्तु केव॑ल: ॥१६॥
एन्द्र॑ सानसिं रयिं सजित्वा॑नं सदासह॑म् ।
वर्षि॑ष्ठमूतये॑ भर ॥१७॥
नि येन॑ मुष्टिहत्यया नि वृत्रा रुणधा॑महै ।
त्वोता॑सो न्यर्व॑ता ॥१८॥
इन्द्र त्वोता॑स आ वयं वज्रं॑ घना द॑दीमहि ।
जये॑म सं युधि स्पृध॑: ॥१९॥
वयं शूरे॑भिरस्तृ॑भिरिन्द्र त्वया॑ युजा वयम् ।
सासह्याम॑ पृतन्यत: ॥२०॥
 
 

एकसप्ततितमं सूक्तम्» षोडशर्चस्यास्य सूक्तस्य मधुच्छन्दा ऋषि: | इन्द्रो देवता: | गयत्री छन्द:॥ (hindumantavya.blogspot.in)


महाँ इन्द्र॑: परश्च नु म॑हित्वम॑स्तु वज्रिणे॑ ।
द्यौर्न प्र॑थिना शव॑: ॥१॥
समोहे वा य आश॑त नर॑स्तोकस्य सनि॑तौ ।
विप्रा॑सो वा धियायव॑: ॥२॥
य: कुक्षि: सो॑मपात॑म: समुद्र इ॑व पिन्व॑ते ।
उर्वीरापो न काकुद॑: ॥३॥
एवा ह्य॑स्य सूनृता॑ विरप्शी गोम॑ती मही ।
पक्वा शाखा न दाशुषे॑ ॥४॥
एवा हि ते विभू॑तय ऊतय॑ इन्द्र माव॑ते ।
सद्यश्चित्सन्ति॑ दाशुषे॑ ॥५॥
एवा ह्य॑स्य काम्या स्तोम॑ उक्थं च शंस्या॑ ।
इन्द्रा॑य सोम॑पीतये ॥६॥
इन्द्रेहि मत्स्यन्ध॑सो विश्वे॑भि: सोमपर्व॑भि: ।
महाँ अ॑भिष्टिरोज॑सा ॥७॥
एमे॑नं सृजता सुते मन्दिमिन्द्रा॑य मन्दिने॑ ।
चक्रिं विश्वा॑नि चक्र॑ये ॥८॥
मत्स्वा॑ सुशिप्र मन्दिभि स्तोमे॑भिर्विश्वचर्षणे ।
सचैषु सव॑नेष्वा ॥९॥
असृ॑ग्रमिन्द्र ते गिर: प्रतित्वामुद॑हासत ।
अजो॑षा वृषभं पति॑म् ॥१०॥
सं चो॑दय चित्रमर्वाग्राध॑ इन्द्र वरे॑ण्यम् ।
असदित्ते॑ विभु प्रभु ॥११॥
अस्मान्त्सु तत्र॑ चोदयेन्द्र॑ राये रभ॑स्वत: ।
तुवि॑द्युम्न यश॑स्वत: ॥१२॥
सं गोम॑दिन्द्र वाज॑वदस्मे पृथु श्रवो॑ बृहत् ।
विश्वायु॑र्धेह्यक्षि॑तम् ॥१३॥
अस्मे धे॑हि श्रवो॑ बृहद्द्युम्नं स॑हस्रसात॑मम् ।
इन्द्र ता रथिनीरिष॑: ॥१४॥
वसोरिन्द्रं वसु॑पतिं गीर्भिर्गृणन्त॑ ऋग्मिय॑म् ।
होम गन्ता॑रमूतये॑ ॥१५॥
सुतेसु॑ते न्योद्गकसे बृहद्बृ॑हत एदरि: ।
इन्द्रा॑य शूषम॑र्चति ॥१६॥
 
 

द्विसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्य परुच्छेप ऋषि: | इन्द्रो देवता: | अत्यष्टिश्छन्द:॥ (hindumantavya.blogspot.in)


विश्वे॑षु हि त्वा सव॑नेषु तुञ्जते॑ समानमेकं वृष॑मण्यव: पृथक्स्वद्ग: सनिष्यव: पृथ॑क् ।
तं त्वा नावं न पर्षणिं॑ शूषस्य॑ धुरि धी॑महि ।
इन्द्रं न यज्ञैश्चितय॑न्त आयव स्तोमे॑भिरिन्द्र॑मायव॑: ॥१॥
वि त्वा॑ ततस्रे मिथुना अ॑वस्यवो॑ व्रजस्य॑ साता गव्य॑स्य नि:सृज: सक्ष॑न्त इन्द्र नि:सृज॑: ।
यद्गव्यन्ता द्वा जना स्व१र्यन्ता॑ समूह॑सि ।
आविष्करि॑क्रद्वृष॑णं सचाभुवं वज्र॑मिन्द्र सचाभुव॑म् ॥२॥
उतो नो॑ अस्या उषसो॑ जुषेत ह्य१र्कस्य॑ बोधि हविषो हवी॑मभि: स्व॑र्षाता हवी॑मभि: ।
यदि॑न्द्र हन्त॑वे मृघो वृषा॑ वज्रिञ्चिके॑तसि ।
आ मे॑ अस्य वेधसो नवी॑यसो मन्म॑ श्रुधि नवी॑यस: ॥३॥
 

त्रिसप्ततितमं सूक्तम्» षडृचस्यास्य सूक्तस्य  प्रथमादितृचस्य वसिष्ठ: चतुर्थ्यादितृचस्य च वसुक्र ऋषी । इन्द्रो देवता: | प्रथमादितृचस्य त्रिपदा विराडनुष्टुप् चतुर्थीपञ्चम्योरृचोर्जगती  षष्ठ्याश्चाभिसारिणी त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


तुभ्येदिमा सव॑ना शूर विश्वा तुभ्यं ब्रह्मा॑णि वर्ध॑ना कृणोमि ।
त्वं नृभिर्हव्यो॑ विश्वधा॑सि ॥१॥
नू चिन्नु ते मन्य॑मानस्य दस्मोद॑श्नुवन्ति महिमान॑मुग्र ।
न वीर्यद्गमिन्द्र ते न राध॑: ॥२॥
प्र वो॑ महे म॑हिवृधे॑ भरध्वं प्रचे॑तसे प्र सु॑मतिं कृ॑णुध्वम् ।
विश॑: पूर्वी: प्र च॑रा चर्षणिप्रा: ॥३॥
यदा वज्रं हिर॑ण्यमिदथा रथं हरी यम॑स्य वह॑तो वि सूरिभि॑: ।
आ ति॑ष्ठति मघवा सन॑श्रुत इन्द्रो वाज॑स्य दीर्घश्र॑वसस्पति॑: ॥४॥
सो चिन्नु वृष्टिर्यूथ्या३ स्वा सचाँ इन्द्र: श्मश्रू॑णि हरि॑ताभि प्रु॑ष्णुते ।
अव॑ वेति सुक्षयं॑ सुते मधूदिद्धू॑नोति वातो यथा वन॑म् ॥५॥
यो वाचा विवा॑चो मृध्रवा॑च: पुरू सहस्राशि॑वा जघान॑ ।
तत्तदिद॑स्य पौंस्यं॑ गृणीमसि पितेव यस्तवि॑षीं वावृधे शव॑: ॥६॥
 
 

चतु:सप्ततितमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य शुन:शेप ऋषि: | इन्द्रो देवता: | पङ्क्तिश्छन्द:॥ (hindumantavya.blogspot.in)


यच्चिद्धि स॑त्य सोमपा अनाशस्ता इ॑व स्मसि॑ ।
आ तू न॑ इन्द्र शंसय गोष्वश्वे॑षु शुभ्रिषु॑ सहस्रे॑षु तुवीमघ ॥१॥
शिप्रि॑न्वाजानां पते शची॑वस्तव॑ दंसना॑ ।
आ तू न॑ इन्द्र शंसय गोष्वश्वे॑षु शुभ्रिषु॑ सहस्रे॑षु तुवीमघ ॥२॥
नि ष्वा॑पया मिथूदृशा॑ सस्तामबु॑ध्यमाने ।
आ तू न॑ इन्द्र शंसय गोष्वश्वे॑षु शुभ्रिषु॑ सहस्रे॑षु तुवीमघ ॥३॥
ससन्तु त्या अरा॑तयो बोध॑न्तु शूर रातय॑: ।
आ तू न॑ इन्द्र शंसय गोष्वश्वे॑षु शुभ्रिषु॑ सहस्रे॑षु तुवीमघ ॥४॥
समि॑न्द्र गर्दभं मृ॑ण नुवन्तं॑ पापया॑मुया ।
आ तू न॑ इन्द्र शंसय गोष्वश्वे॑षु शुभ्रिषु॑ सहस्रे॑षु तुवीमघ ॥५॥
पता॑ति कुण्डृणाच्या॑ दूरं वातो वनादधि॑ ।
आ तू न॑ इन्द्र शंसय गोष्वश्वे॑षु शुभ्रिषु॑ सहस्रे॑षु तुवीमघ ॥६॥
सर्वं॑ परिक्रोशं ज॑हि जम्भया॑ कृकदाश्वद्गम् ।
आ तू न॑ इन्द्र शंसय गोष्वश्वे॑षु शुभ्रिषु॑ सहस्रे॑षु तुवीमघ ॥७॥
 
 

पञ्चसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्य परुच्छेप ऋषि: | इन्द्रो देवता: | अत्यष्टिश्छन्द:॥ (hindumantavya.blogspot.in)


वि त्वा॑ ततस्रे मिथुना अ॑वस्यवो॑ व्रजस्य॑ साता गव्य॑स्य नि:सृज: सक्ष॑न्त इन्द्र नि:सृज॑: ।
यद्गव्यन्ता द्वा जना स्व१र्यन्ता॑ समूह॑सि ।
आविष्करि॑क्रद्वृष॑णं सचाभुवं वज्र॑मिन्द्र सचाभुव॑म् ॥१॥
विदुष्टे अस्य वीर्यद्गस्य पूरव: पुरो यदि॑न्द्र शार॑दीरवाति॑र: सासहानो अवाति॑र: ।
शासस्तमि॑न्द्र मर्त्यमय॑ज्युं शवसस्पते ।
महीम॑मुष्णा: पृथिवीमिमा अपो म॑न्दसान इमा अप: ॥२॥
आदित्ते॑ अस्य वीर्यद्गस्य चर्किरन्मदे॑षु वृषन्नुशिजो यदावि॑थ सखीयतो यदावि॑थ ।
चकर्थ॑ कारमे॑भ्य: पृत॑नासु प्रव॑न्तवे ।
ते अन्याम॑न्यां नद्यंद्ग सनिष्णत श्रवस्यन्त॑: सनिष्णत ॥३॥
 
 

षट्सप्ततितमं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य वसुक्र ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


वने न वा यो न्य॑धायि चाकं छुचि॑र्वां स्तोमो॑ भुरणावजीग: ।
यस्येदिन्द्र॑: पुरुदिने॑षु होता॑ नृणां नर्वो नृत॑म: क्षपावा॑न् ॥१॥
प्र ते॑ अस्या उषस: प्राप॑रस्या नृतौ स्या॑म नृत॑मस्य नृणाम् ।
अनु॑ त्रिशोक॑: शतमाव॑हन्नॄन्कुत्से॑न रथो यो अस॑त्ससवान् ॥२॥
कस्ते मद॑ इन्द्र रन्त्यो॑ भूद्दुरो गिरो॑ अभ्यु१ग्रो वि धा॑व ।
कद्वाहो॑ अर्वागुप॑ मा मनीषा आ त्वा॑ शक्यामुपमं राधो अन्नै॑: ॥३॥
कदु॑ द्युम्नमि॑न्द्र त्वाव॑तो नॄन्कया॑ धिया क॑रसे कन्न आग॑न् ।
मित्रो न सत्य उ॑रुगाय भृत्या अन्ने॑ समस्य यदस॑न्मनीषा: ॥४॥
प्रेर॑य सूरो अर्थं न पारं ये अ॑स्य कामं॑ जनिधा इ॑व ग्मन् ।
गिर॑श्च ये ते॑ तुविजात पूर्वीर्नर॑ इन्द्र प्रतिशिक्षन्त्यन्नै॑: ॥५॥
मात्रे नु ते सुमि॑ते इन्द्र पूर्वी द्यौर्मज्मना॑ पृथिवी काव्ये॑न ।
वरा॑य ते घृतव॑न्त: सुतास: स्वाद्म॑न्भवन्तु पीतये मधू॑नि ॥६॥
आ मध्वो॑ अस्मा असिचन्नम॑त्रमिन्द्रा॑य पूर्णं स हि सत्यरा॑धा: ।
स वा॑वृधे वरि॑मन्ना पृ॑थिव्या अभि क्रत्वा नर्य: पौंस्यै॑श्च ॥७॥
व्या॑नळिन्द्र: पृत॑ना: स्वोजा आस्मै॑ यतन्ते सख्याय॑ पूर्वी: ।
आ स्मा रथं न पृत॑नासु तिष्ठ यं भद्रया॑ सुमत्या चोदया॑से ॥८॥
 
 

सप्तसप्ततितमं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य वामदेव ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


आ सत्यो या॑तु मघवाँ॑ ऋजीषी द्रव॑न्त्वस्य हर॑य उप॑ न: ।
तस्मा इदन्ध॑: सुषुमा सुदक्ष॑मिहाभि॑पित्वं क॑रते गृणान: ॥१॥
अव॑ स्य शूराध्व॑नो नान्तेऽस्मिन्नो॑ अद्य सव॑ने मन्दध्यै॑ ।
शंसा॑त्युक्थमुशने॑व वेधाश्चि॑कितुषे॑ असुर्याद्गय मन्म॑ ॥२॥
कविर्न निण्यं विदथा॑नि साधन्वृषा यत्सेकं॑ विपिपानो अर्चा॑त् ।
दिव इत्था जी॑जनत्सप्त कारूनह्ना॑ चिच्चक्रुर्वयुना॑ गृणन्त॑: ॥३॥
स्व१र्यद्वेदि॑ सुदृशी॑कमर्कैर्महि ज्योती॑ रुरुचुर्यद्ध वस्तो॑: ।
अन्धा तमां॑सि दुधि॑ता विचक्षे नृभ्य॑श्चकार नृत॑मो अभिष्टौ॑ ॥४॥
ववक्ष इन्द्रो अमि॑तमृजीष्यु१भे आ प॑प्रौ रोद॑सी महित्वा ।
अत॑श्चिदस्य महिमा वि रे॑च्यभि यो विश्वा भुव॑ना बभूव॑ ॥५॥
विश्वा॑नि शक्रो नर्या॑णि विद्वानपो रि॑रेच सखि॑भिर्निका॑मै: ।
अश्मा॑नं चिद्ये बि॑भिदुर्वचो॑भिर्व्रजं गोम॑न्तमुशिजो वि व॑व्रु: ॥६॥
अपो वृत्रं व॑व्रिवांसं परा॑हन्प्राव॑त्ते वज्रं॑ पृथिवी सचे॑ता: ।
प्रार्णां॑सि समुद्रिया॑ण्यैनो: पतिर्भवञ्छव॑सा शूर धृष्णो ॥७॥
अपो यदद्रिं॑ पुरुहूत दर्द॑राविर्भु॑वत्सरमा॑ पूर्व्यं ते॑ ।
स नो॑ नेता वाजमा द॑र्षि भूरिं॑ गोत्रा रुजन्नङ्गि॑रोभिर्गृणान: ॥८॥
 
 

अष्टसप्ततितमं सूक्तम्» तृचस्यास्य सूक्तस्य शंयुरृषि: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


तद्वो॑ गाय सुते सचा॑ पुरुहूताय सत्व॑ने ।
शं यद्गवे न शाकिने॑ ॥१॥
न घा वसुर्नि य॑मते दानं वाज॑स्य गोम॑त: ।
यत्सीमुप श्रवद्गिर॑: ॥२॥
कुवित्स॑स्य प्र हि व्रजं गोम॑न्तं दस्युहा गम॑त् ।
शची॑भिरप॑ नो वरत् ॥३॥
 
 

एकोनाशीतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य  प्रथमर्च: पूर्वार्धस्य शक्ति: प्रथमोत्तरार्धस्य द्वितीयायाश्च वसिष्ठ: द्वयोर्वसिष्ठो वा ऋषि: | इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


इन्द्र क्रतुं॑ न आ भ॑र पिता पुत्रेभ्यो यथा॑ ।
शिक्षा॑ णो अस्मिन्पु॑रुहूत याम॑नि जीवा ज्योति॑रशीमहि ॥१॥
मा नो अज्ञा॑ता वृजना॑ दुराध्यो३ माशि॑वासो अव॑ क्रमु: ।
त्वया॑ वयं प्रवत: शश्व॑तीरपोऽति॑ शूर तरामसि ॥२॥
 
 

अशीतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य शंयुरृषि: । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


इन्द्र ज्येष्ठं॑ न आ भ॑रँ ओजि॑ष्ठं पपु॑रि श्रव॑: ।
येनेमे चि॑त्र वज्रहस्त रोद॑सी ओभे सु॑शिप्र प्रा: ॥१॥
त्वामुग्रमव॑से चर्षणीसहं राज॑न्देवेषु॑ हूमहे ।
विश्वा सु नो॑ विथुरा पि॑ब्दना व॑सोऽमित्रा॑न्सुषहा॑न्कृधि ॥२॥
 
 

एकाशीतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य पुरुहन्मा ऋषि: | इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


यद्द्याव॑ इन्द्र ते शतं शतं भूमी॑रुत स्यु: ।
न त्वा॑ वज्रिन्त्सहस्रं सूर्या अनु न जातम॑ष्ट रोद॑सी ॥१॥
आ प॑प्राथ महिना कृष्ण्या॑ वृषन्विश्वा॑ शविष्ठ शव॑सा ।
अस्माँ अ॑व मघवन्गोम॑ति व्रजे वज्रिं॑ चित्राभि॑रूतिभि॑: ॥२॥
 
 
द्व्यशीतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य वसिष्ठ ऋषि: | इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


यदि॑न्द्र याव॑तस्त्वमेताव॑दहमीशी॑य ।
स्तोतारमिद्दि॑धिषेय रदावसो न पा॑पत्वाय॑ रासीय ॥१॥
शिक्षे॑यमिन्म॑हयते दिवेदि॑वे राय आ कु॑हचिद्विदे॑ ।
नहि त्वदन्यन्म॑घवन्न आप्यं वस्यो अस्ति॑ पिता चन ॥२॥
 

त्र्यशीतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य शंयुरृषि: । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)

 
 
इन्द्र॑ त्रिधातु॑ शरणं त्रिवरू॑थं स्वस्तिमत् ।
छर्दिर्य॑च्छ मघव॑द्भ्यश्च मह्यं॑ च यावया॑ दिद्युमे॑भ्य: ॥१॥
ये ग॑व्यता मन॑सा शत्रु॑मादभुर॑भिप्रघ्नन्ति॑ धृष्णुया ।
अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्त॑मो भव ॥२॥
 
 

चतुरशितितमं सूक्तम्» तृचस्यास्य सूक्तस्य मधुच्छन्दा ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


इन्द्रा या॑हि चित्रभानो सुता इमे त्वायव॑: ।
अण्वी॑भिस्तना॑ पूतास॑: ॥१॥
इन्द्रा या॑हि धियेषितो विप्र॑जुत: सुताव॑त: ।
उप ब्रह्मा॑णि वाघत॑: ॥२॥
इन्द्रा या॑हि तूतु॑जान उप ब्रह्मा॑णि हरिव: ।
सुते द॑धिष्व नश्चन॑: ॥३॥
 
 

पञ्चाशीतितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य  प्रथमाद्वितीययोरृचो: प्रगाथ: तृतीयाचतुर्थ्योश्च मेध्यातिथिरृषी । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


मा चि॑दन्यद्वि शं॑सत सखा॑यो मा रि॑षण्यत ।
इन्द्रमित्स्तो॑ता वृष॑णं सचा॑ सुते मुहु॑रुक्था च॑ शंसत ॥१॥
अवक्रक्षिणं॑ वृषभं य॑थाजुरं गां न च॑र्षणीसह॑म् ।
विद्वेष॑णं संवन॑नोभयंकरं मंहि॑ष्ठमुभयाविन॑म् ॥२॥
यच्चिद्धि त्वा जना॑ इमे नाना हव॑न्त ऊतये॑ ।
अस्माकं ब्रह्मेदमि॑न्द्र भूतु तेऽहा विश्वा॑ च वर्ध॑नम् ॥३॥
वि त॑र्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जना॑नाम् ।
उप॑ क्रमस्व पुरुरूपमा भ॑र वाजं नेदि॑ष्ठमूतये॑ ॥४॥
 
 
 
षडशीतितमं सूक्तम्» एकर्चस्यास्य सूक्तस्य विश्वामित्र ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


ब्रह्म॑णा ते ब्रह्मयुजा॑ युनज्मि हरी सखा॑या सधमाद॑ आशू ।
स्थिरं रथं॑ सुखमि॑न्द्राधितिष्ठ॑न्प्रजानन्विद्वाँ उप॑ याहि सोम॑म् ॥१॥
 
 
 
सप्ताशीतितमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य वसिष्ठ ऋषि: |  प्रथमादितृचद्वयस्येन्द्र: सप्तम्या ऋचश्चेन्द्राबृहस्पती देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


अध्व॑र्यवोऽरुणं दुग्धमंशुं जुहोत॑न वृषभाय॑ क्षितीनाम् ।
गौराद्वेदी॑याँ अवपानमिन्द्रो॑ विश्वाहेद्या॑ति सुतसो॑ममिच्छन् ॥१॥
यद्द॑धिषे प्रदिवि चार्वन्नं॑ दिवेदि॑वे पीतिमिद॑स्य वक्षि ।
उत हृदोत मन॑सा जुषाण उशन्नि॑न्द्र प्रस्थि॑तान्पाहि सोमा॑न् ॥२॥
जज्ञान: सोमं सह॑से पपाथ प्र ते॑ माता म॑हिमान॑मुवाच ।
एन्द्र॑ पप्राथोर्व१न्तरि॑क्षं युधा देवेभ्यो वरि॑बश्चकर्थ ॥३॥
यद्योधया॑ महतो मन्य॑मानान्साक्षा॑म तान्बाहुभि: शाश॑दानान् ।
यद्वा नृभिर्वृत॑ इन्द्राभियुध्यास्तं त्वयाजिं सौ॑श्रवसं ज॑येम ॥४॥
प्रेन्द्र॑स्य वोचं प्रथमा कृतानि प्र नूत॑ना मघवा या चकार॑ ।
यदेददे॑वीरस॑हिष्ट माया अथा॑भवत्केव॑ल: सोमो॑ अस्य ॥५॥
तवेदं विश्व॑मभित॑: पशव्यं१ यत्पश्य॑सि चक्ष॑सा सूर्य॑स्य ।
गवा॑मसि गोप॑तिरेक॑ इन्द्र भक्षीमहि॑ ते प्रय॑तस्य वस्व॑: ॥६॥
बृह॑स्पते युवमिन्द्र॑श्च वस्वो॑ दिव्यस्ये॑शाथे उत पार्थि॑वस्य ।
धत्तं रयिं स्तु॑वते कीरये॑ चिद्यूयं पा॑त स्वस्तिभि: सदा॑ न: ॥७॥
 
 
 
अष्टाशीतितमं सूक्तम्» षडृचस्यास्य सूक्तस्य वामदेव ऋषि: | बृहस्पतिर्देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


यस्तस्तम्भ सह॑सा वि ज्मो अन्तान्बृहस्पति॑स्त्रिषधस्थो रवे॑ण ।
तं प्रत्नास ऋष॑यो दीध्या॑ना: पुरो विप्रा॑ दधिरे मन्द्रजि॑ह्वम् ॥१॥
धुनेत॑य: सुप्रकेतं मद॑न्तो बृह॑स्पते अभि ये न॑स्ततस्रे ।
पृष॑न्तं सृप्रमद॑ब्धमूर्वं बृह॑स्पते रक्ष॑तादस्य योनि॑म् ॥२॥
बृह॑स्पते या प॑रमा प॑रावदत आ त॑ ऋतस्पृशो नि षे॑दु: ।
तुभ्यं॑ खाता अ॑वता अद्रि॑दुग्धा मध्व॑ श्चोतन्त्यभितो॑ विरप्शम् ॥३॥
बृहस्पति॑: प्रथमं जाय॑मानो महो ज्योति॑ष: परमे व्योद्गमन् ।
सप्तास्य॑स्तुविजातो रवे॑ण वि सप्तर॑श्मिरधमत्तमां॑सि ॥४॥
स सुष्टुभा स ऋक्व॑ता गणेन॑ वलं रु॑रोज फलिगं रवे॑ण ।
बृहस्पति॑रुस्रिया॑ हव्यसूद: कनि॑क्रदद्वाव॑शतीरुदा॑जत् ॥५॥
एवा पित्रे विश्वदे॑वाय वृष्णे॑ यज्ञैर्वि॑धेम नम॑सा हविर्भि॑: ।
बृह॑स्पते सुप्रजा वीरव॑न्तो वयं स्या॑म पत॑यो रयीणाम् ॥६॥
 
 
 
एकोननवतितमं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य कृष्ण ऋषि: | इन्द्रो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


अस्ते॑व सु प्र॑तरं लायमस्यन्भूष॑न्निव प्र भ॑रा स्तोम॑मस्मै ।
वाचा वि॑प्रास्तरत वाच॑मर्यो नि रा॑मय जरित: सोम इन्द्र॑म् ॥१॥
दोहे॑न गामुप॑ शिक्षा सखा॑यं प्र बो॑धय जरितर्जारमिन्द्र॑म् ।
कोशं न पूर्णं वसु॑ना न्यृ॑ष्टमा च्या॑वय मघदेया॑य शूर॑म् ॥२॥
किमङ्ग त्वा॑ मघवन्भोजमा॑हु: शिशीहि मा॑ शिशयं त्वा॑ शृणोमि ।
अप्न॑स्वती मम धीर॑स्तु शक्र वसुविदं भग॑मिन्द्रा भ॑रा न: ॥३॥
त्वां जना॑ ममसत्येष्वि॑न्द्र संतस्थाना वि ह्व॑यन्ते समीके ।
अत्रा युजं॑ कृणुते यो हविष्मान्नासु॑न्वता सख्यं व॑ष्टि शूर॑: ॥४॥
धनं न स्पन्द्रं ब॑हुलं यो अ॑स्मै तीव्रान्त्सोमाँ॑ आसुनोति प्रय॑स्वान् ।
तस्मै शत्रू॑न्त्सुतुका॑न्प्रातरह्नो नि स्वष्ट्रा॑न्युवति हन्ति॑ वृत्रम् ॥५॥
यस्मि॑न्वयं द॑धिमा शंसमिन्द्रे य: शिश्राय॑ मघवा काम॑मस्मे ।
आराच्चित्सन्भ॑यतामस्य शत्रुर्न्यद्गस्मै द्युम्ना जन्या॑ नमन्ताम् ॥६॥
आराच्छत्रुमप॑ बाधस्व दूरमुग्रो य: शम्ब॑: पुरुहूत तेन॑ ।
अस्मे धे॑हि यव॑मद्गोम॑दिन्द्र कृधी धियं॑ जरित्रे वाज॑रत्नाम् ॥७॥
प्र यमन्तर्वृ॑षसवासो अग्म॑न्तीव्रा: सोमा॑ बहुलान्ता॑स इन्द्र॑म् ।
नाह॑ दामानं॑ मघवा नि यं॑सन्नि सु॑न्वते व॑हति भूरि॑ वामम् ॥८॥
उत प्रहामति॑दीवा जयति कृतमि॑व श्वघ्नी वि चि॑नोति काले ।
यो देवका॑मो न धनं॑ रुणद्धि समित्तं राय: सृ॑जति स्वधाभि॑: ॥९॥
गोभि॑ष्टरेमाम॑तिं दुरेवां यवे॑न वा क्षुधं॑ पुरुहूत विश्वे॑ ।
वयं राज॑सु प्रथमा धनान्यरि॑ष्टासो वृजनीभि॑र्जयेम ॥१०॥
बृहस्पति॑र्न: परि॑ पातु पश्चादुतोत्त॑रस्मादध॑रादघायो: ।
इन्द्र॑: पुरस्ता॑दुत म॑ध्यतो न: सखा सखि॑भ्यो वरी॑य: कृणोतु ॥११॥
 
 
 
नवतितमं सूक्तम्» तृचस्यास्य सूक्तस्य भरद्वाज ऋषि: | बृहस्पतिर्देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


यो अ॑द्रिभित्प्र॑थमजा ऋतावा बृहस्पति॑राङ्गिरसो हविष्मा॑न् ।
द्विबर्ह॑ज्मा प्राघर्मसत्पिता न आ रोद॑सी वृषभो रो॑रवीति ॥१॥
जना॑य चिद्य ईव॑ते उ लोकं बृहस्पति॑र्देवहू॑तौ चकार॑ ।
घ्नन्वृत्राणि वि पुरो॑ दर्दरीति जयञ्छत्रूं॑रमित्रा॑न्पृत्सु साह॑न् ॥२॥
बृहस्पति: सम॑जयद्वसू॑नि महो व्रजान्गोम॑ते देव एष: ।
अप: सिषा॑सन्त्स्व१रप्र॑तीतो बृहस्पतिर्हन्त्यमित्र॑मर्कै: ॥३॥
 
 
 

एकनवतितमं सूक्तम्» द्वादशरचस्यास्य सूक्तस्यायास्य ऋषि: | बृहस्पतिर्देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


इमां धियं॑ सप्तशी॑र्ष्णीं पिता न॑ ऋतप्र॑जातां बृहतीम॑विन्दत् ।
तुरीयं॑ स्विज्जनयद्विश्वज॑न्योऽयास्य॑ उक्थमिन्द्रा॑य शंस॑न् ॥१॥
ऋतं शंस॑न्त ऋजु दीध्या॑ना दिवस्पुत्रासो असु॑रस्य वीरा: ।
विप्रं॑ पदमङ्गि॑रसो दधा॑ना यज्ञस्य धाम॑ प्रथमं म॑नन्त ॥२॥
हंसैरि॑व सखि॑भिर्वाव॑दद्भिरश्मन्मया॑नि नह॑ना व्यस्य॑न् ।
बृहस्पति॑रभिकनि॑क्रदद्गा उत प्रास्तौदुच्च॑ विद्वाँ अ॑गायत् ॥३॥
अवो द्वाभ्यां॑ पर एक॑या गा गुहा तिष्ठ॑न्तीरनृ॑तस्य सेतौ॑ ।
बृहस्पतिस्तम॑सि ज्योति॑रिच्छनुदुस्रा आकर्वि हि तिस्र आव॑: ॥४॥
विभिद्या पुरं॑ शयथेमपा॑चीं निस्त्रीणि॑ साकमु॑दधेर॑कृन्तत् ।
बृहस्पति॑रुषसं सूर्यं गामर्कं वि॑वेद स्तनय॑न्निव द्यौ: ॥५॥
इन्द्रो॑ वलं र॑क्षितारं दुघा॑नां करेणे॑व वि च॑कर्ता रवे॑ण ।
स्वेदा॑ञ्जिभिराशिर॑मिच्छमानोऽरो॑दयत्पणिमा गा अ॑मुष्णात् ॥६॥
स ईं॑ सत्येभि: सखि॑भि: शुचद्भिर्गोधा॑यसं वि ध॑नसैर॑दर्द: ।
ब्रह्म॑णस्पतिर्वृष॑भिर्वराहै॑र्घर्मस्वे॑देभिर्द्रवि॑णं व्याद्गनट् ॥७॥
ते सत्येन मन॑सा गोप॑तिं गा इ॑यानास॑ इषणयन्त धीभि: ।
बृहस्पति॑र्मिथोअ॑वद्यपेभिरुदुस्रिया॑ असृजत स्वयुग्भि॑: ॥८॥
तं वर्धय॑न्तो मतिभि॑: शिवाभि॑: सिंहमि॑व नान॑दतं सधस्थे॑ ।
बृहस्पतिं वृष॑णं शूर॑सातौ भरे॑भरे अनु॑ मदेम जिष्णुम् ॥९॥
यदा वाजमस॑नद्विश्वरू॑पमा द्यामरु॑क्षदुत्त॑राणि सद्म॑ ।
बृहस्पतिं वृष॑णं वर्धय॑न्तो नाना सन्तो बिभ्र॑तो ज्योति॑रासा ॥१०॥
सत्यमाशिषं॑ कृणुता वयोधै कीरिं चिद्ध्यव॑थ स्वेभिरेवै॑: ।
पश्चा मृधो अप॑ भवन्तु विश्वास्तद्रो॑दसी शृणुतं विश्वमिन्वे ॥११॥
इन्द्रो॑ मह्ना म॑हतो अ॑र्णवस्य वि मूर्धान॑मभिनदर्बुदस्य॑ ।
अहन्नहिमरि॑णात्सप्त सिन्धू॑न्देवैर्द्या॑वापृथिवी प्राव॑तं न: ॥१२॥
 
 

द्विनवतितमं सूक्तम्» एकविंशत्यृचस्यास्य सूक्तस्य  प्रथमादिपञ्चदशर्चां प्रियमेध:
षोडश्यादिषण्णाञ्च पुरुहन्मा ऋषी । प्रथमादिसप्तानां नवम्यादित्रयोदशानाञ्चेन्द्र:  अष्टम्याश्च पूर्वार्धस्य विश्वे देवा॑: उत्तरार्धस्य च वरुणो देवता: |  प्रथमादितृचस्य गायत्री  चतुर्थ्यादिचतसृणां नवम्यादिचतसृणाञ्चानुष्टुप्  अष्टमीत्रयोदश्यो: पङ्क्ति: चतुर्दशीपञ्चदश्यो: पथ्याबृहती षोडश्यादिषण्णाञ्च प्रगाथश्छन्दांसि॥ (hindumantavya.blogspot.in)


अभि प्र गोप॑तिं गिरेन्द्र॑मर्च यथा॑ विदे ।
सूतुं सत्यस्य सत्प॑तिम् ॥१॥
आ हर॑य: ससृज्रिरेऽरु॑षीरधि॑ बर्हिषि॑ ।
यत्राभि संनवा॑महे ॥२॥
इन्द्रा॑य गाव॑ आशिरं॑ दुदुह्रे वज्रिणे मधु॑ ।
यत्सी॑मुपह्वरे विदत् ॥३॥
उद्यद्ब्रध्नस्य॑ विष्टपं॑ गृहमिन्द्र॑श्च गन्व॑हि ।
मध्व॑: पीत्वा स॑चेवहि त्रि: सप्त सख्यु॑: पदे ॥४॥
अर्च॑त प्रार्च॑त प्रिय॑मेधासो अर्च॑त ।
अर्च॑न्तु पुत्रका उत पुरं न धृष्ण्वद्गर्चत ॥५॥
अव॑ स्वराति गर्ग॑रो गोधा परि॑ सनिष्वणत् ।
पिङ्गा परि॑ चनिष्कददिन्द्रा॑य ब्रह्मोद्य॑तम् ॥६॥
आ यत्पत॑न्त्येन्यद्ग: सुदुघा अन॑पस्फुर: ।
अपस्फुरं॑ गृभायत सोममिन्द्रा॑य पात॑वे ॥७॥
अपादिन्द्रो अपा॑दग्निर्वश्वे॑ देवा अ॑मत्सत ।
वरु॑ण इदिह क्ष॑यत्तमापो॑ अभ्यद्गनूषत वत्सं संशिश्व॑रीरिव ॥८॥
सुदेवो अ॑सि वरुण यस्य॑ ते सप्त सिन्ध॑व: ।
अनुक्षर॑न्ति काकुदं॑ सूर्यंद्ग सुषिरामि॑व ॥९॥
यो व्यतीँरफा॑णयत्सुयु॑क्ताँ उप॑ दाशुषे॑ ।
तक्वो नेता तदिद्वपु॑रुपमा यो अमु॑च्यत ॥१०॥
अतीदु॑ शक्र ओ॑हत इन्द्रो विश्वा अति द्विष॑: ।
भिनत्कनीन॑ ओदनं पच्यमा॑नं परो गिरा ॥११॥
अर्भको न कु॑मारकोऽधि॑ तिष्ठन्नवं रथ॑म् ।
स प॑क्षन्महिषं मृगं पित्रे मात्रे वि॑भुक्रतु॑म् ॥१२॥
आ तू सु॑शिप्र दंपते रथं॑ तिष्ठा हिरण्यय॑म् ।
अध॑ द्युक्षं स॑चेवहि सहस्र॑पादमरुषं स्व॑स्तिगाम॑नेहस॑म् ॥१३॥
तं घे॑मित्था न॑मस्विन उप॑ स्वराज॑मासते ।
अर्थं॑ चिदस्य सुधि॑तं यदेत॑वे आवर्तय॑न्ति दावने॑ ॥१४॥
अनु॑ प्रत्नस्यौक॑स: प्रियमे॑धास एषाम् ।
पूर्वामनु प्रय॑तिं वृक्तब॑र्हिषो हितप्र॑यस आशत ॥१५॥
यो राजा॑ चर्षणीनां याता रथे॑भिरध्रि॑गु: ।
विश्वा॑सां तरुता पृत॑नानां ज्येष्ठो यो वृ॑त्रहा गृणे ॥१६॥
इन्द्रं तं शु॑म्भ पुरुहन्मन्नव॑से यस्य॑ द्विता वि॑धर्तरि॑ ।
हस्ता॑य वज्र: प्रति॑ धायि दर्शतो महो दिवे न सूर्य॑: ॥१७॥
नकिष्टं कर्म॑णा नशद्यश्चकार॑ सदावृ॑धम् ।
इन्द्रं न यज्ञैर्विश्वगू॑र्तमृभ्व॑समधृ॑ष्टं धृष्ण्वोद्गजसम् ॥१८॥
अषा॑ळ्हमुग्रं पृत॑नासु सासहिं यस्मि॑न्महीरु॑रुज्रय॑: ।
सं धेनवो जाय॑माने अनोनवुर्द्याव: क्षामो॑ अनोनवु: ॥१९॥
यद्द्याव॑ इन्द्र ते शतं शतं भूमी॑रुत स्यु: ।
न त्वा॑ वज्रिन्त्सहस्रं सूर्या अनु न जातम॑ष्ट रोद॑सी ॥२०॥
आ प॑प्राथ महिना वृष्ण्या॑ वृषन्विश्वा॑ शविष्ठ शव॑सा ।
अस्माँ अ॑व मघवन्गोम॑ति व्रजे वज्रि॑ञ्चित्राभि॑रूतिभि॑: ॥२१॥
 
 
 
त्रिनवतितमं सूक्तम्» अष्टर्चस्यास्य सूक्तस्य  प्रथमादितृचस्य प्रगाथ ऋषि:  चतुर्थ्यादिपञ्चानाञ्चेन्द्रमातरो देवजामय ऋषिका: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


उत्त्वा॑ मन्दन्तु स्तोमा॑: कृणुष्व राधो॑ अद्रिव: ।
अव॑ ब्रह्मद्विषो॑ जहि ॥१॥
पदा पणीँर॑राधसो नि बा॑धस्व महाँ अ॑सि ।
नहि त्वा कश्चन प्रति॑ ॥२॥
त्वमी॑शिषे सुतानामिन्द्र त्वमसु॑तानाम् ।
त्वं राजा जना॑नाम् ॥३॥
ईङ्खय॑न्तीरपस्युव इन्द्रं॑ जातमुपा॑सते ।
भेजानास॑: सुवीर्य॑म् ॥४॥
त्वमि॑न्द्र बलादधि सह॑सो जात ओज॑स: ।
त्वं वृ॑षन्वृषेद॑सि ॥५॥
त्वमि॑न्द्रासि वृत्रहा व्य१न्तरि॑क्षमतिर: ।
उद्द्याम॑स्तभ्ना ओज॑सा ॥६॥
त्वमि॑न्द्र सजोष॑समर्कं बि॑भर्षि बाह्वो: ।
वज्रं शिशा॑न ओज॑सा ॥७॥
त्वमि॑न्द्राभिभुर॑सि विश्वा॑ जातान्योज॑सा ।
स विश्वा भुव आभ॑व: ॥८॥
 
 

चतुर्नवतितमं सूक्तम्» एकादशर्चस्यास्य सूक्तस्य कृष्ण ऋषि: | इन्द्रो देवता: | प्रथमादितृचस्य दशम्येकादश्योश्च त्रिष्टुप्  चतुर्थ्यादिषण्णाञ्च जगती छन्दांसि॥ (hindumantavya.blogspot.in)


आ यात्विन्द्र: स्वप॑तिर्मदा॑य यो धर्म॑णा तूतुजानस्तुवि॑ष्मान् ।
प्रत्वक्षाणो अति विश्वा सहां॑स्यपारेण॑ महता वृष्ण्ये॑न ॥१॥
सुष्ठामा रथ॑: सुयमा हरी॑ ते मिम्यक्ष वज्रो॑ नृपते गभ॑स्तौ ।
शीभं॑ राजन्सुपथा या॑ह्यर्वाङ्वर्धा॑म ते पपुषो वृष्ण्या॑नि ॥२॥
एन्द्रवाहो॑ नृपतिं वज्र॑बाहुमुग्रमुग्रास॑स्तविषास॑ एनम् ।
प्रत्व॑क्षसं वृषभं सत्यशु॑ष्ममेम॑स्मत्रा स॑धमादो॑ वहन्तु ॥३॥
एवा पतिं॑ द्रोणसाचं सचे॑तसमूर्ज स्कम्भं धरुण आ वृ॑षायसे ।
ओज॑: कृष्व सं गृ॑भाय त्वे अप्यसो यथा॑ केनिपाना॑मिनो वृधे ॥४॥
गम॑न्नस्मे वसून्या हि शंसि॑षं स्वाशिषं भरमा या॑हि सोमिन॑: ।
त्वमी॑शिषे सास्मिन्ना स॑त्सि बर्हिष्य॑नाधृष्या तव पात्रा॑णि धर्म॑णा ॥५॥
पृथक्प्राय॑न्प्रथमा देवहू॑तयोऽकृ॑ण्वत श्रवस्याद्गनि दुष्टरा॑ ।
न ये शेकुर्यज्ञियां नाव॑मारुह॑मीर्मैव ते न्य॑विशन्त केप॑य: ॥६॥
एवैवापागप॑रे सन्तु दूढ्योद्गऽश्वा येषां॑ दुर्युज॑ आयुयुज्रे ।
इत्था ये प्रागुप॑रे सन्ति॑ दावने॑ पुरूणि यत्र॑ वयुना॑नि भोज॑ना ॥७॥
गिरीँरज्रान्रेज॑मानाँ अधारयद्द्यौ: क्र॑न्ददन्तरि॑क्षाणि कोपयत् ।
समीचीने धिषणे वि ष्क॑भायति वृष्ण॑: पीत्वा मद॑ उक्थानि॑ शंसति ॥८॥
इमं बि॑भर्मि सुकृ॑तं ते अङ्कुशं येना॑रुजासि॑ मघवञ्छफारुज॑: ।
अस्मिन्त्सु ते सव॑ने अस्त्वोक्त्यंद्ग सुत इष्टौ म॑घवन्बोध्याभ॑ग: ॥९॥
गोभि॑ष्टरेमाम॑तिं दुरेवां यवे॑न क्षुधं॑ पुरुहूत विश्वा॑म् ।
वयं राज॑भि: प्रथमा धना॑न्यस्माके॑न वृजने॑ना जयेम ॥१०॥
बृहस्पति॑र्न: परि॑ पातु पश्चादुतोत्त॑रस्मादध॑रादघायो: ।
इन्द्र॑: पुरस्ता॑दुत म॑ध्यतो न: सखा सखि॑भ्यो वरि॑व: कृणोतु ॥११॥
 
 
 
पञ्चनवतितमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य  प्रथमर्चो गृत्समद: द्वितीयादितृचस्य च सुदा: पैजवन ऋषी । इन्द्रो देवता: | प्रथमाया अष्टि:  द्वितीयादितृचस्य च शक्वरी छन्दांसि॥ (hindumantavya.blogspot.in)

 

त्रिक॑द्रुकेषु महिषो यवा॑शिरं तुविशुष्म॑स्तृपत्सोम॑मपिबद्विष्णु॑ना सुतं यथाव॑शत् ।
स ईं॑ ममाद महि कर्म कर्त॑वे महामुरुं सैनं॑ सश्चद्देवो देवं सत्यमिन्द्रं॑ सत्य इन्दु॑: ॥१॥
प्रो ष्व॑स्मै पुरोरथमिन्द्रा॑य शूषम॑र्चत ।
अभीके॑ चिदु लोककृत्संगे समत्सु॑ वृत्रहास्माकं॑ बोधि चोदिता नभ॑न्तामन्यकेषां॑ ज्याका अधि धन्व॑सु ॥२॥
त्वं सिन्धूँरवा॑सृजोऽधराचो अहन्नहि॑म् ।
अशत्रुरि॑न्द्र जज्ञिषे विश्वं॑ पुष्यसि वार्यं तं त्वा परि॑ ष्वजामहे नभ॑न्तामन्यकेषां॑ ज्याका अधि धन्व॑सु ॥३॥
वि षु विश्वा अरा॑तयोऽर्यो न॑शन्त नो धिय॑: ।
अस्ता॑सि शत्र॑वे वधं यो न॑ इन्द्र जिघां॑सति या ते॑ रातिर्ददिर्वसु नभ॑न्तामन्यकेषां॑ ज्याका अधि धन्व॑सु ॥४॥
 
 

षण्णवतितमं सूक्तम्» चतुर्विंशत्यृचस्यास्य सूक्तस्य  प्रथमादिदशर्चां पूरण: एकादश्यादिषण्णां रक्षोहा: सप्तदश्यादिसप्तानां ब्रह्मा  चतुर्विंश्याश्च प्रचेता ऋषय: ।  प्रथमादिपञ्चानामिन्द्र:  षष्ठ्यादिचतसृणामिन्द्राग्नी आयुर्यक्ष्मनाशनञ्च  दशम्या आयु: एकादश्यादिषण्णां गर्भसंस्रावे प्रायश्चित्तम् सप्तदश्यादिसप्तानां यक्ष्मविबर्हणम्  चतुर्विंश्याश्च दु:स्वप्ननाशनं देवता: |  प्रथमाद्यष्टानां त्रिष्टुप्  नवम्या: शक्वरीगर्भा जगती ८ २ दशम्यादिनवानां चतुर्विंश्याश्चानुष्टुप्  एकोनविंश्या: ककुम्मत्यनुष्टुप्  विंश्याश्चतुष्पदा भुरिगुष्णिक्  एकविंश्या उपरिष्टाद्विराड्बृहती  द्वाविंश्या उष्णिग्गर्भा निचृदनुष्टुप्
 त्रयोविंश्याश्च पथ्यापङ्क्तिश्छन्दांसि॥ (hindumantavya.blogspot.in)


तीव्रस्याभिव॑यसो अस्य पा॑हि सर्वरथा वि हरी॑ इह मु॑ञ्च ।
इन्द्र मा त्वा यज॑मानासो अन्ये नि री॑रमन्तुभ्य॑मिमे सुतास॑: ॥१॥
तुभ्यं॑ सुतास्तुभ्य॑मु सोत्वा॑सस्त्वां गिर: श्वात्र्या आ ह्व॑यन्ति ।
इन्द्रेदमद्य सव॑नं जुषाणो विश्व॑स्य विद्वाँ इह पा॑हि सोम॑म् ॥२॥
य उ॑शता मन॑सा सोम॑मस्मै सर्वहृदा देवका॑म: सुनोति॑ ।
न गा इन्द्रस्तस्य परा॑ ददाति प्रशस्तमिच्चारु॑मस्मै कृणोति ॥३॥
अनु॑स्पष्टो भवत्येषो अ॑स्य यो अ॑स्मै रेवान्न सुनोति सोम॑म् ।
निर॑रत्नौ मघवा तं द॑धाति ब्रह्मद्विषो॑ हन्त्यना॑नुदिष्ट: ॥४॥
अश्वायन्तो॑ गव्यन्तो॑ वाजय॑न्तो हवा॑महे त्वोप॑गन्तवा उ॑ ।
आभूष॑न्तस्ते सुमतौ नवा॑यां वयमि॑न्द्र त्वा शुनं हु॑वेम ॥५॥
मुञ्चामि॑ त्वा हविषा जीव॑नाय कम॑ज्ञातयक्ष्मादुत रा॑जयक्ष्मात् ।
ग्राहि॑र्जग्राह यद्येतदे॑नं तस्या॑ इन्द्राग्नी प्र मु॑मुक्तमेनम् ॥६॥
यदि॑ क्षितायुर्यदि॑ वा परे॑तो यदि॑ मृत्योर॑न्तिकं नीद्गत एव ।
तमा ह॑रामि निरृ॑तेरुपस्थादस्पा॑र्शमेनं शतशा॑रदाय ॥७॥
सहस्राक्षेण॑ शतवी॑र्येण शतायु॑षा हविषाहा॑र्षमेनम् ।
इन्द्रो यथै॑नं शरदो नयात्यति विश्व॑स्य दुरितस्य॑ पारम् ॥८॥
शतं जी॑व शरदो वर्ध॑मान: शतं हे॑मन्ताञ्छतमु॑ वसन्तान् ।
शतं त इन्द्रो॑ अग्नि: स॑विता बृहस्पति॑: शतायु॑षा हविषाहा॑र्षमेनम् ॥९॥
आहा॑र्षमवि॑दं त्वा पुनरागा: पुन॑र्णव: ।
सर्वा॑ङ्ग सर्वं॑ ते चक्षु: सर्वमायु॑श्च तेऽविदम् ॥१०॥
ब्रह्म॑णाग्नि: सं॑विदानो र॑क्षोहा बा॑धतामित: ।
अमी॑वा यस्ते गर्भं॑ दुर्णामा योनि॑माशये॑ ॥११॥
यस्ते गर्भममी॑वा दुर्णामा योनि॑माशये॑ ।
अग्निष्टं ब्रह्म॑णा सह निष्क्रव्याद॑मनीनशत् ॥१२॥
यस्ते हन्ति॑ पतय॑न्तं निषत्स्नुं य: स॑रीसृपम् ।
जातं यस्ते जिघां॑सति तमितो ना॑शयामसि ॥१३॥
यस्त॑ ऊरू विहर॑त्यन्तरा दम्प॑ती शये॑ ।
योनिं यो अन्तरारेळ्हि तमितो ना॑शयामसि ॥१४॥
यस्त्वा भ्राता पति॑र्भूत्वा जारो भूत्वा निपद्य॑ते ।
प्रजां यस्ते जिघां॑सति तमितो ना॑शयामसि ॥१५॥
यस्त्वा स्वप्ने॑न तम॑सा मोहयित्वा निपद्य॑ते ।
प्रजां यस्ते जिघां॑सति तमितो ना॑शयामसि ॥१६॥
अक्षीभ्यां॑ ते नासि॑काभ्यां कर्णा॑भ्यां छुबु॑कादधि॑ ।
यक्ष्मं॑ शीर्षण्यंद्ग मस्तिष्का॑ज्जिह्वाया वि वृ॑हामि ते ॥१७॥
ग्रीवाभ्य॑स्त उष्णिहा॑भ्य: कीक॑साभ्यो अनूक्याद्गत् ।
यक्ष्मं॑ दोषण्य१मंसा॑भ्यां बाहुभ्यां वि वृ॑हामि ते ॥१८॥
हृद॑यात्ते परि॑ क्लोम्नो हली॑क्ष्णात्पार्श्वाभ्या॑म् ।
यक्ष्मं मत॑स्नाभ्यां प्लीह्नो यक्नस्ते वि वृ॑हामसि ॥१९॥
आन्त्रेभ्य॑स्ते गुदा॑भ्यो वनिष्ठोरुदरादधि॑ ।
यक्ष्मं॑ कुक्षिभ्यां॑ प्लाशेर्नाभ्या वि वृ॑हामि ते ॥२०॥
ऊरुभ्यां॑ ते अष्ठीवद्भ्यां पार्ष्णि॑भ्यां प्रप॑दाभ्याम् ।
यक्ष्मं॑ भसद्यं१ श्रोणि॑भ्यां भास॑दं भांस॑सो वि वृ॑हामि ते ॥२१॥
अस्थिभ्य॑स्ते मज्जभ्य: स्नाव॑भ्यो धमनि॑भ्य:
यक्षमं॑ पाणिभ्या॑मङ्गुलि॑भ्यो नखेभ्यो वि वृ॑हामि ते ॥२२॥
अङ्गे॑अङ्गे लोम्नि॑लोम्नि यस्ते पर्व॑णिपर्वणि ।
यक्षं॑ त्वचस्यंद्ग ते वयं कश्यप॑स्य वीबर्हेण विष्व॑ञ्चं वि वृ॑हामसि ॥२३॥
अपे॑हि मनसस्पतेऽप॑ काम परश्च॑र ।
परो निरृ॑त्या आ च॑क्ष्व बहुधा जीव॑तो मन॑: ॥२४॥
 
 
सप्तनवतितमं सूक्तम्» तृचस्यास्य सूक्तस्य कलिरृषि: । इन्द्रो देवता: |
 प्रथमाद्वितीययोरृचो: प्रगाथ:  तृतीयायाश्च बृहती छन्दांसि॥ (hindumantavya.blogspot.in)


वयमे॑नमिदा ह्योपी॑पेमेह वज्रिण॑म् ।
तस्मा॑ उ अद्य स॑मना सुतं भरा नूनं भू॑षत श्रुते ॥१॥
वृक॑श्चिदस्य वारण उ॑रामथिरा वयुने॑षु भूषति ।
सेमं न स्तोमं॑ जुजुषाण आ गहीन्द्र प्र चित्रया॑ धिया ॥२॥
कदू न्व१स्याकृ॑तमिन्द्र॑स्यास्ति पौंस्य॑म् ।
केनो नु कं श्रोम॑तेन न शु॑श्रुवे जनुष: परि॑ वृत्रहा ॥३॥
 
 
 
अष्टनवतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य शंयुरृषि: । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)

 
त्वामिद्धि हवा॑महे साता वाज॑स्य कारव॑: ।
त्वां वृत्रेष्वि॑न्द्र सत्प॑तिं नरस्त्वां काष्ठास्वर्व॑त: ॥१॥
स त्वं न॑श्चित्र वज्रहस्त धृष्णुया मह स्त॑वानो अ॑द्रिव: ।
गामश्वं॑ रथ्यद्गमिन्द्र सं कि॑र सत्रा वाजं न जिग्युषे॑ ॥२॥
 
 
 
नवनवतितमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य मेध्यातिथिरृषि: । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)

 

अभि त्वा॑ पूर्वपी॑तय इन्द्र स्तोमे॑भिरायव॑: ।
समीचीनास॑ ऋभव: सम॑स्वरन्रुद्रा गृ॑णन्त पूर्व्य॑म् ॥१॥
अस्येदिन्द्रो॑ वावृधे वृष्ण्यं शवो मदे॑ सुतस्य विष्ण॑वि ।
अद्या तम॑स्य महिमान॑मायवोऽनु॑ ष्टुवन्ति पूर्वथा॑ ॥२॥
 
 

शततमं सूक्तम्» तृचस्यास्य सूक्तस्य नृमेध ऋषि: | इन्द्रो देवता: | उष्णिक् छन्द:॥ (hindumantavya.blogspot.in)


अधा ही॑न्द्र गिर्वण उप॑ त्वा कामा॑न्मह: स॑सृज्महे॑ ।
उदेव यन्त॑ उदभि॑: ॥१॥
वार्ण त्वा॑ यव्याभिर्वर्ध॑न्ति शूर ब्रह्मा॑णि ।
वावृध्वांसं॑ चिदद्रिवो दिवेदि॑वे ॥२॥
युञ्जन्ति हरी॑ इषिरस्य गाथ॑योरौ रथ॑ उरुयु॑गे ।
इन्द्रवाहा॑ वचोयुजा॑ ॥३॥
 

एकोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य मेध्यातिथिरृषि: । अग्निर्देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


अग्निं दूतं वृ॑णीमहे होता॑रं विश्ववे॑दसम् ।
अस्य यज्ञस्य॑ सुक्रतु॑म् ॥१॥
अग्निम॑ग्निं हवी॑मभि: सदा॑ हवन्त विश्पति॑म् ।
हव्यवाहं॑ पुरुप्रियम् ॥२॥
अग्ने॑ देवाँ इहा व॑ह जज्ञानो वृक्तब॑र्हिषे ।
असि होता॑ न ईड्य॑: ॥३॥
 
 
 
 
 द्व्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य विश्वामित्र ऋषि: | अग्निर्देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)

 

ईळेन्यो॑ नमस्यद्गस्तिरस्तमां॑सि दर्शत: ।
समग्निरि॑ध्यते वृषा॑ ॥१॥
वृषो॑ अग्नि: समि॑ध्यतेऽश्वो न दे॑ववाह॑न: ।
तं हविष्म॑न्त: ईळते ॥२॥
वृष॑णं त्वा वयं वृ॑षन्वृष॑ण: समि॑धीमहि ।
अग्ने दीद्य॑तं बृहत् ॥३॥
 
 

त्र्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य  प्रथमर्च: सुदीतिपुरुमीढौ तयोरन्यतरो वा द्वितीयातृतीययोश्च भर्ग ऋषय: । अग्निर्देवता: | प्रथमाया बृहती  द्वितीयातृतीययोश्च प्रगाथश्छन्दांसि॥ (hindumantavya.blogspot.in)


अग्निमी॑ळिष्वाव॑से गाथा॑भि: शीरशो॑चिषम् ।
अग्निं राये पु॑रुमीळ्ह श्रुतं नरोऽग्निं सु॑दीतये॑ छर्दि: ॥१॥
अग्न आ या॑ह्यग्निभिर्होता॑रं त्वा वृणीमहे ।
आ त्वाम॑नक्तु प्रय॑ता हविष्म॑ती यजि॑ष्ठं बर्हिरासदे॑ ॥२॥
अच्छा हि त्वा॑ सहस: सूनो अङ्गिर: स्रुचश्चर॑न्त्यध्वरे ।
ऊर्जो नपा॑तं घृतके॑शमीमहेऽग्निं यज्ञेषु॑ पूर्व्यम् ॥३॥
 
 
 
 
चतुरुत्तरशततमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य  प्रथमाद्वितीययोरृचोर्मेध्यातिथि:
 तृतीयाचतुर्थ्योश्च नृमेध ऋषी । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)

 

इमा उ॑ त्वा पुरूवसो गिरो॑ वर्धन्तु या मम॑ ।
पावकव॑र्णा: शुच॑यो विपश्चितोऽभि स्तोमै॑रनूष्त ॥१॥
अयं सहस्रमृषि॑भि: सह॑स्कृत: समुद्र इ॑व पप्रथे ।
सत्य: सो अ॑स्य महिमा गृ॑णे शवो॑ यज्ञेषु॑ विप्रराज्ये॑ ॥२॥
आ नो विश्वा॑सु हव्य इन्द्र॑: समत्सु॑ भूषतु ।
उप ब्रह्मा॑णि सव॑नानि वृत्रहा प॑रमज्या ऋची॑षम: ॥३॥
त्वं दाता प्र॑थमो राध॑सामस्यसि॑ सत्य ई॑शानकृत् ।
तुविद्युम्नस्य युज्या वृ॑णीमहे पुत्रस्य शव॑सो मह: ॥४॥
 
 
 
पञ्चोत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य  प्रथमादितृचस्य नृमेध:  चतुर्थीपञ्चम्योश्च पुरुहन्मा ऋषी । इन्द्रो देवता: |  प्रथमाद्वितीयाचतुर्थीपञ्चमीनामृचां प्रगाथ:  तृतीयायाश्च बृहती छन्दांसि॥ (hindumantavya.blogspot.in)


त्वमि॑न्द्र प्रतू॑र्तिष्वभि विश्वा॑ असि स्पृध॑: ।
अशस्तिहा ज॑निता वि॑श्वतूर॑सि त्वं तू॑र्य तरुष्यत: ॥१॥
अनु॑ ते शुष्मं॑ तुरय॑न्तमीयतु: क्षोणी शिशुं न मातरा॑ ।
विश्वा॑स्ते स्पृध॑: श्नथयन्त मन्यवे॑ वृत्रं यदि॑न्द्र तूर्व॑सि ॥२॥
इत ऊती वो॑ अजरं॑ प्रहेतारमप्र॑हितम् ।
आशुं जेता॑रं हेता॑रं रथीत॑ममतू॑र्तं तुग्र्यावृध॑म् ॥३॥
यो राजा॑ चर्षणीनां याता रथे॑भिरध्रि॑गु: ।
विश्वा॑सां तरुता पृत॑नानां ज्येष्ठो यो वृ॑त्रहा गृणे ॥४॥
इन्द्रं तं शु॑म्भ पुरुहन्मन्नव॑से यस्य॑ द्विता वि॑धर्तरि॑ ।
हस्ता॑य वज्र: प्रति॑ धायि दर्शतो महो दिवे न सूर्य॑: ॥५॥
 
 
 
षडुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य गोषूक्त्यश्वसूक्तिनावृषी । इन्द्रो देवता: | उष्णिक् छन्द:॥ (hindumantavya.blogspot.in)


तव त्यदि॑न्द्रियं बृहत्तव शुष्म॑मुत क्रतु॑म् ।
वज्रं॑ शिशाति धिषणा वरे॑ण्यम् ॥१॥
तव द्यौरि॑न्द्र पौंस्यं॑ पृथिवी व॑र्धति श्रव॑: ।
त्वामाप: पर्व॑तासश्च हिन्विरे ॥२॥
त्वां विष्णु॑र्बृहन्क्षयो॑ मित्रो गृ॑णाति वरु॑ण: ।
त्वां शर्धो॑ मदत्यनु मारु॑तम् ॥३॥
 
 
 
सप्तोत्तरशततमं सूक्तम्» पञ्चदशर्चस्यास्य सूक्तस्य  प्रथमादितृचस्य वत्स:  चतुर्थ्यादिनवर्चां बृहद्दिवोऽथर्वा त्रयोदशीचतुर्दश्योर्ब्रह्मा  पञ्चदश्याश्च कुत्स ऋषय: ।  प्रथमादितृचस्येन्द्र:  चतुर्थ्यादिनवानां वरुण: त्रयोदश्यादितृचस्य च सूर्यो देवता: |  प्रथमादितृचस्य गायत्री चतुर्थ्याद्यष्टानाञ्चतुर्दशीपञ्चदश्योश्च त्रिष्टुप्  द्वादश्या भुरिक्परातिजागता त्रिष्टुप्  त्रयोदश्याश्चार्षी पङ्क्तिश्छन्दांसि॥ (hindumantavya.blogspot.in)


सम॑स्य मन्यवे विशो विश्वा॑ नमन्त कृष्टय॑: ।
समुद्राये॑व सिन्ध॑व: ॥१॥
ओजस्तद॑स्य तित्विष उभे यत्समव॑र्तयत् ।
इन्द्रश्चर्मे॑व रोद॑सी ॥२॥
वि चि॑द्वृत्रस्य दोध॑तो वज्रे॑ण शतप॑र्वणा ।
शिरो॑ बिभेद वृष्णिना॑ ॥३॥
तदिदा॑स भुव॑नेषु ज्येष्ठं यतो॑ जज्ञ उग्रस्त्वेषनृ॑म्ण: ।
सद्यो ज॑ज्ञानो नि रि॑णाति शत्रूननु यदे॑नं मद॑न्ति विश्व ऊमा॑: ॥४॥
वावृधान: शव॑सा भूर्यो॑जा: शत्रु॑र्दासाय॑ भियसं॑ दधाति ।
अव्य॑नच्च व्यनच्च सस्नि सं ते॑ नवन्त प्रभृ॑ता मदे॑षु ॥५॥
त्वे क्रतुमपि॑ पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमा॑: ।
स्वादो: स्वादी॑य: स्वादुना॑ सृजा समद: सु मधु मधु॑नाभि यो॑धी: ॥६॥
यदि॑ चिन्नु त्वा धना जय॑न्तं रणे॑रणे अनुमद॑न्ति विप्रा॑: ।
ओजी॑य: शुष्मिन्त्स्थिरमा त॑नुष्व मा त्वा॑ दभन्दुरेवा॑स: कशोका॑: ॥७॥
त्वया॑ वयं शा॑शद्महे रणे॑षु प्रपश्य॑न्तो युधेन्या॑नि भूरि॑ ।
चोदया॑मि त आयु॑धा वचो॑भि: सं ते॑ शिशामि ब्रह्म॑णा वयां॑सि ॥८॥
नि तद्द॑धिषेऽव॑रे परे॑ च यस्मिन्नाविथाव॑सा दुरोणे ।
आ स्था॑पयत मातरं॑ जिगत्नुमत॑ इन्वत कर्व॑राणि भूरि॑ ॥९॥
स्तुष्व व॑र्ष्मन्पुरुवर्त्मा॑नं समृभ्वा॑णमिनत॑ममाप्तमाप्त्याना॑म् ।
आ द॑र्शति शव॑सा भूर्यो॑जा: प्र स॑क्षति प्रतिमानं॑ पृथिव्या: ॥१०॥
इमा ब्रह्म॑ बृहद्दि॑व: कृणवदिन्द्रा॑य शूषम॑ग्रिय: स्वर्षा: ।
महो गोत्रस्य॑ क्षयति स्वराजा तुर॑श्चिद्विश्व॑मर्णवत्तप॑स्वान् ॥११॥
एवा महान्बृहद्दि॑वो अथर्वावो॑चत्स्वां तन्व१मिन्द्र॑मेव ।
स्वसा॑रौ मातरिभ्व॑री अरिप्रे हिन्वन्ति॑ चैनेशव॑सा वर्धय॑न्ति च ॥१२॥
चित्रं देवानां॑ केतुरनी॑कं ज्योति॑ष्मान्प्रदिश: सूर्य॑ उद्यन् ।
दिवाकरोऽति॑ द्युम्नैस्तमां॑सि विश्वा॑तारीद्दुरितानि॑ शुक्र: ॥१३॥
चित्रं देवानामुद॑गादनी॑कं चक्षु॑र्मित्रस्य वरु॑णस्याग्ने: ।
आप्राद्द्यावा॑पृथिवी अन्तरि॑क्षं सूर्य॑ आत्मा जग॑तस्तस्थुष॑श्च ॥१४॥
सूर्यो॑ देवीमुषसं रोच॑मानां मर्यो न योषा॑मभ्येद्गति पश्चात् ।
यत्रा नरो॑ देवयन्तो॑ युगानि॑ वितन्वते प्रति॑ भद्राय॑ भद्रम् ॥१५॥
 
 
 
अष्टोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य नृमेध ऋषि: | इन्द्रो देवता: |  प्रथमर्चो गायत्री  द्वितीयाया: ककुबुष्णिक्  तृतीयायाश्च पुर उष्णिक् छन्दांसि॥ (hindumantavya.blogspot.in)


त्वं न॑ इन्द्रा भ॑रँ ओजो॑ नृम्णं श॑तक्रतो विचर्षणे ।
आ वीरं पृ॑तनाषह॑म् ॥१॥
त्वं हि न॑: पिता व॑सो त्वं माता श॑तक्रतो बभूवि॑थ ।
अधा॑ ते सुम्नमी॑महे ॥२॥
त्वां शु॑ष्मिन्पुरुहूत वाजयन्तमुप॑ ब्रुवे शतक्रतो ।
स नो॑ रास्व सुवीर्य॑म् ॥३॥
 
 
 
नवोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य गोतम ऋषि: | इन्द्रो देवता: | पथ्यापङ्क्तिश्छन्द:॥ (hindumantavya.blogspot.in)


स्वादोरित्था वि॑षूवतो मध्व॑: पिबन्ति गौर्यद्ग: ।
या इन्द्रे॑ण सयाव॑रीर्वृष्णा मद॑न्ति शोभसे वस्वीरनु॑ स्वराज्य॑म् ॥१॥
ता अ॑स्य पृशनायुव: सोमं॑ श्रीणन्ति पृश्न॑य: ।
प्रिया इन्द्र॑स्य धेनवो वज्रं॑ हिन्वन्ति साय॑कं वस्वीरनु॑ स्वराज्य॑म् ॥२॥
ता अ॑स्य नम॑सा सह॑: सपर्यन्ति प्रचे॑तस: ।
व्रतान्य॑स्य सश्चिरे पुरूणि॑ पूर्वचि॑त्तये वस्वीरनु॑ स्वराज्य॑म् ॥३॥
 
 
 
दशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य श्रुतकक्ष: सुकक्षो वा ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


इन्द्रा॑य मद्व॑ने सुतं परि॑ ष्टोभन्तु नो गिर॑: ।
अर्कम॑र्चन्तु कारव॑: ॥१॥
यस्मिन्विश्वा अधि श्रियो रण॑न्ति सप्त संसद॑: ।
इन्द्रं॑ सुते ह॑वामहे ॥२॥
त्रिक॑द्रुकेषु चेत॑नं देवासो॑ यज्ञम॑त्नत ।
तमिद्व॑र्धन्तु नो गिर॑: ॥३॥
 
 

एकादशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य पर्वत ऋषि: | इन्द्रो देवता: | उष्णिक् छन्द:॥ (hindumantavya.blogspot.in)


यत्सोम॑मिन्द्र विष्ण॑वि यद्वा॑ घ त्रित आप्त्ये ।
यद्वा॑ मरुत्सु मन्द॑से समिन्दु॑भि: ॥१॥
यद्वा॑ शक्र परावति॑ समुद्रे अधि मन्द॑से ।
अस्माकमित्सुते र॑णा समिन्दु॑भि: ॥२॥
यद्वासि॑ सुन्वतो वृधो यज॑मानस्य सत्पते ।
उक्थे वा यस्य रण्य॑सि समिन्दु॑भि: ॥३॥
 
 

द्वादशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य सुकक्ष ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


यदद्य कच्च॑ वृत्रहन्नुदगा॑ अभि सू॑र्य ।
सर्वं तदि॑न्द्र ते वशे॑ ॥१॥
यद्वा॑ प्रवृद्ध सत्पते न म॑रा इति मन्य॑से ।
उतो तत्सत्यमित्तव॑ ॥२॥
ये सोमा॑स: परावति ये अ॑र्वावति॑ सुन्विरे ।
सर्वांस्ताँ इ॑न्द्र गच्छसि ॥३॥
 
 

त्रयोदशोत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य भर्ग ऋषि: | इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


उभयं॑ शृणव॑च्च न इन्द्रो॑ अर्वागिदं वच॑: ।
सत्राच्या॑ मघवा सोम॑पीतये धिया शवि॑ष्ठ आ ग॑मत् ॥१॥
तं हि स्वराजं॑ वृषभं तमोज॑से धिषणे॑ निष्टतक्षतु॑: ।
उतोपमानां॑ प्रथमो नि षी॑दसि सोम॑कामं हि ते मन॑: ॥२॥
 
 
चतुर्दशोत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य सौभरिरृषि: । इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


अभ्रातृव्योऽअना त्वमना॑पिरिन्द्र जनुषा॑ सनाद॑सि ।
युधेदा॑पित्वमि॑च्छसे ॥१॥
नकी॑ रेवन्तं॑ सख्याय॑ विन्दसे पीय॑न्ति ते सुराश्वद्ग: ।
यदा कृणोषि॑ नदनुं समू॑हस्यादित्पितेव॑ हूयसे ॥२॥
 
 

पञ्चदशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य वत्स ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


अहमिद्धि पितुष्परि॑ मेधामृतस्य॑ जग्रभ॑ ।
अहं सूर्य॑ इवाजनि ॥१॥
अहं प्रत्नेन मन्म॑ना गिर॑: शुम्भामि कण्ववत् ।
येनेन्द्र: शुष्ममिद्दधे ॥२॥
ये त्वामि॑न्द्र न तु॑ष्टुवुरृष॑यो ये च॑ तुष्टुवु: ।
ममेद्व॑र्धस्व सुष्टु॑त: ॥३॥
 
 

षोडशोत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य मेध्यातिथिरृषि: । इन्द्रो देवता: | बृहती छन्द:॥ (hindumantavya.blogspot.in)


मा भू॑म निष्ट्या॑ इवेन्द्र त्वदर॑णा इव ।
वना॑नि नि प्र॑जहितान्य॑द्रिवो दुरोषा॑सो अमन्महि ॥१॥
अम॑न्महीद॑नाशवो॑ऽनुग्रास॑श्च वृत्रहन् ।
सकृत्सु ते॑ महता शू॑र राधसानु स्तोमं॑ मुदीमहि ॥२॥
 
 
 
सप्तदशोत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य वसिष्ठ ऋषि: | इन्द्र देवता: | विराड्गायत्री छन्द:॥ (hindumantavya.blogspot.in)


पिबा सोम॑मिन्द्र मन्द॑तु त्वा यं ते॑ सुषाव॑ हर्यश्वाद्रि॑: ।
सोतुर्बाहुभ्यां सुय॑तो नार्वा॑ ॥१॥
यस्ते मदो युज्यश्चारुरस्ति येन॑ वृत्राणि॑ हर्यश्व हंसि॑ ।
स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥२॥
बोधा सु मे॑ मघवन्वाचमेमां यां ते वसि॑ष्ठो अर्च॑ति प्रश॑स्तिम् ।
इमा ब्रह्म॑ सधमादे॑ जुषस्व ॥३॥
 
 
 
अष्टादशोत्तरशततमं सूक्तम्» चतुरृचस्यास्य सूक्तस्य  प्रथमाद्वितीययोरृचोर्भर्ग: तृतीयाचतुर्थ्योश्च मेध्यातिथिरृषी । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


शग्ध्यू३षु श॑चीपत इन्द्र विश्वा॑भिरूतिभि॑: ।
भगं न हि त्वा॑ यशसं॑ वसुविदमनु॑ शूर चरा॑मसि ॥१॥
पौरो अश्व॑स्य पुरुकृद्गवा॑मस्युत्सो॑ देव हिरण्यय॑: ।
नकिर्हि दानं॑ परिमर्धि॑षत्त्वे यद्यद्यामि तदा भ॑र ॥२॥
इन्द्रमिद्देवता॑तय इन्द्रं॑ प्रयत्यद्गध्वरे ।
इन्द्रं॑ समीके वनिनो॑ हवामह इन्द्रं धन॑स्य सातये॑ ॥३॥
इन्द्रो॑ मह्ना रोद॑सी पप्रथच्छव इन्द्र: सूर्य॑मरोचयत् ।
इन्द्रे॑ ह विश्वा भुव॑नानि येमिर इन्द्रे॑ सुवानास इन्द॑व: ॥४॥
 
 

एकोनविंशत्युत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य  प्रथमर्च आयु:  द्वितीयायाश्च श्रुष्टिगुरृषी । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


अस्ता॑वि मन्म॑ पूर्व्यं ब्रह्मेन्द्रा॑य वोचत ।
पूर्वीरृतस्य॑ बृहतीर॑नूषत स्तोतुर्मेघा अ॑सृक्षत ॥१॥
तुरण्यवो मधु॑मन्तं घृतश्चुतं विप्रा॑सो अर्कमा॑नृचु: ।
अस्मे रयि: प॑प्रथे वृष्ण्यं शवोऽस्मे सु॑वानास इन्द॑व: ॥२॥
 
 
विंशत्युत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य देवातिथिरृषि: । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


यदि॑न्द्र प्रागपागुदङ्न्यद्गग्वा हूयसे नृभि॑: ।
सिमा॑ पुरू नृषू॑तो अस्यानवेऽसि॑ प्रशर्ध तुर्वशे॑ ॥१॥
यद्वा रुमे रुश॑मे श्याव॑के कृप इन्द्र॑ मादय॑से सचा॑ ।
कण्वा॑सस्त्वा ब्रह्म॑भि स्तोम॑वाहस इन्द्रा य॑च्छन्त्या ग॑हि ॥२॥
 
 

एकविंशत्युत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य देवातिथिरृषि: । इन्द्रो देवता: | प्रगाथश्छन्द:॥ (hindumantavya.blogspot.in)


अभि त्वा॑ शूर नोनुमोऽदु॑ग्धा इव धेनव॑: ।
ईशा॑नमस्य जग॑त: स्वर्दृशमीशा॑नमिन्द्र तस्थुष॑: ॥१॥
न त्वावाँ॑ अन्यो दिव्यो न पार्थि॑वो न जातो न ज॑निष्यते ।
अश्वायन्तो॑ मघवन्निन्द्र वाजिनो॑ गव्यन्त॑स्त्वा हवामहे ॥२॥
 
 

द्वाविंशत्युत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य शुन:शेप ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


रेवती॑र्न: सधमाद इन्द्रे॑ सन्तु तुविवा॑जा: ।
क्षुमन्तो याभिर्मदे॑म ॥१॥
आ घ त्वावान्त्मनाप्त स्तोतृभ्यो॑ धृष्णवियान: ।
ऋणोरक्षं न चक्रयोद्ग: ॥२॥
आ यद्दुव॑: शतक्रतवा कामं॑ जरितॄणाम् ।
ऋणोरक्षं न शची॑भि: ॥३॥
 
 

त्रयोविंशत्युत्तरशततमं सूक्तम्» द्व्यृचस्यास्य सूक्तस्य कुत्स ऋषि: | सूर्यो देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


तत्सूर्य॑स्य देवत्वं तन्म॑हित्वं मध्या कर्तोर्वित॑तं सं ज॑भार ।
यदेदयु॑क्त हरित॑: सधस्थादाद्रात्री वास॑स्तनुते सिमस्मै॑ ॥१॥
तन्मित्रस्य वरु॑णस्याभिचक्षे सूर्यो॑ रूपं कृ॑णुते द्योरुपस्थे॑ ।
अनन्तमन्यद्रुश॑दस्य प्राज॑: कृष्णमन्यद्धरित: सं भ॑रन्ति ॥२॥
 
 
 
चतुर्विंशत्युत्तरशततमं सूक्तम्» षडृचस्यास्य सूक्तस्य वामदेव ऋषि: | इन्द्रो देवता: | प्रथमाद्वितीययोरृचोर्गायत्री  तृतीयाया: पादनिचृद्गायत्री चतुर्थ्यादितृचस्य च त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


कया॑ नश्चित्र आ भु॑वदूती सदावृ॑ध: सखा॑ ।
कया शचि॑ष्ठया वृता ॥१॥
कस्त्वा॑ सत्यो मदा॑नां मंहि॑ष्ठो मत्सदन्ध॑स: ।
दृळ्हा चि॑दारुजे वसु॑ ॥२॥
अभी षु ण: सखी॑नामविता ज॑रितॄणाम् ।
शतं भ॑वास्यूतिभि॑: ॥३॥
इमा नु कं भुव॑ना सीषधामेन्द्र॑श्च विश्वे॑ च देवा: ।
यज्ञं च॑ नस्तन्वंद्ग च प्रजां चा॑दित्यैरिन्द्र॑: सह ची॑कॢपाति ॥४॥
आदित्यैरिन्द्र: सग॑णो मरुद्भि॑रस्माकं॑ भूत्वविता तनूना॑म् ।
हत्वाय॑ देवा असु॑रान्यदाय॑न्देवा दे॑वत्वम॑भिरक्ष॑माणा: ॥५॥
प्रत्यञ्च॑मर्कम॑नयञ्छची॑भिरादित्स्वधामि॑षिरां पर्य॑पश्यन् ।
अया वाजं॑ देवहि॑तं सनेम मदे॑म शतहि॑मा: सुवीरा॑: ॥६॥
 
 

पञ्चविंशत्युत्तरशततमं सूक्तम्» सप्तर्चस्यास्य सूक्तस्य सुकीर्तिरृषि: ।  ६ प्रथमादितृचस्य षष्ठीसप्तम्योरृचोश्चेन्द्र:  चतुर्थीपञ्चम्योश्चाश्विनौ देवता: | - प्रथमादितृचस्य पञ्चम्यादितृचस्य च त्रिष्टुप्  चतुर्थ्याश्चानुष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 
अपे॑न्द्र प्राचो॑ मघवन्नमित्रानपापा॑चो अभिभूते नुदस्व ।
अपोदी॑चो अप॑ शूराधराच॑ उरौ यथा तव शर्मन्मदे॑म ॥१॥
कुविदङ्ग यव॑मन्तो यवं॑ चिद्यथा दान्त्य॑नुपूर्वं वियूय॑ ।
इहेहै॑षां कृणुहि भोज॑नानि ये बर्हिषो नमो॑वृक्तिं न जग्मु: ॥२॥
नहि स्थूर्यृ॑तुथा यातमस्ति नोत श्रवो॑ विविदे संगमेषु॑ ।
गव्यन्त इन्द्रं॑ सख्याय विप्रा॑ अश्वायन्तो वृष॑णं वाजय॑न्त: ॥३॥
युवं सुराम॑मश्विना नमु॑चावासुरे सचा॑ ।
विपिपाना शु॑भस्पती इन्द्रं कर्म॑स्वावतम् ॥४॥
पुत्रमि॑व पितरा॑वश्विनोभेन्द्रावथु: काव्यै॑र्दंसना॑भि: ।
यत्सुरामं व्यपि॑ब: शची॑भि: सर॑स्वती त्वा मघवन्नभिष्णक् ॥५॥
इन्द्र॑: सुत्रामा स्ववाँ अवो॑भि: सुमृडीको भ॑वतु विश्ववे॑दा: ।
बाध॑तां द्वेषो अभ॑यं न: कृणोतु सुवीर्य॑स्य पत॑य: स्याम ॥६॥
स सुत्रामा स्ववाँ इन्द्रो॑ अस्मदाराच्चिद्द्वेष॑: सनुतर्यु॑योतु ।
तस्य॑ वयं सु॑मतौ यज्ञियस्यापि॑ भद्रे सौ॑मनसे स्या॑म ॥७॥
 
 

षड्विंशत्युत्तरशततमं सूक्तम्» त्रयोविंशत्यृचस्यास्य सूक्तस्य वृषाकपिरृषिरिन्द्राणी च ऋषिका । इन्द्रो देवता: | पङ्क्तिश्छन्द:॥ (hindumantavya.blogspot.in)


वि हि सोतोरसृ॑क्षत नेन्द्रं॑ देवम॑मंसत ।
यत्राम॑दद्वृषाक॑पिरर्य: पुष्टेषु मत्स॑खा विश्व॑स्मादिन्द्र उत्त॑र: ॥१॥
परा ही॑न्द्र धाव॑सि वृषाक॑पेरति व्यथि॑: ।
नो अह प्र वि॑न्दस्यन्यत्र सोम॑पीतये विश्व॑स्मादिन्द्र उत्त॑र: ॥२॥
किमयं त्वां वृषाक॑पिश्चकार हरि॑तो मृग: ।
यस्मा॑ इरस्यसीदु न्व१र्यो वा॑ पुष्टिमद्वसु विश्व॑स्मादिन्द्र उत्त॑र: ॥३॥
यमिमं त्वं वृषाक॑पिं प्रियमि॑न्द्राभिरक्ष॑सि ।
श्वा न्व॑स्य जम्भिषदपि कर्णे॑ वराहयुर्विश्व॑स्मादिन्द्र उत्तर॑: ॥४॥
प्रिया तष्टानि॑ मे कपिर्व्य॑क्ता व्यद्गदूदुषत् ।
शिरो न्वद्गस्य राविषं न सुगं दुष्कृते॑ भुवं विश्व॑स्मादिन्द्र उत्त॑र: ॥५॥
न मत्स्त्री सु॑भसत्त॑रा न सुयाशु॑तरा भुवत् ।
न मत्प्रति॑च्यवीयसी न सक्थ्युद्य॑मीयसी विश्व॑स्मादिन्द्र उत्त॑र: ॥६॥
उवे अ॑म्ब सुलाभिके यथे॑वाङ्ग भ॑विष्यति॑ ।
भसन्मे॑ अम्ब सक्थि॑ मे शिरो॑ मे वीवद्ग हृष्यति विश्व॑स्मादिन्द्र उत्त॑र: ॥७॥
किं सु॑बाहो स्वङ्गुरे पृथु॑ष्टो पृथु॑जाघने ।
किं शू॑रपत्नि नस्त्वमभ्यद्गमीषि वृषाक॑पिं विश्व॑स्मादिन्द्र उत्त॑र: ॥८॥
अवीरा॑मिव मामयं शरारु॑रभि म॑न्यते ।
उताहम॑स्मि वीरिणीन्द्र॑पत्नी मरुत्स॑खा विश्व॑स्मादिन्द्र उत्त॑र: ॥९॥
संहोत्रं स्म॑ पुरा नारी सम॑नं वाव॑ गच्छति ।
वेधा ऋतस्य॑ वीरिणीन्द्र॑पत्नी महीयते विश्व॑स्मादिन्द्र उत्त॑र: ॥१०॥
इन्द्राणीमासु नारि॑षु सुभगा॑महम॑श्रवम् ।
नह्यद्गस्या अपरं चन जरसा मर॑ते पतिर्विश्व॑स्मादिन्द्र उत्त॑र: ॥११॥
नाहमि॑न्द्राणि रारण सख्यु॑र्वृषाक॑पेरृते ।
यस्येदमप्यं॑ हवि: प्रियं देवेषु गच्छ॑ति विश्व॑स्मादिन्द्र उत्त॑र: ॥१२॥
वृषा॑कपायि रेव॑ति सुपु॑त्र आदु सुस्नु॑षे ।
घस॑त्त इन्द्र॑ उक्षण॑: प्रियं का॑चित्करं हविर्विश्व॑स्मादिन्द्र उत्त॑र: ॥१३॥
उक्ष्णो हि मे पञ्च॑दश साकं पच॑न्ति विंशतिम् ।
उताहम॑द्मि पीव इदुभा कुक्षी पृ॑णन्ति मे विश्व॑स्मादिन्द्र उत्त॑र: ॥१४॥
वृषभो न तिग्मशृ॑ङ्गोऽन्तर्यूथेषु रोरु॑वत् ।
मन्थस्त॑ इन्द्र शं हृदे यं ते॑ सुनोति॑ भावयुर्विश्व॑स्मादिन्द्र उत्त॑र: ॥१५॥
न सेशे यस्य रम्ब॑तेऽन्तरा सक्थ्या३ कपृ॑त् ।
सेदी॑शे यस्य॑ रोमशं नि॑षेदुषो॑ विजृम्भ॑ते विश्व॑स्मादिन्द्र उत्त॑र: ॥१६॥
न सेशे यस्य॑ रोमशं नि॑षेदुषो॑ विजृम्भ॑ते ।
सेदी॑शे यस्य रम्ब॑तेऽन्तरा सक्थ्या३ कपृद्विश्व॑स्मादिन्द्र उत्त॑र: ॥१७॥
अयमि॑न्द्र वृषाक॑पि: पर॑स्वन्तं हतं वि॑दत् ।
असिं सूनां नवं॑ चरुमादेधस्यान आचि॑तं विश्व॑स्मादिन्द्र उत्त॑र: ॥८॥
अयमे॑मि विचाक॑शद्विचिन्वन्दासमार्य॑म् ।
पिबा॑मि पाकसुत्व॑नोऽभि धीर॑मचाकशं विश्व॑स्मादिन्द्र उत्त॑र: ॥१९॥
धन्व॑ च यत्कृन्तत्रं॑ च कति॑ स्वित्ता वि योज॑ना ।
नेदी॑यसो वृषाकपेऽस्तमेहि॑ गृहाँ उप विश्व॑स्मादिन्द्र उत्त॑र: ॥२०॥
पुनरेहि॑ वृषाकपे सुविता क॑ल्पयावहै ।
य एष स्व॑प्ननंशनोऽस्तमेषि॑ पथा पुनर्विश्व॑स्मादिन्द्र उत्त॑र: ॥२१॥
यदुद॑ञ्चो वृषाकपे गृहमिन्द्राज॑गन्तन ।
क्व१स्य पु॑ल्वघो मृग: कम॑गं जनयोप॑नो विश्व॑स्मादिन्द्र उत्त॑र: ॥२२॥
पर्शु॑र्ह नाम॑ मानवी साकं स॑सूव विंशतिम् ।
भद्रं भ॑ल त्यस्या॑ अभूद्यस्या॑ उदरमाम॑यद्विश्व॑स्मादिन्द्र उत्त॑र: ॥२३॥
 
 
 
सप्तविंशत्युत्तरशततमं खिलसूक्तम्»


इदं जना उप॑ श्रुत नराशंस स्तवि॑ष्यते ।
षष्टिं सहस्रा॑ नवतिं च॑ कौरम आ रुशमे॑षु दद्महे ॥१॥
उष्ट्रा यस्य॑ प्रवाहणो॑ वधूम॑न्तो द्विर्दश॑ ।
वर्ष्मा रथ॑स्य नि जि॑हीडते दिव ईषमा॑णा उपस्पृश॑: ॥२॥
एष इषाय॑ मामहे शतं निष्कान्दश स्रज॑: ।
त्रीणि॑ शतान्यर्व॑तां सहस्रा दश गोना॑म् ॥३॥
वच्य॑स्व रेभ॑ वच्यस्व वृक्षे न पक्वे शकुन॑: ।
नष्टे॑ जिह्वा च॑र्चरीति क्षुरो न भुरिजो॑रिव ॥४॥
प्र रेभासो॑ मनीषा वृषा गाव॑ इवेरते ।
अमोतपुत्र॑का एषाममोत॑ गा इवा॑सते ॥५॥
प्र रे॑भ धीं भ॑रस्व गोविदं॑ वसुविद॑म् ।
देवत्रेमां वाचं॑ स्रीणीहीषुर्नावी॑रस्तार॑म् ॥६॥
राज्ञो॑ विश्वजनी॑नस्य यो देवोमर्त्याँ अति॑ ।
वैश्वानरस्य सुष्टु॑तिमा सुनोता॑ परिक्षित॑: ॥७॥
परिच्छिन्न: क्षेम॑मकरोत्तम आस॑नमाचर॑न् ।
कुला॑यन्कृण्वन्कौर॑व्य: पतिर्वद॑ति जायया॑ ॥८॥
कतरत्त आ ह॑राणि दधि मन्थां॑ परि श्रुत॑म् ।
जाया: पतिं वि पृ॑च्छति राष्ट्रे राज्ञ॑: परिक्षित॑: ॥९॥
अभीवस्व: प्र जि॑हीते यव॑: पक्व: पथो बिल॑म् ।
जन: स भद्रमेध॑ति राष्ट्रे राज्ञ॑: परिक्षित॑: ॥१०॥
इन्द्र॑: कारुम॑बूबुधदुत्ति॑ष्ठ वि च॑रा जन॑म् ।
ममेदुग्रस्य चर्कृ॑धि सर्व इत्ते॑ पृणादरि: ॥११॥
इह गाव: प्रजा॑यध्वमिहाश्वा इह पूरु॑षा: ।
इहो सहस्र॑दक्षिणोपि॑ पूषा नि षी॑दति ॥१२॥
नेमा इ॑न्द्र गावो॑ रिषन्मो आसां गोप॑ रीरिषत् ।
मासा॑ममित्रयुर्जन इन्द्र मा स्तेन ई॑शत ॥१३॥
उप॑ नो न रमसि सूक्ते॑न वच॑सा वयं भद्रेण वच॑सा वयम् ।
वना॑दधिध्वनो गिरो न रि॑ष्येम कदा चन ॥१४॥
 
 

अष्टाविंशत्युत्तरशततमं खिलसूक्तम्»

 
य: सभेयो॑ विदथ्यद्ग: सुत्वा यज्वाथ पूरु॑ष: ।
सूर्यं चामू॑ रिशादसस्तद्देवा: प्राग॑कल्पयन् ॥१॥
यो जाम्या अप्र॑थयस्तद्यत्सखा॑यं दुधू॑र्षति ।
ज्येष्ठो यद॑प्रचेतास्तदा॑हुरध॑रागिति॑ ॥२॥
यद्भद्रस्य पुरु॑षस्य पुत्रो भ॑वति दाधृषि: ।
तद्विप्रो अब्र॑वीदु तद्ग॑न्धर्व: काम्यं वच॑: ॥३॥
यश्च॑ पणि रघु॑जिष्ठ्यो यश्च॑ देवाँ अदा॑शुरि: ।
धीरा॑णां शश्व॑तामहं तद॑पागिति॑ शुश्रुम ॥४॥
ये च॑ देवा अय॑जन्ताथो ये च॑ पराददि: ।
सूर्यो दिव॑मिव गत्वाय॑ मघवा॑ नो वि र॑प्शते ॥५॥
योऽनाक्ताक्षो॑ अनभ्यक्तो अम॑णिवो अहि॑रण्यव॑: ।
अब्र॑ह्मा ब्रह्म॑ण: पुत्रस्तोता कल्पे॑षु संमिता॑ ॥६॥
य आक्ताक्ष॑: सुभ्यक्त: सुम॑णि: सुहि॑रण्यव॑: ।
सुब्र॑ह्मा ब्रह्म॑ण: पुत्रस्तोता कल्पे॑षु संमिता॑ ॥७॥
अप्र॑पाणा च॑ वेशन्ता रेवाँ अप्रति॑दिश्यय: ।
अय॑भ्या कन्याद्ग कल्याणी तोता कल्पे॑षु संमिता॑ ॥८॥
सुप्र॑पाणा च॑ वेशन्ता रेवान्त्सुप्रति॑दिश्यय: ।
सुय॑भ्या कन्याद्ग कल्याणी तोता कल्पे॑षु संमिता॑ ॥९॥
परि॑वृक्ता च महि॑षी स्वस्त्याद्ग च युधिंगम: ।
अना॑शुरश्चायामी तोता कल्पे॑षु संमिता॑ ॥१०॥
वावाता च महि॑षी स्वस्त्याद्ग च युधिंगम: ।
श्वाशुर॑श्चायामी तोता कल्पे॑षु संमिता॑ ॥११॥
यदि॑न्द्रादो दा॑शराज्ञे मानु॑षं वि गा॑हथा: ।
विरू॑प: सर्व॑स्मा आसीत्सह यक्षाय कल्प॑ते ॥१२॥
त्वं वृ॑षाक्षुं म॑घवन्नम्रं॑ मर्याकरो रवि॑: ।
त्वं रौ॑हिणं व्याद्गस्यो वि वृत्रस्याभि॑नच्छिर॑: ॥१३॥
य: पर्व॑तान्व्य॑दधाद्यो अपो व्य॑गाहथा: ।
इन्द्रो यो वृ॑त्रहान्महं तस्मा॑दिन्द्र नमो॑ऽस्तु ते ॥१४॥
पृष्ठं धाव॑न्तं हर्योरौच्चै॑: श्रवसम॑ब्रुवन् ।
स्वस्त्यश्व जैत्रायेन्द्रमा व॑ह सुस्रज॑म् ॥१५॥
ये त्वा॑ श्वेता अजै॑श्रवसो हार्यो॑ युञ्जन्ति दक्षि॑णम् ।
पूर्वा नम॑स्य देवानां बिभ्र॑दिन्द्र महीयते ॥१६॥
 
 
 
एकोनत्रिंशदुत्तरशततमं खिलसूक्तम्»

 
एता अश्वा आ प्ल॑वन्ते ॥१॥
प्रतीपं प्राति॑ सुत्वन॑म् ॥२॥
तासामेका हरि॑क्निका ॥३॥
हरि॑क्निके किमि॑च्छासि ॥४॥
साधुं पुत्रं हि॑रण्यय॑म् ॥५॥
क्वाह॑तं परा॑स्य: ॥६॥
यत्रामूस्तिस्र॑: शिंशपा: ॥७॥
परि॑ त्रय: ॥८॥
पृदा॑कव: ॥९॥
शृङ्गं॑ धमन्त॑ आसते ॥१०॥
अयन्महा ते॑ अर्वाह: ॥११॥
स इच्छकं सघा॑घते ॥१२॥
सघा॑घते गोमीद्या गोग॑तीरिति॑ ॥१३॥
पुमां॑ कुस्ते निमि॑च्छसि ॥१४॥
पल्प॑ बद्ध वयो इति॑ ॥१५॥
बद्ध॑ वो अघा इति॑ ॥१६॥
अजा॑गार केविका ॥१७॥
अश्व॑स्य वारो॑ गोशपद्यके ॥१८॥
श्येनीपती॑ सा ॥१९॥
अनामयोप॑जिह्विका॑ ॥२०॥
 
 
त्रिंशदुत्तरशततमं खिलसूक्तम्»

 
को अ॑र्य बहुलिमा इषू॑नि ॥१॥
को असिद्या: पय॑: ॥२॥
को अर्जु॑न्या: पय॑: ॥३॥
क: कार्ष्ण्या: पय॑: ॥४॥
एतं पृ॑च्छ कुहं॑ पृच्छ ॥५॥
कुहा॑कं पक्वकं पृ॑च्छ ॥६॥
यवा॑नो यतिस्वभि॑: कुभि: ॥७॥
अकु॑प्यन्त: कुपा॑यकु: ॥८॥
आम॑णको मण॑त्सक: ॥९॥
देव॑ त्वप्रतिसूर्य ॥१०॥
एन॑श्चिपङ्क्तिका हवि: ॥११॥
प्रदुद्रु॑दो मघा॑प्रति ॥१२॥
शृङ्ग॑ उत्पन्न ॥१३॥
मा त्वा॑भि सखा॑ नो विदन् ॥१४॥
वशाया॑: पुत्रमा य॑न्ति ॥१५॥
इरा॑वेदुमयं॑ दत ॥१६॥
अथो॑ इयन्नियन्निति॑ ॥१७॥
अथो॑ इयन्निति॑ ॥१८॥
अथो श्वा अस्थि॑रो भवन् ॥१९॥
उयं यकांश॑लोकका ॥२०॥
 
 

एकत्रिंशदुत्तरशततमं खिलसूक्तम्»

 
आमि॑नोनिति भ॑द्यते ॥१॥
तस्य॑ अनु निभ॑ञ्जनम् ॥२॥
वरु॑णो याति वस्व॑भि: ॥३॥
शतं वा भार॑ती शव॑: ॥४॥
शतमाश्वा हि॑रण्यया॑: ।
शतं रथ्या हि॑रण्यया॑: ।
शतं कुथा हि॑रण्यया॑: ।
शतं निष्का हि॑रण्यया॑: ॥५॥
अह॑ल कुश वर्त्तक ॥६॥
शफेन॑ इव ओ॑हते ॥७॥
आय॑ वनेन॑ती जनी॑ ॥८॥
वनि॑ष्ठा नाव॑ गृह्यन्ति॑ ॥९॥
इदं मह्यं मदूरिति॑ ॥१०॥
ते वृक्षा: सह ति॑ष्ठति ॥११॥
पाक॑ बलि: ॥१२॥
शक॑ बलि: ॥१३॥
अश्व॑त्थ खदि॑रो धव: ॥१४॥
अर॑दुपरम ॥१५॥
शयो॑ हत इ॑व ॥१६॥
व्याप पूरु॑ष: ॥१७॥
अदू॑हमित्यां पूष॑कम् ॥१८॥
अत्य॑र्धर्च प॑रस्वत॑: ॥१९॥
दौव॑ हस्तिनो॑ दृती ॥२०॥
 
 

द्वात्रिंशदुत्तरशततमं खिलसूक्तम्»

 
आदला॑बुकमेक॑कम् ॥१॥
अला॑बुकं निखा॑तकम् ॥२॥
कर्करिको निखा॑तक: ॥३॥
तद्वात उन्म॑थायति ॥४॥
कुला॑यं कृणवादिति॑ ॥५॥
उग्रं व॑निषदा॑ततम् ॥६॥
न व॑निषदना॑ततम् ॥७॥
क ए॑षां कर्क॑री लिखत् ॥८॥
क ए॑षां दुन्दुभिं॑ हनत् ॥९॥
यदीयं ह॑नत्कथं॑ हनत् ॥१०॥
देवी ह॑नत्कुह॑नत् ॥११॥
पर्या॑गारं पुन॑:पुन: ॥१२॥
त्रीण्युष्ट्रस्य नामा॑नि ॥१३॥
हिरण्य इत्येके॑ अब्रवीत् ॥१४॥
द्वौ वा॑ ये शिशव: ॥१५॥
नील॑शिखण्डवाह॑न: ॥१६॥
 
 

त्रयस्त्रिंशदुत्तरशततमं खिलसूक्तम्»

 
वित॑तौ किरणौ द्वौ तावा॑ पिनष्टि पूरु॑ष: ।
न वै॑ कुमारि तत्तथा यथा॑ कुमारि मन्य॑से ॥१॥
मातुष्टे कि॑रणौ द्वौ निवृ॑त्त: पुरु॑षानृते ।
न वै॑ कुमारि तत्तथा यथा॑ कुमारि मन्य॑से ॥२॥
निगृ॑ह्य कर्ण॑कौ द्वौ निरा॑यच्छसि मध्य॑मे ।
न वै॑ कुमारि तत्तथा यथा॑ कुमारि मन्य॑से ॥३॥
उत्तानायै॑ शयानायै तिष्ठ॑न्ती वाव॑ गूहसि ।
न वै॑ कुमारि तत्तथा यथा॑ कुमारि मन्य॑से ॥४॥
श्लक्ष्णा॑यां श्लक्ष्णि॑कायां श्लक्ष्ण॑मेवाव॑ गूहसि ।
न वै॑ कुमारि तत्तथा यथा॑ कुमारि मन्य॑से ॥५॥
अव॑श्लक्ष्णमिव॑ भ्रंशदन्तर्लोममति॑ ह्रदे ।
न वै॑ कुमारि तत्तथा यथा॑ कुमारि मन्य॑से ॥६॥
 
 

चतुस्त्रिंशदुत्तरशततमं खिलसूक्तम्»

 
इहेत्थ प्रागपागुद॑गधराग् अरा॑लागुद॑भर्त्सथ ॥१॥
इहेत्थ प्रागपागुद॑गधराग् वत्सा: पुरु॑षन्त आसते ॥२॥
इहेत्थ प्रागपागुद॑गधराग् स्थाली॑पाको वि ली॑यते ॥३॥
इहेत्थ प्रागपागुद॑गधराग् स वै॑ पृथु ली॑यते ॥४॥
इहेत्थ प्रागपागुद॑गधराग् आष्टे॑ लाहणि लीशा॑थी ॥५॥
इहेत्थ प्रागपागुद॑गधराग् अक्ष्लि॑ली पुच्छिली॑यते ॥६॥
 

पञ्चत्रिंशदुत्तरशततमं खिलसूक्तम्»

 
भुगि॑त्यभिग॑त: शलि॑त्यपक्रा॑न्त: फलि॑त्यभिष्ठि॑त: ।
दुन्दुभि॑माहननाभ्यां जरितरोथा॑मो दैव ॥१॥
कोशबिले॑ रजनि ग्रन्थे॑र्धानमुपानहि॑ पादम् ।
उत्त॑मां जनि॑मां जन्यानुत्त॑मां जनीन्वर्त्म॑न्यात् ॥२॥
अला॑बूनि पृषात॑कान्यश्व॑त्थपला॑शम् ।
पिपी॑लिकावटश्वसो॑ विद्युत्स्वाप॑र्णशफो गोशफो जरितरोथामो॑ दैव ॥३॥
वीद्गमे देवा अ॑क्रंसताध्वर्यो क्षिप्रं प्रचर॑ ।
सुसत्यमिद्गवा॑मस्यसि॑ प्रखुदसि॑ ॥४॥
पत्नी यदृ॑श्यते पत्नी यक्ष्य॑माणा जरितरोथामो॑ दैव ।
होता वि॑ष्टीमेन ज॑रितरोथामो॑ दैव ॥५॥
आदि॑त्या ह जरितरङ्गि॑रोभ्यो दक्षि॑णामनय॑न् ।
तां ह॑ जरित: प्रत्या॑यंस्तामु ह॑ जरित: प्रत्या॑यन् ॥६॥
तां ह॑ जरितर्न: प्रत्य॑गृभ्णंस्तामु ह॑ जरितर्न: प्रत्य॑गृभ्ण: ।
अहा॑नेतरसं न वि चेतना॑नि यज्ञानेत॑रसं न पुरोगवा॑म: ॥७॥
उत श्वेत आशु॑पत्वा उतो पद्या॑भिर्यवि॑ष्ठ: ।
उतेमाशु मानं॑ पिपर्ति ॥८॥
आदि॑त्या रुद्रा वस॑वस्त्वेनु॑ त इदं राध: प्रति॑ गृभ्णीह्यङ्गिर: ।
इदं राधो॑ विभु प्रभु॑ इदं राधो॑ बृहत्पृथु॑ ॥९॥
देवा॑ ददत्वासु॑रं तद्वो॑ अस्तु सुचे॑तनम् ।
युष्माँ॑ अस्तु दिवे॑दिवे प्रत्येव॑ गृभायत् ॥१०॥
त्वमि॑न्द्र शर्मरि॑णा हव्यं पारा॑वतेभ्य: ।
विप्रा॑य स्तुवते व॑सुवनिं॑ दुरश्रवसे व॑ह ॥११॥
त्वमि॑न्द्र कपोता॑य च्छिन्नपक्षाय वञ्च॑ते ।
श्यामा॑कं पक्वं पीलु॑ च वार॑स्मा अकृ॑णोर्बहु: ॥१२॥
अरंगरो वा॑वदीति त्रेधा बद्धो व॑रत्रया॑ ।
इरा॑मह प्रशं॑सत्यनि॑रामप॑ सेधति ॥१३॥
 
 

षट्त्रिंशदुत्तरशततमं खिलसूक्तम्»

 
यद॑स्या अंहुभेद्या॑: कृधु स्थूलमुपात॑सत् ।
मुष्काविद॑स्या एजतो गो॑शफे श॑कुलावि॑व ॥१॥
यदा॑ स्थूलेन पस॑साणौ मुष्का उपा॑वधीत् ।
विष्व॑ञ्चा वस्या वर्ध॑त: सिक॑तास्वेव गर्द॑भौ ॥२॥
यदल्पि॑कास्वद्गल्पिका कर्क॑धूकेवषद्य॑ते ।
वास॑न्तिकमि॑व तेज॑नं यन्त्यवाता॑य वित्प॑ति ॥३॥
यद्देवासो॑ ललामगुं प्रवि॑ष्टीमिन॑माविषु: ।
सकुला दे॑दिश्यते नारी॑ सत्यस्या॑क्षिभुवो॑ यथा ॥४॥
महानग्न्यद्गतृप्नद्वि मोक्र॑ददस्था॑नासरन् ।
शक्ति॑कानना स्व॑चमश॑कं सक्तु पद्य॑म ॥५॥
महानग्न्युद्गलूखलमतिक्राम॑न्त्यब्रवीत् ।
यथा तव॑ वनस्पते निर॑घ्नन्ति तथै॑वेति ॥६॥
महानग्न्युप॑ ब्रूते भ्रष्टोथाप्य॑भूभुव: ।
यथैव ते॑ वनस्पते पिप्प॑ति तथै॑वेति ॥७॥
महानग्न्युप॑ ब्रूते भ्रष्टोथाप्य॑भूभुव: ।
यथा॑ वयो विदाह्य॑ स्वर्गे नमवद॑ह्यते ॥८॥
महानग्न्युप॑ ब्रूते स्वसावेशि॑तं पस॑: ।
इत्थं फल॑स्य वृक्ष॑स्य शूर्पे॑ शूर्पं भजे॑महि ॥९॥
महानग्नी कृ॑कवाकं शम्य॑या परि॑ धावति ।
अयं न विद्म यो॑ मृग: शीर्ष्णा ह॑रति धाणि॑काम् ॥१०॥
महानग्नी म॑हानग्नं धाव॑न्तमनु॑ धावति ।
इमास्तद॑स्य गा र॑क्ष यभ माम॑द्ध्यौदनम् ॥११॥
सुदे॑वस्त्वा महान॑ग्नीर्बबा॑धते महत: सा॑धु खोदन॑म् ।
कुसं पीवरो न॑वत् ॥१२॥
वशा दग्धामि॑माङ्गुरिं प्रसृ॑जतोग्रतं॑ परे ।
महान्वै भद्रो यभ माम॑द्ध्यौदनम् ॥१३॥
विदे॑वस्त्वा महान॑ग्नीर्विबा॑धते महत: सा॑धु खोदन॑म् ।
कुमारीका पि॑ङ्गलिका कार्द भस्मा॑ कु धाव॑ति ॥१४॥
महान्वै भद्रो बिल्वो महान्भ॑द्र उदुम्बर॑: ।
महाँ अ॑भिक्त बा॑धते महत: सा॑धु खोदन॑म् ॥१५॥
य: कु॑मारी पि॑ङ्गलिका वस॑न्तं पीवरी ल॑भेत् ।
तैल॑कुण्दमिमा॑ङ्गुष्ठं रोद॑न्तं शुदमुद्ध॑रेत् ॥१६॥
 
 
 

सप्तत्रिंशदुत्तरशततमं सूक्तम्» चतुर्दशर्चस्यास्य सूक्तस्य  प्रथमर्च: शिरिम्बिठि:  द्वितीयाया बुध:  तृतीयाया वामदेव:  चतुर्थ्यादितृचस्य ययाति:  सप्तम्यादिपञ्चानां तिरश्चीराङ्गिरसो द्युतानो वा द्वादश्यादितृचस्य च सुकक्ष ऋषय: ।  प्रथमाया अलक्ष्मीनाशनम्  द्वितीयाया विश्वे देवा ऋत्विक्स्तुतिर्वा  तृतीयाया दधिक्रा:  चतुर्थ्यादितृचस्य सोम: पवमान: सप्तम्या अष्टम्याद्यत्रिपादानां दशम्यादिपञ्चानाञ्चेन्द्र:
 अष्टमीचतुर्थपादस्य मरुत:  नवम्याश्चेन्द्राबृहस्पती देवता: | प्रथमायास्तृतीयादिचतसृणाञ्चानुष्टुप्  द्वितीयाया जगती सप्तम्यादिपञ्चानां त्रिष्टुप् द्वादश्यादितृचस्य च गायत्री छन्दांसि॥ (hindumantavya.blogspot.in)


यद्ध प्राचीरज॑गन्तोरो॑ मण्डूरधाणिकी: ।
हता इन्द्र॑स्य शत्र॑व: सर्वे॑ बुद्बुदया॑शव: ॥१॥
कपृ॑न्नर: कपृथमुद्द॑धातन चोदय॑त खुदत वाज॑सातये ।
निष्टिग्र्यद्ग: पुत्रमा च्या॑वयोतय इन्द्रं॑ सबाध॑ इह सोम॑पीतये ॥२॥
दधिक्राव्णो॑ अकारिषं जिष्णोरश्व॑स्य वाजिन॑: ।
सुरभि नो मुखा॑ करत्प्र ण आयूं॑षि तारिषत् ॥३॥
सुतासो मधु॑मत्तमा: सोमा इन्द्रा॑य मन्दिन॑: ।
पवित्र॑वन्तो अक्षरन्देवान्ग॑च्छन्तु वो मदा॑: ॥४॥
इन्दुरिन्द्रा॑य पवत इति॑ देवासो॑ अब्रुवन् ।
वाचस्पति॑र्मखस्यते विश्वस्येशा॑न ओज॑सा ॥५॥
सहस्र॑धार: पवते समुद्रो वा॑चमीङ्खय: ।
सोम: पती॑ रयीणां सखेन्द्र॑स्य दिवेदि॑वे ॥६॥
अव॑ द्रप्सो अं॑शुमती॑मतिष्ठदियान: कृष्णो दशभि॑: सहस्रै॑: ।
आवत्तमिन्द्र: शच्या धम॑न्तमप स्नेहि॑तीर्नृमणा॑ अधत्त ॥७॥
द्रप्सम॑पश्यं विषु॑णे चर॑न्तमुपह्वरे नद्योद्ग अंशुमत्या॑: ।
नभो न कृष्णम॑वतस्थिवांसमिष्या॑मि वो वृषणो युध्य॑ताजौ ॥८॥
अध॑ द्रप्सो अं॑शुमत्या॑ उपस्थेऽधा॑रयत्तन्वं॑ तित्विषाण: ।
विशो अदे॑वीरभ्या३चर॑न्तीर्बृहस्पति॑ना युजेन्द्र॑: ससाहे ॥९॥
त्वं ह त्यत्सप्तभ्यो जाय॑मानोऽशत्रुभ्यो॑ अभव: शत्रु॑रिन्द्र ।
गूळ्हे द्यावा॑पृथिवी अन्व॑विन्दो विभुमद्भ्यो भुव॑नेभ्यो रणं॑ धा: ॥१०॥
त्वं ह त्यद॑प्रतिमानमोजो वज्रे॑ण वज्रिन्धृषितो ज॑घन्थ ।
त्वं शुष्णस्यावा॑तिरो वध॑त्रैस्त्वं गा इ॑न्द्र शच्येद॑विन्द: ॥११॥
तमिन्द्रं॑ वाजयामसि महे वृत्राय हन्त॑वे ।
स वृषा॑ वृषभो भु॑वत् ॥१२॥
इन्द्र: स दाम॑ने कृत ओजि॑ष्ठ: स मदे॑ हित: ।
द्युम्नी श्लोकी स सोम्य: ॥१३॥
गिरा वज्रो न संभृ॑त: सब॑लो अन॑पच्युत: ।
ववक्ष ऋष्वो अस्तृ॑त: ॥१४॥
 
 

अष्टात्रिंशदुत्तरशततमं सूक्तम्» तृचस्यास्य सूक्तस्य वत्स ऋषि: | इन्द्रो देवता: | गायत्री छन्द:॥ (hindumantavya.blogspot.in)


महाँ इन्द्रो य ओज॑सा पर्जन्यो॑ वृष्टिमाँ इ॑व ।
स्तोमै॑र्वत्सस्य॑ वावृधे ॥१॥
प्रजामृतस्य पिप्र॑त: प्र यद्भर॑न्त वह्न॑य: ।
विप्रा॑ ऋतस्य वाह॑सा ॥२॥
कण्वा: इन्द्रं यदक्र॑त स्तोमै॑र्यज्ञस्य साध॑नम् ।
जामि ब्रु॑वत आयु॑धम् ॥३॥
 
 

एकोनचत्वारिंशदुत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य शशकर्ण ऋषि: | अश्विनौ देवता: |   प्रथमाचतुर्थ्योरृचोर्बृहती  द्वितीयातृतीययोर्गायत्री  पञ्चम्याश्च ककुप् छन्दांसि॥ (hindumantavya.blogspot.in)

 
आ नूनम॑श्विना युवं वत्सस्य॑ गन्तमव॑से ।
प्रास्मै॑ यच्छतमवृकं पृथु च्छर्दिर्यु॑युतं या अरा॑तय: ॥१॥
यदन्तरि॑क्षे यद्दिवि यत्पञ्च मानु॑षाँ अनु॑ ।
नृम्णं तद्ध॑त्तमश्विना ॥२॥
ये वां दंसां॑स्यश्विना विप्रा॑स: परिमामृशु: ।
एवेत्काण्वस्य॑ बोधतम् ॥३॥
अयं वां॑ घर्मो अ॑श्विना स्तोमे॑न परि॑ षिच्यते ।
अयं सोमो मधु॑मान्वाजिनीवसू येन॑ वृत्रं चिके॑तथ: ॥४॥
यदप्सु यद्वनस्पतौ यदोष॑धीषु पुरुदंससा कृतम् ।
तेन॑ माविष्टमश्विना ॥५॥
 
 

चत्वारिंशदुत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य शशकर्ण ऋषि: | अश्विनौ देवता: |  प्रथमर्चो बृहती  द्वितीयादितृचस्यानुष्टुप्  पञ्चम्याश्च त्रिष्टुप् छन्दांसि॥ (hindumantavya.blogspot.in)


यन्ना॑सत्या भुरण्यथो यद्वा॑ देव भिषज्यथ॑: ।
अयं वां॑ वत्सो मतिभिर्न वि॑न्धते हविष्म॑न्तं हि गच्छ॑थ: ॥१॥
आ नूनमश्विनोरृषि स्तोमं॑ चिकेत वामया॑ ।
आ सोमं मधु॑मत्तमं घर्मं सि॑ञ्चादथ॑र्वणि ॥२॥
आ नूनं रघुव॑र्तनिं रथं॑ तिष्ठाथो अश्विना ।
आ वां स्तोमा॑ इमे मम नभो न चु॑च्यवीरत ॥३॥
यदद्य वां॑ नासत्योक्थैरा॑चुच्युवीमहि॑ ।
यद्वा वाणी॑भिरश्विनेवेत्काण्वस्य॑ बोधतम् ॥४॥
यद्वां॑ कक्षीवाँ॑ उत यद्व्य॑श्व ऋषिर्यद्वां॑ दीर्घत॑मा जुहाव॑ ।
पृथी यद्वां॑ वैन्य: साद॑नेष्वेवेदतो॑ अश्विना चेतयेथाम् ॥५॥
 
 
एकचत्वारिंशदुत्तरशततमं सूक्तम्» पञ्चर्चस्यास्य सूक्तस्य शशकर्ण ऋषि: | अश्विनौ देवता: | प्रथमर्चो विराडनुष्टुप्  द्वितीयाया जगती तृतीयाया अनुष्टुप्  चतुर्थीपञ्चम्योश्च बृहती छन्दांसि॥ (hindumantavya.blogspot.in)


यातं छ॑र्दिष्पा उत न॑: परस्पा भूतं ज॑गत्पा उत न॑स्तनूपा ।
वर्तिस्तोकाय तन॑याय यातम् ॥१॥
यदिन्द्रे॑ण सरथं॑ याथो अ॑श्विना यद्वा॑ वायुना भव॑थ: समो॑कसा ।
यदा॑दित्येभि॑रृभुभि॑: सजोष॑सा यद्वा विष्णो॑र्विक्रम॑णेषु तिष्ठ॑थ: ॥२॥
यदद्याश्विना॑वहं हुवेय वाज॑सातये ।
यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठ॑मश्विनोरव॑: ॥३॥
आ नूनं या॑तमश्विनेमा हव्यानि॑ वां हिता ।
इमे सोमा॑सो अधि॑ तुर्वशे यदा॑विमे कण्वे॑षु वामथ॑ ॥४॥
यन्ना॑सत्या पराके अ॑र्वाके अस्ति॑ भेषजम् ।
तेन॑ नूनं वि॑मदाय॑ प्रचेतसा छर्दिर्वत्साय॑ यच्छतम् ॥५॥
 
 
 
द्विचत्वारिंशदुत्तरशततमं सूक्तम्» षडृचस्यास्य सूक्तस्य शशकर्ण ऋषि: | अश्विनौ देवता: | प्रथमादिचतुरृचामनुष्टुप्  पञ्चमीषष्ठ्योश्च गायत्री छन्दांसि॥ (hindumantavya.blogspot.in)


अभु॑त्स्यु प्र देव्या साकं वाचाहमश्विनो॑: ।
व्या॑वर्देव्या मतिं वि रातिं मर्त्ये॑भ्य: ॥१॥
प्र बो॑धयोषो अश्विना प्र दे॑वि सूनृते महि ।
प्र य॑ज्ञहोतरानुषक्प्र मदा॑य श्रवो॑ बृहत् ॥२॥
यदु॑षो यासि॑ भानुना सं सूर्ये॑ण रोचसे ।
आ हायमश्विनो रथो॑ वर्तिर्या॑ति नृपाय्य॑म् ॥३॥
यदापी॑तासो अंशवो गावो न दुह्र ऊध॑भि: ।
यद्वा वाणीरनू॑षत प्र दे॑वयन्तो॑ अश्विना॑ ॥४॥
प्र द्युम्नाय प्र शव॑से प्र नृषाह्या॑य शर्म॑णे ।
प्र दक्षा॑य प्रचेतसा ॥५॥
यन्नूनं धीभिर॑श्विना पितुर्योना॑ निषीद॑थ: ।
यद्वा॑ सुम्नेभि॑रुक्थ्या ॥६॥
 
 

त्रिचत्वारिंशदुत्तरशततमं सूक्तम्» नवर्चस्यास्य सूक्तस्य  प्रथमादिसप्तर्चां पुरुमीढाजमीढौ  अष्टम्या: पूर्वार्धस्य वामदेव:  अष्टम्या उत्तरार्धस्य नवम्याश्च मेध्यातिथिरृषय: । अश्विनौ देवता: | त्रिष्टुप् छन्द:॥ (hindumantavya.blogspot.in)


तं वां रथं॑ वयमद्या हु॑वेम पृथुज्रय॑मश्विना संग॑तिं गो: ।
य: सूर्यां वह॑ति वन्धुरायुर्गिर्वा॑हसं पुरुतमं॑ वसूयुम् ॥१॥
युवं श्रिय॑मश्विना देवता तां दिवो॑ नपाता वनथ: शची॑भि: ।
युवोर्वपु॑रभि पृक्ष॑: सचन्ते वह॑न्ति यत्क॑कुहासो रथे॑ वाम् ॥२॥
को वा॑मद्या क॑रते रातह॑व्य ऊतये॑ वा सुतपेया॑य वार्कै: ।
ऋतस्य॑ वा वनुषे॑ पूर्व्याय नमो॑ येमानो अ॑श्विना व॑वर्तत् ॥३॥
हिरण्यये॑न पुरुभू रथे॑नेमं यज्ञं ना॑सत्योप॑ यातम् ।
पिबा॑थ इन्मधु॑न: सोम्यस्य दध॑थो रत्नं॑ विधते जना॑य ॥४॥
आ नो॑ यातं दिवो अच्छा॑ पृथिव्या हि॑रण्यये॑न सुवृता रथे॑न ।
मा वा॑मन्ये नि य॑मन्देवयन्त: सं यद्ददे नाभि॑: पूर्व्या वा॑म् ॥५॥
नू नो॑ रयिं पु॑रुवीरं॑ बृहन्तं दस्रा मिमा॑थामुभये॑ष्वस्मे ।
नरो यद्वा॑मश्विना स्तोममाव॑न्त्सधस्तु॑तिमाजमीळ्हासो॑ अग्मन् ॥६॥
इहेह यद्वां॑ समना प॑पृक्षे सेयमस्मे सु॑मतिर्वा॑जरत्ना ।
उरुष्यतं॑ जरितारं॑ युवं ह॑ श्रित: कामो॑ नासत्या युवद्रिक् ॥७॥
मधु॑मतीरोष॑धीर्द्याव आपो मधु॑मन्नो भवत्वन्तरि॑क्षम् ।
क्षेत्र॑स्य पतिर्मधु॑मान्नो अस्त्वरि॑ष्यन्तो अन्वे॑नं चरेम ॥८॥
पनाय्यं तद॑श्विना कृतं वां॑ वृषभो दिवो रज॑स: पृथिव्या: ।
सहस्रं शंसा॑ उत ये गवि॑ष्टौ सर्वाँ इत्ताँ उप॑ याता पिब॑ध्यै ॥९॥
 

॥ इति विंशं काण्डम् ॥
॥ इति अथर्ववेद संहिता समाप्तम्॥


अथर्ववेद के अन्य काण्ड यहाँ से पढें 


 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *